Home >> Text Contents >> Sloka Explanation - सुभाषितदैनन्दिनम्

Click on each button to toggle the corresponding sections on/off.

1. उद्यमेन हि सिध्यन्ति
मूलम् उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
पदविभागः उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
अन्वयः कार्याणि उद्यमेन हि सिध्यन्ति। मनोरथैः न (सिध्यन्ति) । मृगाः सुप्तस्य सिंहस्य मुखे न हि प्रविशन्ति॥
प्रतिपदार्थः कार्याणि = सङ्कल्पितानि आचरणीयानि; tasks, work;
उद्यमेन = प्रयत्नेन; by effort, trying;
हि = नूनं; indeed;
सिध्यन्ति = सम्पद्यन्ते; get accomplished, done, (bear fruit);
मनोरथैः = कामनाभिः; by desires, fancies;
न (सिध्यन्ति) = पूर्णानि न भवन्ति; (are) not (accomplished);
मृगाः = जन्तवः, पशुविशेषः; deer, or animals in general;
सुप्तस्य = शयनं कुर्वतः; of that which is slept;
सिंहस्य = मृगराजस्य; of the lion;
मुखे = आस्ये; in the mouth;
न हि प्रविशन्ति = न कदापि प्रवेशं कुर्वन्ति; do not enter
तात्पर्यम् प्रयतनेनैव कर्माणि सफलीभवन्ति, न कदापि मानसिकीच्छया। यथा शयानस्य मृगराजस्य मुखे जन्तवः आगत्य स्वयं आहारं न भवन्ति, तस्य मृगयानन्तरमेव वशीकृत्य हत्वैव आहारेण परिवर्तन्ते, तथैव अत्रापि।
Tasks can be accomplished by strong efforts; not merely by desiring (their completion).Animals do not enter a sleeping lion's mouth on their own.
वाक्याभ्यासः श्लोकपदान्युपयुज्य- १. उद्यमेन कार्याणि सिद्ध्यन्ति। २. कार्याणि मनोरथैः न सिद्ध्यन्ति। ३. सिंहस्य मुखे मृगाःन प्रविशन्ति।
पर्यायपदान्युपयुज्य- १. सङ्कल्पितानिआचरणीयानिप्रयत्नेन न सम्पद्यन्ते। २.करणीयानि कार्याणि कामनाभिःपूर्णानि न भवन्ति। ३. जन्तवःशयनं कुर्वतःमृगराजस्यआस्यान्तः न गच्छन्ति।
प्रश्नाः १. कार्याणिकथंसिद्ध्यन्ति?
२. मृगाः कुत्र न प्रविशन्ति?
३. -------कार्याणि न सिद्ध्यन्ति।
४. मनोरथैः इति शब्दस्य पदविश्लेषणं वदत?
५. कार्याणि इति शब्दस्य किं लिङ्गम्?
६. सुप्तस्य इति कस्य विशेषणम्?
2. गते शोकं न कुर्वीत
मूलम् गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत्।
वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः॥
पदविभागः सुलभः
अन्वयः गते शोकं न कुर्वीत। नैव भविष्यं चिन्तयेत्। विचक्षणाः वर्तमानेषु कालेषु वर्तयन्ति ।
प्रतिपदार्थः गते = अतीते काले; In the past;
शोकं = दुःखं; (obj.) Sorrow, grief, distress, affliction, lamentation, wailing, deep anguish;
न कुर्वीत = न करणीयम्; Should not do;
नैव = न एव; Never, [neither (here)];
भविष्यं = अनागतकालं; (obj.) The future, futurity, Imminent, impending;
चिन्तयेत् = चिन्तनीयम्; Should not think, consider, reflect, ponder over;
विचक्षणाः = विवेकशीलिनः; learned men, wise men;
वर्तमानेषु = प्रचलितेषु; In the contemporary, the present time;
कालेषु = समयेषु; in the times;
वर्तयन्ति = प्रवर्तन्ते; They be, exist, abide, remain, subsist, stay
तात्पर्यम् कदापि गतकालमाश्रित्यखिन्नैः न भवितव्यम्। भविष्यद्विषये चिन्ताकुलैःनभवितव्यम्। विवेकवन्तः प्रचलितेषु कालेषु प्रवर्तन्ते (कार्येषु दृष्टिं संस्थाप्य यत्करणीयं तत् कुर्वन्ति)।
One should not brood over past; nor worry about future. The wise men always remain in present times.
प्रश्नाः १.कुत्रशोकंनकुर्वीत?
२.विचक्षणाः कुत्र वर्तयन्ति?
३.------नैव चिन्तयेत्। (रिक्तस्थानं पूरयत।)
४.‘वर्तमान’ शब्दस्यपदविश्लेषणं वदत?
५.‘विचक्षणाः’ इत्यस्य पदविश्लेषणं वदत?
3. वरंपर्वतदुर्गेषु
मूलम् वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि॥-भर्तृहरेः नीतिशतकम्
पदविभागः वरं पर्वत-दुर्गेषु भ्रान्तं वनचरैः सह न मूर्ख-जन-सम्पर्कः सुरेन्द्र-भवनेषु अपि॥
अन्वयः पर्वत-दुर्गेषु वनचरैः सह भ्रान्तं वरम् । मूर्ख-जन-सम्पर्कः सुरेन्द्र-भवनेषु अपि न (वरम्)॥
प्रतिपदार्थः पर्वतदुर्गेषु = दुर्गमपर्वतेषु; In mountains, rocks;
वनचरैः सह = वने ये चरन्ति, निवसन्ति तैः साकं; along with wild animals/people;
भ्रान्तं = भ्रमणं; lost;
वरं = श्रेष्ठम्; better;
मूर्खजन-सम्पर्कः = अर्धज्ञैः सह मेलनं; contact of fools;
सुरेन्द्रभवनेषु = इन्द्रस्य आवासेषु; in the palaces of Indra;
अपि न = कदापि न; also no.
तात्पर्यम् गन्तुमशक्येषु पर्वतप्रान्तेषु लक्ष्यरहितं भ्रमणं अपि श्रेष्ठम् इव दृश्यते। वनचारिभिः पशुभिः क्रूरमृगैः सार्धम्अटनमपि वरम्। किन्तु अर्धज्ञैः सह परिचयः, साङ्गत्यं वा महेन्द्रस्य सौधेष्वपि अनर्थदायकम्।
Being lost in mountains, caves and other deserted places, or with wild animals, wild people seem better than being with fools. We cannot be with them even if it were in heaven.
प्रश्नाः १. कुत्रभ्रान्तंवरम्?
२.सुरेन्द्रभवनेष्वपि किं न भवतु?
३. ‘वनचरैः सह’ इत्यत्र केनपाणिनि-सूत्रेण तृतीयाविभक्तिः?
४. ‘मूर्खजनसम्पर्कः’इत्यत्र कः समसः?
५. ‘भवनेष्वपि’ इत्यत्र सन्धिः (साधुविकल्पं चिनुत) = क. भवने-ष्वपि ख. भवनेष्व-पि ग. भवनेषु-अपि
६. न------सम्पर्कः। (रिक्तस्थानं पूरयतु)
4. विद्या विवादाय
मूलम् विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥
पदविभागः विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय। खलस्य साधोः विपरीतम् एतत् ज्ञानाय दानाय च रक्षणाय ॥
अन्वयः खलस्य विद्या विवादाय, धनं मदाय, शक्तिः परेषां परिपीडनाय (च भवति)। एतत् साधोः विपरीतम्। (विद्या) ज्ञानाय (धनं) दानाय (शक्तिः परेषां) रक्षणाय च (भवति)॥
प्रतिपदार्थः खलस्य = दुष्टस्य; of crooked man, wicked man;
विद्या = विद्वत्त्वं, अधिगमः; education, knowledge;
विवादाय = वादप्रतिवादनाय; argument;
धनं = अर्थः; wealth, money;
मदाय = गर्वोद्धतये, दम्भाय; for pride, arrogance, conceit;
शक्तिः = शारीरकं बलं; power, strength;
परेषां = अन्येषां; of others;
परिपीडनाय = क्लेशनाय; for inflicting pain upon;
एतत् = इदं; this;
साधोः = सज्जनस्य; of good man;
विपरीतम् = विरुद्धं; opposite;
ज्ञानाय = ज्ञानार्जनाय; for wisdom;
दानाय = परस्मै प्रदानाय; for charity;
च = च; and;
रक्षणाय = पालनाय; for protection
तात्पर्यम् दुष्टानां विद्या विवादाय भवति। धनं च दम्भाय भवति। शक्तिः इतरेषां पीडनार्थं भवति। अस्य विरुद्धं, सज्जनस्य विद्या ज्ञानवर्धनाय, धनं च परेभ्यः दातुं, शारीरकशक्तिः च अन्येषां साहाय्यार्थं भवति।
A wicked man uses his education for argument, money to be arrogant and strength to hurt others. In contrast a virtuous person uses the same for acquiring new knowledge, charity and protecting respectively.
प्रश्नाः १. खलस्यविद्याकुतोभवति?
२. साधोः किं ज्ञानाय भवति?
३. शक्तिः परेषां------। (रिक्तस्थानं पूरयत)
४. ‘साधोर्विपरीतम्’इत्यत्र सन्धिविच्छेदनं कुरुत।
५. साधुजनः शक्तिं कुतः उपयुनक्ति? (साधुविकल्पं चिनुत) क. ज्ञानाय ख. दानाय ग. रक्षणाय
६.‘शक्तिः’ इत्यस्य किं व्याकरणम्?
5.छायामन्यस्य कुर्वन्ति
मूलम् छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
पदविभागः छायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयम् आतपे। फलानि अपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
अन्वयः अन्यस्य छायाम् कुर्वन्ति। स्वयम् आतपे तिष्ठन्ति ।फलानि अपि परार्थाय (यच्छन्ति)। वृक्षाः सत्पुरुषा इव (वर्तन्ते) ॥
प्रतिपदार्थः वृक्षाः = पादपाः; Trees;
अन्यस्य = इतरस्य; for others;
छायाम्कुर्वन्ति = आतपाद् रक्षणस्थानं कल्पयन्ति; shade (they) do;
स्वयम् = आत्मना; themselves;
आतपे = सूर्यप्रकाशे; in heat, under Sun;
तिष्ठन्ति = स्थिताः सन्ति; (They) stand;
फलानि = वृक्षजातानि खाद्यानि; fruits;
अपि = अपि; also;
परार्थाय = इतरेभ्यः; for others;
सत्पुरुषाः = सज्जनाः; Noble persons;
इव = वत्; like, same as
तात्पर्यम् जनेभ्यः आतपात् छायां ददति। स्वयं च आतपे तिष्ठन्ति। फलानि अपि अन्येभ्यः यच्छन्ति। वृक्षाः (आचरणे) च सत्पुरुषसमानाः।
Trees, like Noble persons, provide shade to others but themselves stand in the heat of the Sun. They provide their fruits for the benefit of others.
प्रश्नाः १. छायांकेकुर्वन्ति?
२. स्वयं कुत्र तिष्ठन्ति?
३. फलानि किं कुर्वन्ति?
४. ‘फलान्यपि’ इत्यत्र सन्धिः विभज्यताम्।
५. ‘परार्थाय’ इत्यत्र चतुर्थीविभक्तिःकथम्?c
६. वृक्षाः ------ इव। (रिक्तस्थानं पूरयत)।
6.गच्छन् पिपीलको
मूलम् गच्छन् पिपीलको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥
पदविभागः गच्छन् पिपीलको याति, योजनानां शतानि अपि। अगच्छन् वैनतेयः अपि, पदम् एकं न गच्छति॥
अन्वयः पिपीलकः गच्छन् योजनानां शतानि अपि याति,वैनतेयः अगच्छन् एकं पदम् (अपि) न गच्छति।
प्रतिपदार्थः पिपीलकः = प्राणिविशेषः, अल्पः षट्पादजीवी; ant;
गच्छन् = चलन्,अग्रे सरन्; (lit. the one who is) while moving, walking,;
योजनानां शतानि = अध्वानविशेषः,अतिशयेन दूरम्; (of) hundreds of miles (yojana = an ancient measure of distance) [Apte-A measure of distance equal to four Krośas or eight or nine miles];
अपि = च; also;
याति = गच्छति; goes;
वैनतेयः = गरुडः, विनतानन्दनः; son of vinatA, garuDa, the king of birds;
अगच्छन् = गमनं न कुर्वन्; (the one who is) while not moving;
एकंपदम् (अपि) = एकस्य पदस्य दूरम्; onestep;
नगच्छति = न प्राप्नोति; (does) notgo
तात्पर्यम् लघुपिपीलकः अपि प्रयत्नपूर्वकं गच्छन्शतानि योजनानि (अर्थात् बहुदूरम्) गन्तुं समर्थः भवति, परन्तु बलशालीवैनतेयः (गरुडः) अग्रे न सरन्(अर्थात् प्रयत्नं विना) एकमपि पदं न गच्छति। अर्थात् अतिसमर्थः अपि यदि कार्यारम्भं न करोति तर्हि कार्यं न साध्यते।सामान्यः जनः अपि यदि प्रयत्नेन कार्यं करोति तर्हि कार्यसंसिद्धिः भवति।
An ant covers hundreds of miles when it keeps moving. Garuda, when stagnant, does not move even one foot.
प्रश्नाः १. योजनानांशतान्यपि कः कथं याति?
२. पदमेकं अपि कः न गच्छति?
३. ‘वैनतेयोऽपि’ इति शब्दस्य व्याकरणम् किम्?
४. अगच्छन्------पदमेकंनगच्छति। (रिक्तस्थानं पूरयत)
५. ‘शतान्यपि’इत्यत्रसन्धिः विभज्यताम्।
६. गच्छन्------याति। क. पिपीलकः ख. वैनतेयः ग. कोऽपि न
7. तत्कर्म यन्न बन्धाय
मूलम् तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥
पदविभागः तत् कर्म यत् न बन्धाय,सा विद्या या विमुक्तये। आयासाय अपरं कर्म विद्या अन्या शिल्पनैपुणम्॥
अन्वयः यत् न बन्धाय (भवति) तत् (एव) कर्म। या विमुक्तये (कल्पिता) सा विद्या। अपरं कर्म आयासाय (भवति)। अन्या विद्या शिल्पनैपुणम् (मात्रम् भवति)।
प्रतिपदार्थः यत्न बन्धाय (भवति) = यत् (पाप-पुण्यादिना) न बध्नाति, स्वतन्त्रतां न हरति; that which is not for bondage;
तत् (एव)कर्म = तदेव कार्यं; that (alone is)action, effort, activity;
याविमुक्तये (कल्पिता) = या मुक्तिं ददाति; that which (leads to) liberation;
सा विद्या = तत् ज्ञानं; that is learning, knowledge;
अपरं कर्म = अन्यत् कर्म; other work, activity;
आयासाय (भवति) = श्रान्तये; (is only) for waste of energy, exertion;
अन्या विद्या = अन्यत् ज्ञानं; other learning;
शिल्पनैपुणम् (मात्रम् भवति) = केवलं क्रियाकौशलम्; (is just mere) craftsmanship.
तात्पर्यम् यत् कर्म पाप-पुण्यादिना न बध्नाति तदेव कर्म अवितथं कर्म भवति। अन्यत् कर्म श्रममात्रं भवति। या मुक्तिमार्गे नयति, सा विद्या अन्वर्था विद्या भवति। अन्यत् सर्वं केवलक्रियाकौशलम् भवति।
Effort is that which does not make us bound (to puNya and pApa). Learning is that which leads us to liberation. Rest of all activity is for exertion. And all other learning is mere craftsmanship.
प्रश्नाः १. काविद्याविद्याभवति?
२. किं कर्म वास्तवेन कर्म भवति?
३. ------अपरंकर्म। (रिक्तस्थानं पूरयत)
४. ‘शिल्पनैपुणम्’इति शब्दस्य व्याकरणम् किम्?
५. ‘यन्न’इत्यस्य सन्धिः विभज्यताम्।
६. अन्या विद्या कस्मै भवति? (साधुविकल्पं चिनुत) क. विमुक्तये ख. शिल्पनैपुणम् ग. बन्धाय
8. श्रूयतां धर्मसर्वस्वं
मूलम् श्रूयतां धर्मसर्वस्वं श्रुत्वा चैव विचार्यताम् ।
आत्मनः प्रतिकूलानि परेषान्न समाचरेत् ॥
पदविभागः श्रूयतांधर्मसर्वस्वंश्रुत्वाच एवविचार्यताम् । आत्मनःप्रतिकूलानिपरेषां न समाचरेत्॥
अन्वयः धर्म-सर्वस्वं श्रूयताम्। श्रुत्वा च एव विचार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
प्रतिपदार्थः धर्म-सर्वस्वं = आचरणयोग्यं समस्तं; essence of all dharma (It has many meanings-What applies here is this :Apte-Duty, prescribed course of conduct);
श्रूयताम् = अवधार्यताम्; Do hear;
श्रुत्वाच एव = अवधीर्य; Having heard, after hearing;
विचार्यताम् = चिन्तनं क्रियताम्; think, ponder;
आत्मनः = स्वस्य; of the self;
प्रतिकूलानि = कष्टप्रदानि; unpleasant, disagreeable things;
परेषां = इतरेभ्यः; to others;
न समाचरेत् = न आचरेत्; never, do not - should do, perform, practise
तात्पर्यम् आचरणयोग्यं समस्तं कथ्यते, तत् श्रूयताम्। विचारणं क्रियताम्। यत् स्वस्य कृते क्लेशोत्पादकं भवति, तत् अन्येषां विषये न आचरणीयम्। (यतो हि सर्वत्र सर्वेषु एक एव आत्मा निवसति।)
Listen to the essence of all dharma,and then think it over well. Do never perform things, that are disagreeable to one-self, towards others.
प्रश्नाः १. किंश्रूयताम्?
२. श्रुत्वा किं क्रियताम्?
३. परेषां किं न समाचरेत्?
३. परेषां किं न समाचरेत्?
५. ‘परेषान्न’ इत्यत्र सन्धिः विभज्यताम्।
६. श्रूयतां ------। (रिक्तस्थानं पूरयत)।
9. विदेशेषु धनं
मूलम् विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम्॥
पदविभागः सुलभः
अन्वयः विदेशेषु विद्या धनं। व्यसनेषु मतिः धनं। परलोके धर्मः धनं। शीलं सर्वत्र वै धनम्॥
प्रतिपदार्थः विदेशेषु = देशान्तरेषु, अज्ञातस्थलेषु; In foreign countries;
धनं = सम्पत्तिः, उपयुक्तं वस्तु (न केवलं रूप्यकाणि); money, currency;
विद्या = अधीतं ज्ञानं; Learning, knowledge;
व्यसनेषु = दुर्भाग्य-कष्ट-प्रतिकूल-कालेषु; in adversities;
धनं = बलं, (आवश्यकं वस्तु); wealth;
मतिः = बुद्धिः; Intellect, sense;
परलोके = जन्मतः प्रयाते सति, लोकान्तरे; in next-world (in Life after death);
धनं = साधकं; currency;
धर्मः = (अत्र) पुण्यं; (here) good deeds, virtues;
शीलं = सद्गुणं, सत्प्रकृतिः, सत्स्वभावः; good character;
सर्वत्र = सर्वेषु देशकालेषु; everywhere;
वै = हि; indeed;
धनम् = प्रतिपत्तिः; treasure
तात्पर्यम् विदेशेषु धनं विद्या व्यसनेष धनं मतिः। परलोके धनं धर्मः शीलं सर्वत्र वै धनम्॥
In foreign countries, learning or knowledge is money. In adversities wealth is intellect. In next-world (in Life after death) currency is good deeds done. Good character is treasure everywhere,indeed.
प्रश्नाः १. विद्याकुत्रधनम्?।
२. व्यसनेषु किं धनम्?
३. धर्मः कुत्र धनम्?
४. ‘व्यसनेषु’ इत्यत्र पदविश्लेषणं वदत?
५. ‘परलोके’ इत्यत्र समासविग्रहं वदत?
६. ------ धनं धर्मः । (रिक्तस्थानं पूरयत।)
10. माता शत्रुः
मूलम् माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥ --चाणक्यः
पदविभागः माता शत्रुः पिता वैरी येन बालः न पाठितः । न शोभते सभामध्ये हंसमध्ये बकः यथा ।
अन्वयः माता शत्रुः पिता वैरी येन बालो न पाठितः । हंसमध्ये बको यथा न शोभते (तथा) सभामध्ये (सः न शोभते)॥
प्रतिपदार्थः माता = जननी; mother;
शत्रुः = प्रत्यर्थी; enemy;
पिता = जनकः; father;
वैरी = वैरमनेन अस्ति इति वैरी, शत्रुः, विपक्षी; opponent;
येन = (अत्र) पितृभ्यां; by whom;
बालो = पुत्रः; child, (offspring);
न पाठितः = विद्या न दापयिता; is not educated;
हंसमध्ये = हंसपक्षीनां समूहे; among swans;
बको = पक्षिविशेषः; duck;
यथा = येन प्रकारेण; like, same as;
न शोभते = (तस्य उपस्थितिः) न युज्यते; does not look proper;
सभामध्ये = पण्डितसदसि; in meeting
तात्पर्यम् यौ पितरौ पुत्रं न विद्यायुक्तं कुर्वतः तौ तस्य शत्रू इव। सः बालः पण्डितसभासु श्वेतहंसमध्यस्थितः श्यामः काकः इव कदापि न शोभते।
Both the mother and father are enemies of a child if they do not educate him. He will be a misfit in any gathering-like a duck among swans.
प्रश्नाः १.का शत्रुः कः वैरी?
२. कः न शोभते?
३. अत्र उपमानं किम्?
४. ‘हंसमध्ये’ इत्यत्र समासविग्रहः कः?
५. ‘पाठितः’ इत्यत्रपदविश्लेषणं किम्?
६. ------ बको यथा। (रिक्तस्थानं पूरयत।)
11.रूपयौवनसम्पन्नाः
मूलम् रूपयौवनसम्पन्नाः विशालकुलसम्भवाः ।
विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः ॥
पदविभागः रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः विद्या-हीनाः न शोभन्ते, निर्गन्धाः इव किंशुकाः ॥
अन्वयः रूप-यौवन-सम्पन्नाः,विशाल-कुल-सम्भवाः,विद्या-हीनाः,निर्गन्धाः किंशुकाः इव न शोभन्ते ॥
प्रतिपदार्थः रूपयौवनसम्पन्नाः = सौन्दर्ये यौवने च आढ्याः; those rich in beauty and youthful;
विशालकुलसम्भवाः = प्रसिद्ध-गृहेषु जाताः; those born in great family/clan;
विद्या-हीनाः = ज्ञानहीनाः; those devoid of education, knowledge-less;
निर्गन्धाः = सुगन्धहीनाः; those lack of fragrance;
किंशुकाः इव = पलाशपुष्पाणि इव; blossoms, but without any odour;
न शोभन्ते = न युक्ततां भजन्ति; do not befit, do not look proper
तात्पर्यम् ये सौन्दर्यातिशयं, यौवनातिशयं भजन्तः अपि विद्यया हीनाः, ते लोके शोभाहीनाः भवन्ति। यथा किंशुकपुष्पाणि सुन्दराणि किन्तु गन्धहीनानि तथा।
The people who are beautiful, youthful, born in great families, but still devoid of education are unbefitting like fragrance-less flowers.
प्रश्नाः १.के न शोभन्ते?
२.अत्र उपमानं किम्?
३.‘रूपयौवनसम्पन्नाः’ इत्यत्र कः समासविग्रहः?
४.‘विशालकुलसम्भवाः’ इति शब्दस्य पदविश्लेषणं किम्?
५.------ न शोभन्ते। (रिक्तस्थानं पूरयत)।
६.‘किंशुका’ नाम के?
12.आयुः कर्म च
मूलम् आयुः कर्म च वित्तञ्च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥ --चाणक्यनीतिः (पाठान्तरम्-पञ्चैते ननु कल्प्यन्ते गर्भगत्त्वेन देहिनाम् ॥)
पदविभागः आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥
अन्वयः आयुः कर्म वित्तं विद्या निधनम् एव च । पञ्चैतानि हि गर्भस्थस्यैव देहिनः सृज्यन्ते ॥
प्रतिपदार्थः आयुः = आजन्म-मृत्यु-अवधिकालः; life-span;
कर्म = (अत्र)भाग्यं(पूर्वकृतस्य फलं); (here) fortune (result of previous deeds);
वित्तं = धनं; wealth;
विद्या = ज्ञानं; education;
निधनम् = मृत्युः; death;
एव च = तदपि; (lit.) and;
ननु = हि; indeed;
एते = इमे; all these;
पञ्च = एते पञ्चविषयाः; five;
एतानि = इमानि; these;
सृज्यन्ते = कल्प्यन्ते, प्रभवन्ति; arranged;
गर्भस्थस्यैव = गर्भे स्थितस्य एव, पिण्डप्राये एव; while in womb;
देहिनः = जीविनः; of human-being
तात्पर्यम् मनुष्यस्य आयुर्दायं कियत्प्रमाणकं, भाग्यं कथं भविष्यति, आर्थिकीस्थितिः कीदृशी, ज्ञानं कियल्लप्स्यते, मृत्युश्च कदा भविष्यतीति तस्मिन् मातुः गर्भे एव स्थिते एव निर्णीयते। (अर्थात् अत्र पञ्चविषयेषु प्राणिनः इच्छा न गण्यते।)
These five: the life-span, the type of work, wealth, learning and the time of one's death are determined while one is in the womb. (The being’s like or dislike does not count here.)
प्रश्नाः १.पञ्च के सृज्यन्ते?
२.पञ्च कस्य सृज्यन्ते?
३.‘गर्भस्थस्य’ इत्यत्र पदविश्लेषणं किम्?
४.‘देहिनः’ इत्यत्र का विभक्तिः?
५.‘वित्तञ्च’ इत्यत्र सन्धिविग्रहंकुरुत?
६.------ हि सृज्यन्ते । (रिक्तस्थानं पूरयत)।
13.शकटं पञ्चहस्तेषु
मूलम् शकटं पञ्चहस्तेषु दशहस्तेषु वाजिनम् ।
गजं हस्तसहस्रेषु दुर्जनं दूरतस्त्यजेत् ॥ (पाठ.गजं हस्तसहस्रे च दुष्टं दूरे च वर्जजेत् ॥)
पदविभागः शकटं पञ्चहस्तेषु दशहस्तेषु वाजिनम् । गजं हस्तसहस्रेषु दुर्जनं दूरतः त्यजेत् ॥
अन्वयः शकटं पञ्चहस्तेषु (त्यजेत्)। दशहस्तेषु वाजिनम् (त्यजेत्)। गजं हस्तसहस्रेषु (त्यजेत्) ।दुर्जनं दूरतः त्यजेत् ॥
प्रतिपदार्थः शकटं = वाहनं, रथः; chariot, moving vehicle;
पञ्चहस्तेषु = पञ्चहस्तप्रमाणकं दूरं (हस्तः नाम कफोणितः मध्यमापर्यन्तं अन्तरालं); (a distance of) 5 times one’s hand-length;
दशहस्तेषु = दशहस्तप्रमाणकं दूरं; (a distance of) 10 times one’s hand-length;
वाजिनम् = अश्वं; horse;
गजं = हस्तिनं; elephant;
हस्तसहस्रेषु = सहस्रहस्तप्रमाणकं दूरं; (a distance of) 1000 times one’s hand-length;
दुर्जनं = खलं, दुष्टं; (obj. sing.) wicked person, villain;
दूरतः = असमीपतः, अनिकटतः; from long distance;
त्यजेत् = मुञ्चेत्, नापसर्पयेत्; should leave out, should not approach
तात्पर्यम् पञ्चहस्तप्रमाणकात् दूरात् शकटं, दशभ्यः तुरगं, सहस्रात् च गजं त्यजेत्। एते सर्वे अपसर्पणे आपत्कारिणः। दुर्जनस्तु (ततोऽपि अधिकां हानिं करोतीति) सहस्रहस्त-प्रमाणकात् दूरादपि अधिकदूरात् तं त्यजेदिति सन्देशः। (हस्तो नाम मानविशेषः। प्रलम्बित-मध्यमिकायाः कफण्यवधिकं दूरं, अर्धमीटर-मितम्।)
One should keep away from a (moving) vehicle at (a distance of) 5 times one’s hand-length; from a horse at (a distance of) 10 times one’s hand-length; an elephant (a distance of) 1000 times one’s hand-length and from a wicked person for a long long distance. (Hasta = 'hand' = a measure of length corresponding to the distance from the elbow to the tip of an elongated middle finger, about 0.5 meters.
प्रश्नाः १.कं पञ्चहस्तेषु त्यजेत्?
२.वाजिनं कुत्र त्यजेत्?
३.दुर्जनं किं कुर्यात्?
४.‘दूरतस्त्यजेत्’ इत्यत्र सन्धिविग्रहं कुरुत?
५.‘हस्तसहस्रेषु’ इत्यत्र समासविग्रहं कुरुत?
६.------ दूरतस्त्यजेत्। (रिक्तस्थानं पूरयत)।
14.उपकारोऽपि नीचानां
मूलम् उपकारोऽपि नीचानामपकाराय वर्तते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥--नीतिसारः
पदविभागः उपकारः अपि नीचानाम् अपकाराय वर्तते । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥
अन्वयः नीचानाम् उपकारः अपि अपकाराय वर्तते । भुजङ्गानां पयःपानं केवलं विषवर्धनं (भवति) ॥
प्रतिपदार्थः नीचानां = अधमजनानां; of the low people;
उपकारः = साहाय्यं; Service, help, assistance, favour, kindness, obligation;
अपि = तदपि; also;
अपकाराय = हानये; Harm, wrong, injury, hurt, offene, misdeed, wrong deed;
वर्तते = भवति; it is (used for completeness in a sentence);
भुजङ्गानां = पन्नगानां, सर्पाणां; of the snakes;
पयःपानं = दुग्धपानं; giving milk to drink (lit. causal = drink milk);
केवलं = (अत्र) नान्यत् प्रयोजकं; alone, only, (here) no other use;
विषवर्धनं = विषस्य वर्धकं; growing/ increasing poison
तात्पर्यम् नीचानाम् उपकारः अपि अपकाराय वर्तते ।भुजङ्गानां पयःपानं केवलं विषवर्धनं (भवति) ॥
Helping an evil person will cause harm to one even; same as feeding milk to a snake will only increase its poison.
प्रश्नाः १.किम् अपकाराय वर्तते?
२.विषवर्धनं किम्?
३.‘उपकारोऽपि’ अत्यत्र सन्धिः विभज्यताम्।
४.‘अपकाराय’ इत्यत्र चतुर्थीविभक्तिः कथम्?
५.‘पयःपानं’ इत्यस्य समासविग्रहं कुरुत?
६.------ भुजङ्गानां केवलं ------। (रिक्तस्थानं पूरयत।)
15.वृश्चिकस्य विषं
मूलम् वृश्चिकस्य विषं पुच्छं मक्षिकायाः विषं शिरः ।
तक्षकस्य विषं दन्तं सर्वाङ्गं दुर्जनस्य च ॥ (पाठ. Verse starts with तक्षकस्य विषं दन्ते..; सर्वाङ्गे दुर्जनो विषम्)
पदविभागः वृश्चिकस्य विषं पुच्छं मक्षिकायाः विषं शिरः । तक्षकस्य विषं दन्तं सर्वाङ्गं दुर्जनस्य च ॥
अन्वयः वृश्चिकस्य पुच्छं विषं (भवति)। मक्षिकायाः शिरः विषं (भवति)। तक्षकस्य दन्तं विषं (भवति)। दुर्जनस्य सर्वाङ्गं (विषं भवति)।
प्रतिपदार्थः वृश्चिकस्य = कृमिविशेषः तस्य; of scorpion;
पुच्छं = लाङ्गूलं; tail;
विषं = क्ष्वेलं, गरलं; poison;
मक्षिकायाः = कीटविशेषः तस्याः; of fly;
शिरः = मस्तकं; head;
तक्षकस्य = सर्पविशेषस्य; of snake (Name of one of the principal serpents);
दन्तं = दंशः; teeth;
दुर्जनस्य = खलस्य, दुष्टस्य; of wicked;
सर्वाङ्गं च = समस्तं शरीरं च; whole body
तात्पर्यम् वृश्चिकस्य पुच्छे, मक्षिकायाः शिरसि, तक्षकस्य दन्ते च विष-मयत्वं कल्पितम्। (जन्तूनां एकैकस्मिन्नेव अङ्गे विषं भवति।) खलस्य तु समस्तशरीरे गरलमेव भवति।
The poison of a scorpion is in its tail; the poison of a fly is in its head; the poison of a snake is in its teeth; the poison of a wicked person is in his whole body.
प्रश्नाः १.कस्य विषं पुच्छम्?
२.मक्षिकायाः विषं कुत्र?
३.दन्ते कस्य विषम्?
४.‘सर्वाङ्गं’ इत्यत्र पदविश्लेषणं वदत?
५.------ विषं दन्तम् । (रिक्तस्थानं पूरयत।)
16.आचार्यात् पादमादत्ते
मूलम् आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥
पदविभागः आचार्यात् पादम् आदत्ते पादं शिष्यः स्वमेधया पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च।
अन्वयः शिष्यः पादम् आचार्यात् आदत्ते। पादं स्वमेधया (आदत्ते)। पादं सब्रह्मचारिभ्यः (आदत्ते)। पादं कालक्रमेण च (आदत्ते)।
प्रतिपदार्थः शिष्यः = गुरुकुलनिवासी अध्येता, छात्रः; student (lit. traditional student);
पादम् = चतुर्थं भागं; one fourth;
आचार्यात् = गुरोः सकाशात्; from Teacher (lit. traditional Guru);
आदत्ते = लभते; obtaines, gets;
स्वमेधया = स्वस्य धीशक्त्या; by self-understanding, own knowledge;
सब्रह्मचारिभ्यः = सहविद्यार्थिभिः साकम् अधीत्य; co-students, fellow learners;
कालक्रमेण च = कालान्तरेण; by passage of time
तात्पर्यम् (अध्ययनेन अवगमनं कदापि एककाले सम्पूर्णत्वं न याति।) अध्येता एकैकं पादभागं गुरोः सकाशात्(शिक्षणेन), सतीर्थेभ्यः (चर्चादिकं कृत्वा, पौनःपुन्यचिन्तनेन) स्वस्य बुद्ध्या (च गृहीत्वा) अवशिष्टं पादभागं तु शनैः शनैः जीवने अनुभवेन अध्येति।[पादमिति अत्र अवगमनविषयकमिति गुरुशिष्यप्रसङ्गेन ज्ञायते।]
A student gets a quarter (knowledge) from his teacher, a quarter by his own intelligence. A quarter from his co-students and a quarter in due course of time. (Since this is about Shishya, the one-fourth is understood as pertaining to learning.)
प्रश्नाः १.शिष्यः प्रथमपादं कस्मात् आदत्ते?
२.द्वितीयं पादभागं केभ्यः आदत्ते?
३. कालक्रमेण किमादत्ते?
४.‘स्वमेधया’ इत्यत्र तृतीयाविभक्तिसिद्धिं वदत?
५. ‘सब्रह्मचारिभ्यः’ इत्यत्र पदविश्लेषणंकुरुत?
६.‘कालक्रमेण’ इत्यत्र समासं वदत?
17.अवश्यमनुभोक्तव्यं
मूलम् अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥
पदविभागः अवश्यम् अनुभोक्तव्यं कृतं कर्म शुभाशुभम्। न अभुक्तं क्षीयते कर्म कल्प-कोटि-शतैः अपि ॥
अन्वयः कृतं कर्म शुभाशुभम् अवश्यम् अनुभोक्तव्यं (भवति)। अभुक्तं कर्म कल्प-कोटि-शतैः अपि न क्षीयते ॥
प्रतिपदार्थः कृतं = आचरितं; Done, performed;
कर्म = क्रिया; action, deed;
शुभाशुभम् = मङ्गलं, अमङ्गलं वा; auspicious (or/and) inauspicious;
अवश्यम् = विनापकरणं, अनिवार्यं; definitely;
अनुभोक्तव्यम् = अनुभवे प्राप्तव्यम्; has to suffer, bear, undergo;
अभुक्तं = न अनुभुक्तं; unenjoyed, unused (here = not beared, not undergone);
कर्म = क्रियाफलं; (here-) fruit of deeds;
कल्प-कोटि-शतैः = शतानि ब्रह्मवत्सरैः, (1 कल्पः- 4320 लक्षमिताः मनुष्यवत्सराः इति आप्टेकोशे); hundreds of Brahma’s years (कल्प Apte: a period of 432 million years of mortals);
अपि = तथापि; also, (even then);
न क्षीयते = क्षयंन याति; does not decay, perish, destroy, diminish
तात्पर्यम् यत् कार्यमस्माभिः आचरितं, तस्य फलं विनापकरणं अनुभोक्तव्यमेव। अनुभवेनापकरणं विना नान्यः मार्गः। तत् कर्म ब्रह्मवत्सराणां शतमपि तथैव अक्षीणं तिष्ठति।
Man is bound to experience the fruits of his good and bad actions. The karma does not diminish even afterages.
प्रश्नाः १.किमनुभोक्तव्यम्?
२.किं कैः न क्षीयते?
३.‘कल्पकोटिशतैरपि’ इत्यत्र पदविश्लेषणं किम्?
४.‘शुभाशुभम्’ इत्यत्र समासविग्रहं वदत?
५.नाभुक्तं ------ कर्म। (रिक्तस्थानं पूरयत)
६.‘अनुभोक्तव्यं’ इत्यत्र पदविश्लेषणं किम्?
18.सत्यम् माता पिता ज्ञानं
मूलम् सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखी ।
शान्तिः पत्नी क्षमा पुत्रः षडमी मम बान्धवाः ॥
पदविभागः सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखी. शान्तिः पत्नी क्षमा पुत्रः षट् अमी मम बान्धवाः॥
अन्वयः सत्यं माता , ज्ञानं पिता , धर्मो भ्राता , दया सखी , शान्तिः पत्नी, क्षमा पुत्रः (सन्ति). अमी षट् मम बान्धवाः॥
प्रतिपदार्थः सत्यं = यदस्ति तत् सत्यं; That which Is, Truth;
माता = जन्मदात्री, जननी; Mother;
पिता = जन्मदाता; Father;
ज्ञानं = अवबोधः; Knowledge;
धर्मो = (अत्र) आचरणीयः कर्तव्यः; Duty;
भ्राता = सहोदरः; brother;
दया = अनुकम्पा, करुणा; compassion;
सखी = मित्रं; friend;
शान्तिः = प्रशान्तता, कामक्रोधादिजयः; peace, winning over desire and anger;
पत्नी = भार्या; wife;
क्षमा = क्षान्तिः, अक्रोधः; Forgiveness, non-anger;
पुत्रः = स्वजन्यपुरुषः; Son;
अमी षट् = एते षट्; These six;
मम बान्धवाः = मत्सम्बन्धिनः; myRelatives
तात्पर्यम् मम बान्धवाः षट् सन्ति। सत्यं मम जननी। ज्ञानं जनकः।धर्मः सोदरः। दयामित्रम्। शान्तिः भार्या च । पुत्रः क्षमा।
Truth is my mother, knowledge is my father, righteousness is my brother, compassion is my friend, peace is my wife and patience is my son. These six are my kith and kin.
प्रश्नाः १.के मम बान्धवाः?
२.का सखी?
३.सत्यं किंतुल्यम्?
४.‘षडमी’ इत्यत्र सन्धिः विभज्यताम्।
५.पत्नी का?
६.षडमी मम ------। (रिक्तस्थानं पूरयत।)
19.धर्मो जयति
मूलम् धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधो विष्णुर्जयति नासुरः ॥
पदविभागः धर्मः जयति न अधर्मः। सत्यं जयति न अनृतम् । क्षमा जयति न क्रोधः विष्णुः जयति न असुरः॥
अन्वयः धर्मः जयति, अधर्मःन (जयति), सत्यं जयति, अनृतम् न (जयति), क्षमा जयति, क्रोधः न (जयति), विष्णुः जयति, असुरः न (जयति)॥
प्रतिपदार्थः धर्मः = ध्रियते सः धर्मः; (here)Right, justice, equity;
जयति = जयं लभते,विजयते; wins;
नअधर्मः = धर्मभिन्नः न; not injustice;
सत्यं = यत् सर्वदा अस्ति तत्; truth, that which always is;
न अनृतम् = सत्यभिन्नं, मृषा; not falsehood;
क्षमा = अक्रोधः; Patience, forbearance, forgiveness;
न क्रोधः = कोपभावना; not anger, wrath;
विष्णुः = भगवान् सर्वान्तर्यामी; The All-pervading (In general) God, Almighty;
न असुरः = सुरभिन्नः न; not evil spirit, a demon
तात्पर्यम् यदाकदापि लोके धर्मस्य, सत्यस्य, क्षमायाः विष्णोः एव जयः। अधर्मस्य, अनृतस्य, क्रोधस्य, असुरस्य च सर्वदा अपजयः एव।
Justice wins, not injustice; Truth wins, not falsehood; Patience wins, not anger; Almighty wins, not demon.
प्रश्नाः १.के जयन्ति?
२.के न जयन्ति?
३.‘विष्णुर्जयति’इत्यत्र सन्धिविच्छेदनं वदत?
४.‘धर्मो जयति’ इत्यत्र कः सन्धिः? विशदयत।
५.‘अनृतम्’ इत्यत्र समासं विशदयत।
20.मातृवत् परदारेषु
मूलम् मातृवत् परदारांश्च परद्रव्याणि लोष्ठवत् ।
आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः ॥
पदविभागः मातृवत् परदारान् च परद्रव्याणि लोष्टवत् । आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः ॥
अन्वयः यः परदारान् च मातृवत्, परद्रव्याणि लोष्टवत्, सर्वभूतानि आत्मवत्, पश्यति सः पण्डितः ॥
प्रतिपदार्थः यः = यः मनुष्यः; the person who, one whoever;
परदारान् = अन्येषांपत्नीः; (in) others’ wives;
मातृवत् = स्वस्य जननी इव; like mother;
परद्रव्याणि = परेषां वस्तूनि; (in) others possessions;
लोष्टवत् = मृत्पिण्डवत्; like a lump of earth or clay;
सर्वभूतानि = समस्तप्राणिनः; (in) all beings;
आत्मवत् = स्वीयवत्; like self;
पश्यति = भावयति; sees;
सः पण्डितः = सः विवेकशीली; he (is) a scholar
तात्पर्यम् यः मनुष्यः अन्येषांपत्नीः स्वस्य जननी इव, परेषां वस्तूनि मृत्पिण्डवत्, समस्तप्राणिनःच स्वीयवत् पश्यन् व्यवहरति- (तथाविधां दृष्टिं वहति) सः विवेकशीली भवति।
One who sees others’ wives as one’s own mother, other's wealth as clay, and all the other living creatures as equal to one’s self,that is a scholar, indeed.
प्रश्नाः १.परदारान् कथं पश्येत्?
२.कानि लोष्ठवत् पश्यति?
३.आत्मवत् कानि पश्येत्?
४.कः पण्डितः?
५.‘आत्मवत्’ इत्यत्र पदविश्लेषणं वदत?
६.‘परद्रव्याणि’ इत्यत्र समासविग्रहं वदत?
21.मक्षिका व्रणमिच्छन्ति
मूलम् मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः ।
नीचाः कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः ॥
पदविभागः मक्षिकाः व्रणम् इच्छन्ति। धनम् इच्छन्ति पार्थिवाः। नीचाः कलहमिच्छन्ति सन्धिम् इच्छन्ति साधवः ॥
अन्वयः मक्षिकाः व्रणम् इच्छन्ति। पार्थिवाः धनम् इच्छन्ति। नीचाः कलहम् इच्छन्ति। साधवः सन्धिम् इच्छन्ति॥
प्रतिपदार्थः मक्षिकाः = कीटविशेषाः; flies;
व्रणम् = शरीरक्षतं; wound (obj.);
इच्छन्ति = वाञ्छन्ति; desire;
पार्थिवाः = राजानः; kings;
धनम् = वित्तं; money;
नीचाः = अधमजनाः; low minded-people;
कलहम् = विवादं; strife, quarrel (obj.);
साधवः = सज्जनाः; noble people;
सन्धिम् = शान्तिं, सामरस्यं; peace, compromise
तात्पर्यम् मक्षिकाः शरीरक्षतम् इच्छन्ति। राजानः वित्तं वाञ्छन्ति। अधमाः विवादं काङ्क्षन्ति। बुधजनाः सामरस्यम् अभिलषन्ति।
Flies desire wounds. Kings want money. Low people look for quarrel. Noble people like to have peace.
प्रश्नाः १.मक्षिकाःकिम्इच्छन्ति?
२.सन्धिं के इच्छन्ति?
३.नीचाः------ इच्छन्ति। (रिक्तस्थानं पूरयत।)
४.‘पार्थिव’-शब्दस्य पदविश्लेषणंकुरुत?
५.‘इच्छन्ति’इत्यत्र धातुः--क. इच्, ख. इष् ग. इच्छ् (साधुविकल्पं चिनुत)
६.‘सन्धिः’ इत्यस्य------ अर्थः। (रिक्तस्थानं पूरयत।)
22.अदाता पुरुषस्तयागी
मूलम् अदाता पुरुषस्तयागी धनं सन्त्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥
पदविभागः
अन्वयः अदाता पुरुषः त्यागी (भवति) । धनं सन्त्यज्य गच्छति । दातारं कृपणं मन्ये। मृतः अपि अर्थं न मुञ्चति ॥
प्रतिपदार्थः अदाता = दानविमुखः; non-giver, one who does not give charity, miser;
पुरुषः = मनुष्यः (स्त्री अपि); man or woman, human;
त्यागी = यः सर्वं जहाति, त्यजति; donor, one who gives away without expecting anything in return;
धनं = वित्तं; money;
सन्त्यज्य = सम्यक् विमुच्य; having left behind;
गच्छति = (अत्र- परलोकं) एति; goes away;
दातारं = यः (धनादिकं) यच्छति, तं दानशीलिनं; one who gives donations,giver (obj.);
कृपणं = यः कदापि किमपि दातुं नेच्छति, लोभी, तं; miser, mean (obj.);
मन्ये = इति भावये; I consider, regard, deem, look upon;
मृतः अपि = विगतप्राणः अपि; even (when) dead, life-less (man);
अर्थं = प्रयोजनं, धनं; (here) substance, objective -(pun here on this word. It means both money and purpose);
न मुञ्चति = न त्यजति; does not leave
तात्पर्यम् यो दानशीली नास्ति, स पुरुषः त्यागी अस्ति। सः स्वस्य समस्तं धनम् अत्रैव त्यक्त्वा म्रियते,(येन बन्धवः धनं लभन्ते। सः परलेको किमपि न प्राप्नोति। अतः) वास्तविकम् अर्थं मुञ्चति। यः स्वस्मिन् प्राणैः स्थिते सति धनं पूर्वमेव सर्वेभ्यः दत्त्वा म्रियते, स एव यथार्थः लोभी। (तस्य मरणानन्तरं बन्धुभिः स्वीकरणाय किमपि न मुच्यते।) सः वास्तविकं अर्थं मनुष्यजीवनप्रयोजनं न मुञ्चति।
The person who does not donate [his wealth] is a charity man. He dies leaving his wealth behind [for others]. I consider the person who makes great donations, a [real] miser [because] he does not leave the fruit even after his death. (The non-giver leaves off the fruit of donation in the other world by possessing; so he is the real giver-up. The giver gets the fruit of donations in the other world by charity; so he is the real miser.)
प्रश्नाः १.कः त्यागी?
२.कः कृपणः?
३.कः किं कदा न मुञ्चति?
४.------ कृपणं मन्ये। (रिक्तस्थानं पूरयत)
५.‘मृतोऽप्यर्थं’इत्यत्र सन्धिः विभज्यताम्।
६.‘पुरुषस्तयागी’ इत्यत्र सन्धिः विभज्यताम्।
23.यस्य नास्ति स्वयं प्रज्ञा
मूलम् यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति॥
पदविभागः यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति॥
अन्वयः यस्य स्वयं प्रज्ञा नास्ति शास्त्रं तस्य किम् करोति?लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति॥
प्रतिपदार्थः यस्य = यस्य पुरुषस्य; one whose;
स्वयं = आत्मनः; oneself, in one's own person;
प्रज्ञा = बुद्धिः, धीः; Intelligence, intellect, wisdom;
नास्ति = न वर्तते; does not have;
शास्त्रं = अध्येयं वस्तु; science, (logos), discipline Any department of knowledge;
तस्य = तस्य पुरुषस्य; (here) for him;
किम् करोति = को लाभः; what does it do;
लोचनाभ्याम् = अक्षिभ्यां; (by his) eyes;
विहीनस्य = रहितस्य; of the one who is devoid of;
दर्पणः = आदर्शः; mirror;
किं करिष्यति = को लाभः; what will (it) do?
तात्पर्यम् यस्य स्वबुद्धौ कौशल्यं नास्ति, [शास्त्राध्ययन-सामर्थ्याभावात्] शास्त्रं तस्योपयोगाय न भवति। [अत्र निदर्शनं दीयते] यः अन्धः सः दर्पणेन कं लाभं प्राप्स्यति? [रूपदर्शन-साधनभूत-नेत्रयोरभावात्]
What is use of discipline of study to a person who does not have intellectual capacity? What way can a mirror help a person who is blind?
प्रश्नाः १.शास्त्रं कस्य किं करोति इति प्रश्नः?
२.अत्र उपमानं किम्?
३.‘लोचनाभ्याम् विहीनस्य’ इत्यत्र तृतीया विभक्तिः कथम्?
४.------ किं करिष्यति। (रिक्तस्थानं पूरयत)
५.अत्र श्लोके कस्य कस्य तुलना केन केन कृता?
24.कोकिलानां स्वरो रूपं
मूलम् कोकिलानां स्वरो रूपं नार्या रूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥
पदविभागः सुलभः
अन्वयः कोकिलानां रूपंस्वरः। नार्याः रूपं पतिव्रतम् । कुरूपाणां रूपं विद्या । तपस्विनांरूपं क्षमा ॥
प्रतिपदार्थः कोकिलानां = पक्षिविशेषाणां; of the cuckoo birds;
स्वरो = कण्ठध्वनिः; voice;
रूपं = सौन्दर्यं; (here) beauty, elegance, grace;
नार्या = स्त्रीणां; of women;
पतिव्रतम् = पतौ भक्तिः, सेवानिरतिश्च; quality of being devoted to husband;
कुरूपाणां = असुन्दराणां; of the ugly (not good looking) men;
विद्या = ज्ञानं; knowledge;
तपस्विनाम् = तपः शीलं येषां; of the sages;
क्षमा = अकोपः; Patience, forbearance, forgiveness
तात्पर्यम् कोकिलपक्षिणां सौन्दर्यं मधुरस्वनौ वर्तते। स्त्रीणां च सौन्दर्यं स्वस्य पतौ अनुरक्तिः सेवाभावना च भवति। ज्ञानमेव रूपहीनानां सौन्दर्यं मन्यते। तपःसम्पन्नानां सौन्दर्यं परेषु सहिष्णुतायां विभाति।
Cuckoos' beauty is their voice. Women’s attraction point is in being husband-devoted. Elegance of ugly men is learning (having knowledge) and sages’ grace is forgiveness.
प्रश्नाः १.कस्य स्वरो रूपम्?
२.नार्या रूपं किम्?
३.तपस्विनां किं रूपम्?
४.विद्या रूपं ------ । (रिक्तस्थानं पूरयत)
५.‘पतिव्रतम्’ शब्दस्य कोऽर्थः?
६.‘तपस्विनां’ शब्दस्य पदविश्लेषणं कुरुत।
25.पुस्तकस्था तु या विद्या
मूलम् पुस्तकस्था तु या विद्या परहस्तगतं धनं।
(पाठ. परहस्ते च यद्धनम्) कार्यकाले समायाते न सा विद्या न तद्धनम्॥(पाठ. समुत्पन्ने)
पदविभागः पुस्तकस्था तु या विद्या परहस्त-गतं धनं। कार्यकाले समायाते न सा विद्या न तत् धनम्॥
अन्वयः या विद्या पुस्तकस्था तु (यत्) परहस्त-गतं च धनं, कार्यकाले समायाते सा विद्या न (उपयोगाय) तत् धनं न (उपयोगाय)॥
प्रतिपदार्थः या विद्या = यत् ज्ञानं; that knowledge;
पुस्तकस्था तु = ग्रन्थे स्थिता; (which is there) (only) in the book;
परहस्तगतं = परेषां अधीनं कृतं; (that which is) gone into others’ hands;
धनं = अर्थः, सम्पत्; money;
कार्यकालेसमायाते = आवश्यकतायाः आगमने, अवसरे प्राप्ते; (when) time of need (Lit. work) arrives, comes;
न सा विद्या = तत् ज्ञानं न ( = निरर्थकं); that is not knowledge;
न तत् धनम् = तत् धनं न ( = निरर्थकं); that is not money
तात्पर्यम् यत् ज्ञानं पुस्तके स्थितं (न पुनः बुद्धौ) यत् धनं परेषां हस्ते समर्पितं (न पुनः प्राप्तं) - ते द्वे च उपयोगाय न भवतः। व्यर्थमेव तत् द्वयम्।
The knowledge in the books, [not understood by oneself] and money given to others [not returned back for personal use] are useless [not handy] in time of need.
प्रश्नाः १.का न विद्या?
२.किं न धनम्?
३.‘पुस्तकस्था’ इत्यस्य पदविश्लेषणं वदत?
४.‘परहस्तगतं’ इत्यत्र समासविग्रहं वदत?
५.‘कार्यकाले समायाते’ अत्र सप्तमी कथम्?
26.आदौ चित्ते
मूलम् आदौ चित्ते ततः काये सतां सम्पद्यते जरा ।
असतां तु पुनः काये नैव चित्ते कदाचन॥
पदविभागः सुलभः
अन्वयः सतां जरा आदौ चित्ते ततः(च) काये सम्पद्यते । पुनः असतां तु काये (एव सम्पद्यते) । चित्ते नैव कदाचन (सम्पद्यते) ॥
प्रतिपदार्थः सतां = महात्मनां; of the noble people, good or virtuous men;
जरा = वार्धक्यं; old age;
आदौ = प्रथमं; first;
चित्ते = मनसि; in (the) mind;
ततः = तत्पश्चात्; then;
काये = शरीरे; in the body;
सम्पद्यते = जायते; arises, is born or produced.;
पुनः = (अत्र) किन्तु; On the other hand, on the contrary, but, however,;
असतां = दुरात्मनां; of the wicked;
तु = निश्चितम्; nevertheless;
न एव = न (भवति); never;
कदाचन = कदाचिदपि; at some time (here = ever)
तात्पर्यम् ये साधुपुरुषाः, वार्धक्यं प्रथमं तेषां मनसि प्रविशति, तत्पश्चादेव शरीरेदृश्यते। दुर्जनानां तु शरीरे वार्धक्यापतनं पश्चादपि मनसि नोदेति। (अन्तरार्थः-) साधुपुरुषाः स्ववयसः अधिकं ज्ञानं प्राप्य ज्ञानेन वृद्धा इव आचरन्ति। गच्छता कालेन ते शरीरेण वार्धक्यं प्राप्नुवन्ति। किन्तु दुष्टाः सर्वदा वार्धक्यं प्राप्यापि ज्ञानं न विन्दन्ति। सदा बाला इवैव आचरन्ति।
Old age gets first into the mind and then into the body [in the case] of virtuous people. But it arises in body, but never mind of the wicked. It means-Virtuous people get ripe in thinking soon, but, for the wicked, even though the body becomes old, the mind never develops. [Old age signifies growth and ripeness]
प्रश्नाः १.सतां जरा कुत्र सम्पद्यते?
२.असतां जरा कुत्र सम्पद्यते?
३.सतां ------ जरा। (रिक्तस्थानं पूरयत।)
४.नैव ----- कदाचन। क. चित्ते ख. काये ग. सतां (साधु विकल्पं चिनुत)
५.‘सम्पद्यते’ इत्यस्य पदविश्लेषणं वदत।
27.आयुषः खण्डमादाय
मूलम् आयुषः खण्डमादाय रविरस्तमयं गतः ।
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम्॥
पदविभागः आयुषः खण्डम् आदाय रविः अस्तमयं गतः । अहनि अहनि बोद्धव्यं किम् एतत् सुकृतं कृतम्॥
अन्वयः रविः आयुषः खण्डम् आदाय अस्तमयं गतः। किम् एतत् सुकृतं कृतम्(इति) अहनि अहनि बोद्धव्यम् ॥
प्रतिपदार्थः रविः = सूर्यः; sun;
आयुषः = जीवनकालस्य; of the life-span;
खण्डम् = भागं, शकलं; some part;
आदाय = गृहीत्वा; having taken;
अस्तमयं गतः = (सूर्यस्य) अदर्शनं प्राप्तः; has set down(lit. gone for setting) decline in the western horizon;
(गतः(lit.); one who is gone);
किम्एतत् = किमिदम्; what (is)this;
सुकृतं = सुष्ठु आचरणं; good deeds;
कृतम् = आचरितम्; done;
अहनि अहनि = प्रतिदिनं; every day;
बोद्धव्यम् = चिन्तितव्यम्; should know, understand, comprehend
तात्पर्यम् प्रतिदिनं सूर्यास्तमयेन जीवानां आयुर्दायः शनैः शनैः क्षयं याति। ‘किमद्य मया सुष्ठु आचरितम्?’ इति अस्माभिः अहरहं चिन्तितव्यम्। (यतो हि सुकृतमेव अस्मभ्यः पुण्यं ददाति।)
Sun is gone away taking somepart of our life-span. So one should one comprehend (contemplate) everyday-‘What good deeds have I done [today]?’ [Not a very good standard of language, [at एतत् and बोद्धव्यम्] but idea is beautiful. So sharing.]
प्रश्नाः १.कःअस्तमयं गतः?
२.किमादाय गतः?
३.किं बोद्धव्यम्?
४.‘अहन्यहनि’ इत्यत्र सन्धिविग्रहंवदत?
५.‘बोद्धव्यं’इत्यत्र पदविश्लेषणं किम्?
६.किमेतत् ------ कृतम्। (रिक्तस्थानं पूरयत।)
28. कः कालः कानि
मूलम् कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ (पाठ. कस्याहं)
पदविभागः कः कालः कानि मित्राणि कः देशः कौ व्यय-आगमौ । कः च अहं का च मे शक्तिः इति मुहुः मुहुः चिन्त्यम् ॥
अन्वयः
प्रतिपदार्थः कः कालः = कः समयः; what (is the) time;
कानि मित्राणि = के सुहृदः; who (are) friends;
कः देशः = कः भूगोलभागविशेषः, जनपदः; which (is the) place, country;
कौ व्यय-आगमौ = अर्थस्यापगमः, अर्थादीनां प्राप्तिः (उपार्जनम्); what (are the) expenditure and income;
कः च अहं = स्वयं कः; who (am) I;
(कस्य अहम् = स्वयं कस्य सम्बन्धी; whose, belonging to whom?);
का च मे शक्तिः = मम सामर्थ्यम्; what (is) my strength;
इति = एवं; thus;
मुहुः मुहुः = वारं वारं; again and again, repeatedly;
चिन्त्यं = आध्यानं कर्तव्यम्; should be thought (over)
तात्पर्यम् अयं समयः कीदृशः, के जनाःमम सुहृदः, किंविशिष्टःअयं प्रदेशः, कियान् व्ययः,कियान् आगमः,कः च अहं, (कस्य सम्बन्धी इति वा),मम शक्तिः कियती– इत्यादयः वारं वारं चिन्त्याः मानवेन ॥
What is the present time? Who are (my) friends? Which is this place? What are the expenditure and income? Who am I (or whom do I belong to)? What is my strength?-Thus one should constantly think over (about these things.) [This helps in keeping a person always alert and informed. One should never forget one’s real life position.]
प्रश्नाः १. किं मुहुर्मुहुः चिन्त्यम्?
२.‘कश्चाहं’ इत्यत्र सन्धिविग्रहं वदत?
३.‘शक्तिरिति’ इत्यत्र सन्धिविग्रहं वदत?
४.‘व्ययागमौ’ इत्यस्य समासविग्रहं वदत?
५.‘चिन्त्यं’इत्यस्य पदविश्लेषणं वदत?
६.‘मुहुर्मुहुः’ इत्यत्र सन्धिविग्रहं वदत?
29.प्राणमेकं परित्यज्य
मूलम् प्राणमेकं परित्यज्य मानमेवाभिरक्षतु ।
अनित्याश्चाध्रुवाः प्राणाः मानमाचन्द्रतारकम् ॥
पदविभागः प्राणम् एकं परित्यज्य मानम् एव अभिरक्षतु । अनित्याः च अध्रुवाः प्राणाः मानम् आचन्द्रतारकम् ॥
अन्वयः प्राणम् एकं परित्यज्य मानम् एव अभिरक्षतु । प्राणाः अनित्याः अध्रुवाः च । मानम् (तु) आचन्द्रतारकं (तिष्ठति) ॥
प्रतिपदार्थः प्राणम् = श्वासः(शरीरे सञ्चरन्तः जीवनसूचकाः पञ्च वायवः); The first of the five life-winds or vital airs, (प्राण, अपान, समान, व्यान and उदान) or the breath of life,in general;
एकं = केवलं; alone;
परित्यज्य = त्यक्त्वा, अपरिगणय्य; (here) leaving aside;
मानम् = अभिमानं, आत्मगौरवम्; self-respect, honour;
एव = मात्रं; only;
अभिरक्षतु = रक्षां करोतु; save, protect, preserve, guard;
प्राणाः = पञ्चप्राणाः, पञ्चवृत्तिकः देहस्थः वायुः; the (five) vital airs;
अनित्याः = न नित्याः, सर्वदा न भवन्ति ये; transient, perishable;
अध्रुवाः = न निश्चिताः; uncertain;
आचन्द्रतारकम् = यावत् चन्द्रः, तारकानि च तिष्ठन्तितावत्; As long as there are the moon and stars
तात्पर्यम् प्राणमपि अविगणयन् मानमेव रक्षेत्। श्वासाः न सर्वदा तिष्ठन्ति किन्तु मानं तु शाश्वतिकं भवति।[अस्मिन् सुभाषिते मानस्य महत्त्वं दर्शितम्। अत्र अर्थः प्राणाः मूल्यवन्त नेति न। द्वयोः तुलनायां सत्यां पाञ्चभौतिक-शरीरात् मानस्य आयुः दीर्घं भवति। सति मानहानौ सज्जनाः प्राणान् तृणमिव मन्यन्ते।]
Leaving aside life, one should guard self-respect. Breath is uncertain and transient. But honour is lasting till moon and stars. [This subhAshita stresses on importance of honour. That does not mean that life is unimportant altogether. But when both are compared, since honour has longer life than one’s mortal body, one should care more for honour. Virtuous people care for their reputation more than life. Whenever malice touches their honour, they tend to disregard even their lives.]
प्रश्नाः १.किं परित्यज्य किमभिरक्षतु?
२.मानं कीदृशम्?
३.‘अनित्याश्चाध्रुवाः’ इत्यत्र सन्धिः विभज्यताम्।
४.‘आचन्द्रतारकम्’इत्यस्य समासविग्रहं कुरुत?
५.प्राणमेकं परित्यज्य ------ । (रिक्तस्थानं पूरयत।)
30.अनित्यानि शरीराणि
मूलम् अनित्यानि शरीराणि वैभवं नैव शाश्वतम् ।
(पाठ. विभवो नैव शाश्वतः) नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥
पदविभागः
अन्वयः शरीराणि अनित्यानि । वैभवं न एव शाश्वतम् । मृत्युः नित्यं सन्निहितः। धर्मसङ्ग्रहः कर्तव्यः ॥
प्रतिपदार्थः अनित्यानि शरीराणि = अशाश्वतानि कायानि; (pl.) mortal bodies are non-eternal, perishable;
वैभवम् = सम्पत्; grandeur, glory, magnificence;
न एव = न एव; never;
शाश्वतम् = नित्यं; constant;
मृत्युः = शरीरनाशः; death;
नित्यं = सर्वदा; eternal, perpetual;
सन्निहितः = निकटस्थः; near;
धर्मसङ्ग्रहः = पुण्यसञ्चयः; accumulating (here- earning) (religious or moral) merit, virtue;
कर्तव्यः = कार्यः; duty, that which is to be done
तात्पर्यम् देहाः न सर्वकाल-स्थायिनः। धनादिसम्पच्च न शाश्वतम्।अन्तकालः सदा समीपे तिष्ठति। अतः पुण्यसङ्ग्रहः कर्तव्यः।
Physical bodies are transitory. Wealth (and other resources) is not eternal. Death is always near-by. (So) earning (religious or moral) merit is (one’s) duty.
प्रश्नाः १.कानि अनित्यानि?
२.कः कर्तव्यः?
३.मृत्युः कीदृशः?
४.नित्यं ------ मृत्युः। (रिक्तस्थानं पूरयत।)
५.‘धर्मसङ्ग्रहः’इत्यत्र समासविग्रहं वदत?
६.‘सन्निहितः’इत्यत्र पदविश्लेषणं वदत?
31.उत्पलस्यारविन्दस्य
मूलम् उत्पलस्यारविन्दस्य मत्स्यस्य कुमुदस्य च ।
एकयोनिप्रसूतानां तेषां गन्धः पृथक् पृथक् ॥
पदविभागः उत्पलस्य अरविन्दस्य मत्स्यस्य कुमुदस्य च । एकयोनि-प्रसूतानां तेषां गन्धः पृथक् पृथक् ॥
अन्वयः उत्पलस्य अरविन्दस्य मत्स्यस्य कुमुदस्य च , एकयोनि-प्रसूतानां (अपि) तेषां पृथक् पृथक् गन्धः॥
प्रतिपदार्थः उत्पलस्य = नीलकमलस्य; of the blue lotus, any lotus or water lily (Apte), the blossom of the blue lotus, (Nymphaea Caerulea) (MW);
अरविन्दस्य = रक्तकमलस्य; of the sun lotus (Nymphea Stellata) (Apte);
मत्स्यस्य = मीनस्य; of the fish;
कुमुदस्य च = श्वेतोत्पलस्य; of the white water = lily said to open at moon-rise [Nymphea alba] (Apte);
तेषां = एतेषां; of these, their;
एकयोनि-प्रसूतानां = एकस्मात् कारणात् जातानां; of the produced/originated from same/common source;
पृथक् पृथक् = विभिन्नम्; different, dissimilar;
गन्धः = सौरभम्; frangrance, smell in general
तात्पर्यम् एकत्र (जले) जातानां अपि श्वेतकमलस्य, रक्त-कमलस्य, उत्पलस्य, मीनस्य च गन्धः भिन्नं भिन्नं भवति।
Though blue lotus, sun lotus, fish and water lily are produced from same source, their smell is different from each other.
प्रश्नाः १.केषां किं पृथक् पृथक्?
२.‘एकयोनिप्रसूतानां’ इत्यस्य कोऽर्थः?
३.‘एकयोनिप्रसूतानां’ इत्यत्र समासविग्रहं वदत?
४.तेषां गन्धः ------। (रिक्तस्थानं पूरयत।)
32.अर्थानामर्जने
मूलम् अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥(पाठ. आये व्यये महद्दुःखं कथमर्थाः सुखावहाः)
पदविभागः अर्थानाम् अर्जने दुःखम् अर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिग्, अर्थाः कष्टसंश्रयाः ॥
अन्वयः अर्थानाम् अर्जने दुःखम् अर्जितानां च रक्षणे (दुःखम्) । आये दुःखं व्यये दुःखं धिग् अर्थाः कष्टसंश्रयाः ॥
प्रतिपदार्थः अर्थानाम् = धनस्य; of the riches, wealth;
अर्जने = द्रव्य-सम्पादने; in earning;
दुःखम् = मनसः पीडा; unhappiness, pain;
अर्जितानां च = स्वत्व-कृतानां अर्थानां; of the earned (riches);
रक्षणे = (अत्र) सञ्चये; in safe-guarding;
आये = लाभे, प्राप्तौ; in earning, in acquisition of money;
व्यये = अर्थस्य अपगमे; in spending;
धिग् = (निन्दार्थकमव्ययम्)अहो; fie;
अर्थाः = धनं; riches, wealth;
कष्टसंश्रयाः = व्यथा-स्थानम्; resort of misery, suffering,
तात्पर्यम् धनं सम्पादयितुमपि पीडा भवति, तस्य परिरक्षणेऽपि दुःखमेव। धनलाभेन, अपगमेनापि मनसि व्यथा जायते। एवंविध-दुःखभाजनस्य धनस्य धिक्।[अनेन धनार्जनं त्यक्तव्यमिति, धनं पूर्णतया अनुपयुक्तमिति वा न अर्थोऽत्र। किन्तु आवश्यकताम् अतिरिच्य तस्मिन् आदरभावः न युक्तः। अस्य सुभाषितस्य एवं समाधानं वक्तुं शक्यते- 'यल्लभसे निजकर्मोपात्तम्, वित्तं तेन विनोदय चित्तम्']
It is difficult to earn money, and to protect the earnings. Income as well as expenditure give pain-Fie on Money which is the cause of hardship. [This does not mean that money is totally useless or one should stop earning it. But investing too much interest in it is bad. Answer to this would be from something like this-'यल्लभसे निजकर्मोपात्तम्,वित्तंतेनविनोदयचित्तम्']
प्रश्नाः १.के कष्टसंश्रयाः?
२.कुत्र कुत्र दुःखं भवति?
३.किमनेन धनार्जनं त्यक्तव्यमिति अर्थः?
४.‘कष्टसंश्रयाः’ इत्यत्र समासविग्रहःकथम्?
५.आये दुःखं ------ दुःखं। (रिक्तस्थानं पूरयत।)
33.उत्सवे व्यसने
मूलम् उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥।
पदविभागः
अन्वयः उत्सवे व्यसने च एव दुर्भिक्षे राष्ट्रविप्लवे राजद्वारे श्मशाने च यः तिष्ठति स बान्धवः ॥
प्रतिपदार्थः उत्सवे = आनन्दसमये, पर्वसमये; in festival, joyous or festive occasion;
व्यसने च एव = आपत्काले; in Adversity, need;
दुर्भिक्षे = प्रकृतिवैपरीत्यकाले; in scarcity of provisions, dearth, famine;
राष्ट्रविप्लवे = शत्र्वादिना राज्य-विपत्तौ; during predatory warfare, danger from an enemy.;
राजद्वारे = राज्ञः कवाटे; at the gate of king’s palace;
श्मशाने च = मृतदेह-दहन-स्थाने; at the a burial or burning ground;
यः तिष्ठति = यः पार्श्वे भवति; one who stays (with you in support);
स बान्धवः = स बन्धुः; he (indeed) is a relative, kinsman.
तात्पर्यम् यः कस्यचित् हर्षसमये, विपत्तौ, अन्नहीने काले, राज्यापद-समये, राजास्थान-गमन-काले, दहनसमये (बन्ध्वादिनां मृतिकाले) पार्श्वे भूत्वा धैर्येण रक्षति, सः एव बन्धु, नान्यः।
He is a (genuine) kinsman, who stands by (in support) in celebration, in adversity, in calamity (like famine), during a scuffle with the enemy and in the royal court (of law?) and in the funeral yard/ burial ground.
प्रश्नाः १.कः बान्धवः?
२.‘यस्तिष्ठति’ इत्यत्र सन्धिविच्छेदनं वदत?
३.‘दुर्भिक्षे’ इत्यस्य अर्थः कः?
४.‘राष्ट्रविप्लवे’ इत्यस्य समासविग्रहं वदत?
५.यस्तिष्ठति स ------। (रिक्तस्थानं पूरयत।)
६.उत्सवे इत्यादिषु सप्तमीविभक्तिः केन सूत्रेण?
34.पृथिव्यां त्रीणि रत्नानि
मूलम् पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
पदविभागः पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितम्।मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
अन्वयः पृथिव्यां त्रीणि रत्नानि। जलम् अन्नं सुभाषितम्(च)।मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
प्रतिपदार्थः पृथिव्यां = भूमौ; on the earth;
त्रीणि = त्रयं; three;
रत्नानि = मणयः; gems;
जलम् = नीरं; water;
अन्नं = खाद्यं; food;
सुभाषितम् = सूक्तिः; good saying;
मूढैः = बुद्धिहीनैः; by the fools;
पाषाणखण्डेषु = शिलाखण्डेषु; on the stone-pieces;
रत्नसंज्ञा = रत्नमिति नाम; name (as) gem;
विधीयते = क्रियते; (here) is given (prescribe)
तात्पर्यम् लोकेऽस्मिन् त्रीण्येव रत्नानि, नीरं, खाद्यं, सूक्तिश्च। मूढाः एव शिलाखण्डान् (दृष्ट्वा) रत्नानीति कथयन्ति।
There are three jewels on earth — water, food and wise sayings. [Only] fools call pieces of [gem] stone as jewels.
प्रश्नाः १.कानि रत्नानि?
२.कुत्र रत्नसंज्ञा मूढैः विधीयते?
३.------ त्रीणि रत्नानि। (रिक्तस्थानं पूरयत।)
४.‘पाषाणखण्डेषु’ इत्यत्र समासविग्रहं वदत?
५.‘रत्नसंज्ञा’ नाम किम्?
६.‘सुभाषितम्’ इत्यस्य पदविश्लेषणं वदत?
35.विद्वत्त्वं च नृपत्वं च
मूलम् विद्वत्त्वं च नृपत्वं च नैव तुल्ये कदाचन।
(पाठ. तुल्यं) स्वदेशे पूज्यते राजा विद्वान्‌ सर्वत्र पूज्यते॥
पदविभागः विद्वत्त्वं च नृपत्वं च न एव तुल्ये कदाचन। स्वदेशे पूज्यते राजा विद्वान्‌ सर्वत्र पूज्यते॥
अन्वयः विद्वत्त्वं च नृपत्वं च कदाचन न एव तुल्ये। राजा स्वदेशे पूज्यते। विद्वान्‌ (तु) सर्वत्र पूज्यते॥
प्रतिपदार्थः विद्वत्त्वं च = पाण्डित्यं च; scholarship;
नृपत्वं च = राजत्वं च; kinghood;
कदाचन = कदापि; never;
न एव तुल्ये = न समाने; not comparable;
राजा = नृपः; king;
स्वदेशे = स्वस्य प्रदेशे; in own country;
पूज्यते = आद्रियते, आराध्यते; is respected;
विद्वान्‌ = पण्डितः; scholar;
सर्वत्र = सर्वेषु स्थलेषु; everywhere
तात्पर्यम् पाण्डित्यं राजत्वं च कदापि न समाने। राजा स्वस्य देशे एव पूज्यते। पण्डितः सर्वैः सम्मान्यते।
Scholarship and kinghood are never comparable.A king is worshipped in his own country whereas a scholar is respected everywhere.
प्रश्नाः १.के न तुल्ये?
२.राजा कुत्र पूज्यते?
३.------सर्वत्र पूज्यते । (रिक्तस्थानं पूरयत।)
४.‘विद्वत्त्वं’ इत्यस्य पदविश्लेषणं वदत?
५.‘स्वदेशे’ इत्यत्र केन सप्तमी?
36.न चोरहार्यं
मूलम् न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥
पदविभागः सुलभः।
अन्वयः न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धते एव नित्यम्। विद्याधनं सर्वधनप्रधानम् ॥
प्रतिपदार्थः न चोरहार्यं = चोरैः हर्तुं न शक्यते; not stealable by thieves;
न च राजहार्यं = राज्ञा स्वीकर्तुं न शक्यते; not seizable by kings;
न भ्रातृभाज्यं = भ्रातृषु विभङ्क्तुं न शक्यते; not divisible among brothers;
न च भारकारि = भारं न भवति; not heavy;
व्यये कृते = विनियोगे कृते; when spent;
वर्धत एव = वर्धते; only grows;
नित्यं = सर्वदा; always;
विद्याधनं = ज्ञानं नामकं धनं; wealth of learning;
सर्वधनप्रधानम् = सर्वेषु धनेषु मुख्यं; prime-most among all wealth
तात्पर्यम् विद्या नाम धनं चोरैः वा राज्ञा वा, केनापि हर्तुं न शक्यते। तस्य भारः अपि नास्ति। कस्मैचिदपि दीयते चेत् अस्मासु तत् वर्धते। अतः तत् धनं सर्वधनेषु मुख्यं वर्तते।
The wealth of knowledge cannot be stolen by thieves, cannot be seized by kings, cannot be divided amongst brothers, and is not heavy to carry. The more you spend, the more it grows . It is the most important among all kinds of wealth.
प्रश्नाः १.किं सर्वधनप्रधानम्?
२.विद्यालक्षणानि वदत?
३.‘व्यये कृते’ इत्यत्र सप्तमीविभक्तिः कथम्?
४.‘चोरहार्यं’ इत्यत्र समासविग्रहं वदत?
५.‘भारकारि’ इत्यत्र समासविग्रहं वदत?
६.‘सर्वधनप्रधानम्’ इत्यत्र समासविग्रहं वदत?
37.विद्या मित्रं प्रवासेषु
मूलम् विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥
पदविभागः विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।व्याधितस्य औषधं मित्रं धर्मः मित्रं मृतस्य च ॥
अन्वयः प्रवासेषु विद्या मित्रं (भवति)। गृहेषु च भार्या मित्रं (भवति)।व्याधितस्य औषधं मित्रं (भवति)।मृतस्य चधर्मः मित्रं (भवति)।
प्रतिपदार्थः प्रवासेषु = विदेशेषु; when in foreign country (lit. out of home place);
विद्या = ज्ञानं; learning;
मित्रं = सुहृत्; friend;
गृहेषु च = गेहेषु; at home(s);
भार्या = पत्नी; wife;
व्याधितस्य = रुग्णस्य, रोगपीडित्स्य; of the ill;
औषधं = रोगपरिहारकं द्रव्यं; medicine;
मृतस्य च = गतप्राणस्य; of the dead;
धर्मः = (अत्र)सत्कार्याणि कृत्वा अर्जितं पुण्यं; (religious) merit
तात्पर्यम् विदेशेषु ज्ञानं मित्रं, गेहे सुहृत् पत्नी, रुग्णस्य मित्रं रोगपरिहारकं द्रव्यं, मृतस्य स्नेहितः धर्मः भवति (मृते परलोकं गते सति तत्कृतं पुण्यमाश्रित्य स्वर्गनरकादिः निर्णीयते)।
Knowledge is (one’s) friend in the foreign countries, wife is the friend at home, medicine is sick man's friend and religious merit is the friend after death.(A dead soul’sreaching of the next world is decided on the basis of religious merit.)
प्रश्नाः १.विद्या कुत्र मित्रम्?
२.गृहेषु का मित्रम्?
३.‘व्याधित’ शब्दस्य पदविश्लेषणं वदत?
४.‘व्याधितस्यौषधं’ इत्यत्र सन्धिः विभज्यताम्।
५.------ औषधं मित्रं। (रिक्तस्थानं पूरयत।)
38.अयं निजः परो वेति
मूलम् अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तुवसुधैव कुटुम्बकम् ॥
पदविभागः अयं निजः परः वा इति गणना लघुचेतसाम् । उदारचरितानां तुवसुधा एव कुटुम्बकम् ॥
अन्वयः अयं निजः परो वा इति लघुचेतसाम् गणना (भवति)। उदारचरितानां तुवसुधा एव कुटुम्बकम् (भवति)।
प्रतिपदार्थः अयं = एषः; This person (masculine pronoun);
निजः = स्वः; one’s own, belongs to oneself;
परः वा = अस्वः, अन्यः; other, non-related;
इति = एवं; thus;
लघुचेतसाम् = अल्पचित्तानां, अधमानां; of the low-minded people;
गणना = मतम्; counting, considering, (here) believing;
उदारचरितानांतु = उत्तमजनानां तु; of the noble minded, great characters, but;
वसुधा एव = लोकः एव; earth, (here) world;
कुटुम्बकम् = स्वस्य गृहजनाः; family
तात्पर्यम् एषः मम जनः, एषः अन्यः इति नीचजनाः चिन्तयन्ति। ये महापुरुषाः तेषां तु सम्पूर्णा भूमिः एव स्वस्य गृहमिव भवति।
He is mine, he is another, not mine-such are thoughts of narrow minded people. For the noble minded the whole world is a family.
प्रश्नाः १.लघुचेतसांकीदृशी गणना?
२.उदारचरितानांकीदृशी गणना?
३.‘वसुधैव’ इत्यत्र सन्धिः विभज्यताम्।
४.‘उदारचरितानां’ इत्यत्र समासविग्रहं वदत?
५.‘लघुचेतसाम्’ इत्यस्य पदविश्लेषणं वदत?
६.उदारचरितानां तु ------ ------। (रिक्तस्थानं पूरयत।)
39. चिन्तायाश्च चितायाश्च
मूलम् चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशिष्यते ।
चिता दहति निर्जीवं चिन्ता दहति जीवितम् ॥
पदविभागः चिन्तायाः (चिंतायाः) च चितायाः च बिन्दुमात्रं विशिष्यते चिता दहति निर्जीवं चिन्ता दहति जीवितम् ॥
अन्वयः चिन्तायाः (चिंतायाः) च चितायाः च बिन्दुमात्रं विशिष्यते। चिता निर्जीवं दहति। चिन्ता जीवितम् दहति॥
प्रतिपदार्थः चिन्तायाः च = मनःपरिदेवनायाः; of the sorrow/worry;
चितायाः च = शवदाहाधार-चुल्ली; of the funeral pile, pyre;
बिन्दुमात्रं = केवलम् अनुस्वारः; only a nasal sound;
विशिष्यते = अधिकं भवति; differs, is distinct;
निर्जीवं = विगतप्राणं; the dead, life-less;
दहति = भस्मीकरोति; burns;
जीवितम् = प्राणयुक्तं; the living
तात्पर्यम् चितायाः, चिन्तायाश्च (चिंतायाश्च) मध्ये केवलम् अनुस्वार एव भेदः। चिता मृतं दहति। चिन्ता (चिंता) चैतन्यशीलं दहति।
The difference between चिता (funeral pyre) and चिन्ता (चिंता)(sorrow) is just a nasal. While funeral pyre burns one dead, sorrow/worry burns one alive.
प्रश्नाः १.बिन्दुमात्रंकुत्र विशिष्यते?
२.चिता चिन्ता कं च दहतः?
३.‘चिन्तायाश्च’ इत्यत्र सन्धिः विभज्यताम्।
४.------ दहति निर्जीवं। (रिक्तस्थानं पूरयत।)
५.चिन्ता दहति ------। (रिक्तस्थानं पूरयत।)
६.‘बिन्दुमात्रं’ इत्यस्य पदविश्लेषणं वदत?
40.अन्नदानं महादानम्
मूलम् अन्नदानं महादानं विद्यादानमतः परम्।
अन्नेन क्षणिका प्रीतिः यावज्जीवं च विद्यया॥
पदविभागः अन्नदानं महादानं विद्यादानम् अतः परम्। अन्नेन क्षणिका प्रीतिः यावत्-जीवं च विद्यया॥
अन्वयः अन्नदानं महादानम्। अतः परं विद्यादानम् । अन्नेन प्रीतिःक्षणिका (भवति)। विद्यया च यावज्जीवम् (भवति)॥
प्रतिपदार्थः अन्नदानं = खाद्यपदार्थस्य परेभ्यः वितरणम्; giving/ distributing food (in charity eg. feeding the poor);
महादानम् = उत्तमं, उत्कृष्टं च प्रदानं; great charity;
अतः परम् = इतोऽप्यधिकम्; even more;
विद्यादानम् = ज्ञानस्य वितरणम्; giving of knowledge (teaching);
अन्नेन = भक्ष्येण; by food;
क्षणिका = तत्क्षणे जायमाना; momentary;
प्रीतिः = आनन्दः, तृप्तिः; happiness, satisfaction;
विद्यया च = ज्ञानेन च; by knowledge, learning;
यावज्जीवम् = आजीवनम्, प्राणधारणकालं यावत्; all life
तात्पर्यम् भोज्यपदार्थस्य दानाद् अपि उत्तमं ज्ञानस्य दानमिति (तथ्यम्)। कुतः? खादनेन (बुभुक्षा शमनेन च) तात्कालिकी तृप्तिः जायते। परं तु विद्यार्जनेन (अज्ञाननाशः भवति, येन) शाश्वतानन्दः भवति।
Giving food is a great charity; but giving knowledge is a greater one. From the food we get momentary satisfaction. But from knowledge, it lasts the whole life.
प्रश्नाः १.किं महादानम्?
२.ततः परं किम्?
३.------ च विद्यया। (रिक्तं स्थानं पूरयत)।
४.‘यावज्जीवं’ इत्यत्र सन्धिः विभज्यताम्।
५.‘महादानम्’ इत्यत्र समासविग्रहं वदत?
६.‘क्षणिका’ इत्यस्य पदविश्लेषणं वदत?
41.भाषासु मुख्या मधुरा
मूलम् भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम्॥
पदविभागः सुलभः
अन्वयः भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तस्यां हि काव्यं मधुरं तस्माद् अपि सुभाषितम् ॥
प्रतिपदार्थः भाषासु = व्यक्तासु वाक्षु; among (all) languages;
मुख्या = प्रथमगण्या; important;
मधुरा = (अत्र) स्वादु; sweet;
दिव्या = दैवगुणोपेता; divine;
गीर्वाणभारती = देवतानां भाषा; language of gods;
तस्यां हि = तत्र; in that (language/literature);
काव्यं = कविकृतिः; poetry;
तस्मात् अपि = तत्रापि; more than that (compared to that);
सुभाषितम् = सुष्ठु भाषितम्; good saying
तात्पर्यम् व्यक्तावाक्षु प्रथमा, स्वादु, दिव्यगुणयुक्ता च देवभाषा वर्तते। तत्र कविकृतिः मधुरा भवति। तत्रापि सुभाषितं अति मधुरं भवति।
Of all languages, Sanskrit is the most important, sweet and divine. Among her (literature), poetic works are sweet; more sweeter are the good sayings.
प्रश्नाः १.गीर्वाणभारती कीदृशी?
२.तस्मादपि मधुरं किम्?
३.तस्यां हि ------ मधुरं। (रिक्तस्थानं पूरयत।)
४.‘गीर्वाणभारती’ इत्यत्र समासविग्रहं वदत?
५.‘तस्मादपि’ इत्यत्र पञ्चमीविभक्तिः कथम्?
६.भाषासु मुख्या मधुरा- इत्यत्र सप्तमीविभक्तिः कथम्?
42.नाभिषेको न संस्कारः
मूलम् नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः
पदविभागः न अभिषेकः न संस्कारः सिंहस्य क्रियते मृगैः । विक्रम–अर्जित–राज्यस्य स्वयम् एव मृगेन्द्रता ॥
अन्वयः मृगैः सिंहस्य अभिषेकः न (क्रियते)।संस्कारः (अपि) न क्रियते । (स्व)विक्रम–अर्जित–राज्यस्य स्वयम् एव मृगेन्द्रता ॥
प्रतिपदार्थः मृगैः = वन्यपशुभिः; by animals;
सिंहस्य = मृगराजस्य; of lion;
अभिषेकः = सिंहासन-अधिष्ठानवेलायां विशेषस्नानं; coronation;
संस्कारः = विशेषक्रिया, शुद्धीकरणम्; A purificatory rite, a sacred rite or ceremony;
न क्रियते = न आचर्यते; is not done;
विक्रम–अर्जित–राज्यस्य = पराक्रमेण विजितस्य शासन-प्रदेशस्य; of the kingdom earned by prowess, valour;
स्वयम् एव = आत्मना एव; by self (here. self-declared);
मृगेन्द्रता = वन्यपशूनाम् आधिपत्यम्; kingship of animals
तात्पर्यम्
प्रश्नाः १.सिंहस्य किं न क्रियते?
२.कस्य स्वयमेव मृगेन्द्रता?
३.‘विक्रमार्जितराज्यस्य’ इत्यत्र समासविग्रहं वदत?
४.‘मृगेन्द्रता’ इत्यस्य पदविश्लेषणं वदत?
५.स्वयमेव ------। (रिक्तस्थानं पूरयत।)
43.मनस्येकं वचस्येकं
मूलम् मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद्दुरात्मनाम् ॥
पदविभागः मनसि एकं, वचसि एकं, कर्मणि एकंमहात्मनाम् ।मनसि अन्यत्, वचसि अन्यत्, कर्मणि अन्यत् दुरात्मनाम्॥
अन्वयः महात्मनांमनसि एकं, वचसि एकं, कर्मणि (च) एकं (भवति) ।दुरात्मनांमनसि अन्यत्, वचसि अन्यत्, कर्मणि (च) अन्यत् (भवति) ॥
प्रतिपदार्थः मनसि = हृदये; in mind;
एकं = समानं; one (here. same);
वचसि = वाचि; in word;
कर्मणि = आचरणे; in work, deed, action;
महात्मनाम् = महापुरुषाणां; of the noble people;
अन्यत् = असमानं; another (here. different);
दुरात्मनाम् = असत्पुरुषाणां; of the wicked people
तात्पर्यम् महापुरुषाणां हृदि, वचनेषु, कर्मसु च समानत्वं भवति। दुष्टानां पुनः मनसि अन्यत् भवति, तेषां वचनानि असम्बद्धानि भवन्ति, तेषां आचरणं च तद्भिन्नं भवति।
Virtuous people have the same thing in their mind, in their words and in their actions. Wicked people have one thing on their mind, another in the speech and a different thing in their actions. - samayochitapadyamAlikA
प्रश्नाः १.महात्मानः कीदृशाः?
२.दुरात्मानः कीदृशाः?
३.‘मनस्येकं’ इत्यत्र सन्धिः विभज्यताम्।
४.‘कर्मण्यन्यद्दुरात्मनाम्’ इत्यत्र सन्धिः विभज्यताम्।
५.कर्मण्येकं ------। (रिक्तस्थानं पूरयत।)
44.वृथा वृष्टिः समुद्रेषु
मूलम् वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम् ।
(पाठ. तृप्तस्य) वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च ॥ (पाठ. समृद्धस्य) (पाठ. वृथा शूरे विभूषणम्)
पदविभागः (सुलभः)
अन्वयः समुद्रेषु वृष्टिः वृथा।तृप्तेषु भोजनंवृथा। धनाढ्येषु दानं वृथा।दिवा अपि च दीपः वृथा ॥
प्रतिपदार्थः वृथा = निरर्थकम्; waste, useless, futile;
वृष्टिः = वर्षाः; rain;
समुद्रेषु = उदधिषु; among seas;
तृप्तेषु = सन्तुष्टजनेषु; for the satisfied (with food, no longer hungry);
भोजनम् = अन्न(दान)म्; (giving) food, feeding;
दानं = वितरणम्; charity;
धनाढ्येषु = धनिकेषु; rich, wealthy;
दीपः = वर्त्तिस्थ-ज्वलद्-अग्निशिखा; lamp;
दिवा अपि च = दिनसमये; during day time
तात्पर्यम् उदधौ वर्षाणां पातेन न कोऽपि लाभः। ये (पूर्वमेव अन्नेन बुभुक्षाशान्त्या च) तुष्टाः, तेभ्यः भोजनवितरणेन किम्? धनिकजनेभ्यः (धन)दानं व्यर्थकार्यम्। तथैव दिनसमये (सूर्यप्रकाशे सति) दीपज्वलनं निरर्थकम्।
Rain over the ocean, [offering] food for one who has eaten, charity to the wealthy and [lighting] lamp in daylight—all are of no use. (पाठ. समृद्धस्य) = सम्पत्तियुक्तस्य; of the prosperous; (पाठ. वृथा शूरे विभूषणम्) = पराक्रमशालिनः आभूषणं निरर्थकम्; useless is ornament for warrior; (पाठ. तृप्तस्य) = सन्तुष्टस्य; of the satisfied
प्रश्नाः १.समुद्रेषु का वृथा?
२.भोजनं कुत्र वृथा?
३.‘तृप्तेषु’ इत्यत्र सप्तमीविभक्तिः कथम्?
४.वृथा दानं ------। (रिक्तस्थानं पूरयत।)
५.‘धनाढ्येषु’ इत्यत्र समासविग्रहं वदत?
45.ये च मूढतमाः लोके
मूलम् ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥
पदविभागः ये च मूढतमाः लोके ये च बुद्धेः परं गताः । ते एव सुखम् एधन्ते मध्यमः क्लिश्यते जनः ॥
अन्वयः ये च मूढतमाः लोके ये च बुद्धेः परं गताः । ते एव सुखम् एधन्ते। मध्यमः जनः क्लिश्यते ॥
प्रतिपदार्थः ये च = ये जनाः; those who (are);
मूढतमाः = अत्यन्तं जडाः; most ignorant;
लोके = संसारे; in the world;
बुद्धेः = मतेः; in thinking, intellect [lit. of];
परं = सीमापरिच्छिन्नं; Beyond, further, on the other side of;
गताः = प्राप्ताः; went, reached;
ते एव = ते जनाः एव; only those;
सुखम् = आनन्दं; happy;
एधन्ते = प्राप्नुवन्ति; they prosper, become happy, live in comfort;
मध्यमः = द्वयोः स्थित्योः मध्यभवः,नातिजडः, नातिविवेकी; medium;
जनः = नरः, पुरुषः; people;
क्लिश्यते = कष्टमनुभवति; suffer
तात्पर्यम् ये जनाः अत्यन्तं जडाः, ये च विवेकशीलतायाः सीमानं प्राप्ताः- एतौ द्वौ प्रकारकौ सुखं प्राप्नुवन्ति। यः मध्यस्थितौ अस्ति (नाधिकः विवेकी, न अशेषं जडः) सः क्लेशमनुभवति।
Those who are totally foolish and those of superior in intellect -[both] prosper happily in this world. The mediocres [always] suffers. [The foolish do not realize the gravity of a problem and can therefore remain indifferent while the wise manage to find a solution to it. Mediocres neither can solve problem nor be ignorant of it.]
प्रश्नाः १.के सुखमेधन्ते?
२.कः क्लिश्यते?
३.‘मूढतमाः’ इत्यस्य पदविश्लेषणं वदत?
४.ये च ------ परं गताः। (रिक्तस्थानं पूरयत।)
५.‘सुखम् एधन्ते’ इत्यत्र द्वितीयाविभक्तिः कथम्?
46.मूर्खो न हि ददात्यर्थं
मूलम् मूर्खो न हि ददात्यर्थं नरो दारिद्र्यशङ्कया ।
प्राज्ञस्तु वितरत्यर्थं नरो दारिद्र्यशङ्कया ॥
पदविभागः मूर्खः न हि ददाति अर्थं नरः दारिद्र्यशङ्कया ।प्राज्ञः तु वितरति अर्थं नरः दारिद्र्यशङ्कया ॥
अन्वयः मूर्खःनरः दरिद्रयशङ्कया अर्थं न हि ददाति।प्राज्ञः नरः तु दारिद्र्यशङ्कया अर्थंवितरति ॥
प्रतिपदार्थः मूर्खःनरः = बुद्धिहीनःअविवेकी किन्तु स्वं यः बुद्धिमान् मन्यते सः, पण्डितंमन्यः; a fool;
दरिद्र्यशङ्कया = दारिद्र्यं घटिष्यते इति भीत्या; by fear of poverty (lit. because of doubt, apprehension of getting poor);
अर्थं = धनं, वित्तं; money;
न हि ददाति = न (अन्येभ्यः) वितरति; does not give;
प्राज्ञः नरः तु = बुद्धिमान्, विवेकी तु; the wise person;
वितरति = (परेभ्यः) ददाति; gives
तात्पर्यम् अर्धज्ञः ‘दरिद्रो भविष्यामी’ति भयात् धनं न वितरति। विवेकशाली तु दरिद्रो भविष्यामी’ति भयात् धनं वितरति। (अत्र दानेन पुण्यलाभस्य अत्र महत्त्वम्। अविवेकी अस्मिन् जन्मनि लाभं चिन्तयति। बुद्धिमान् अपरजन्मनि पुण्यलाभो भवत्त्विति दानं करोति।)
A fool does not give money [in charity] out of fear that he may become poor [in future]; wise gives away money because of same fear. {Intention- Merit that one gains by giving money to needy people is meant here.}
प्रश्नाः १.मूर्खः किं करोति?
२.प्राज्ञः कुतः अर्थं ददाति?
३.‘दारिद्र्यशङ्कया’ इत्यत्र समासविग्रहं वदत?
४.‘प्राज्ञस्तु’ इत्यत्र सन्धिः विभज्यताम्।
५.‘ददात्यर्थं’ इत्यत्र सन्धिः विभज्यताम्।
६.प्राज्ञस्तु ------। (रिक्तस्थानं पूरयत।)
47.वज्रादपि कठोराणि
मूलम् वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ (पाठ. को नु)
पदविभागः वज्रात् अपि कठोराणि मृदूनि कुसुमाद् अपि लोकोत्तराणां चेतांसि को हि विज्ञातुम् अर्हति ॥
अन्वयः लोकोत्तराणां चेतांसि वज्रात् अपि कठोराणि, कुसुमाद् अपि मृदूनि। को हि विज्ञातुम् अर्हति ॥
प्रतिपदार्थः लोकोत्तराणां = उत्तमजनानां; people apart from the world, extra ordinary, special, great;
चेतांसि = मनांसि; minds;
वज्रात् अपि = मूल्यवत्-शिलायाः अपि; than the Indra’s thunderbolt;
कठोराणि = परुषाणि, अमृदूनि; tough, strong, hard;
कुसुमाद् अपि = प्रसूनात् अपि; than flower;
मृदूनि = सौम्यानि, अपरुषाणि; soft;
को हि = कः हि; who indeed;
विज्ञातुम् = अवगन्तुं, अवबोद्धुं; to know, understand;
अर्हति = पारयति; can, is able
तात्पर्यम् (स्वस्य विषये) वज्रादपि कठोरम्, (अन्येषां विषये) कुसुमादपि मृदु मनः येषां पुरुषश्रेष्ठानां भवति तादृशानां मनसः अवगमने कः समर्थः ?
Minds of great people are harder than [Indra’s] thunderbolt, [yet] softer than flower. Who in this world is capable of understanding them?
प्रश्नाः १.लोकोत्तराणांचेतांसि कीदृशानि?
२.‘लोकोत्तराणां’ इत्यत्र समासविग्रहं वदत?
३.मृदूनि ------। (रिक्तस्थानं पूरयत।)
४.को हि ------। (रिक्तस्थानं पूरयत।)
५.‘कुसुमादपि’ इत्यत्र पञ्चमीविभक्तिः कथम्?
६.‘विज्ञातुम्’ इत्यस्य पदविश्लेषणं वदत?
48.सुखस्य दुःखस्य न कोऽपि
मूलम् सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा ।
(पाठ. कुबुद्धिरेव सा); अहं करोमीति वृथाभिमानः स्वकर्मसूत्रे ग्रथितो हि लोकः॥ (पाठ. पुरातनं कर्म तदेव भुज्यते शरीर हे निस्तर यत्त्वया कृतम्
पदविभागः सुखस्य दुःखस्य न कः अपि दातापरः ददाति इति कुबुद्धिः एषा । अहं करोमि इति वृथा अभिमानःस्वकर्मसूत्रे ग्रथितः हि लोकः।
अन्वयः सुखस्य दुःखस्य दाता न कः अपि (भवति)।परः(सुखदःखौ) ददाति इति एषा कुबुद्धिः (वर्तते)।अहं करोमि इति वृथा अभिमानः। लोकःस्वकर्मसूत्रे ग्रथितः हि ।
प्रतिपदार्थः सुखस्य = आनन्दस्य; of pleasure, happiness;
दुःखस्य = मनःपीडायाः; of pain, misery;
दाता = यः ददाति सः, (अत्र) कारकः; giver (?cause);
न कः अपि = न कः अपि नरः; no one;
परः = अन्यः, अतरः; other;
ददाति = (अत्र) कारयति; gives;
इति = एवं; thus;
एषा कुबुद्धिः = दोषपूर्णचिन्तनम्; this is wrong thinking;
अहं = स्वयं , करोमि = (अत्र) कारणं भवामि; (am) doing;
वृथा = निरर्थकः; futile, waste;
अभिमानः = गर्वः, अहंकारः; self–pride, self–conceit;
लोकः = संसारः, विश्वं; world;
स्वकर्मसूत्रे = स्वकीयाचरणस्य फलपरम्परया; in the series of self–done–deeds;
ग्रथितः हि = निर्बद्धः; is held/tied together
तात्पर्यम् सुखस्य दुःखस्य कारकाः नान्याः। अन्यः कोपि (सुखदःखौ) कारयति इति एषा असाधुबुद्धिः।‘अहं करोमि’ इति व्यर्थःगर्वः। जगत् स्वकर्मतन्तौ ग्रथितः ।
There is no other one who gives us pleasure or pain. The thinking that someone else gives it is totally wrong. The feeling ‘I do’ (I’m the doer) is self–conceit. The world is bonded with the self–‘karma’ [deeds of one’s previous birth] (Whatever happens with us is an effect of our previous birth behaviour).
प्रश्नाः १.का कुबुद्धिः?
२.किमिति वृथाभिमानः?
३.लोकः कुत्र ग्रथितः?
४.‘कुबुद्धिरेषा’ इत्यत्र सन्धिः विभज्यताम्।
५.‘स्वकर्मसूत्रे’ इत्यत्र समासविग्रहं वदत?
६.------ ------ न कोऽपि दाता। (रिक्तस्थानं पूरयत।); पुरातनं कर्म तदेव भुज्यते शरीर हे निस्तर यत्त्वया कृतम् । पुरातनं =; old; कर्म =; deed(s); तद् एव =; that only; भुज्यते =; is experienced, suffered, endured; शरीर हे =; O body; निस्तर =; To pass through, cross over, atone; यत् त्वया =; which, by you; कृतम् =; done
49.बोद्धारो मत्सरग्रस्ताः
मूलम् बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्॥
पदविभागः बोद्धारः मत्सरग्रस्ताः प्रभवः स्मयदूषिताः। अबोध–उपहताः च अन्ये जीर्णम् अङ्गे सुभाषितम्॥
अन्वयः बोद्धारः मत्सरग्रस्ताः। प्रभवः स्मयदूषिताः। अन्ये अबोध–उपहताः च। सुभाषितम् अङ्गे जीर्णम् ॥
प्रतिपदार्थः बोद्धारः = पण्डिताः; scholars;
मत्सरग्रस्ताः = परोत्कर्षासहाः; filled with jealousy;
प्रभवः = पालकाः, अधिपाः; rulers;
स्मयदूषिताः = गर्वभावेनयुक्ताः; spoilt by arrogance;
अन्ये = इतरे; others;
अबोध–उपहताः च = अनवगमनशीलाः; struck by non-understanding;
सुभाषितम् = सुष्ठु उक्तिः; good saying;
अङ्गे = काये; in body;
जीर्णम् = शिथलीभूतम्; used up, Worn out, ruined, wasted, decayed, tattered
तात्पर्यम् विद्वांसःपरेषां अभिवृद्धिं न सहन्ते। अधिपाःदुरभिमानभावेन संयुताः। इतरेजडधियः। (अतः) सुभाषितम् अन्तःएव शिथिलम् ॥
Learned men are jealous, masters are full of arrogance. Other do not understand, [thus] good quote is decayed in [this] body [i.e. me].
प्रश्नाः १.के मत्सरग्रस्ताः?
२.अन्ये कीदृशाः?
३.किमङ्गे जीर्णम्?
४.‘अबोधोपहताः’ इत्यस्य पदविश्लेषणं वदत?
५.‘स्मयदूषिताः’ इत्यत्र समासविग्रहं वदत?
६.------ स्मयदूषिताः। (रिक्तस्थानं पूरयत।)
50.संसारविषवृक्षस्य
मूलम् संसारविषवृक्षस्य द्वे एव मधुरे फले।
(पाठ. द्वे फले अमृतोपमे) सुभाषितं च सुस्वादु सद्भिश्च सह सङ्गमः॥ (पाठ. काव्यामृतरसास्वाद आलापः सज्जनैः सह)
पदविभागः संसार–विष–वृक्षस्य द्वे एव मधुरे फले। सुभाषितंच सुस्वादु सद्भिः च सह सङ्गमः॥
अन्वयः
प्रतिपदार्थः संसार–विष–वृक्षस्य = लोक एव तरुः, तस्य; of the poisonous tree of the world;
द्वे एव = द्विसङ्ख्याविशिष्टा एव; two only;
मधुरे = स्वादुनी; sweet;
फले = वृक्षजात-खाद्यपदार्थ-द्वयं; two fruits;
सुभाषितंच = सुष्टु भाषितं च; good saying;
सुस्वादु = खादने आनन्दजनकं; tasty;
सद्भिः च सह = उत्तमजनैः सह; with noble people;
सङ्गमः = साङ्गत्यं; company
तात्पर्यम् दूषितस्य जगद्-वृक्षस्य द्वे एव स्वादु फले। सुमधुरं सुभाषितं,सज्जनैः च सह साङ्गत्यम्॥
The poisonous tree of the world has only two tasty fruits- Sweet good saying and company of good people. पाठ. द्वे फले अमृतोपमे = अमृततुल्यं फलद्वयं; two fruits equal to divine nectar (ambrosia) पाठ. काव्यामृत-रसास्वाद आलापः सज्जनैः सह = काव्यपठनेन जनितः आनन्दः, सत्पुरुषैः सम्भाषणंच; enjoyment of essence of poetic nectar, and speaking with noble people.
प्रश्नाः १.के कस्य कति मधुरे फले?
२.‘संसारविषवृक्षस्य’ इत्यत्र समासविग्रहं वदत?
३.‘सद्भिश्च’ इत्यत्र सन्धिः विभज्यताम्।
४.‘सद्भिश्च’ इत्यत्र तृतीयाविभक्तिः कथम्?
५.------ च सुस्वादु। (रिक्तस्थानं पूरयत।)?
51. स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
मूलम् स्वभावः न उपदेशेन शक्यते कर्तुम् अन्यथा ।
सुतप्तम् अपि पानीयं पुनः गच्छति शीतताम् ॥
पदविभागः
अन्वयः उपदेशेन स्वभावःअन्यथा कर्तुम् नशक्यते।सुतप्तम् अपि पानीयं पुनः शीतताम् गच्छति ॥
प्रतिपदार्थः उपदेशेन = अवबोधक-वचनेन; by instruction, teaching, advice;
स्वभावः = अन्तःप्रवृत्ति-प्रकृतिः; behaviour, nature;
अन्यथा = भिन्नं; otherwise;
कर्तुम् = कल्पितुं; to do;
नशक्यते = न पार्यते; not possible;
सुतप्तम् अपि = उष्णीकृतमपि; even when boiled well, inspite of boiling well;
पानीयं = जलं; water;
पुनः =; again;
शीतताम् = उष्णहीनत्वं; coldness;
गच्छति = प्राप्नोति; gets (lit. goes)
तात्पर्यम् (नरस्य) प्रकृतिः (सद्वाक्य)अवबोधनेन परिवर्तिर्तुं न शक्यते। वारि (अग्निसंयोगेन) सुष्ठु उष्णीकृतमपि पुनः (वह्निराहित्ये) तापहीनस्थितिं याति।
By giving advice, the nature of a person cannot be done otherwise; even after being well boiled, water reverts to [its original state of] coldness.
प्रश्नाः १.किं केन अन्यथा कर्तुं न शक्यते?
२.अत्र उपमानं किम्?
३.‘पुनर्गच्छति’ इत्यत्र सन्धिः विभज्यताम्।
४.‘सुतप्तम्’ इत्यत्र समासविग्रहं वदत?
५.पुनर्गच्छति ------। (रिक्तस्थानं पूरयत।)
52.यस्मिन्जीवतिजीवन्ति
मूलम् यस्मिन् जीवति जीवन्ति बहवः स तु जीवति ।
(पाठ. सोऽत्र जीवति) काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ (पाठ. वयांसि किं न)
पदविभागः यस्मिन् जीवति जीवन्ति बहवः स तु जीवति । काकः अपि किं न कुरुते चञ्च्वा स्व–उदरपूरणम् ॥
अन्वयः यस्मिन् जीवति जीवन्ति बहवः स तु जीवति । किं काकः अपि चञ्च्वा स्व–उदरपूरणम् न कुरुते ॥
प्रतिपदार्थः यस्मिन् जीवति = यस्य प्राणधारणेन; while living of whom;
जीवन्ति = प्राणान् धरन्ति; live;
बहवः = अधिकजनाः; many;
स तु = सः नरःतु; that (person) indeed;
जीवति = प्राणयुक्तो भवति; lives;
किं = (प्रश्नः); what;
काकः अपि = पक्षिविशेषः अपि; crow also;
चञ्च्वा = मुखेन; by beak;
स्व–उदरपूरणम् = जीवननिर्वहणं, बुभुक्षाशान्तिं; filling own stomach;
न कुरुते = न विदधाति; does it not do
तात्पर्यम् यस्य पुरुषस्य जीवनधारणेन बहूनां जीवनं भवति, (अर्थात् यः अन्येषां जीवनाय साहाय्यको भवति) तस्य जीवनमेव जीवनं नाम। अत्र उपमानं- (क्षुद्रप्राणी) काकः अपि चञ्चुमुपयुज्य स्वस्य बुभुक्षां शमयति। (अर्थात् स्वार्थाय सर्वे जीवन्ति। परार्थाय यः जीवति, तस्य जन्म सफलम्।)
Only such person, indeed, lives, by whose living, live many. Does even a crow not fill its stomach with its beak?
प्रश्नाः १.कः जीवति?
२.काकः किं करोति?
३.‘यस्मिन् जीवति’ इत्यत्र सप्तमीविभक्तिः कथम्?
४.‘काकोऽपि’ इत्यत्र सन्धिः विभज्यताम्।
५.‘चञ्च्वा’ इत्यत्र तृतीयाविभक्तिः कथम्?
६.‘स्वोदरपूरणम्’ इत्यत्र समासविग्रहं वदत?
53.यथा चित्तं तथा वाचो
मूलम् यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।
(पाठ. तथा वाक्यं) चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥
पदविभागः यथा चित्तं तथा वाचः यथा वाचः तथा क्रियाः । चित्ते वाचि क्रियायां च साधूनाम् एकरूपता ॥
अन्वयः
प्रतिपदार्थः यथा चित्तं = मनः अनुसृत्य; as the mind;
तथा वाचः = अनुगामि वचनं; so the words;
तथा क्रियाः = अनुगामीनि कार्याणि; so the deeds;
चित्ते = मनसि; in mind;
वाचि = वचने; in speech;
क्रियायांच = कार्याचरणे; in deeds as well;
साधूनाम् = उत्तमजनानां; of the noble;
एकरूपता = समानत्वं; one-ness, one form, uniformity
तात्पर्यम् मनः अनुगामिनी वाक्, वचोऽनुगामि कार्यं च (साधूनां भवति। तेषां) मनसि, वचने, कर्मणि च सारूप्यं भवति। (ते त्रिकरणशुद्ध्या व्यवहरन्ति इति भावः।)
As the mind is, so the speech; as the speech is, so the deeds; there is uniformity in the mind, speech and action of the noble.
प्रश्नाः १.क्रियाः किमाश्रित्य भवन्ति?
२.‘साधूनामेकरूपता’ कुत्र?
३.‘वाचस्तथा’ इत्यत्र सन्धिः विभज्यताम्।
४.यथा ------ क्रियाः। (रिक्तस्थानं पूरयत।)
५.चित्ते वाचि ------ च। (रिक्तस्थानं पूरयत।)
६.‘एकरूपता’ इत्यत्र समासविग्रहं वदत।
54.विषादप्यमृतं ग्राह्यं
मूलम् विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तं अमेध्यादपि काञ्चनम् ॥
पदविभागः विषाद् अपि अमृतं ग्राह्यं बालाद् अपि सुभाषितम् । अमित्राद् अपि सद्वृत्तं अमेध्याद् अपि काञ्चनम् ॥
अन्वयः विषाद् अपि अमृतं ग्राह्यं बालाद् अपि सुभाषितम् (ग्राह्यं)। अमित्राद् अपि सद्वृत्तं (ग्राह्यं)। अमेध्याद् अपि काञ्चनम् (ग्राह्यं) ॥
प्रतिपदार्थः विषाद् अपि = गरलात् अपि; even from poison;
अमृतं = पीयूषं; divine nectar;
ग्राह्यं = स्वीकर्तव्यं; should be accepted, taken;
बालाद् अपि = अल्पवयस्कादपि; even from child;
सुभाषितम् = सुष्ठु भाषितम्; good saying;
अमित्राद् अपि = शत्रोः अपि; even from a foe, enemy;
सद्वृत्तं = सुष्ठु प्रवृत्तिं; good conduct;
अमेध्याद् अपि = मालिन्यात्अपि; from unholy, filthy, foul, dirty, impure;
काञ्चनम् = सुवर्णम्; gold
तात्पर्यम् क्ष्वेलाद् अपि सुधा स्वीकर्तव्या। अप्रौढादपि सुष्ठूक्तं अनुमन्तव्यम्। अरेरपि सद्वर्तनं प्राप्तव्यम्। मलादपि कनकं ग्राह्यम्।
Divine nectar should be extracted even from poison. A good saying should be accepted even from a small child. Good character should be accepted even from enemies. Gold should be extracted even from garbage.
प्रश्नाः १.विषादपि किं ग्राह्यम्?
२.सद्वृत्तं कस्मात् ग्राह्यम्?
३.बालादपि ------। (रिक्तस्थानं पूरयत।)
४.------ काञ्चनम्। (रिक्तस्थानं पूरयत।)
५.‘बालादपि’इत्यत्र सन्धिः विभज्यताम्।
६.‘अमित्र’ इत्यत्र समासविग्रहं वदत?
55.अलिरनुसरति परिमलं
मूलम् अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयनिपुणम् ।
निम्नमनुसरति सलिलं विधिलिखतं बुद्धिरनुसरति ॥
पदविभागः अलिः अनुसरति परिमलं लक्ष्मीः अनुसरति नयनिपुणम् । निम्नम् अनुसरति सलिलं विधिलिखतं बुद्धिः अनुसरति ॥
अन्वयः अलिः परिमलं अनुसरति। लक्ष्मीः नयनिपुणम् अनुसरति। सलिलं निम्नम् अनुसरति। बुद्धिः विधिलिखतं अनुसरति ॥
प्रतिपदार्थः अलिः = मधुपः; black bee;
परिमलं = सुगन्धं; frangrance;
अनुसरति = पृष्ठतः गच्छति; follows, goes behind;
लक्ष्मीः = श्रीः; Goddess of wealth;
नयनिपुणम् = युक्तियुक्तं; morally strong;
सलिलं = जलं; water;
निम्नम् = अनुत्तुङ्गं स्थानं; slope (low-lying region);
बुद्धिः = मतिः; perception;
विधिलिखतं = कर्मफलत्वात् प्राप्तं; ordained by destiny (lit. written by fate)
तात्पर्यम् भृङ्गः सौरभमनुयाति। धनदेवी उपायवन्तं नरमनुगच्छति। वारि अधःस्तात् स्थितिमनुव्रजति। विवेकः ललाटलिखितमाश्रित्य चलति।
Bee follows fragrance; Goddess Lakṣmī goes to the morally strong; water follows slope; the perception follows what is ordained by destiny.
प्रश्नाः १.अलिः किमनुसरति?
२.किं निम्नमनुसरति?
३.‘बुद्धिरनुसरति’ इत्यत्र सन्धिः विभज्यताम्।
४.लक्ष्मीरनुसरति ------। (रिक्तस्थानं पूरयत।)?
५.‘विधिलिखतं’ इत्यत्र समासविग्रहं वदत?
६.‘नयनिपुणम्’ इत्यत्र समासविग्रहं वदत?
56.उपदेशो हि मूर्खाणां
मूलम् उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥
पदविभागः उपदेशः हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥
अन्वयः मूर्खाणां उपदेशः प्रकोपाय हि, न शान्तये । भुजङ्गानां पयःपानं केवलं विषवर्धनम् ॥
प्रतिपदार्थः उपदेशः = उपबोधः; instruction;
मूर्खाणां = अविवेकिनां; of idiots;
प्रकोपाय = कोप-उद्दीपनाय; for fury, rage, violent anger;
न शान्तये = शमनाय; not for pacification;
पयःपानम् = दुग्धपानं; drinking milk;
भुजङ्गानां = सर्पाणां; of snake;
केवलं = तदेव नान्यत्; only;
विषवर्धनम् = गरलस्याधिक्य-कारणम्; causing poisongrowth
तात्पर्यम् मूढानाम् उपबोधः निश्चयमेव कोपोपचयाय, न निर्वृतये। सर्पाणांदुग्धपानं केवलं गरलस्य संवर्धकम् ॥
Instruction to the foolish leads to more violent anger than pacification. Snakes’ drinking milkonly serves to increase poison.
प्रश्नाः १.किं प्रकोपाय?
२.किं विषवर्धनम्?
३.‘प्रकोपाय’ इत्यत्र चतुर्थीविभक्तिः कथम्?
४.‘विषवर्धनम्’ इत्यत्र समासविग्रहं वदत?
५.‘भुजङ्गानां’ इत्यस्य पदविश्लेषणं वदत?
६.------ भुजङ्गानां केवलं विषवर्धनम्। (रिक्तस्थानं पूरयत।)?
57.कोऽन्धो योऽकार्यरतः
मूलम् कोऽन्धो योऽकार्यरतः को बधिरो यो हितानि न शृणोति ।
को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ --प्रश्नोत्तररत्नमालिका
पदविभागः कः अन्धः यः अकार्यरतः कः बधिरः यः हितानि न शृणोति । कः मूकः यः काले प्रियाणि वक्तुं न जानाति ।
अन्वयः
प्रतिपदार्थः कः = कः नरः; who;
अन्धः = दृष्टिहीनः; blind;
यः = यः नरः; one who;
अकार्यरतः = दुष्ट-पाप-निषिद्ध-हेय-कार्यं यः करोति; rejoices in improper, unworthy or bad act, a criminal or sinful action;
बधिरः = श्रवणशक्तिविहीनः; deaf;
हितानि = श्रेयस्कराणि वचांसि (उपदेशान्); good/ beneficial words;
न शृणोति = नाकर्णयति, आचरति वा; does not listen;
मूकः = वक्तुमसमर्थः,व्यक्तवाचः न वक्तुं पारयति यः; dumb;
काले = यथासमये; in time;
प्रियाणि = मनःप्रसादकारकाणिवचांसि; good words;
वक्तुं = भाषितुं; to speak;
न जानाति = नावबोधति; does not know
तात्पर्यम् (अत्रअन्ध-बधिर-मूकानां नैतिकरीत्या निर्वचनं दीयते।) तादृशः पुरुषः दृष्टिहीनः, यः दुष्कार्याणि आचरति। श्रोतृहीनः तद्विधः यः भद्रप्रदवाक्यानि नावधारयति। स नरः वचनशक्तिहीनः यः समयोचितं मनःप्रशामकवचांसि वक्तुं न जानाति।
Who is blind? He who is involved in bad actions. Who is deaf? He who does not listen to good advice. Who is dumb? He who cannot speak pleasant words at appropriate time.
प्रश्नाः १.अन्धः कः?
२.कः मूकः?
३.‘योऽकार्यरतः’ इत्यत्र सन्धिः विभज्यताम्।
४.यो ------ न शृणोति। (रिक्तस्थानं पूरयत।)?
५.‘प्रियाणि’इत्यत्र द्वितीयाविभक्तिः कथम्?
58.पूर्वजन्मकृतं कर्म
मूलम् पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।
तस्मात् पुरूषकारेण यत्नं कुर्यादतन्द्रितः ॥
पदविभागः पूर्वजन्मकृतं कर्म तद् दैवम् इति कथ्यते ।तस्मात् पुरूषकारेण यत्नं कुर्याद् अतन्द्रितः ॥
अन्वयः पूर्वजन्मकृतं कर्म तद् दैवम् इति कथ्यते ।तस्मात् अतन्द्रितः पुरूषकारेण यत्नं कुर्याद् ॥
प्रतिपदार्थः पूर्वजन्मकृतं = गते जन्मनि कृतं; done in previous births (life-times);
कर्म = आचरितं; action, deed(s);
तद् = तत्कर्म; that;
दैवम् = भाग्यं; luck, destiny, fate;
इति कथ्यते = एवं उच्यते; thus said;
तस्मात् = अतः; therefore;
अतन्द्रितः = आलस्येन, निद्रया वा विना; without being sleepy;
पुरूषकारेण = मानवप्रयत्नेन; by human effort;
यत्नं = प्रयत्नं; trial, attempt, endeavour;
कुर्याद् = आचरेत्; should be done
तात्पर्यम् गते जन्मनि आचरितं कार्यमेवभाग्यम् इति उच्यते ।अतः पुरूषप्रयत्नेन अविच्छिन्नः प्रयत्नं कुर्यात् ॥
The actions of previous birth are known as daiva (destiny). One should therefore make endeavours by human efforts without relaxation [to undo them].
प्रश्नाः १.किं दैवमिति कथ्यते?
२.किं कथं च कुर्यात्?
३.‘पूर्वजन्मकृतं’ इत्यत्र समासविग्रहं वदत?
४.‘तद्दैवमिति’ इत्यत्र सन्धिः विभज्यताम्।
५.यत्नं कुर्याद् ------। (रिक्तस्थानं पूरयत।)?
59.दानेन तुल्यो विधिरस्ति
मूलम् दानेन तुल्यो विधिरस्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
(पाठ. लोभान्न चान्योऽस्ति) विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥
पदविभागः दानेन तुल्यः विधिः अस्ति न अन्यः लोभात्च न अन्यः अस्ति रिपुः पृथिव्याम्। विभूषणं शीलसमं च न अन्यत् सन्तोषतुल्यं धनम् अस्ति न अन्यत् ॥
अन्वयः दानेन तुल्यः विधिः न अन्यःअस्ति।पृथिव्याम् लोभात् च न अन्यः रिपुः अस्ति। शीलसमं विभूषणं न च अन्यत्। सन्तोषतुल्यं धनम् न अन्यत् अस्ति॥
प्रतिपदार्थः दानेन तुल्यः = (धनादीनां) अस्वकरणेन समः; same as, similar, comparable to charity;
विधिः = विहितमाचरणं; ritual;
पृथिव्याम् = भूमौ; on earth;
लोभात् न अन्यः = अतिलिप्सायाः इतरः; nothing else than greed;
रिपुः = शत्रुः; enemy;
शीलसमं =; like character;
विभूषणं = आभूषणं; jewel, ornament;
सन्तोषतुल्यं = सन्तुष्ट्या समं; like happiness;
धनम् = वित्तं; money;
न अन्यत् = न इतरत्; nothing else;
अस्ति = वर्तते; is there
तात्पर्यम् (धनकनकादीनाम् अन्येभ्यः) वितरणेन तुल्यं (महत्)कार्यं; अत्याकाङ्क्षायाः अन्यः अरिः; शीलमिव अलङ्कारः; सन्तुष्टिवत् वित्तं चधरायां न विद्यते।
There is no ritual equal to charity; there is no enemy other than greed on earth; there is no other ornament similar to good character; there is no other wealth same as contentment.
प्रश्नाः १.केन तुल्यो विधिः नास्ति?
२.केन तुल्यं धनं नास्ति?
३.विभूषणं ------ न चान्यत् । (रिक्तस्थानं पूरयत।)?
४.‘शीलसमं’ इत्यत्र समासविग्रहं वदत?
५.‘लोभाच्च’ इत्यत्र सन्धिः विभज्यताम्।
६.‘नान्योऽस्ति’ इत्यत्र सन्धिः विभज्यताम्।
a.संरोहत्यग्निना दग्धं
मूलम् संरोहत्यग्निना दग्धं वनं परशुना हतम् ।
(पाठ. रोहते सायकैर्विद्धं) वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥
पदविभागः संरोहति अग्निना दग्धं वनं परशुना हतम् ।वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥
अन्वयः वनं अग्निना दग्धं, परशुना हतं संरोहति।वाचा दुरुक्तं बीभत्सं वाक्क्षतम् न संरोहति ॥
प्रतिपदार्थः वनं = अरण्यं; forest;
अग्निना = वह्निना; by fire;
दग्धं = ज्वलितं; burnt;
परशुना = छेदनपरिकरेण; by axe;
हतम् = मारितं; killed, destroyed;
संरोहति = प्रवर्धते; grows well;
वाचा = वचसा; by words;
दुरुक्तं = पीडाकारिवचनं; offensive speech, reproach, abuse, censure;
बीभत्सं = व्यवस्थाभङ्गः, दुष्परिणामः; loathsome;
वाक्क्षतम् = वचसा; wounded by words
तात्पर्यम् पावकेन भस्मीकृतमपि, परशुना छिन्नमपि काननं पुनः प्ररोहति; किन्तु वाचा आहतं दुर्घटितं पुनः न साधु भवति।
The forest burnt by fire or destroyed by axe grows again; but the mind wounded by [harsh] words will never be healed. पाठभेदः-- रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥महाभारतम्. १३.१०८.५८॥ पाठ. रोहते सायकैर्विद्धं - pāṭha. rohate sāyakairviddhaṃ; रोहते =; grows; सायकैः =; by arrows; विद्धं =; Pierced, penetrated; wounded, stabbed
प्रश्नाः १.किं संरोहति?
२.किं न संरोहति?
३.‘संरोहत्यग्निना’ इत्यत्र सन्धिः विभज्यताम्।
४.‘वाक्क्षतम्’ इत्यत्र समासविग्रहं वदत?
५.‘बीभत्सं’ इत्यस्य पदविश्लेषणं वदत?
६.‘वाचा’ इत्यत्र तृतीयाविभक्तिः कथम्?
60.अहो दुर्जनसंसर्गात्
मूलम् अहो दुर्जनसंसर्गात् मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥
पदविभागः अहो, दुर्जनसंसर्गात् मानहानिः पदे पदे । पावकः लोहसङ्गेन मुद्गरैः अभिताड्यते ॥
अन्वयः अहो, दुर्जनसंसर्गात् पदे पदे मानहानिः। पावकः लोहसङ्गेन मुद्गरैः अभिताड्यते ॥
प्रतिपदार्थः अहो = धिक्; oh;
दुर्जनसंसर्गात् = दुष्टजनानां साङ्गत्यात्; by association of wicked;
पदे पदे = सर्वदा, सर्वत्र; in every step;
मानहानिः = आत्माभिमानस्य क्षतिः; humiliation, mortification, insult, indignity;
पावकः = अग्निः; fire;
लोहसङ्गेन = अयःसाङ्गत्येन; in (lit. by) company of iron;
मुद्गरैः = द्रुघणैः, अयोघनैः; by hammers;
अभिताड्यते = अभिहन्यते; is beat, hit
तात्पर्यम् धिक्, कुबुद्धीनां सङ्गतौ गते सति, पदे पदे आत्मसंमाननस्य अपायः घटते। अयःपिण्डेन साकं भूत्वा वह्निरपि लोष्ठभेदकैः निहन्यते।
There is insult at every step when in company of wicked. Fire is hit well with hammers when it associates with iron.
प्रश्नाः १.केन मानहानिः?
२.कः केन कैः अभिताड्यते?
३.‘दुर्जनसंसर्गात्’ इत्यत्र समासविग्रहं वदत?
४.‘मुद्गरैरभिताड्यते’ इत्यत्र सन्धिः विभज्यताम्।
५.दुर्जनसंसर्गात् ------ पदे पदे। (रिक्तस्थानं पूरयत।)?
६.‘पावकः’ इत्यस्य पदविश्लेषणं वदत?
61.माता मित्रं पिता चेति
मूलम् माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥
पदविभागः माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् ।कार्यकारणतः च अन्ये भवन्ति हितबुद्धयः ॥
अन्वयः माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । अन्ये च कार्यकारणतः हितबुद्धयः भवन्ति ॥
प्रतिपदार्थः माता = अम्बा; mother;
मित्रं = सखा; friend;
पिता = जनकः; father;
च इति = च; and thus;
स्वभावात् = प्रकृत्या; by nature;
त्रितयं = त्रयः; three-some;
हितम् = श्रेयः; benefit, welfare;
अन्ये च = इतरे; and others;
कार्यकारणतः = व्यापारकारणेन; on purpose of [some] work;
हितबुद्धयः = उपकारपराः; having sense of welfare, a well-wisher;
भवन्ति = वर्तन्ते; they are
तात्पर्यम् जननी-जनकौ, सुहृदश्च (अकृत्रिमं) प्रकृत्या श्रेयःकारकाः भवन्ति। इतरे सर्वे केनचित् कार्यादिव्याजेन अनुग्रहपराः भवन्ति।
Mother, father, and friend- these three are benefitial by nature; others become well wishers on purpose of [some] work.
प्रश्नाः १.किं त्रितयं हितम्?
२.अन्ये कीदृशाः?
३.‘कार्यकारणतश्चान्ये’ इत्यत्र सन्धिः विभज्यताम्।
४.‘हितबुद्धयः’ इत्यत्र समासविग्रहं वदत?
५.‘कार्यकारणतः’ इत्यत्र समासविग्रहं वदत?
६.‘स्वभावात्’ इत्यस्य पदविश्लेषणं वदत?
62.विवेकः सह संपत्त्या
मूलम् विवेकः सह सम्पत्त्या विनयो विद्यया सह ।
प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥
पदविभागः विवेकः सह सम्पत्त्या विनयः विद्यया सह । प्रभुत्वं प्रश्रय–उपेतं चिह्नम् एतत् महात्मनाम् ॥
अन्वयः विवेकः सम्पत्त्या सह, विनयः विद्यया सह, प्रभुत्वं प्रश्रय–उपेतं, एतत् महात्मनाम् चिह्नम्॥
प्रतिपदार्थः विवेकः = याथार्थ्येन वस्तु-स्वरूपावधारणं; discriminating (between two things), consideration;
सम्पत्त्या सह = धनातिरिच्येन साकं; along with wealth;
विनयः = अगर्वः; humbleness;
विद्यया सह = ज्ञानेन साकं; along with learning;
प्रभुत्वं = अधिकारः; command, power;
प्रश्रय–उपेतं = सौजन्ययुक्तं; endowed with respect, courtesy, civility, politeness;
एतत् = इदं; this;
महात्मनाम् = उत्तमजनानां; of great people;
चिह्नम् = लक्षणम्; mark, symbol
तात्पर्यम् धनाधिक्येन सह विवेचनं, ज्ञानेन साकं निरभिमानित्वं, आधिपत्येन सार्धं अनौद्धत्यं च सत्पुरुषाणां लक्ष्म भवति।
Consideration with wealth, humbleness with scholarship, (and) power with politeness- these are the indications of the noble.
प्रश्नाः १.सम्पत्त्या कोऽपेक्षितः?
२.विनयः केनापेक्षितः?
३.किं महात्मनां चिह्नम्?
४.प्रभुत्वं ------। (रिक्तस्थानं पूरयत।) ?
५.‘चिह्नमेतन्महात्मनाम्’ इत्यत्र सन्धिः विभज्यताम्।
६.‘प्रश्रयोपेतं’ इत्यत्र समासविग्रहं वदत?
63.षड् दोषाः पुरूषेणेह
मूलम् षड्दोषाः पुरूषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ (पाठ. तन्द्रीर्भयं)
पदविभागः षड्-दोषाः पुरूषेण इह हातव्या भूतिम् इच्छता ।निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
अन्वयः भूतिम् इच्छता पुरूषेण इह षड्-दोषाः हातव्या ।निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥
प्रतिपदार्थः भूतिम् = विभवं; prosperity;
इच्छता = प्राप्तुकामेन; by the one who desires;
पुरूषेण = नरेण; by the man;
इह = अत्र, तावत्; here;
षड्-दोषाः = षट्-सङ्ख्यामिताः अपचयाः; six faults, defects, weak points;
हातव्या = निरोद्धव्याः; should be killed;
निद्रा = शयनं; sleep;
तन्द्रा = ईषन्निद्रा; sluggishness, indisposed to action or exertion. lacking in energy, lazy, indolent;
भयं = भीतिः; fear;
क्रोधः = कोपः; anger, rage;
आलस्यं = मन्दत्वं; laziness;
दीर्घसूत्रता = अव्यवसायशीलत्वं; keeping works pending (working slowly, slow, dilatory, procrastinating)
तात्पर्यम् यः वैभवमिच्छति, तेन नरेण तावत् षड्-दोषाः अपाकर्तव्याः।ते दोषाः-- (अति)शयनं, कार्यद्वेषः,धैर्यराहित्यं,शान्तिराहित्यं, मन्दत्वं, चिरक्रियता च।
One, who wishes to prosper in this world, should get rid of the following six faults too much sleep, lethargy, fear, anger, laziness, and procrastination.
प्रश्नाः १.के षड्दोषाः?
२.षड्दोषाः केन हातव्याः?
३.‘षड्दोषाः’ इत्यत्र सन्धिः विभज्यताम्।
४.‘दीर्घसूत्रता’ इत्यत्र समासविग्रहं वदत?
५.षड्दोषाः ------ हातव्याः। (रिक्तस्थानं पूरयत।)?
६.‘पुरुषेण’ इत्यत्र तृतीयाविभक्तिः कथम्?
64.विद्या ददाति विनयं
मूलम् विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मस्ततः सुखम् ॥
पदविभागः विद्या ददाति विनयं विनयात् याति पात्रताम् ।पात्रत्वात् धनम् आप्नोति धनात् धर्मः ततः सुखम् ॥
अन्वयः विद्या विनयं ददाति। विनयात् पात्रताम् याति।पात्रत्वात् धनम् आप्नोति। धनात् धर्मः ततः सुखम् (च आप्नोति)॥
प्रतिपदार्थः विद्या = ज्ञानं; education;
विनयं = अगर्वः; humbleness;
ददाति = प्रददाति; gives, bestows;
विनयात् = अगर्वात्; from humbleness;
पात्रताम् = योग्यतां; eligibility;
याति = प्राप्नोति; reaches;
पात्रत्वात् = योग्यतायाः; from eligibility;
धनम् = वित्तं; money;
आप्नोति = अर्जति; obtains;
धनात् = वित्तात्; from money;
धर्मः = पुण्यकर्माणि; merit;
ततः = तस्मात्; thence, from that;
सुखम् = आनन्दं; happiness
तात्पर्यम् ज्ञानेनअगर्वम्, अगर्वेण योग्यतां, योग्यतायाःवित्तं, वित्तेन धर्माचरणं, धर्माचरणेन च आनन्दं प्राप्नोति नरः ।
Knowledge brings in humbleness; by humbleness one reaches eligibility; by eligibility, one obtains wealth; wealth brings in [ability to do] good deeds/merit [helps in indulging in (religious) meritorious activities]; from that arises happiness.
प्रश्नाः १.विद्या किं ददाति?
२.केन सुखमाप्नोति?
३.‘पात्रत्वाद्धनमाप्नोति’ इत्यत्र सन्धिः विभज्यताम्।
४.‘धनाद्धर्मस्ततः’इत्यत्र सन्धिः विभज्यताम्।
५.‘विनयात्’ इत्यत्र पञ्चमीविभक्तिः कथम्?
६.------ पात्रताम्। (रिक्तस्थानं पूरयत।)?
65.न विश्वसेत् कुमित्रे
मूलम् न विश्वसेत् कुमित्रे च मित्रे चापि न विश्वसेत्।
(पाठ. अविश्वस्ते) कदाचित् कुपितं मित्रं गुप्तं दोषं प्रकाशयेत्॥
पदविभागः न विश्वसेत् कुमित्रे च मित्रे च अपि न विश्वसेत्। कदाचित् कुपितं मित्रं गुप्तं दोषं प्रकाशयेत्॥
अन्वयः कुमित्रे न विश्वसेत्। (न) च मित्रे च अपि विश्वसेत्। कदाचित् कुपितं मित्रं गुप्तं दोषं प्रकाशयेत्॥
प्रतिपदार्थः कुमित्रे = दुष्टमित्रे; in bad friend;
न विश्वसेत् = विश्वासं न कुर्यात्; should not trust in;
मित्रे = (सन्)मित्रे; in friend;
च अपि = च; also, as well;
कदाचित् = कस्मिंश्चित् समये; at some time or other;
कुपितं = कोपं प्राप्तं; angry;
गुप्तं = गुह्यविषयं, रहस्यं; private, secret;
दोषं = असाध्वंशं, प्रमादघटितं वा; fault, defect;
प्रकाशयेत् = अन्यान् वदेत्; disclose, unfold, bring out
तात्पर्यम् दुष्टे सखायां न विश्वासः कार्यः। सन्मित्रोऽपिन विश्वासयोग्यः। कदाचित् यदि मित्रं कुपितं भवति, तेन गोपनीयविषयाः, अपराधाः प्रकाशिता भवेयुः॥
One should not trust in bad friend and not even a friend as well. At some point of time, the angry friend might disclose [our] secret faults.
प्रश्नाः १.कस्मिन् कस्मिन् न विश्वसेत्?
२.कुतः न विश्वसेत्?
३.‘प्रकाशयेत्’ इत्यस्य पदविश्लेषणं वदत?
४.मित्रे चापि न ------। (रिक्तस्थानं पूरयत।)?
५.‘कुमित्रे’ इत्यत्र केन सप्तमी?
66.शाठ्येन मित्रं कपटेन
मूलम् शाठ्येन मित्रं कपटेन धर्मं परोपतापेन समृद्धभावम् ।
सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये नूनमपण्डितास्ते ॥ -सुभाषितसुधानिधिः
पदविभागः शाठ्येन मित्रं कपटेन धर्मं परोपतापेन समृद्धभावम् । सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये नूनम् अपण्डिताः ते॥
अन्वयः ये शाठ्येन मित्रं (वाञ्छन्ति), कपटेन धर्मं (वाञ्छन्ति), परोपतापेन समृद्धभावम् (वाञ्छन्ति) सुखेन विद्यां (वाञ्छन्ति) परुषेण नारीं वाञ्छन्ति, ते नूनम् अपण्डिताः ॥
प्रतिपदार्थः ये = ये जनाः; those who;
शाठ्येन = धूर्तत्वेन; by deceit, fraud;
मित्रं = सुहृत्; friend;
कपटेन = छलेन; by trick, cheating;
धर्मं = पुण्याचरणं; merit;
परोपतापेन = इतरेषां पीडनेन; by causing trouble, distress, pain, sorrow to others;
समृद्धभावम् = सम्पत्तिं; Prosperity, abundance;
सुखेन = आनन्देन; by comfort;
विद्यां = ज्ञानं; knowledge;
परुषेण = रूक्षव्यवहारेण; by hardness, roughness;
नारीं = महिलां; woman;
वाञ्छन्ति = इच्छन्ति; (they) desire;
ते = ते जनाः; they;
नूनम् = निश्चयं; certainly;
अपण्डिताः = अविवेकिनः; foolish, ignorant
तात्पर्यम् ये जनाः वञ्चनया सखायं प्राप्तुमिच्छन्ति, दम्भेन (प्रतारणेन) शुभादृष्टम्, अन्येषाम् अशुभकरणेन अतिशयसम्पत्तिं, सुखमुषित्वा विद्यां, निष्ठुरतया स्त्रियं च लब्धुमिच्छन्ति, ते जनाः निश्चयेन मूर्खाः।
They are fools- who desire to get friend by deceit, earn dharma by cheating, achieve prosperity by troubling others, attain learning by comfort, win woman by harshness.
प्रश्नाः १.के अपण्डिताः?
२.अपण्डिताः केन समृद्धभावं वाञ्छन्ति?
३.‘शाठ्येन’ इत्यत्र तृतीयाविभक्तिः कथम्?
४.‘समृद्धभावम्’ इत्यत्र समासविग्रहं वदत?
५.‘नूनमपण्डितास्ते’ इत्यत्र सन्धिः विभज्यताम्।
६.------ ये नूनमपण्डितास्ते। (रिक्तस्थानं पूरयत।)?
67.सन्तोषः परमो लाभः
मूलम् सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः।
विचारः परमं ज्ञानं शमो हि परमं सुखम्॥
पदविभागः सन्तोषः परमः लाभः सत्सङ्गः परमा गतिः। विचारः परमं ज्ञानं शमः हि परमं सुखम्॥
अन्वयः
प्रतिपदार्थः सन्तोषः = सन्तुष्टिः; Satisfaction, contentment;
परमः = उन्नतः, उत्कृष्टः; greatest, utmost;
लाभः = उपकारः; acquisition, obtaining, gain;
सत्सङ्गः = उत्तमानां सङ्गतिः; company of the good;
गतिः = मार्गः; means, expedient, course, alternative;
विचारः = चिन्तनं; Reflection, deliberation, thought, consideration;
ज्ञानं = अवबोधः; knowledge;
शमः = शान्तिः; Quiet, tranquility, calmness;
हि = अवश्यं; indeed;
सुखम् = आनन्दः; happiness, comfort
तात्पर्यम् सन्तुष्टिः उत्कृष्टः लाभः; सतां साहचर्यं उत्तमो गमनमार्गः; चिन्तनं सर्वोन्नतं समधिगमः; शान्तिः परमं सुखम्।
Satisfaction is the highest gain; company of the good- utmost means.Thinking [deep] is the supreme wisdom, and calmness, the excellent enjoyment.
प्रश्नाः १.कः परमो लाभः?
२.कः परमा गतिः?
३.------ परमं ज्ञानं। (रिक्तस्थानं पूरयत।)?
४.‘सत्सङ्गः’ इत्यस्य पदविश्लेषणं वदत?
५.शमो हि परमं सुखम्—अत्र लिङ्गप्रयोगविशेषं वदत?
68.कुलं वित्तं श्रुतं
मूलम् कुलं वित्तं श्रुतं रूपं शौर्यं दानम् तपस्तथा।
प्राधान्येन मनुष्याणां सप्तैते मदहेतवः॥
पदविभागः कुलं वित्तं श्रुतं रूपं शौर्यं दानम् तपः तथा। प्राधान्येन मनुष्याणाम् सप्त एतेमदहेतवः॥
अन्वयः कुलं वित्तं श्रुतं रूपं शौर्यं दानम् तथा तपः- प्राधान्येन एते सप्त मनुष्याणाम् मदहेतवः॥
प्रतिपदार्थः कुलं = कुटुम्बः, वंशः; family, clan;
वित्तं = अर्थः, धनं; money;
श्रुतं = ज्ञानं; knowledge;
रूपं = सौन्दर्यं; beauty;
शौर्यं = वीरत्वं; valour;
दानम् = वितरणं; charity;
तपः = कायक्लेशनपूर्वकः इष्टसिद्ध्यर्थकः प्रयत्नः; penance;
तथा = तत्समानं, इव; and;
प्राधान्येन = मुख्यरूपेण; chiefly;
मनुष्याणाम् = नराणाम्; of men;
सप्त एते = सप्तसङ्ख्याविशिष्टाः; these seven;
मदहेतवः = गर्वस्य अथवा हर्षकारणानि; causes of arrogance, Intoxication
तात्पर्यम् (उत्तम)वंशः (तत्र जन्मलाभः), (प्रभूतं)धनं, (विपुलं) ज्ञानं, (अतिशयितं) लावण्यं, (अत्यर्थः) पराक्रमः, (भूयिष्ठं धनादीनां) अस्वकरणं, (महत् च) तपस्या— इत्येते नरे आमोदस्य कारणानि भवन्ति।
Family, wealth, education, beauty, valour, charity and penance are primarily the seven reasons for arrogance of the people.
प्रश्नाः १.के केषां मदहेतवः?
२.‘सप्तैते’ इत्यत्र सन्धिः विभज्यताम्।
३.‘प्राधान्येन’ इत्यत्र तृतीयाविभक्तिः कथम्?
४.‘मदहेतवः’ इत्यत्र समासविग्रहं वदत?
५.------ सप्तैते मदहेतवः। (रिक्तस्थानं पूरयत।)?
६.‘तपस्तथा’ इत्यत्र सन्धिः विभज्यताम्।
69.अभ्यासाद्धार्यते विद्या
मूलम् अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते।
गुणैर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते॥
पदविभागः अभ्यासात् धार्यते विद्या कुलं शीलेन धार्यते। गुणैः मित्राणि धार्यन्ते अक्ष्णा क्रोधः च धार्यते॥
अन्वयः अभ्यासात् विद्या धार्यते। कुलं शीलेन धार्यते। गुणैः मित्राणि धार्यन्ते। अक्ष्णा क्रोधः च धार्यते॥
प्रतिपदार्थः अभ्यासात् = पुनः पुनः आचरणात्; by practice;
विद्या = ज्ञानं; knowledge;
धार्यते = अवलम्ब्यते; is maintained, preserved, sustained;
कुलं = कुटुम्बः, वंशः; family, clan;
शीलेन = चरित्रेण; by (good) character;
गुणैः = आन्तरिक/अन्तःप्रवृत्तिलक्षणैः; by (good) qualities;
मित्राणि = सुहृदः; friends;
अक्ष्णा = चक्षुषा; by eye;
क्रोधः = कोपोद्वेगः; anger
तात्पर्यम् पौनः पुन्येन अनुष्ठानेन (अर्जितं)ज्ञानम् आधीयते। वंशः सच्चरित्रेन आश्रियते। सखायः स्वभावलक्षणैः परिगृह्यन्ते। कोपः नयनेन धार्यते।
Knowledge is sustained by practice; family or clan runs by conduct; friendship is kept by good qualities; anger is held by eye.
प्रश्नाः १.का अभ्यासाद्धार्यते?
२.अक्ष्णा कः धार्यते?
३.‘धार्यन्ते’ इत्यस्य पदविश्लेषणं वदत?
४.‘अभ्यासाद्धार्यते’ इत्यत्र सन्धिः विभज्यताम्।
५.‘गुणैर्मित्राणि’ इत्यत्र सन्धिः विभज्यताम्।
६.‘अक्ष्णा’ इत्यत्र तृतीयाविभक्तिः कथम्?
70.लोभमूलानि पापानि
मूलम् लोभमूलानि पापानि सङ्कटानि तथैव च ।
लोभात्प्रवर्तते वैरं अतिलोभात् विनश्यति ॥
पदविभागः लोभमूलानि पापानि सङ्कटानि तथैव च ।लोभात् प्रवर्तते वैरं अतिलोभात् विनश्यति ॥
अन्वयः लोभमूलानि पापानि सङ्कटानि तथैव च ।लोभात् प्रवर्तते वैरं अतिलोभात् विनश्यति ॥
प्रतिपदार्थः लोभमूलानि = अतिलिप्सा-कृतानि; caused by greed, avarice. (lit. having roots in covetousness);
पापानि = दुरितानि; Sins, crimes, vices;
सङ्कटानि = विषमस्थितयः; difficulties, risks, perils, dangers;
तथैव च = तत्समानं; also, similarly;
लोभात् = अत्याकाङ्क्षातः; from greed;
वैरं = शत्रुभावः; enmity;
प्रवर्तते = प्ररोहति; arises, happens, begins;
अतिलोभात् = अतिशयित-लौल्यात्; because of extreme greed;
विनश्यति = क्षयं गच्छति; one perishes, is destroyed
तात्पर्यम् पातकानि, कष्टस्थितयः च अतिलिप्साकारणेन भवन्ति। लुब्धत्वात् अरिभावः जायते। अतिगृध्नत्वेन (नरः) विनाशमेति।
Sins and adversities are caused by greed.Enmity arises from greed. And one is destroyed because of extreme greed.
प्रश्नाः १.कानि लोभमूलानि?
२.अतिलोभात् किं भवति?
३.------ प्रवर्तते वैरं। (रिक्तस्थानं पूरयत।)?
४.‘लोभात्’ इत्यत्र पञ्चमीविभक्तिः कथम्?
५.‘लोभमूलानि’ इत्यत्र समासविग्रहं वदत?
६.‘सङ्कटानि’ इत्यस्य पदविश्लेषणं वदत?
71.एकवर्णं यथा दुग्धं
मूलम् एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु ।
तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम् ॥(पाठ. तथा धर्मस्य वैचित्र्ये [..] पुनः)
पदविभागः
अन्वयः एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु तथा एव धर्म-वैचित्र्यं तत्त्वम् एकं परं स्मृतम् ॥
प्रतिपदार्थः एकवर्णं = एकरङ्गकं; one colour;
यथा = यत्प्रकारकं; same as;
दुग्धं = क्षीरं; milk;
भिन्नवर्णासु = असदृश-रङ्गकेषु; in different coloured;
धेनुषु = गोषु; in cows;
तथा एव = वत्; likewise;
धर्म-वैचित्र्यं = धर्मस्य वैविध्यं; variety, diversity of dharma ( = prescribed course of conduct, ordinance, customary observances);
तत्त्वम् = सारः; true or essential nature;
एकं = समानं; one;
परं = अत्यन्तोत्कृष्टं; ultimate, highest point;
स्मृतम् = उक्तम्; regarded, laid down, recorded, mentioned
तात्पर्यम् येन प्रकारेण विविधरङ्गकेषु गोषु पयः एकवर्णकं, तथैव धर्मे वैविध्यं भवति, किन्तु तत्त्वं तु समानं, सर्वोन्नतं च उच्यते।
The milk is of the same colour (that comes out from) in different coloured cows; likewise [though] there is diversity in dharma, its essential nature is ultimately regarded one.
प्रश्नाः १.दुग्धं कीदृशम्?
२.धर्मवैचित्र्यं कीदृशम्?
३.‘तथैव’ इत्यत्र सन्धिः विभज्यताम्।
४.‘भिन्नवर्णासु’ इत्यत्र समासविग्रहं वदत?
५.------ परं स्मृतम्। (रिक्तस्थानं पूरयत।)?
६.‘वैचित्र्यं’ इत्यस्य पदविश्लेषणं वदत?
72.ते पुत्रा ये पितुर्भक्ताः
मूलम् ते पुत्रा ये पितुर्भक्ताः सः पिता यस्तु पोषकः।
तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः॥
पदविभागः ते पुत्राः ये पितुः भक्ताः सः पिता यस्तु पोषकः। तत् मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः॥
अन्वयः
प्रतिपदार्थः ते पुत्राः ये = तादृशाः जनाः एव पुत्रत्वेन मन्यन्तेयादृशाः; those (are) sons who;
पितुः = जनकस्य; of father;
भक्ताः = श्रद्धा-सद्भाव-युक्ताः; attentive (to), attached (to) [Lit. devotees];
सः पिता = तादृशः एव जनकत्वेन आद्रियते; he (is) father;
यः तु = यादृशस्तु; who indeed;
पोषकः = पोषयति; One who maintains or nourishes, a supporter;
तत् मित्रं = तादृशं मित्रमिति वक्तुं शक्यते; that is friend;
यत्र विश्वासः = यस्मिन्; where there is trust;
सा भार्या = तादृशी एव पत्नीत्वेन तिष्ठति; that (lit. she) is a wife;
यत्र निर्वृतिः = यस्यां शान्तिः प्राप्यते; satisfaction, tranquillity, rest, repose
तात्पर्यम् ये पुत्राः पितरि श्रद्धासद्भावयुक्ताः भवन्ति, ते एव (वस्तुतः) पुत्राः (इति नामभाजः)। यः पिता (पुत्रादीन्) सुष्ठु पोषयति, स एव पितृशब्दाय युक्तः। स एव सुहृत्त्वेन व्यवहायोग्यः यस्मिन् आश्वस्ताः भवामः। सैव जायात्वेन वक्तुं योग्या या (पत्ये) सुखकरी भवति।
Sons are those [alone], who are devoted to their father; Father is he [alone] who supports [family]; Friend is that [person alone] where [one can have] trust is; and wife is she where there is tranquillity.
प्रश्नाः १.कः पिता?
२.का भार्या?
३.‘पितुर्भक्ताः’ इत्यत्र सन्धिः विभज्यताम्।
४.‘निर्वृतिः’ इत्यस्य पदविश्लेषणं वदत?
५.तन्मित्रं यत्र ------। (रिक्तस्थानं पूरयत।)?
73.मनसा चिन्तितं
मूलम् मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।
(पाठ. वचसा न) मन्त्रेण रक्षयेद् गूढं कार्ये चापि नियोजयेत्॥
पदविभागः मनसा चिन्तितं कार्यं वाचा न एव प्रकाशयेत्। मन्त्रेण रक्षयेद् गूढं कार्ये च अपि नियोजयेत्॥
अन्वयः
प्रतिपदार्थः मनसा = अन्तरङ्गे; in the mind [Lit. by];
चिन्तितं = विचारितं; thought, contemplated;
कार्यं = उद्देश्यं, प्रयोजनं; plan, idea [lit. work to be done];
वाचा = वचसा; in wordsd [lit. by/ through];
न एव प्रकाशयेत् = न प्रकटयेत्; should not reveal;
मन्त्रेण = गुप्तभाषणेन; Secret plan or consultation;
रक्षयेत् = गोपयेत्; should protect;
गूढं = रहस्येन; a secret;
कार्ये च अपि = कृतौ च; in action;
नियोजयेत् = प्रयोगे विनियोजनं कुर्यात्; should use, employ, expose, put to
तात्पर्यम् चित्ते आध्यातां कृतिं वचसा कदापि न प्रकटयेत्। गुप्तभाषणेन रहसि गोपयित्वा प्रयोगे नियुक्तिं कुर्यात्।
One should not reveal [one’s] idea, thought over in mind, through words. That should be protected by keeping a secret and should be exposed only in action.
प्रश्नाः १.किं कया नैव प्रकाशयेत्?
२.केन कथं रक्षयेत्?
३.कस्मिन् नियोजयेत्?
४.‘मन्त्रेण’ इत्यत्र तृतीयाविभक्तिः कथम्?
५.कार्ये चापि ------। (रिक्तस्थानं पूरयत।)?
६.‘चिन्तितं’ इत्यस्य पदविश्लेषणं वदत?
74.अल्पकार्यकराः सन्ति
मूलम् अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः।
शरत्कालिकनमेघास्ते नूनं गर्जन्ति केवलम्॥
पदविभागः अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः। शरत्–कालिक–मेघाः ते नूनं गर्जन्ति केवलं॥
अन्वयः ये नरा अल्पकार्यकराः बहुभाषिणः सन्ति, ते नूनं शरत्–कालिक–मेघाः केवलं गर्जन्ति॥
प्रतिपदार्थः ये नरा = ये जनाः; those men who;
बहुभाषिणः = अधिकं, वृथा च वदन्तः; who talk more;
सन्ति = वर्तन्ते; they are;
अल्पकार्यकराः = नाधिकं कार्यं कुर्वन्तः; less-working [Lit. less work doing];
शरत्–कालिक–मेघाः = शरदृतौ; autumnal clouds;
ते नूनं = ते मेघाः निश्चयं; They are certainly, assuredly, surely, verily, indeed;
गर्जन्ति = ध्वनिं कुर्वन्ति; roar;
केवलं = मात्रं; only
तात्पर्यम् ये जनाः अधिकं प्रलपन्ते, ते न्यूनं कार्यं कुर्वन्ति। तेषां साम्यं शरदृतौ आच्छन्नाः मेघा इव। केवलं (वर्षसूचकं) ध्वनिं कुर्वन्ति (किन्तु न वर्षन्ति।)
Those people who talk more, do little work; They are indeed like the autumnal clouds, that only roar.
प्रश्नाः १.बहुभाषिणः कीदृशाः?
२.अल्पकार्यकराणां किमुपमानम्?
३.‘बहुभाषिणः’ इत्यत्र समासविग्रहं वदत?
४.‘शरत्कालीनमेघाः’ इत्यत्र समासविग्रहं वदत?
५.‘अल्पकार्यकराः’ इत्यस्य पदविश्लेषणं वदत?
६.नूनं ------ केवलम्। (रिक्तस्थानं पूरयत।)?
75.यः पठति लिखति पश्यति
मूलम् यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धिः॥
पदविभागः यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति। तस्य दिवाकर–किरणैः नलिनीदलम् इव विस्तारिता बुद्धिः।
अन्वयः यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति। तस्य दिवाकर–किरणैः नलिनीदलम् इव बुद्धिः विस्तारिता ।
प्रतिपदार्थः यः = यो जनः; one who;
पठति = अध्ययनं करोति; reads;
लिखति = लेखनं करोति; writes;
पश्यति = अवलोकते; sees;
परिपृच्छति = जिज्ञासया प्रश्नं करोति; asks questions (with a desire to know);
पण्डितान् = विद्वज्जनान्; scholars (obj.);
उपाश्रयति = समीपमेति, आश्रयति; relies upon, depends;
तस्य = तज्जनस्य; his;
दिवाकर–किरणैः = सूर्यरश्मिभिः; by sun’s rays;
नलिनीदलम् इव = कमलपत्रमिव; like the petals of lotus;
बुद्धिः = धीशक्तिः; intellect, understanding;
विस्तारिता = व्याप्ता; expanded, spread
तात्पर्यम् यः नरः (पुस्तकानि) पठति, (सत्साहित्यं) लिखति, (अनुशीलनं कुर्वन्) अवलोकते, (वस्तुतत्त्वं ज्ञातुकामः गुरुजनान् प्रश्नान्) पृच्छति, बहुश्रुतान् उपगच्छति च, तस्य नरस्य धीशक्तिः व्याकोचं प्राप्नोति। अत्रोदाहरणम्- यथा सूर्यमयूखैः कमलपत्राणि विकसितानि भवन्ति तथा।
That person who reads, writes, sees, enquires, relies upon learned men; his intellect expands like the lotus petals expand by the sunrays.
प्रश्नाः १.कस्य विस्तारिता बुद्धिः?
२.तत्र उपमानं किम्?
३.‘दिवाकरकिरणैः’ इत्यत्र समासविग्रहं वदत?
४.‘विस्तारिता’ इत्यस्य पदविश्लेषणं वदत?
५.‘पण्डितान्’ इत्यत्र द्वितीयाविभक्तिः कथम्?
६.------ विस्तारिता बुद्धिः। (रिक्तस्थानं पूरयत।)?
76.चित्ते प्रसन्ने भुवनं प्रसन्नं
मूलम् चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्यात् चित्तप्रसादे प्रथमं यतस्व ॥
पदविभागः चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् । अतः अभिलाषः यदि ते सुखे स्यात् चित्तप्रसादे प्रथमं यतस्व ॥
अन्वयः चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् । अतः यदि ते सुखे अभिलाषः स्यात् चित्तप्रसादे प्रथमं यतस्व ॥
प्रतिपदार्थः चित्ते = मनसि; when mind (is);
प्रसन्ने = सन्तुष्टे, आनन्दिते; when pleased, delighted, propitiated, soothed;
भुवनं = जगत्; world;
विषण्णे = दुःखिते; when dejected, cast down, sad, sarrowful, spiritless, despondent;
अतः = अनेन कारणेन; hence;
यदि = यदि; if;
ते = तव; yours;
सुखे = आनन्दे; in happiness;
अभिलाषः = कामना; desire;
स्यात् = भवेत्; if there is;
चित्तप्रसादे = मनसः सन्तुष्टौ; for [lit. in] mind-propitiation;
प्रथमं = सर्वस्मात् पूर्वं; first;
यतस्व = यत्नं करोतु; try
तात्पर्यम् यदा अन्तरङ्गं परितुष्टं, तदा सर्वलोकः परितुष्टः। यदा अन्तरङ्गं दुःखितं, तदा जगत्सर्वं दुःखितं भवति। (हे पठितः,) अतः यदि तव आकाङ्क्षा सुखेन स्थातुं भवति, तर्हि (समस्तयत्नेभ्यः) पूर्वं मनसः सन्तुष्टीकरणे यत्नं कुरु।
When the mind is pleased, the entire world is pleased. When the mind is sad, the entire world sad. Hence, if you desire for happiness,then strive for the mind-propitiation first.
प्रश्नाः १.कदा भुवनं प्रसन्नम्?
२.सुखाभिलाषी किं कुर्यात्?
३.‘चित्ते प्रसन्ने’ इत्यत्र केन सप्तमी?
४.‘विषण्णम्’ इत्यस्य पदविश्लेषणं वदत?
५.‘अतोऽभिलाषः’ इत्यत्र सन्धिः विभज्यताम्।
६.‘चित्तप्रसादे’ इत्यत्र समासविग्रहं वदत?
77.क्रोधो वैवस्वतो राजा
मूलम् क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
विद्या कामदुघा धेनुः सन्तोषो नन्दनं वनम् ॥
पदविभागः क्रोधः वैवस्वतः राजा तृष्णा वैतरणी नदी विद्या कामदुघा धेनुः सन्तोषः नन्दनं वनम् ॥
अन्वयः
प्रतिपदार्थः क्रोधः = कोपः; anger;
वैवस्वतःराजा = यमः (विवस्वतः पुत्रः); son of sun, Lord of death, yama;
तृष्णा = अप्राप्ताभिलाषा; strong desire of gain;
वैतरणी नदी = नरकमार्गे काचन मलिना नदी; the river of hell (river which must be crossed before entering the infernal regions);
विद्या = ज्ञानं; learning;
कामदुघा धेनुः = इच्छापूरको गौः; a fabulous cow yielding all desires;
सन्तोषः = आनन्दः, परितुष्टिः; happiness;
नन्दनं वनम् = स्वर्गे स्थितम् उद्यानम्; the divine grove (of Indra).
तात्पर्यम् कोपः यमधर्मराज इव। अतिलिप्सा वैतरणी नदी इव। ज्ञानं कामप्रदा गौरिव। सन्तुष्टिः नन्दनोद्यानमिव।
Anger is the Lord of death; greedy desire is like the river Vaitarinī; knowledge is the wish- fulfilling celestial cow; contentment is the divine garden.
प्रश्नाः १.क्रोधः कीदृशः?
२.कः नन्दनं वनम्?
३.------ वैतरणी नदी । (रिक्तस्थानं पूरयत।)?
४.‘कामदुघा’ इत्यस्य पदविश्लेषणं वदत?
५.‘नन्दनं वनम्’ नाम किम्?
78.विसृज्य शूर्पवद्दोषान्
मूलम् विसृज्य शूर्पवद्दोषान् गुणान् गृह्णाति सज्जनः।
दोषग्राही गुणत्यागी चालनीव हि दुर्जनः॥
पदविभागः विसृज्य शूर्पवत् दोषान् गुणान् गृह्णाति सज्जनः। दोषग्राही गुणत्यागी चालनीव हि दुर्जनः॥
अन्वयः सज्जनः शूर्पवत् दोषान् विसृज्य गुणान् गृह्णाति। दोषग्राही गुणत्यागी चालनीव हि दुर्जनः॥
प्रतिपदार्थः सज्जनः = सत्पुरुषः; noble person;
शूर्पवत् = तण्डुलादिस्फोटनार्थं वंशादिनिर्मितपात्रविशेषः, तद्वत्; like winnowing basket;
दोषान् = स्खलितान्, अपराधान्; faults;
विसृज्य = परित्यज्य; leaving [lit. having left out];
गुणान् = सद्गुणान्, अनुकूललक्षणानि; virtues;
गृह्णाति = स्वीकरोति; takes, accepts;
दोषग्राही = छिद्रमात्रदर्शी; fault-seeker [not fault-finder, lit. one who picks/takes faults];
गुणत्यागी = सुगुणान् न पश्यति यः; one who abandones virtues;
चालनीइव हि = तितउ वत्; like filter, sieve, strainer;
दुर्जनः = दुष्टः; wicked person
तात्पर्यम् उत्तमजनः (अन्येषां) दुष्टगुणान् त्यक्त्वा सद्गुणान् एव गणयति, यथा स्फोटनम् । किन्तु खलस्तु दोषान् गृह्णाति, गुणान् त्यजति यथा चालनी।
The virtuous leaves the bad qualities like a winnow and receives the virtues [only]; the wicked is like sieve who takes the faults and leaves the good qualites.
प्रश्नाः १.सज्जनःकिं करोति?
२.दुर्जनः कीदृशः?
३.‘शूर्पवद्दोषान्’ इत्यत्र सन्धिः विभज्यताम्।
४.‘दोषग्राही’ इत्यत्र समासविग्रहं वदत?
५.‘विसृज्य’ इत्यस्य पदविश्लेषणं वदत?
६.‘चालनी’ नाम का?
79.दुर्जनो दोषमादत्ते
मूलम् दुर्जनो दोषमादत्ते दुर्गन्धमिव सूकरः।
सज्जनश्च गुणग्राही हंसः क्षीरमिवाम्भसः॥
पदविभागः दुर्जनः दोषम् आदत्ते दुर्गन्धम् इव सूकरः। सज्जनः च गुणग्राही हंसः क्षीरम् इव अम्भसः॥
अन्वयः दुर्जनः सूकरः दुर्गन्धम् इव दोषम् आदत्ते। सज्जनः च गुणग्राही हंसः क्षीरम् इव अम्भसः॥
प्रतिपदार्थः दुर्जनः = दुष्टः; wicked;
सूकरः = वराहः; pig;
दुर्गन्धम् इव = दूषितः गन्ध इव; like bad smell;
दोषम् = अपराधं; fault;
आदत्ते = स्वीकरोति, गृह्णाति; takes;
सज्जनः च = सत्पुरुषस्तु; noble;
गुणग्राही = सुगुणान् स्वीकरोति यः; who takes in good qualities;
हंसः = पक्षीविशेषः, नीरक्षीरविवेकवान् कश्चित् श्वेतः जल-स्थल-पक्षी; swan;
क्षीरम् इव = दुग्धमिव; like milk;
अम्भसः = जलात्; from water
तात्पर्यम् यथा वराहः दुष्टं गन्धं गृह्णाति, तथैव खलः दोषमेव स्वीकरोति। (किन्तु) यथा हंसः वारिणः (नीरक्षीरसम्मिश्रणात्) दुग्धं गृह्णाति, तथैव सुजनः गुणान् स्वीकरोति।
The wicked, like a pig, takes the bad; But virtuous receives the good qualities [ignoring the vices] like a swan, that takes milk and leaves water.
प्रश्नाः १.दुर्जनः किं करोति? दुर्जने उपमानं किम्?
२.सज्जनः कीदृशः? तत्र उपमानं किम्?
३.‘सज्जनश्च’ इत्यत्र सन्धिः विभज्यताम्।
४.‘क्षीरमिवाम्भसः’ इत्यत्र सन्धिः विभज्यताम्।
५.‘गुणग्राही’ इत्यत्र समासविग्रहं वदत?
६.दुर्गन्धमिव ------।(रिक्तस्थानं पूरयत।)।
80.परोपदेशे पाण्डित्यं
मूलम् परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।
धर्मे स्वयमनुष्ठानं कस्यचित्तु महात्मनः॥
पदविभागः परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्। धर्मे स्वयम् अनुष्ठानं कस्यचित् तु महात्मनः॥
अन्वयः परोपदेशे सर्वेषां नृणाम् पाण्डित्यं सुकरम्। कस्यचित् तु महात्मनः (एव) धर्मे स्वयम् अनुष्ठानम् ॥
प्रतिपदार्थः परोपदेशे = इतरेभ्यः हितवाक्यकथने; in instructing, teaching, advising, prescribing;
सर्वेषां = सकलानां; of everybody, all;
नृणाम् = मनुष्याणां; of people;
पाण्डित्यं = विद्वत्ता; scholarship, profound learning, erudition;
सुकरम् = अयत्नसाध्यं, अनायासं; easy to do;
कस्यचित् तु = कस्यचित्; of only some;
महात्मनः = उत्तमप्रकृतिकस्य; of great person, noble one;
धर्मे = कर्तव्ये, शुभकर्मणि, पुण्याचरणे; in duty;
स्वयम् = आत्मा; self;
अनुष्ठानम् = आचरणं; Doing, performance, practice, execution, accomplishment
तात्पर्यम् अन्येषां अनुशासनोक्तौ सर्वजनानां कौशलमस्ति। (किन्तु) कश्चित् उदारचरितः एव (उक्तोपदेशानां) स्वयमाचरणं करोति।
To advise others is a very easy task for all people; But it is possible for only some noble person to execute those right duties in action by one-self.
प्रश्नाः १.किं सुकरम्?
२.धर्मे स्वयमनुष्ठानं कस्य?
३.‘परोपदेशे’ इत्यत्र समासविग्रहं वदत?
४.‘पाण्डित्यं’ इत्यस्य पदविश्लेषणं वदत?
५.‘नृणाम्’ इत्यत्र षष्ठीविभक्तिः कथम्?
६.धर्मे स्वयमनुष्ठानं ------ ------। (रिक्तस्थानं पूरयत।)?
81.ज्ञातिभिर्वण्ट्यते नैव
मूलम् ज्ञातिभिर्वण्ट्यते नैव चोरेणापि न नीयते।
(पाठ. लुण्ठ्यते) दाने नैव क्षयं याति विद्यारत्नं महद्धनम्॥
पदविभागः ज्ञातिभिः वण्ट्यते न एव चोरेण अपि न नीयते। दाने न एव क्षयं याति विद्यारत्नं महत् धनम्॥
अन्वयः
प्रतिपदार्थः ज्ञातिभिः = बन्धुभिः; by relatatives;
न वण्ट्यते = न विभज्यते; is not divided, partitioned, shared;
चोरेण अपि = तस्करेणापि; even by thieves;
न नीयते = न ह्रियते; is not taken away;
दाने = अन्येभ्यः वितरणे; when given [lit. in giving];
क्षयं = अपचयः, व्यर्थं; Loss, decline, waste;
न याति = न प्राप्नोति; does not go;
विद्यारत्नं = ज्ञानं नाम मणिः; the gem of knowledge;
महत् धनं = उत्तमा सम्पत्; great wealth
तात्पर्यम् ज्ञानं नाम मणिं बन्धुजनाः विभक्तुं न शक्नुवन्ति, चोराः हर्तुं न पारयन्ति। दाने कृते न तत् व्ययीभवति। अतः विद्याधनं उत्तमं धनमस्ति।
The gem of knowledge is the greatest wealth; which is not divided amongst relatives, nor be taken away by thief,nor does it declines when given.
प्रश्नाः १.विद्यारत्नं कीदृशम्?
२.केन विद्यारत्नं न नीयते?
३.‘ज्ञातिभिर्वण्ट्यते’ इत्यत्र सन्धिः विभज्यताम्।
४.‘विद्यारत्नं’ इत्यत्र समासविग्रहं वदत?
५.दाने नैव ------ याति। (रिक्तस्थानं पूरयत।)?
६.‘चोरेण’ इत्यत्र तृतीयाविभक्तिः कथम्?
82.धनधान्यप्रयोगेषु
मूलम् धनधान्यप्रयोगेषु विद्यासङ्ग्रहणेषु च।
(पाठ. तथा विद्यागमेषु च) आहारे व्यवहारे च त्यक्तलज्जस्सुखी भवेत्॥ (पाठ. सदा भवेत्)
पदविभागः
अन्वयः धनधान्य–प्रयोगेषु विद्यासङ्ग्रहणेषु च। आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥
प्रतिपदार्थः धनधान्य–प्रयोगेषु = वित्त-खाद्यबीज-सम्बन्धि-व्यवहारेषु; while using (or application, employment of) wealth and food-grains;
आहारे = अन्नव्यवहारे; in food (matters);
व्यवहारे च = लौकिकव्यवहारे च; in worldly dealings;
त्यक्तलज्जः = सङ्कोचविरहितः; one who has given up shy;
सुखी = नन्दितः; happy;
भवेत् = विद्येत; will be
तात्पर्यम् धने, धान्ये, विद्यार्जने, अन्नादने, लौकिकविषयेषु च यः सङ्कोचं त्यक्त्वा व्यवहरति, सः सुखी भवति।;
One can be happy when one has given up being shy in the matters of wealth, food-grains, acquiring knowledge, food, worldly dealings. पाठ. तथा विद्यागमेषु च = similarly in learningshāstras; पाठ. सदा भवेत् = will always be
प्रश्नाः १.कुत्र लज्जा त्यक्तव्या?
२.कः सुखी भवेत्?
३.‘त्यक्तलज्जस्सुखी’ इत्यत्र सन्धिः विभज्यताम्।
४.‘धनधान्यप्रयोगेषु’ इत्यत्र समासविग्रहं वदत?
५.आहारे ------ च। (रिक्तस्थानं पूरयत।)?
83.अनभ्यासे विषं विद्या
मूलम् अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम्।
(पाठ. दुरधीता विषं विद्या) विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम्॥ (पाठ. गोष्ठी दरिद्रस्य)
पदविभागः अनभ्यासे विषं विद्या अजीर्णे भोजनं विषं। विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम्॥
अन्वयः अनभ्यासे विद्या विषं। अजीर्णे भोजनं विषं। सभा दरिद्रस्य विषं। तरुणी वृद्धस्य विषम्॥
प्रतिपदार्थः अनभ्यासे = पुनरावृत्ति-राहित्ये; when (there is) no practice;
विद्या = ज्ञानं; learning;
विषं = हानिकरं, विषमफलदायकं; poison;
अजीर्णे = अपचने; when (there is) indigestion;
भोजनं = खाद्यमन्नं; food;
सभा = सदः, गोष्ठी; assembly;
दरिद्रस्य = धनहीनस्य; of the poor;
तरुणी = युवती; young woman;
वृद्धस्य = जरठस्य; of the oldman;
तात्पर्यम् अभ्यासराहित्ये ज्ञानं विषमं भवति। (पूर्वं भक्षितस्य) अजीर्णावस्थायां (पुनः) भोजनं हानिकरम्। अकिञ्चनस्य सङ्गोष्ठी पीडाकरी। स्थविरस्य युवती(प्रसङ्गः) विषम्।;
Knowledge is poison without practice; food is poison upon indigestion; social gathering is poison for a poor man; a young woman is poison for an old man.
प्रश्नाः १.कदा विद्या विषम्?
२.किं किं कुत्र कुत्र विषम्?
३.‘दरिद्रस्य’ इत्यत्र षष्ठीविभक्तिः कथम्?
४.वृद्धस्य ------ विषं। (रिक्तस्थानं पूरयत।)?
५.‘अजीर्णे’ इत्यत्र केन सप्तमी?
६.‘अनभ्यासे’ इत्यस्य पदविश्लेषणं वदत?
84.विद्वानेव विजानाति
मूलम् विद्वानेव विजानाति विद्वज्जनपरिश्रमम् ।
न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम् ॥ कुवलयानन्द
पदविभागः विद्वान् एव विजानाति विद्वत्–जन–परिश्रमम् । न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम्।
अन्वयः विद्वान् एव विद्वत्–जन–परिश्रमम् विजानाति । न हि वन्ध्या गुर्वीं प्रसववेदनाम् विजानाति।
प्रतिपदार्थः विद्वान् एव = केवलं पण्डितः; Only ascholar;
विद्वत्–जन–परिश्रमम् = पण्डितानां क्लमः, प्रयासः; exertion of scholars [Close application to or study of, being constantly occupied with];
विजानाति = अवबोधति; knows, is aware of;
न हि = नैव; not;
वन्ध्या = सन्तानोत्पादने अशक्ता; A barren woman;
गुर्वीं = भारवन्तीं; pregnant [here, heavy];
प्रसववेदनाम् = प्रसूतिसमयपीडां; pangs of child-birth, throes
तात्पर्यम् विद्यावान् एव अन्यस्य विद्यावतः (ज्ञानसञ्चयाय कृतं) आयासं अवैति। महायातनाकरं प्रसूतिपीडां सन्तानजनने अशक्ता स्त्री कदापि नावगच्छति।
A scholar alone is aware of [other] scholar’s endeavour. A childless woman would never understand the labour pain [caused while child- birth].
प्रश्नाः १.कः किं विजानाति?
२.वन्ध्या किं न विजानाति?
३.‘विद्वज्जनपरिश्रमम्’ इत्यत्र समासविग्रहं वदत?
४.‘प्रसववेदनाम्’ इत्यत्र समासविग्रहं वदत?
५.------ विजानाति । (रिक्तस्थानं पूरयत।)
६.‘गुर्वी’ इत्यस्य पदविश्लेषणं वदत?
85.परैः प्रोक्ता गुणा यस्य
मूलम् परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लुघतां याति स्वयं प्रख्यापितैर्गुणैः ॥
पदविभागः परैः प्रोक्ता गुणाः यस्य निर्गुणः अपि गुणी भवेत् । इन्द्रः अपि लुघतां याति स्वयम् प्रख्यापितैः गुणैः ॥
अन्वयः यस्य परैः गुणाः प्रोक्ता (सः) निर्गुणः अपि गुणी भवेत् । इन्द्रः अपि स्वयम् प्रख्यापितैः गुणैः लुघतां याति ॥
प्रतिपदार्थः यस्य = यज्जनस्य; of whom;
परैः = अन्यैः; by others;
गुणाः = सद्गुणाः, लक्षणविशेषाः; good qualities;
प्रोक्ताः = कथ्यन्ते; said, told;
निर्गुणः अपि = गुणहीनः अपि; even when without attributes;
गुणी = सुगुणवान्; good, meritorious;
भवेत् = घटेत; would become;
इन्द्रः अपि = सुराणां प्रभुरपि; even Indra [king of gods];
स्वयम् = आत्मना; by himself;
प्रख्यापितैः = कथितैः, ज्ञापितैः; by praised, announced, published;
गुणैः = लक्षणविशेषैः; by [good] qualities;
लुघतां = ह्रस्वत्वं; absence of dignity, trivialness;
याति = प्राप्नोति; reaches, attains
तात्पर्यम् यस्य गुणविशेषाः इतरैः कथ्यन्ते सः विशेषगुणहीनोऽपि सन्, गुणवान् सम्भवति। यदि महेन्द्रः अपि स्वयमेव (स्वमुखेन) स्वसद्गुणान् प्रकटयति, तर्हि सः अल्पत्वम् एति।
One whose qualities are praised by others, is considered as virtuous, even if he may not have those qualities. But Indra himself would look trivial, when he tells (brags) about his own attributes.
प्रश्नाः १.कदा निर्गुणोऽपि गुणी भवेत्?
२.इन्द्रः केन लघुतां याति?
३.‘निर्गुणोऽपि’ इत्यत्र सन्धिः विभज्यताम्।
४.‘प्रख्यापितैर्गुणैः’ इत्यत्र सन्धिः विभज्यताम्।
५.------ गुणी भवेत्। (रिक्तस्थानं पूरयत।)?
६.‘गुणैः’ इत्यत्र तृतीयाविभक्तिः कथम्?
86.अविद्यानाशिनी विद्या
मूलम् अविद्यानाशिनी विद्या भावना भयनाशिनी ।
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ॥
पदविभागः सुलभः
अन्वयः अविद्यानाशिनी विद्या भावना भयनाशिनी । दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ॥
प्रतिपदार्थः अविद्यानाशिनी = अज्ञानान्तका; destroyer of ignorance;
विद्या = ज्ञानं; knowledge, learning;
भावना = ध्यानम्; Feeling of devotion, faith;
भयनाशिनी = आशङ्क-ध्वंसिनी; destroyer of fear;
दारिद्र्यनाशनं = अभाव-विनाशकं; destroyer of poverty;
दानं = अन्येभ्यः धनादीनां वितरणं; charity;
शीलं = सच्चरित्रम्; character;
दुर्गतिनाशनम् = दुर्भाग्यक्षयकरं; destroyer of misfortune, trouble
तात्पर्यम् ज्ञानम् अज्ञानान्तकं भवति। ध्यानं भयं निषूदयति। दानं निर्धनत्वघातकं भवति। सच्चरित्रं दुर्भाग्यम् अपनयति।
Knowledge destroys ignorance; faith removes fear; donating (charity) kills poverty; [good moral] character wards off misfortune.
प्रश्नाः १.विद्या कीदृशी?
२.दानं कीदृशम्?
३.शीलं ------। (रिक्तस्थानं पूरयत।)?
४.‘दारिद्र्यनाशनं’इत्यत्र समासविग्रहं वदत?
५.------ भयनाशिनी (रिक्तस्थानं पूरयत।)?
87.अपूर्वः कोऽपि कोशोऽयं
मूलम् अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥ - सुभाषितरत्नभाण्डागारः
पदविभागः अपूर्वः कः अपि कोशः अयं विद्यते तव भारति । व्ययतः वृद्धिम् आयाति क्षयम् आयाति सञ्चयात् ॥
अन्वयः भारति, अयं कः अपि अपूर्वः तव कोशः विद्यते । व्ययतः वृद्धिम् आयाति, सञ्चयात् क्षयम् आयाति ॥
प्रतिपदार्थः भारति = हे सरस्वति; O sarasvatI, goddess/ deity of knowledge;
अयं = असौ; this;
कः अपि = कश्चित्; some;
अपूर्वः = विशिष्टः; not preceded, not having existed before;
तव = त्वत्सम्बन्धी; yours;
कोशः = निधिः; treasure, money, wealth, store;
विद्यते = भवति; is there, exists;
व्ययतः = विक्षेपात्; by spending;
वृद्धिम् = आधिक्यं; growth, increase, development;
आयाति = प्राप्नोति; follows, results;
सञ्चयात् = सङ्ग्रहणात्; by hoarding, accumulating, stocking;
क्षयम् = अपचयं; diminish, decay, waste
तात्पर्यम् हे सरस्वति, तव कश्चित् विशिष्टः निधिः वर्तते। सः विनियोगेन वर्धते, समाहरणेन च अपक्षयमेति।
O sarasvati, your treasure is wonderful. By spending, it grows.By hoarding, it decays.
प्रश्नाः १.कस्य कोशः अपूर्वः?
२.कोशः कीदृशः?
३.‘कोशोऽयं’ इत्यत्र सन्धिः विभज्यताम्।
४.‘व्ययतो’ इत्यस्य पदविश्लेषणं वदत?
५.क्षयमायाति ------। (रिक्तस्थानं पूरयत।)?
88.अहो प्रकृतिसादृश्यं
मूलम् अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च
पदविभागः अहो प्रकृतिसादृश्यं श्लेष्मणः दुर्जनस्य च । मधुरैः कोपम् आयाति कटुकेन एव शाम्यति ॥
अन्वयः अहो श्लेष्मणः दुर्जनस्य च प्रकृतिसादृश्यम्। मधुरैः कोपम् आयाति कटुकेन एव शाम्यति ॥
प्रतिपदार्थः अहो = धिक्; Oh!;
श्लेष्मणः = कफस्य; of phlegmatic humour;
दुर्जनस्य च = दुष्टस्य च; of wicked person;
प्रकृति-सादृश्यम् = स्वभावे समानत्वं; similarity in natural disposition;
मधुरैः = आनन्दकरैः; by sweet things;
कोपम् = क्रोधं; anger, fury;
आयाति = प्राप्नोति; comes (here- gets);
कटुकेन = परुषेण दूषणेन,; by pungency (a compound of ginger, black and long pepper);
एव शाम्यति = शान्तिं याति; appeased, subdued
तात्पर्यम् अहो, कफस्य खलस्य च स्वभावयोः अनुरूपत्वं (दृश्यते)। (द्वावपि) मधुरैः (कफपक्षे मधुरपदार्थैः, दुष्टपक्षे मधुरवचनैः) कोपोद्दीप्तौ भवतः। कटुकेन (कफपक्षे कटुपदार्थैः, खलपक्षे कटुदूषणेन) शाम्यतः।
Oh! there is similarity between the nature of phlegm and a wicked person. It gets enraged by sweet things and subdued by pungent thing.
प्रश्नाः १.कयोः प्रकृतिसादृश्यम्?
२.कैः कोपमायाति ?
३.केन शाम्यति?
४.‘कटुकेनैव’ इत्यत्र सन्धिः विभज्यताम्।
५.------ कोपमायाति। (रिक्तस्थानं पूरयत।)?
६.‘प्रकृतिसादृश्यं’ इत्यत्र समासविग्रहं वदत?
89.चला लक्ष्मीश्चलाः
मूलम् चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् ।
चलाचले हि संसारे धर्म एको हि निश्चलः ॥
पदविभागः
अन्वयः चला लक्ष्मीः चलाः प्राणाः चलं जीवितयौवनम् । चलाचले हि संसारे धर्म एकः हि निश्चलः ॥
प्रतिपदार्थः चला = चञ्चला; transitory;
लक्ष्मीः = धनं; wealth;
प्राणाः = श्वासः; vital air(s), breath;
जीवितयौवनम् = जीवनं, तारुण्यं; life and youth;
संसारे = जगति; in the world;
धर्मः = शुभकर्म, कर्तव्यं; good works (regarded as one of the four ends of human existence);
एकः हि = केवलं; alone, only one;
निश्चलः = स्थिरः; stable, unmoving
तात्पर्यम् अस्मिन् लोके वित्तं, प्राणः, जीवनं, तारुण्यं च सर्वं अशाश्वतम्। केवलं धर्म एव शाश्वतः भवति।
Wealth is transient. Breath is impermanent. Life and youth are perishable. In the transitory world, only dharma is steady (unchangeable).
प्रश्नाः १.किं किं चलम्?
२.कः निश्चलः?
३.‘प्राणाश्चलं’ इत्यत्र सन्धिः विभज्यताम्।
४.‘जीवितयौवनम्’ इत्यत्र समासविग्रहं वदत?
90.गुणेषु क्रियतां यत्नः
मूलम् गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।
(पाठ. गुणेष्वेवादरः कार्यः) विक्रीयन्ते न घण्टाभिः गावः क्षीरविवर्जिताः ॥
पदविभागः गुणेषु क्रियतां यत्नः किम् आटोपैः प्रयोजनम्। विक्रीयन्ते न घण्टाभिः गावः क्षीरविवर्जिताः ॥
अन्वयः गुणेषु यत्नः क्रियतां, आटोपैः किम् प्रयोजनम्। घण्टाभिः गावः क्षीरविवर्जिताः न विक्रीयन्ते ॥
प्रतिपदार्थः गुणेषु = लक्षणविशेषेषु; in good qualities;
यत्नः = प्रयासः; effort;
क्रियतां = आचरताम्; should do;
आटोपैः = आडम्बरैः; by self-conceit (simply, make-up?);
किम् प्रयोजनम् = कः लाभः; what use;
घण्टाभिः = नादवस्तुविशेषैः, वाद्यविशेषैः; by bells;
गावः = धेनवः; cows;
क्षीरविवर्जिताः = दुग्धरहिताः; devoid of milk;
न विक्रीयन्ते = न विक्रयणं यान्ति; are not sold
तात्पर्यम् सद्गुणेषु प्रयत्नः अनुष्ठीयताम्। आडम्बरैः कः लाभः? घण्टाभिः (अलङ्कृताः) पयोदाने असमर्थाः धेनवः न विक्रेतुं शक्यन्ते।
Make effort in [developing] good qualities. What can be gained by outward/artificial make-up? Milk-less cows do not get sold just by [tying] bells [in necks]. पाठ. गुणेष्वेवादरः कार्यः = respect should be given [lit. done] for good qualities only.
प्रश्नाः १.कुत्र यत्नः क्रियताम्?
२.के कैः न विक्रीयन्ते?
३.‘क्षीरविवर्जिताः’ इत्यत्र समासविग्रहं वदत?
४.‘विक्रीयन्ते’इत्यत्र सन्धिः विभज्यताम्।
५.‘गुणेषु’ इत्यत्र केन सप्तमी?
91.मृगा मृगैः सङ्गमनुव्रजन्ति
मूलम् मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥
पदविभागः मृगाः मृगैः सङ्गम् अनुव्रजन्ति गावः च गोभिः तुरगाः तुरङ्गैः । मूर्खाः च मूर्खैः सुधियः सुधीभिः समान-शील-व्यसनेषु सख्यम् ॥
अन्वयः मृगाः मृगैः सङ्गम् अनुव्रजन्ति। गावः च गोभिः तुरगाः तुरङ्गैः (अनुव्रजन्ति)। मूर्खाः च मूर्खैः सुधियः सुधीभिः समान-शील-व्यसनेषु सख्यम् ॥
प्रतिपदार्थः मृगाः = हरिणाः; deer;
सङ्गम् = साङ्गत्यं; company, association, friendship;
अनुव्रजन्ति = अनुसरन्ति; follow, go with;
गावः च = धेनवश्च; cows;
तुरगाः = अश्वाः; horses;
मूर्खाः च = अर्धज्ञाः; fools;
सुधियः = बुद्धिमन्तः; wise;
समान-शील-व्यसनेषु = तुल्यचरित्रे,कामजकोपजदोषेषु च सादृश्यं; in common character/nature and habits [शीलं = Disposition, nature, character, tendency, inclination, habit, custom - Apte];
सख्यम् = मित्रत्वं; friendship
तात्पर्यम् हरिणाः हरिणैः सार्धं गच्छन्ति। धेनवः, अश्वाः चापि स्वजातिविशेषैः साकं यान्ति। तथैव जडधियः जडबुद्धिभिः, विवेकशीलिनः विवेकवद्भिश्च सह चरन्ति। यत्र शीले व्यसनेषु च साम्यं, तत्रैव मित्रत्वं भवति।
Deers follow [the company of] deers; cows go with [other] cows; horses with horses; fools [move] with fools; wise with wise. Friendship exists among those who have common/ similar nature and habits.
प्रश्नाः १.मृगाः किं कुर्वन्ति?
२.मूर्खाः कैः अनुव्रजन्ति?
३.सख्यं कुत्र भवति?
४.‘गोभिस्तुरगास्तुरङ्गैः’ इत्यत्र सन्धिः विभज्यताम्।
५.‘समानशीलव्यसनेषु’ इत्यत्र समासविग्रहं वदत?
६.‘मूर्खाश्च मूर्खैः’ इत्यत्र तृतीयाविभक्तिः कथम्?
92.शास्त्राण्यधीत्यापि भवन्ति मूर्खाः
मूलम् शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियावान् पुरुषः स विद्वान् ।
सुचिन्तितं औषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ हितोपदेशः, मित्रलाभम्
पदविभागः शास्त्राणि अधीत्य अपि भवन्ति मूर्खाः यः तु क्रियावान् पुरुषः सः विद्वान् । सुचिन्तितं औषधम् आतुराणां न नाममात्रेण करोति अरोगम् ॥
अन्वयः शास्त्राणि अधीत्य अपि मूर्खाः भवन्ति। यः तु क्रियावान् पुरुषः सः विद्वान् । सुचिन्तितम् औषधम् नाममात्रेण आतुराणां अरोगम् न करोति ॥
प्रतिपदार्थः शास्त्राणि = धर्माधर्म-निदेशक-ग्रन्थविशेषान्; (scriptures of) traditional disciplines;
अधीत्य अपि = अवबुध्यापि; inspite of having studied;
मूर्खाः = अर्धज्ञाः; fools;
भवन्ति = सम्भवन्ति; become;
यः तु = यः जनः; one who;
क्रियावान् = कार्यरतः, कर्तव्याय प्रयत्नशीलः; engaged in any actual work, versed in the practice of a thing;
पुरुषः = नरः; person, human being;
विद्वान् = पण्डितः; scholar;
सुचिन्तितम् = सम्यक् विचारितं; well-thought over, devised;
औषधम् = अगदः; medicine;
नाममात्रेण = नाम्नः उच्चारणेन, स्मरणेन वा; by name alone;
आतुराणां = रोगिणां; of the ill, patients, sick;
अरोगम् = व्याधिरहितं; free from disease, healthy, well;
न करोति = न घटयति; does not do
तात्पर्यम् धर्मग्रन्थान् पठित्वापि जनाः जडधियः भवन्ति। यः कार्यशीलः सः एव पण्डितः भवति। रोगिणः सम्यक् चिन्तित्वा प्राप्तस्य औषधस्य नामोच्चारणमात्रेण रोगरहिताः न भवन्ति।
People remain fools in spite of learning sciences (theories). The one engaged in real action [puts to practice] is the [true] scholar. Medicine well-devised will not cure the patients just by [uttering] its name.
प्रश्नाः १.मूर्खाः किं कृत्वापि भवन्ति?
२.कः विद्वान्?
३.अरोगं किं केन न करोति?
४.‘शास्त्राण्यधीत्यापि’ इत्यत्र सन्धिः विभज्यताम्।
५.‘करोत्यरोगम्’ इत्यत्र सन्धिः विभज्यताम्।
६.‘सुचिन्तितं’ इत्यस्य पदविश्लेषणं वदत?
93.विषस्य विषयाणाञ्च
मूलम् विषस्य विषयाणाञ्च दूरमत्यन्तमन्तरम् ।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥
पदविभागः विषस्य विषयाणां च दूरम् अत्यन्तम् अन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणाद् अपि ॥
अन्वयः विषस्य विषयाणां च दूरम् अत्यन्तम् अन्तरम् । विषं उपभुक्तं हन्ति विषयाः स्मरणाद् अपि (घ्नन्ति) ॥
प्रतिपदार्थः विषस्य = गरलस्य; of poison;
विषयाणां च = लौकिकविषयाणां; of worldly or sensual objects;
दूरम् = अध्वन्; distance;
अत्यन्तम् = नितरां; very much;
अन्तरम् = व्यवधिः; near, closely connected;
उपभुक्तं = अनुभूतं; when enjoyed, tasted;
हन्ति = नाशयति; kills;
स्मरणाद् अपि = मनसि सकृत् चिन्तनात्अपि; by remembering, thinkingalso
तात्पर्यम् विषस्य विषयस्य च मध्ये दूरम् अधिकं नास्ति। विषे आस्वादिते सतिपुरुषः म्रियते। किन्तु विषयास्तु चिन्तनमात्रेण घ्नन्ति।
Poison and sensuous objects are very closely connected [lit. distance is very close]. Poison kills when consumed, but worldly objects kill just by thinking [about them].
प्रश्नाः १.कयोः दूरमत्यन्तमन्तरम्?
२.विषं कथं हन्ति?
३.‘विषयाणाञ्च’ इत्यत्र सन्धिः विभज्यताम्।
४.‘उपभुक्तं’ इत्यस्य पदविश्लेषणं वदत?
५.‘स्मरणादपि’ इत्यत्र पञ्चमीविभक्तिः कथम्?
94.यथा खनन् खनित्रेण
मूलम् यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥२.२१८॥मनुसंहितायां द्वितीयोऽध्यायः
पदविभागः यथा खनन् खनित्रेण नरः वारि अधिगच्छति। तथा गुरुगतां विद्यां शुश्रूषुः अधिगच्छति॥
अन्वयः यथा खनित्रेण खनन् नरः वारि अधिगच्छति। तथा शुश्रूषुः गुरुगतां विद्यां अधिगच्छति॥
प्रतिपदार्थः यथा = येन प्रकारेण; like, same as;
खनित्रेण = खनन-परिकरेण; with spade, hoe, a pick-axe;
खनन् = भूमिं विदारयन्; while digging;
नरः = जनः; person;
वारि = जलं; water;
अधिगच्छति = प्राप्नोति; gets, reaches;
तथा = तत्प्रकारेण; similarly;
शुश्रूषुः = श्रोतुमिच्छुकः, सेवापरः; Desirous of serving or attending, Obedient, attentive [lit. Desirous to hear.];
गुरुगतां = आचार्ये स्थितां; contained in teacher, possessed by teacher;
विद्यां = ज्ञानं; knowledge, learning;
अधिगच्छति = लभते; receives, knows, learns
तात्पर्यम् यथा अस्त्रविशेषेण (पृथ्वीं) विदारयन् पुरुषः नीरं प्राप्नोति, तथैव (श्रद्धया) गुरुसेवायां रतः गुरौ स्थितां विद्यां प्राप्नोति।
Just as a person gets water, by digging the earth with a spade, so does an obedient student gets knowledge within the teacher.
प्रश्नाः १.कः नरः केन किमधिगच्छति?
२.शुश्रूषुः किमधिगच्छति?
३.‘वार्यधिगच्छति’इत्यत्र सन्धिः विभज्यताम्।
४.‘शुश्रूषुरधिगच्छति’ इत्यत्र सन्धिः विभज्यताम्।
५.‘खनित्रेण’ इत्यत्र तृतीयाविभक्तिः कथम्?
६.‘शुश्रूषुः’ इत्यस्य पदविश्लेषणं वदत?
95.श्रीमानजननिन्द्यश्च
मूलम् श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः ।
समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ योगावासिष्ठम्, वैराग्य॰
पदविभागः श्रीमान् अजननिन्द्यः च शूरः च अपि अविकत्थनः । समदृष्टिः प्रभुः च एव दुर्लभाः पुरुषाः त्रयः ॥
अन्वयः श्रीमान् अजननिन्द्यः च शूरः च अपि अविकत्थनः प्रभुः च एव समदृष्टिः त्रयः पुरुषाः दुर्लभाः ॥
प्रतिपदार्थः श्रीमान् = धनवान्; wealthy, rich;
अजननिन्द्यः च = जनैः न निन्द्यः; not blamable, censurable, reprehensible by people;
शूरः = पराक्रमशाली; hero, warrior, valiant man;
च अपि = च; and also;
अविकत्थनः = मिथ्याश्लाघां न करोति यः; not boasting, swaggering, vaunting, bragging;
प्रभुः च एव = अधिकारी, पालकः; lord, master, supreme authority;
समदृष्टिः = अभेदेन यः पश्यति; having vision of equality;
त्रयः = त्रिसङ्खामिताः; three;
पुरुषाः = नराः; people;
दुर्लभाः = नाधिकं दृश्यन्ते, लभ्यन्ते वा; difficult to obtain, scarce, rare
तात्पर्यम् १. यः धनी, लोके निन्दाभाक् न भवति, २. यः पराक्रमी, किन्तु आत्मश्लाघाकारी न भवति, ३. यः पालकः, किन्तु सर्वत्र अभिन्नं पश्यति- एते त्रिविधाः पुरुषाः न सुलभाः।
A wealthy man who is not blamed by people, a warrior who is not boasting, a leader who has vision of equaltiy- these 3 people are rare to find.
प्रश्नाः १.प्रभुः कीदृशः दुर्लभः?
२.के पुरुषाः दुर्लभाः?
३.‘पुरुषास्त्रयः’ इत्यत्र सन्धिः विभज्यताम्।
४.‘अजननिन्द्यः’ इत्यस्य पदविश्लेषणं वदत?
५.‘अविकत्थनः’ इत्यत्र समासविग्रहं वदत?
६.------ प्रभुश्चैव। (रिक्तस्थानं पूरयत।)?
96.दुर्जनः परिहर्तव्यो
मूलम् दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥
पदविभागः दुर्जनः परिहर्तव्यः विद्यया अलङ्कृतः अपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥
अन्वयः दुर्जनः विद्यया अलङ्कृतः अपि सन् परिहर्तव्यः । मणिना भूषितः सर्पः असौ किम् न भयङ्करः?
प्रतिपदार्थः दुर्जनः = दुष्टः; wicked man;
विद्यया = ज्ञानेन; by scholarship, knowledge;
अलङ्कृतः अपि सन् = भूषितः भूत्वा अपि; even when adorned with;
परिहर्तव्यः = त्याज्यः; should be avoided, left;
मणिना = रत्नेन; with a gem;
भूषितः = अलङ्कृतः; decorated;
सर्पः = नागः; snake;
असौ = सः; it (lit. he);
किम् न = (प्रश्नः); is it not;
भयङ्करः = भयमुत्पादयतियः; dangerous, fearful
तात्पर्यम् ज्ञानेन आभूषितोऽपि दुष्टात्मा (दूरेणैव) परित्याज्यः। अत्र उदाहरणम्। भुजङ्गः रत्नेन अलङ्कृतोऽपि (सुन्दरः उपगमने योग्यः न भवति) भयमेवोत्पादयति।
A wicked man should be abandoned, even when ornate with knowledge. Is a snake not scary even when it is adorned with a jewel?
प्रश्नाः १.कीदृशः दुर्जनः परिहर्तव्यः?
२.कीदृशः सर्पः भयङ्करः?
३.‘दुर्जनः’ इत्यत्र समासविग्रहं वदत?
४.‘परिहर्तव्यो’ इत्यस्य पदविश्लेषणं वदत?
५.‘विद्ययाऽलङ्कृतोऽपि’ इत्यत्र सन्धिः विभज्यताम्।
६.------ भूषितः सर्पः। (रिक्तस्थानं पूरयत।)?
97.पुण्यस्य फलमिच्छन्ति
मूलम् पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥ महाभारतम्
पदविभागः पुण्यस्य फलम् इच्छन्ति पुण्यं न इच्छन्ति मानवाः। न पापफलम् इच्छन्ति पापं कुर्वन्ति यत्नतः ॥
अन्वयः मानवाः पुण्यस्य फलम् इच्छन्ति। पुण्यं न इच्छन्ति। पापफलम् न इच्छन्ति। यत्नतः पापं कुर्वन्ति ॥
प्रतिपदार्थः मानवाः = मनुष्याः; people, human beings;
पुण्यस्य = धर्मकार्यस्य; of religious or moral merit, virtuous act;
फलम् = परिणामं; fruit, result, outcome;
इच्छन्ति = वाञ्छन्ति; (they) desire for;
पापफलम् = दुष्कर्मणः परिणामं; fruit of sin, crime;
यत्नतः = प्रयत्नेन; by striving, trying;
पापं = दुष्क्रियां, दुरितं; sin, crime, guilt, evil;
कुर्वन्ति = आचरन्ति; (they) do
तात्पर्यम् पुरुषाः धर्मकार्यस्य लाभं काङ्क्षन्ति। किन्तु धर्मकार्याणि न कुर्वन्ति। ते दुष्कृतेः परिणामे इच्छुकाः न भवन्ति, किन्तु प्रयासेन दुरितान्याचरन्ति।
People long for the fruit of virtue; but do not want (to do) virtuous acts. They do not desire for result of sin (i.e. punishment); but by practice, commit [acts of] sins.
प्रश्नाः १.मानवाः किं नेच्छन्ति?
२.ते किं कथं कुर्वन्ति?
३.‘नेच्छन्ति’ इत्यत्र सन्धिः विभज्यताम्।
४.‘यत्नतः’ इत्यस्य पदविश्लेषणं वदत?
५.------ फलमिच्छन्ति। (रिक्तस्थानं पूरयत।)?
98.अपां प्रवाहो गाङ्गोऽपि
मूलम् अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः।
भवत्यवश्यं तद्विद्वान्नाश्रयेदशुभात्मकम्॥
पदविभागः अपां प्रवाहः गाङ्गः अपि समुद्रं प्राप्य तद्-रसः। भवति अवश्यं तत् विद्वान् न आश्रयेद् अशुभात्मकम्॥
अन्वयः अपां प्रवाहः गाङ्गः अपि समुद्रं प्राप्य तद्-रसः। भवति अवश्यं तत् विद्वान् न अशुभात्मकम् आश्रयेद् ॥
प्रतिपदार्थः अपां = जलस्य; of water;
प्रवाहः = धारा; flow;
गाङ्गः अपि = गङ्गायाः अपि; of gaṅgā;
समुद्रं = उदधिं; sea, ocean;
प्राप्य = स्थानं लब्ध्वा; having obtained;
तद्-रसः = तदीयं स्वादुत्वं; of that taste [lit. that-essenced];
भवति = घटते; it becomes;
अवश्यं = निश्चयेन; definitely;
तत् = अतः; thus;
विद्वान् = पण्डितः; a learned scholar;
अशुभात्मकम् = दुष्टं, दुर्जनं; inauspicious, impure, dirty, foul person;
न आश्रयेद् = न उपगच्छेत्; should not associate (with)
तात्पर्यम् गङ्गानद्याः प्रवाहोऽपि सागरं प्रविश्य तादृशः रसवान् अवश्यं भवति। अतः कृतविद्यः दुष्टात्मानं नरं कदापि न उपेयात्।
Even a stream of water like Ganga having reached the sea, certainly becomes saline (sea-like). Hence, a wise man should never associate with inauspicious persons.
प्रश्नाः १.गाङ्गोऽपि प्रवाहः किं भवति?
२.तथा किं न कुर्यात्?
३.‘गाङ्गोऽपि’ इत्यत्र सन्धिः विभज्यताम्।
४.‘भवत्यवश्यं’ इत्यत्र सन्धिः विभज्यताम्।
५.‘अशुभात्मकम्’ इत्यत्र समासविग्रहं वदत?
६.------ अशुभात्मकम्। (रिक्तस्थानं पूरयत।)?
99.यदधीतमविज्ञातं
मूलम् यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्॥ -निरुक्तम्, १.१८
पदविभागः यद् अधीतम् अविज्ञातं निगदेन एव शब्द्यते। अनग्नौ इव शुष्क–एधः न तत् ज्वलति कर्हिचित्॥
अन्वयः यद् अधीतम् अविज्ञातं निगदेन एव शब्द्यते। अनग्नौ इव शुष्क–एधः तत् कर्हिचित् न ज्वलति ॥
प्रतिपदार्थः यद् अधीतम् = यावत् अध्ययनेन प्राप्तं; what[ever] is learnt;
अविज्ञातं = न अवगतं; not understood;
निगदेन एव = उच्चारणेन एव; recitation, speech, discourse;
शब्द्यते = ध्वन्यते; is sounded;
अनग्नौ इव = अग्निभिन्नेपदार्थे; not in fire, (absence of fire) (lit. in non-fire);
शुष्क–एधः = अनार्द्रम् इन्धनम्; dried fuel (wood);
तत् = एतत्; that;
कर्हिचित् = कुत्रचित्; anywhere;
न ज्वलति = न दीप्यते; does not burn
तात्पर्यम् यत्किञ्चिदधीयते, किन्तु नावबोधति, तत् केवलं शब्दानामुच्चारणं मात्रम्। अत्रोदाहरणम्। यथा अक्लिन्नः एधः वह्निभिन्ने स्थले (पतित्वा) न प्रज्वलति, तथैव।
Whatever is learnt without its being understood is called mere cramming; like dry [logs of] wood on an extinguished fire, it can never illuminate.
प्रश्नाः १.किं केन शब्द्यते?
२.तत् किमिव न ज्वलति?
३.‘अनग्नाविव’इत्यत्र सन्धिः विभज्यताम्।
४.‘शुष्कैधो’ इत्यत्र समासविग्रहं वदत?
५.‘शब्द्यते’ इत्यस्य पदविश्लेषणं वदत
६.न ------ कर्हिचित्। (रिक्तस्थानं पूरयत।)?
100.पङ्कैर्विना सरो भाति
मूलम् पङ्कैर्विना सरो भाति सदः खलजनैर्विना ।
कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥ -भामिनीविलासः, ११६
पदविभागः पङ्कैः विना सरः भाति सदः खलजनैः विना । कटुवर्णैः विना काव्यं मानसं विषयैः विना ॥
अन्वयः सरः पङ्कैः विना भाति। सदः खलजनैः विना (भाति)। काव्यं कटुवर्णैः विना (भाति)। मानसं विषयैः विना (भाति) ॥
प्रतिपदार्थः सरः = सरोवरं; lake, pond, pool, a large sheet of water;
पङ्कैः विना = कर्दमेन विना; without mud, clay;
भाति = शोभते; shines, looks beautiful;
सदः = सभा; assembly;
खलजनैः विना = दुष्टान् विहाय; without wicked people;
काव्यं = कविकर्म; poetry;
कटुवर्णैः विना = परुषशब्दैः रहितं; without harsh letters;
मानसं = मनः; heart, mind;
विषयैः विना = लौकिकविषयैः वर्जितं; without worldly or sensory objects
तात्पर्यम् जलाशयः कलुषात् ऋते, सभा दुर्जनान् वर्जयित्वा, कविकृतिः कठिनशब्दव्यतिरिक्ता, अन्तरङ्गं च इन्द्रियविषयैर्विना – शोभन्ते।
A pond is beautiful without mud; an assembly is beautiful without wicked men; a poem is beautiful without harsh letters; mind is beautiful without worldly objects.
प्रश्नाः १.सरः कथं भाति?
२.कः विषयैर्विना भाति?
३.‘खलजनैर्विना’ इत्यत्र सन्धिः विभज्यताम्।
४.‘कटुवर्णैः’ इत्यत्र समासविग्रहं वदत?
५.सदः ------। (रिक्तस्थानं पूरयत।)?
६.‘मानसं’ इत्यस्य पदविश्लेषणं वदत?
101.मनो मधुकरो
मूलम् मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत्।
मा मदो मर्कटो मत्स्यो मकारा दश चञ्चलाः॥
पदविभागः
अन्वयः मनः मधुकरः मेघः मद्यपः मत्कुणः मरुत् मा मदः मर्कटः मत्स्यः मकाराः दश चञ्चलाः॥
प्रतिपदार्थः मनः = अन्तरङ्गं; mind, heart;
मधुकरः = भृङ्गः; honey-bee;
मेघः = जलदः; cloud;
मद्यपः = मधुपानं यः करोति; alcoholic, drunkard;
मत्कुणः = कीटविशेषः; bug;
मरुत् = वायुः; wind;
मा = लक्ष्मीः; Goddess lakṣmī, money, wealth;
मदः = हर्षातिरेकः; arrogance, conceit;
मर्कटः = वानरः; monkey;
मत्स्यः = मीनः; fish;
मकाराः = म-वर्णेन उच्चारिताः; ‘ma’ sounding ones (the words starting with letter ‘ma’);
दश = दशसङ्ख्याविशिष्टाः; ten;
चञ्चलाः = विचलनशीलाः; fickle, unsteady
तात्पर्यम् चित्तं, भ्रमरः, घनः, मद्यपानकृत्, मत्कुणः, पवनः, धनदेवता, अतिहर्षः, कपिः, झषः- इति दश अस्थिराः भवन्ति।
The mind, the bee, the cloud, the drunkard, the bug, the wind, wealth, pride, the monkey and the fish are the ten things starting with the letter ‘ma’ that are always unsteady.
प्रश्नाः १.के चञ्चलाः?
२.‘मधुकरो’ इत्यस्य पदविश्लेषणं वदत?
३.मकारा दश ------। (रिक्तस्थानं पूरयत।)?
४.‘मद्यपो’ इत्यत्र समासविग्रहं वदत?
102.विषमां हि दशां
मूलम् विषमां हि दशां प्राप्य दैवं गर्हयते नरः ।
(पाठ. विषमां च दशां प्राप्तो देवान् गर्हति वै भृशम्
पदविभागः विषमां हि दशां प्राप्य दैवं गर्हयते नरः आत्मनः कर्मदोषान् तु न एव जानाति अपण्डितः ॥
अन्वयः नरः हि विषमां दशां प्राप्य दैवं गर्हयते। अपण्डितः आत्मनः कर्मदोषान् तु न एव जानाति ॥
प्रतिपदार्थः नरः = मनुष्यः; humans;
हि = निश्चयेन; indeed;
विषमां = प्रतिकूलां; opposite, adverse, unfavorable;
दशां = स्थितिं; condition;
प्राप्य = लब्ध्वा; having got, obtained;
दैवं = भाग्यं; luck, destiny;
गर्हयते = निन्दति; blames, censures, reproaches;
अपण्डितः = अविवेकी; unscholarly person, less-learned one;
आत्मनः = स्वकीयस्य; of self;
कर्मदोषान् तु = आचरित-अपराधान्; faults in deeds done, mis-acts;
न एव जानाति = नैव अवबोधति; does not understand
तात्पर्यम् पुरुषः सङ्कटपरिस्थित्यां पतित्वा अदृष्टं उपालभते। जडबुद्धिः स्वीयाचरिते दुष्कृतीः नाधिगच्छति।
Indeed, having faced with adversities,man blames fate. The unscholarly person does not understand his own faulty [past] actions.
प्रश्नाः १.नरः कदा दैवं गर्हयते?
२.अपण्डितः किं नैव जानाति?
३.जानात्यपण्डितः इत्यत्र सन्धिः विभज्यताम्।
४.‘कर्मदोषाः’ इत्यत्र समासविग्रहं वदत?
५.‘प्राप्य’ इत्यस्य पदविश्लेषणं वदत?
६.दैवं ------ नरः। (रिक्तस्थानं पूरयत।)
103.अग्निहोत्रं गृहं क्षेत्रं
मूलम् अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ।
रिक्तहस्तेन नोपेयात् राजानं देवतां गुरुम्॥
पदविभागः अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ रिक्तहस्तेन न उपेयात् राजानं देवतां गुरुम् ॥
अन्वयः अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ राजानं देवतां गुरुम् रिक्तहस्तेन न उपेयात् ॥
प्रतिपदार्थः अग्निहोत्रं = यज्ञकुण्ड-वह्निः; fire;
गृहं = गेहं; home;
क्षेत्रं = सस्यभूमिं; field;
गर्भिणीं = ससत्त्वां; expecting (pregnant) woman;
वृद्धबालकौ = स्थविरं च, शिशुं च; old people and children;
राजानं = पालकं; king;
देवतां = देवं; deity, god;
गुरुं = विद्यादातारं; spiritual teacher;
रिक्तहस्तेन = शून्यपाणिः; with empty hand;
न उपेयात् = न उपगच्छेत्; should not approach
तात्पर्यम् यज्ञस्थलं, (बन्ध्वादीनां) निवासं, कृषिस्थलं, गर्भवतीं, वयोऽधिकं, बालम्, अधिपं, नाकवासिनं, आचार्यं च – एतान् (यत्किमपि उपहारं अगृहीत्वा) रिक्तहस्तः न गन्तव्यम्।
One should not go empty–handed to the [holy] fire,home, field, pregnant woman, old people, child, king, deity and spiritual teacher.
प्रश्नाः १.कान् रिक्तहस्तेन नोपेयात्?
२.‘वृद्धबालकौ’ इत्यत्र समासविग्रहं वदत?
३.‘गर्भिणीं’ इत्यस्य पदविश्लेषणं वदत?
४.------ नोपेयात्। (रिक्तस्थानं पूरयत।)?
104.परोक्षे कार्यहन्तारं
मूलम् परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भपयोमुखम्॥
पदविभागः परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्। वर्जयेत् तादृशं मित्रं विषकुम्भ–पयोमुखम्॥
अन्वयः परोक्षे कार्यहन्तारं, प्रत्यक्षे प्रियवादिनम्, तादृशं विषकुम्भ–पयोमुखम् मित्रं वर्जयेत् ॥
प्रतिपदार्थः परोक्षे = अप्रत्यक्षे; out of or beyond the range of sight, away from view;
कार्यहन्तारं = क्रियायाः विनाशकं; destroyer (spoiler) of work;
प्रत्यक्षे = साक्षात् स्थितौ; present, in sight, before the eye;
प्रियवादिनम् = मधुरवक्तारं; sweet-speaking one;
विषकुम्भ–पयोमुखम् = घटान्ते गरलं, घटतले दुग्धं यस्य; poison pot, with milk-[looking]surface;
तादृशं मित्रं = तद्विधं सुहृदं; such a friend;
वर्जयेत् = परित्यजेत्; should abandon, leave off
तात्पर्यम् अनुपस्थितौ उद्देश्यघातकं, उपस्थितौ तु स्निग्धवाचकं, अन्तः क्ष्वेडधारिणं बहिस्तु क्षीरधारकं भाण्डमिव सङ्गिनं त्यजेत्।
Such a friend must be abandoned, who ruins [our] work in the back and talks sweet in front. He isa pot of poison, looking like milk on surface.
प्रश्नाः १.कीदृशं मित्रं वर्जयेत्?
२.‘विषकुम्भपयोमुखम्’ इत्यत्र समासविग्रहं वदत?
३.‘कार्यहन्तारं’ इत्यत्र समासविग्रहं वदत?
४.प्रत्यक्षे ------। (रिक्तस्थानं पूरयत।)?
105.श्रद्धाभक्तिसमायुक्ता
मूलम् श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसाः।
वाग्यताः शुचयश्चैव श्रोतारः पुण्यशालिनः॥
पदविभागः सुलभः
अन्वयः श्रद्धा–भक्ति–समायुक्ताः अन्यकार्येषु न लालसाः वाग्यताः शुचयः च एव श्रोतारः पुण्यशालिनः (भवन्ति)॥
प्रतिपदार्थः श्रद्धा–भक्ति–समायुक्ताः = श्रद्धायुताः, भक्तियुताः च; endowed with;
श्रद्धा; and devotion;
(श्रद्धा = intranslatable word; It is- devotedness, preparedness, trust in śāstra, reverence for guru, belief in system, confidence in self- all combined together.;
अन्यकार्येषु = इतरकर्मसु; in any other works;
न लालसाः = न आसक्ताः; not absorbed in;
वाग्यताः = वाचि नियन्त्रिताः; of controlled, restrained speech;
शुचयः च एव = शुद्धात्मानः; of clean mind and thought, pure, upright;
श्रोतारः = ये शृण्वन्ति ते; listeners, audience;
पुण्यशालिनः = पुण्यात्मानः; filled with (religious or moral) merit, virtuous
तात्पर्यम् ये श्रवणकर्तारः श्रद्धायुक्ताः, भक्तियुक्ताश्च, कार्यान्तरेषु न मग्नाः, नियतवाचिनः, निर्मलान्तःकरणाः च, ते पुण्यात्मानः भवन्ति।
Virtuous listeners are those who possess reverence and devotion, whose minds are not taking pleasure in other things, who are of controlled speech, and are pure.
प्रश्नाः १.के पुण्यशालिनः?
२.‘श्रद्धाभक्तिसमायुक्ताः’ इत्यत्र समासविग्रहं वदत?
३.‘वाग्यताः’ इत्यस्य पदविश्लेषणं वदत?
४.‘पुण्यशालिनः’ इत्यत्र समासविग्रहं वदत?
५.‘शुचयश्चैव’ इत्यत्र सन्धिः विभज्यताम्।
६.------ लालसाः। (रिक्तस्थानं पूरयत।)
106.सम्पूर्णकुम्भो न करोति
मूलम् सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम् ।
(पाठ. घोषमुपैति सम्यक्) विद्वान्‌ कुलीनो न करोति गर्वं मूढास्तु जल्पन्ति गुणैर्विहीनाः॥ (पाठ. विद्वान्नरो यो) (पाठ. गुणैर्विहीना बहु वादयन्ति)
पदविभागः सम्पूर्णकुम्भः न करोति शब्दं अर्धः घटः घोषम् उपैति नूनं । विद्वान्‌ कुलीनः न करोति गर्वं मूढाः तु जल्पन्ति गुणैः विहीनाः॥
अन्वयः सम्पूर्णकुम्भः शब्दं न करोति। अर्धः घटः नूनं घोषम् उपैति। विद्वान्‌ कुलीनः गर्वं न करोति। मूढाः तु गुणैः विहीनाः जल्पन्ति ॥
प्रतिपदार्थः सम्पूर्णकुम्भः = पूर्णः घटः; a full ( = filled) pot;
शब्दं = ध्वनिं; sound;
न करोति = नाचष्टे; does not do;
अर्धः = अपूर्णः; half;
घटः = कुम्भः; pot;
नूनं घोषम् = बहु ध्वनिं; very much noise;
उपैति = (अत्र) करोति; makes (lit. under goes);
विद्वान्‌ = विवेकी; learned scholar;
कुलीनः = सत्कुले जातः; of noble family;
गर्वं = अत्यभिमानं; pride, haughtiness;
न करोति = नाचरति; does not do (here- become);
मूढाः तु = जडधियः तु; fools, block-heads;
गुणैः = सुगुणैः; by good qualities;
विहीनाः = रहिताः; devoid of, destitute or deprived of;
जल्पन्ति = वृथा आलपन्ते; babble, prattle
तात्पर्यम् सम्भृतः कलशः निस्वनं न करोति। अर्धसम्भृतस्तु अधिकं निनदं करोति। उत्तमकुलोत्पन्नः पण्डितः दुरभिमानी न भवति। मूर्खाः, गुणहीनाः तु व्यर्थं वदन्ति।
A completely filled pot does not make sound. A half filled pot makes lot of noise. A scholar of good family does not become haughty. Only the foolish, bereft of good qualities, babble.
प्रश्नाः १.कः शब्दं न करोति?
२.कः गर्वं न करोति?
३.‘सम्पूर्णकुम्भो’ इत्यत्र समासविग्रहं वदत।
४.अर्धो घटो ------ नूनं। (रिक्तस्थानं पूरयत।)?
५.‘गुणैर्विहीनाः’ इत्यत्र सन्धिः विभज्यताम्।
६.‘उपैति’ इत्यस्य पदविश्लेषणं वदत?
107.गुणवज्जनसंसर्गात् याति
मूलम् गुणवज्जनसंसर्गात् याति नीचोऽपि गौरवम्।
पुष्पमालाप्रसङ्गेन सूत्रं शिरसि धार्यते॥
पदविभागः गुणवत्-जनसंसर्गात् याति नीचः अपि गौरवम्। पुष्पमाला–प्रसङ्गेन सूत्रम् शिरसि धार्यते॥
अन्वयः गुणवत्-जनसंसर्गात् नीचः अपि गौरवम् याति। पुष्पमाला–प्रसङ्गेन सूत्रम् शिरसि धार्यते॥
प्रतिपदार्थः गुणवत्-जनसंसर्गात् = सद्गुणयुक्तं; by being in company ofthose having good qualities, keeping in contact of good-natured people/person;
नीचः अपि = अधमः अपि; even a lowly person;
गौरवम् = सम्माननं; respect;
याति = प्राप्नोति; reaches, attains;
पुष्पमाला–प्रसङ्गेन = कुसुमस्रजः साङ्गत्येन; by having contact with garland;
सूत्रम् = तन्तुः; thread;
शिरसि = मूर्ध्नि; on head;
धार्यते = संस्थाप्यते; is kept, is worn
तात्पर्यम् सज्जनानां सङ्गतौ हीनोऽपि आदरं प्राप्नोति। प्रसूनानां मालया संयुक्तः सन् तन्तुरपि उत्तमाङ्गे परिगृह्यते।
By the company of virtuous people, even a lowly person attains respect. The thread, due to its association with the flowers, is worn on the head [respected]. [It’s a popular tradition among women to wear flowers to decorate hair.]
प्रश्नाः १.कः अपि केन गौरवं याति?
२.किं केन कुत्र धार्यते?
३.‘गुणवज्जनसंसर्गात्’ इत्यत्र समासविग्रहं वदत?
४.‘पुष्पमालाप्रसङ्गेन’ इत्यत्र समासविग्रहं वदत?
५.‘नीचोऽपि’ इत्यत्र सन्धिः विभज्यताम्।
६.सूत्रं ------ धार्यते। (रिक्तस्थानं पूरयत।)?
108.शब्दजालं महारण्यं
मूलम् शब्दजालं महारण्यं चित्तभ्रमणकारणम् ।
अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञात् तत्त्वमात्मनः ॥ विवेकचूडामणिः, ६०
पदविभागः शब्दजालं महारण्यं चित्तभ्रमण-कारणम् अतः प्रयत्नात् ज्ञातव्यं तत्त्वज्ञात् तत्त्वम् आत्मनः ॥
अन्वयः शब्दजालं महारण्यं चित्तभ्रमण-कारणम् । अतः तत्त्वज्ञात् प्रयत्नात् आत्मनः तत्त्वं ज्ञातव्यम् ॥
प्रतिपदार्थः शब्दजालं = पदानां जालं; a collection, mass of words;
महारण्यं = घनं वनं; great forest;
चित्तभ्रमणकारणम् = मनसः विभ्रामकं; cause of confusion in mind;
अतः = अनेन कारणेन; hence, therefore;
तत्त्वज्ञात् = यः सत्यं जानाति तस्मात्; from the one who knows the truth (about Self);
प्रयत्नात् = प्रयासेन; through effort;
आत्मनः = स्वीयं; of the Self;
तत्त्वं = सत्यं; Truth;
ज्ञातव्यम् = अवबोद्धव्यं; should know, learn
तात्पर्यम् शब्दानां जालं गहनं विपिनमिव। तत् चित्तं भ्रामयति। अतः तथ्यं यः जानाति तस्मात् आत्मतत्त्वं ज्ञातव्यम्।
Words are like a dense forest and cause mind to deviate. Therefore one must study aboutSelf Knowledge from a Self-realized person.
प्रश्नाः १.किं महारण्यम्?
२.अतः किं कस्मात् कथं ज्ञातव्यम्?
३.‘चित्तभ्रमणकारणम्’ इत्यत्र समासविग्रहं वदत?
४.‘प्रयत्नाज्ज्ञातव्यं’ इत्यत्र सन्धिः विभज्यताम्।
५.‘तत्त्वज्ञात्’ इत्यस्य पदविश्लेषणं वदत?
६.शब्दजालं महारण्यं ------। (रिक्तस्थानं पूरयत।)?
109.वदनं प्रसादसदनं
मूलम् वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषां केषां न ते वन्द्याः ॥
पदविभागः वदनं प्रसादसदनं सदयं हृदयं सुधामुचः वाचः । करणं परोपकरणं येषां केषां न ते वन्द्याः ॥
अन्वयः वदनं प्रसादसदनं सदयं हृदयं सुधामुचः वाचः । करणं परोपकरणं येषां ते केषां न वन्द्याः ॥
प्रतिपदार्थः वदनं = मुखं; face;
प्रसादसदनं = प्रसन्नतायाः आस्पदं; abode of happiness;
सदयं = दयासहितं; compassionate, kind;
हृदयं = अन्तरङ्गं; heart;
सुधामुचः = मधु स्रवन्तः; releasing (giving out) nectar, expressing sweetness;
वाचः = वचनानि; words;
करणं = कार्यं; deed, act, action;
परोपकरणं = परेषां उपकृतिः; helping or doing good to others [Service, help, assistance, favour, kindness, obligation to others];
येषां = यज्जनानां; of whom;
ते = ते जनाः; they;
केषां = केषां; whose;
न वन्द्याः = न अभिवाद्याः; respectable, adorable
तात्पर्यम् येषाम् आननम् आनन्दस्य निलयं, हृच्च करुणाभरितं, मधुरशब्दयुक्ता वाक् च भवति, कार्यं च परोपकृतिः, ते केषां न आदरणयोग्या? (सर्वेषां वन्द्याः इति भावः।)
Who will not adore those, whose face is abode of happiness, words are nectar-like (sweet),acts are to help others? [Lit. to whom are they adorable not?]
प्रश्नाः १.के वन्द्याः?
२.‘प्रसादसदनं’ इत्यत्र समासविग्रहं वदत?
३.‘सुधामुचो’ इत्यत्र समासविग्रहं वदत?
४.‘वन्द्याः’ इत्यस्य पदविश्लेषणं वदत?
५.‘सदयं’ इत्यस्य पदविश्लेषणं वदत?
६.करणं ------। (रिक्तस्थानं पूरयत।)?
110.क्षणशः कणशश्चैव
मूलम् क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥
पदविभागः क्षणशः कणशः च एव विद्याम् अर्थं च साधयेत् । क्षणे नष्टे कुतः विद्या कणे नष्टे कुतः धनम् ॥
अन्वयः क्षणशः कणशः च एव विद्याम् अर्थं च साधयेत् । क्षणे नष्टे कुतः विद्या कणे नष्टे कुतः धनम् ॥
प्रतिपदार्थः क्षणशः = प्रत्येकं क्षणात्; from every moment (measure of time equal to 4/5 of a second);
कणशः च एव = प्रत्येकं कणात्; from every grain, a small bit of anything;
विद्यां = ज्ञानं; knowledge;
अर्थं च = धनं च; wealth, purpose;
साधयेत् = सिद्धिं कुर्यात्; should gain;
क्षणे नष्टे = यदा क्षणः अपैति; when a moment is lost;
कुतः = कस्मात्; from where, whence;
कणे नष्टे = कणः यदा विनश्यति तदा; when a grain is lost, [when even that] little bit is lost;
धनम् = वित्तं; money
तात्पर्यम् क्षणं क्षणं उपयुज्य विद्यार्जनं, कणं कणं च प्रयुज्य धनार्जनं चकुर्यात्। काले विनष्टे विद्यार्जनं न साध्यम्। वस्तुनि नष्टे सति धनार्जनं न सिद्ध्यति।
One should learn from every moment, and earn wealth (or attain purpose) from each grain (every little bit). When time is lost, where is knowledge; and when grain is lost, where is money? (or when the little bit is lost, how is the purpose attained)?
प्रश्नाः १.विद्यामर्थं कथं साधयेत्?
२.कुतः?
३.‘क्षणे नष्टे’ इत्यत्र केन सप्तमी?
४.‘कणशश्चैव’ इत्यत्र सन्धिः विभज्यताम्।
५.कणे नष्टे ------ ------। (रिक्तस्थानं पूरयत।)?
111.आचारः परमो धर्म
मूलम् आचारः परमो धर्म आचारः परमं तपः।
आचारः परमो धर्म आचारः परमं तपः
पदविभागः आचारः परमः धर्मः आचारः परमं तपः। आचारः परमं ज्ञानम् आचरात् किं न साध्यते॥
अन्वयः
प्रतिपदार्थः आचारः = सदाचारः, नियमानुष्ठानं; (here- Practicing of) any customary observance or duty;
परमः = उन्नतः, उत्तमः; highest, best, most excellent, greatest;
धर्मः = कर्तव्यम्; (here) sacred duty;
परमं तपः = उत्तमं तपः (वैधक्लेशजनकं कर्म); greatest penance;
परमं ज्ञानम् = उत्कृष्टः बोधः; superior knowledge;
आचरात् = सदाचरणेन, नियमानुष्ठानेन; through practicing;
किं = कः पदार्थः; what;
न साध्यते = न प्राप्तुं शक्यते; is not possible?
तात्पर्यम् सदाचारानुष्ठानमेव उन्नतः धर्मः, उत्तमं तपः, उत्कृष्टं ज्ञानं च भवति। नियमानुष्ठानेन किं वा न साधयितुं शक्नोति पुरुषः?
Practicing is the highest dharma (sacred duty), greatest penance, superior knowledge. What is that which can't be achieved through practicing.
प्रश्नाः १.आचारःनामकिम्? स्ववाक्येषु विवृणुत।
२.तपः इति किंलिङ्गकं पदम्?
३.आचारात् इत्यत्र कः विभक्तिः?
112.सर्वद्रव्येषु विद्यैव
मूलम् सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा ॥ -हितोपदेशः
पदविभागः सर्वद्रव्येषु विद्या एव द्रव्यम् आहुः अनुत्तमम् । अहार्यत्वाद् अनर्घ्यत्वाद् अक्षयत्वात् च सर्वदा ॥
अन्वयः सर्वद्रव्येषु विद्या एव सर्वदा अहार्यत्वाद् अनर्घ्यत्वाद् अक्षयत्वात् च अनुत्तमम् द्रव्यम् आहुः ॥
प्रतिपदार्थः सर्वद्रव्येषु = सर्ववस्तुषु; among all objects, substances;
विद्या एव = ज्ञानं; knowledge (learning) only;
सर्वदा = सर्वसमयेषु; always;
अहार्यत्वाद् = न शक्यते हर्तुमिति कारणेन; because of unstealability;
अनर्घ्यत्वाद् = अमूल्यत्वात्; because of invaluability, pricelessness;
अक्षयत्वात् च = क्षयं न यातीति कारणेन; because of imperishability;
अनुत्तमम् = अस्मात्परं न किञ्चिद् भवतीति; nothing better than this, the best;
द्रव्यम् = वस्तु; substance;
आहुः = इति वदन्ति; they say
तात्पर्यम् सर्वधनेषु सर्वदा विद्याधनं प्रधानं भवति। नास्मादुत्तमं किञ्चिदन्यत् भवति। तस्य गुणा एवम्- विद्या न केनचित् हर्तुं शक्यते, तस्य मूल्यं इयदिति वक्तुं न शक्यते, तस्याः दानेनापि सा वर्धते, न तु क्षीयते।
They say- Knowledge is the supreme-most among all substances in the world- because it is unstealable, invaluable, and always imperishable.
प्रश्नाः १.सर्वद्रव्येषुकिंअनुत्तमम्?
२.अहार्यं नाम किम्?
३.कथं विद्या अक्षयद्रव्यं भवति?
४.‘अनर्घ्य’-शब्दस्य पदविश्लेषणं वदत?
५.‘अक्षयत्वात्’ इत्यत्र पञ्चमी कथम्?
६.‘सर्वद्रव्येषु’ इत्यत्र कथं सप्तमी?
113.दूरस्थो ज्ञायते
मूलम् दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत् ।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा ॥ रामायणमञ्जरी, किष्किंदा
पदविभागः दूरस्थः ज्ञायते सर्वः पर्वते ज्वलनादिवत् चूडामणिः शिरस्थः अपि दृश्यते न स्वचक्षुषा ।
अन्वयः दूरस्थः सर्वः पर्वते ज्वलनादिवत् ज्ञायते। चूडामणिः शिरस्थः अपि स्वचक्षुषा न दृश्यते ।
प्रतिपदार्थः दूरस्थः = अनिकटम्, असन्निकृष्टम्, दूरे स्थितः; situated faraway;
सर्वः = समस्तं; everything;
पर्वते = उत्तुङ्गशैले; on the mountain;
ज्वलनादिवत् = अग्निवत्; like the fire;
ज्ञायते = अवगम्यते; is known;
चूडामणिः = मूर्धाभरणम्, शिरोरत्नम्; a jewel worn on the top of the head, a crest-jewel;
शिरस्थः अपि = मूर्ध्नि स्थितोऽपि; even when situated on (one’s own) head;
स्वचक्षुषा = स्वस्य अक्षिभ्याम्; with own eye;
न दृश्यते = न लक्ष्यते, न गोचरीभवति; cannot be seen
तात्पर्यम् यथा पर्वते ज्वलद् वह्निः दूरतः अपि द्रष्टुं शक्यते तथा, दूरे स्थितं कश्चित् वस्तु सम्पूर्णतया दृश्यते। किन्तु यत् स्वसमीपे वर्तते, तदपि कदाचित् द्रष्टुं न पारयामः। यथा चूडामणिः शिरसि वर्तमानः अपि स्वस्य नेत्राभ्यां साक्षात् द्रष्टुं न शक्यते, तथैव।
Everything faraway can be known, like the fire on the mountain. But crest-jewel cannot be seen by one’s own eyes.
प्रश्नाः १.दूरस्थःसर्वःकथंज्ञायते?
२.स्वचक्षुषा किं न दृश्यते?
३.चूडामणिः कुत्र वर्तते?
४.‘दृश्यते’ इति शब्दस्य पदविश्लेषणं वदत?
५.‘ज्वलनादिवत्’ इत्यत्र समासविग्रहं वदत?
६.अस्य श्लोकस्य अन्तरार्थः कः?
114.प्रेक्षणीयः प्रयत्नेन
मूलम् प्रेक्षणीयः प्रयत्नेन स्वभावो नेतरे गुणाः अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥।
पदविभागः प्रेक्षणीयः प्रयत्नेन स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते॥
अन्वयः स्वभावः प्रयत्नेन प्रेक्षणीयः। इतरे गुणाः न । गुणान् सर्वान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥
प्रतिपदार्थः स्वभावः = अन्तःप्रकृतिः, स्वकीयभावः, निसर्गः; inner nature;
प्रयत्नेन = प्रकृष्टेन यत्नेन; by efforts;
प्रेक्षणीयः = परिशीलनीयः, सूक्ष्मतया दर्शनीयः; should be observed;
न इतरे = नान्ये; not others;
गुणाः = विशेषलक्षणानि; qualities;
गुणान् सर्वान् = समस्तान् गुणान्; all the qualities;
अतीत्य हि = अतिरिच्य, अतिक्रम्य; surpassing;
मूर्ध्नि = शिरसि; on head;
वर्तते = भवति; stays, is there
तात्पर्यम् मानवस्य प्रकृतिरेव परिशीलनीयः। न इतने गुणाः (गौणत्वात्)। समस्तगुणान् अतिरिच्य स्वकीया प्रकृतिरेव प्रमुखा वर्तते। (तत्परिशीलनेन सर्वे गुणाः ज्ञायन्ते।
One should observe the inner nature carefully, and not other qualities. Surpassing all (general) qualities, inner nature happens to be head of them.
प्रश्नाः १.कःप्रेक्षणीयः?
२.के न प्रेक्षणीयाः?
३.स्वभावः कुत्र वर्तते?
४.अतीत्य -- अस्य शब्दस्य पदविश्लेषणं वदत?
५.प्रेक्षणीयः -- अस्मिन् शब्दे कः प्रत्ययः?
६.मूर्ध्नि वर्तते- इत्यस्य कोऽभिप्रायः?
115.गुरुर्बन्धुरबन्धूनां
मूलम् गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषां ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां ॥
पदविभागः गुरुः बन्धुः अबन्धूनां गुरुः चक्षुः अचक्षुषां । गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां ॥
अन्वयः गुरुः अबन्धूनां बन्धुः। गुरुः अचक्षुषां चक्षुः। सर्वेषां न्यायवर्तिनां गुरुः पिता च माता च ॥
प्रतिपदार्थः गुरुः = अध्यापकः, उपाध्यायः, आचार्यः; preceptor, teacher, preacher;
बन्धुः = ज्ञातिः, स्वजनः; brother, kin, relative;
अबन्धूनां = बन्धुविहीनानां, स्वजनरहितानां; of those who do not have any brothers or kinsmen;
चक्षुः = अक्षि, नयनं; eye;
अचक्षुषां = चक्षुरहितानां, अक्षिविहीनानां; of those without eyes (blind);
पिता = जनकः, जन्मदाता; father;
माता = जननी, जनयित्री; mother;
सर्वेषां = सर्वजनानां; of everyone, all;
न्यायवर्तिनां = सन्मार्गगामिनां; for those who travel on righteous path
तात्पर्यम् अध्यापकः अथवा उपाध्यायः बान्धवविहीनानां बन्धुरिव भवति। सः दृष्टिहीनानां दृष्टिः भूत्वा सन्मार्गं दर्शयति। सः सत्पथगामिनां न्यायमार्गावलम्बिनां पितराविव भवति।
Guru is the relative of those without relatives. He is the eyes of those without sight. He is the father and mother to all those who travel on the righteous path of life. (Guru is one’s everything.. like God. He helps us to see the Truth.)
प्रश्नाः १.गुरुःकस्यबन्धुःभवति?
२.गुरुः अचक्षुषां किं भवति?
३.गुरुः न्यायवर्तिनां किं भवति?
४.‘न्यायवर्तिनां’शब्दस्य व्युत्पत्तिं दर्शयत।
५.‘अबन्धूनां’ इत्यत्र समासविग्रहं वदत?
६.अचक्षुषां चक्षुः इत्यस्य कोऽर्थः?
116.को न याति वशं लोके
मूलम् को न याति वशं लोके मुखं पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरं ध्वनिं ॥
पदविभागः कः न याति वशं लोके मुखं पिण्डेन पूरितः । मृदङ्गः मुखलेपेन करोति मधुरं ध्वनिं ॥
अन्वयः लोके कः मुखं पिण्डेन पूरितः वशं न याति? मृदङ्गः मुखलेपेन मधुरं ध्वनिं करोति ॥
प्रतिपदार्थः लोके = जगति; in this world;
मुखं = मनुष्यपक्षे– आस्यं, मृदङ्गपक्षे– ध्वनये ताडनस्थानं; mouth, part where the instrument is striken for playing music (pun on the word);
पिण्डेन = मनुष्यपक्षे– अन्नकवलेन, मृदङ्गपक्षे– आर्द्रपिष्टेन; with a morsel of food, by a paste of flour (pun on the word);
पूरितः = भरितः; filled;
वशं = अधीनं; into control;
न याति = न भवति; does not go/ reach/ get;
मृदङ्गः = सङ्गीते वाद्यवस्तु लयकारकः; a South-Indian musical instrument for rhythm and accompaniment;
मुखलेपेन = मुखस्य अवलेपनेन; by mouth smearing;
मधुरं = श्रोतुं सुन्दरं, श्रवणसुखकरं; sweet;
ध्वनिं = sound; करोति = does
तात्पर्यम् लोके कः मनुष्यः अन्नकवलेन दानेन दातुः अधीनो न भवति? मृदङ्गः अपि पिण्डेन ( = आर्द्र-पिष्टस्य-लेपनेन) पूरितः सन् सुन्दरं शब्दं करोति, मधुरं ध्वनति।
Who does not get into control when mouth is filled with morsel of food? Mṛdaṅga makes beautiful sound when its mouth is smeared (with piṇḍa = paste of flour). [For better quality of sound, some (wheat flour-) paste is applied to the part where the instrument is striken for playing music. Poet compares it with giving someone their mouthful (of food) and getting them into his control on that basis.]
प्रश्नाः १.लोके मनुष्यः कथं वशं याति?
२.मृदङ्गः कथं मधुरं ध्वनति?
३.अत्र पिण्डशब्दस्य कौ अर्थौ?
४.‘मुखलेपेन’ इत्यत्र समासविग्रहं वदत?
117.महाजनस्य संसर्गः
मूलम् महाजनस्य संसर्गः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्॥
पदविभागः महाजनस्य संसर्गः कस्य न उन्नति-कारकः। पद्मपत्र-स्थितं तोयं धत्ते मुक्ताफल-श्रियम्॥
अन्वयः महाजनस्य संसर्गः कस्य न उन्नति–कारकः। पद्मपत्र–स्थितं तोयं मुक्ताफल-श्रियम् धत्ते ॥
प्रतिपदार्थः महाजनस्य = सत्पुरुषस्य; of great person (people);
संसर्गः = परिचयः, सम्बन्धः; company, association, contact;
कस्य = कस्य नरस्य; whose, for whom;
उन्नति–कारकः न = वृद्धिः-समृद्धि-उदय-कारणं; not cause of growth, height, progress;
पद्मपत्र–स्थितं = कमलदले विद्यमानं; that which is upon a lotus leaf;
तोयं = जलं; water;
मुक्ताफल-श्रियं = मोक्तिकसौन्दर्यं; the beauty and virtue of pearl;
धत्ते = धरति; wears
तात्पर्यम् सज्जनैः सख्यं कस्य अभ्युदयं न कारयति? कमलदले वर्तमानः जलबिन्दुः मौक्तिकवत् प्रकाशसौन्दर्यादिकं भजते।
Whom does, being in association with good people, not bring progress? The water [droplet] on a lotus leaf shines like a pearl.
प्रश्नाः १.कः उन्नतिकारकः?
२.केन सह संसर्गः किं करोति?
३.किं मुक्ताफल-श्रियं धत्ते?
४.‘पद्मपत्रस्थितं’ इत्यत्र समासविग्रहं वदत?
५.‘मुक्ताफलश्रियं’ इत्यत्र समासविग्रहं वदत?
६.‘उन्नतिकारकः’ इत्यत्र समासविग्रहं वदत?
118.असतोऽपि भवति गुणवान्
मूलम् असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः।
पङ्कादुदेति कमलं क्रिमयः कमालादपि भवन्ति॥
पदविभागः असतः अपि भवति गुणवान् सद्भ्यः अपि परं भवन्ति असद्वृत्ताः। पङ्काद् उदेति कमलं क्रिमयः कमालाद् अपि भवन्ति॥
अन्वयः असतः अपि गुणवान् भवति। सद्भ्यः अपि परं असत्–वृत्ताः भवन्ति। पङ्काद् कमलं उदेति। क्रिमयः कमालाद् अपि भवन्ति॥
प्रतिपदार्थः असतः अपि = दुर्जनादपि; from the wicked;
गुणवान् = सद्गुणशीलः, सज्जनः, सुगुणयुक्तः; virtuous one;
भवति = जायते; comes out, is born;
सद्भ्यः अपि = सज्जनेभ्योऽपि, सत्पुरुषेभ्योऽपि; from noble ones also;
परं = किन्तु; but, very much;
असत्–वृत्ताः = दुष्टाः, दुर्गुणशीलाः, दुर्जनाः; wicked-natured;
पङ्काद् = (मृत्-जल-मिश्रित-कलुषस्थानात्), कर्दमात्, जम्बालात्; from the mud;
कमलं = पद्मं, पङ्कजं; lotus;
उदेति = प्रभवति, उत्पद्यते; comes out, rises;
क्रिमयः = सूक्ष्मजीविनः, कीटादि-अल्पप्राणिनः, क्षुद्रजन्तवः; germs;
कमालाद् अपि = पद्मात् अपि; from lotus also;
भवन्ति = जायन्ते, प्रभवन्ति; are born
तात्पर्यम् दुर्जनेभ्यः सज्जनो जायते कदाचित्। क्वचित् सज्जनेभ्योऽपि दुष्टः उत्पद्यते। (यथा-) कर्दमात् (अशुचिस्थानात्) पद्मं विकसति, तस्मात् पद्मात् एव कीटाणवः जायन्ते।
A virtuous person might arise from (among) wicked people; and evil-minded people can arise from (among) noble ones. Lotus is born out of mud, and germs arise out of even the lotus.
प्रश्नाः १.कुतः गुणवान् भवति?
२.सद्भ्योऽपि के भवन्ति?
३.क्रिमयः कुतो जायन्ते?
४.‘भवन्त्यसद्वृत्ताः’ इत्यत्र सन्धिः विभज्यताम्?
५.‘पङ्कादुदेति’ इत्यत्र सन्धिः विभज्यताम्?
६.‘असद्वृत्ताः’ इत्यत्र समासविग्रहं वदत?
119.आत्मनो मुखदोषेण
मूलम् आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ –पञ्चतन्त्रम् ४.४८
पदविभागः आत्मनः मुखदोषेण बध्यन्ते शुक-सारिकाः । बकाः तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥
अन्वयः शुक-सारिकाः आत्मनः मुखदोषेण बध्यन्ते । बकाः तत्र न बध्यन्ते। मौनं सर्वार्थ-साधनम् ॥
प्रतिपदार्थः आत्मनः = स्वस्य, स्वीयः; of the self;
मुखदोषेन = वाचा आचरित दोषेन, अनुचितस्थाने संवादनेन; by the fault of the mouth (talk);
शुक-सारिकाः = पक्षिविशेषाः; parrot, a bird (nightingale/cuckoo?);
बकाः = पक्षिविशेषाः; cranes;
बध्यन्ते = बन्धनस्थानं यान्ति, जाले, वागुरायां वा पतन्ति; get trapped, tied down;
मौनं = तूष्णीं स्थितिः; silence;
सर्वार्थ-साधनम् = समस्त-प्रयोजन-सिद्धिकरं; instrument for obtaining all objects
तात्पर्यम् शुक-पिकादि-पक्षिणः (अनुचितस्थलेषु) स्वमुखोद्घाटनवशात् (ध्वनिकरणेन) बन्धनं यान्ति। बकस्तु (तूष्णीं तिष्ठतीति कारणेन) कदाचिन्न बन्धे पतति। अतः तूष्णींस्थितिः ( = वाग्व्यापारराहित्यं) सर्वत्र (यत्रकुत्रचित् रहः व्यवहारः, गूढत्वं चापेक्ष्येते तत्र) प्रयोजनानि साधयति।
The birds like parrots and cuckoos? get trapped by fault of their mouths (voices/sounds). Cranes do not get trapped. Silence is an instrument for obtaining all objects. [Applies to certain contexts where one needs to be silent, in things related to secrecy and diplomacy.]
प्रश्नाः १.शुकाः कुतः बध्यन्ते?
२.बकाः कुतो न बध्यन्ते?
३.किं सर्वाथसाधकं भवति?
४.‘मुखदोषेण’ इत्यत्र समासविग्रहं वदत?
५.------ न बध्यन्ते। (रिक्तस्थानं पूरयत।)?
६.‘सर्वाथसाधकं’ इत्यत्र समासविग्रहं वदत?
120.रत्नैर्महार्हैस्तुतुषुर्न देवा
मूलम् रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥ –नीतिशतकम्, भर्तृहरिः
पदविभागः रत्नैः महार्हैः तुतुषुः न देवाः न भेजिरे भीमविषेण भीतिं । सुधां विना न प्रययुः विरामं न निश्चितार्थात् विरमन्ति धीराः ॥
अन्वयः देवाः महार्हैः रत्नैः न तुतुषुः। भीमविषेण भीतिं न भेजिरे। सुधां विना विरामं न प्रययुः। धीराः निश्चितार्थात् न विरमन्ति ॥
प्रतिपदार्थः देवाः = द्युर्लोकवासिनः; gods;
महार्हैः = अमूल्यैः; by great, valuable, priceless;
रत्नैः = तन्नामविशिष्टैः मणिभिः; by gems, precious stones;
न तुतुषुः = न तृप्ता अभवन्; did not get satisfied, were not contented;
भीमविषेण = भयानक-गरलेन, हालाहलेन; by terrible poison;
भीतिं = भयं; fear;
न भेजिरे = न प्राप्नुवन्; did not take recourse;
सुधां = अमृतम्; amṛtaṃ, the nectar of immortality;
विना = रहितं; without;
विरामं = अवसानं, विघ्नः; Cessation, discontinuance, pause, termination;
न प्रययुः = न प्राप्नुवन्; did not reach;
धीराः = धैर्यशालिनः, स्थिरचित्ताः; courageous;
निश्चितार्थात् = कृतात् सङ्कल्पात्; from determined, ascertained end, aim, objective;
न विरमन्ति = निवर्तन्ते (पृथकग्गच्छन्ति); do not stop, do not cease to act, do not give up
तात्पर्यम् द्युलोकवासिनः देवताः अमूल्यमणिभिः न सन्तोषमलभन्त। ते घोरगरलेन (हालाहालेन) न भीताः। यावत् पीयूषं न प्राप्नुवन्, तावत् प्रयत्नं नात्यजन्। सङ्कल्पितेभ्यः कार्येभ्यः धैर्यशालिनो नराः न निवर्तन्ते (पृथकग्गच्छन्ति)।
Gods did not get satisfied by precious stones; were not afraid by dangerous poison; did not stop until they attained the immortality nectar. Courageous people never quit (in) the (middle) goals they decide (to attain.)
प्रश्नाः १.के कैः न तुतुषुः?
२.केन भीतिं न भेजिरे?
३.के तस्मात् न विरमन्ति?
४.‘निश्चितार्थात्’ इत्यत्र समासविग्रहं वदत?
५.‘भेजिरे’ इत्यस्य पदविश्लेषणं वदत?
६.‘तुतुषुः’ इत्यस्य पदविश्लेषणं वदत?
121. साक्षराः विपरीताश्चेत्
मूलम् साक्षराः विपरीताश्चेद्राक्षसा एव केवलम्।
सरसो विपरीतश्चेत् सरसत्वं न मुञ्चति॥
पदविभागः
अन्वयः साक्षराः विपरीताः चेत् राक्षसाः एव केवलम्। सरसः विपरीतः चेत् सरसत्वं न मुञ्चति॥
प्रतिपदार्थः साक्षराः = अक्षरलेखनज्ञानिनः; those who can write, learned people in general;
विपरीताः = विरुद्धक्रमाः, विपर्ययाः; reversed, opposite;
चेत् = यदि; if;
राक्षसाः एव = दानवाः; demons verily;
केवलम् = मात्रम्; indeed (lit. only);
सरसः = सरलः, रसयुक्ताः; charming, lovely, agreeable, beautiful;
सरसत्वं = सरलत्वं, रसयुक्ततां; charm;
न मुञ्चति = न त्यज्यति; does not leave
तात्पर्यम् अक्षराणां विपर्यस्तविन्यासेन अर्थगौरवं वर्णयति पद्यमिदम्। साक्षराः यदि विपरीतमाचरन्ति, (स्वेषामक्षरज्ञानस्य दुरुपयोगं कुर्वन्ति), तर्हि (विपरीताचरणेन अन्याय्येन यस्य हानिर्जाता, तस्मै) ते राक्षसाः (क्रूराः,दुष्टाः) भवन्ति। किन्तु सरसो विपरीत अपि (शब्दक्रमस्य विपर्यासेनापि) सरस एव भवति। (सरसः व्यक्तिः कदाचित् स्वस्य स्वभावं) रसयुक्तत्वं न मुञ्चति।)
If [the word] साक्षराः ( = scholars) become otherwise, they turn to राक्षसाः ( = devils). [But] if [the word] सरस ( = charming) is reversed, it does not leave out charmingness. This is play on words and meaning.
प्रश्नाः १.साक्षराः विपरीताः किं भवन्ति?
२.कः सरसत्वं न मुञ्चति?
३.‘विपरीत’शब्दस्य कोऽर्थः?
४.‘साक्षराः’ इत्यस्य पदविश्लेषणं वदत?
122.अपमानितोऽपि कुलजो न वदति
मूलम् अपमानितोऽपि कुलजो न वदति परुषं स्वभावदाक्षिण्यात्।
न हि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम्॥
पदविभागः अपमानितः अपि कुलजः न वदति परुषं स्वभाव–दाक्षिण्यात्। न हि मलय–चन्दनतरुः परशुप्रहतः स्रवेत् पूयम्॥
अन्वयः अपमानितः अपि कुलजः स्वभाव–दाक्षिण्यात् परुषं न वदति। मलय–चन्दनतरुः परशुप्रहतः पूयम् न हि स्रवेत्॥
प्रतिपदार्थः अपमानितः अपि = पराभूतः; even when insulted;
कुलजः = सत्कुले उत्पन्नः; one born in a noble family;
स्वभाव–दाक्षिण्यात् = प्रकृतिसिद्ध-लब्ध-अनुकूलता-गुणवशात्; because of natural-born politeness;
परुषं = मनःपीडाकरवचनं, निष्ठुरवाक्यं; hurting [words];
न वदति = न ब्रवीति; does not speak;
मलय–चन्दनतरुः = मलयनामके पर्वते स्थितःवृक्षविशेषः; Sandal-wood tree on Malaya mountain;
परशुप्रहतः = कुठारेण आहतः, ताडितः; hit with axe;
पूयम् = दुर्गन्धं; filthy smell;
न हि = नैव; not;
स्रवेत् = निःसारयेत्, दद्यात्; give out, flow out
तात्पर्यम् पराभूतः अपि सत्कुले जातः पुरुषः निष्ठुरवाक्यानि सहजसिद्धदयाभावात् न वदति । मलयगिरौ चन्दनतरुः कुठारेण आहतः अपि दुर्गन्धं न प्रसरति (सुगन्धमेव प्रसरति)॥
Even when insulted, a noble-family-born person does not say hurting words, because of his innate natural politeness. The sandal tree of the Malaya mountain does not give out filthy smell [even] when cut with an axe. (It only gives out good smell.)
प्रश्नाः १.कः कदा परुषं न वदति?
२.सः कुतः परुषं न वदति? ३चन्दनतरुः कुत्र वर्तते?
४.चन्दनतरुः कदा किं न स्रवेत्?
५.‘परशुप्रहतः’ इत्यत्र समासविग्रहं वदत?
६.‘कुलजः’ इति शब्दस्य पदविश्लेषणं वदत?
123.आशाया कृतदासो
मूलम् आशाया कृतदासो यः स दासः सर्वदेहिनां ।
आशा दासीकृता येन तस्य दासायते जगत् ॥
पदविभागः आशाया कृतदासः यः सः दासः सर्वदेहिनां । आशा दासीकृता येन तस्य दासायते जगत् ॥
अन्वयः आशाया कृतदासः यः सः सर्वदेहिनां दासः। आशा दासीकृता येन तस्य जगत् दासायते ॥
प्रतिपदार्थः आशाया = दीर्घाकाङ्क्षा, आयता तृष्णा; by greed;
कृतदासः = भृत्यः कारितः; rendered servant, made slave, enslaved;
यः = यः पुंसः; one who;
सः = सः पुरुषः; he;
सर्वदेहिनां = समस्तप्राणिनां; of all people, beings;
दासः = भृत्यः, सेवकः; slave;
येन = येन नरेण; by whom;
तस्य = तस्य जनस्य; his, of that one;
जगत् = संसारः, लोकः; world;
दासायते = दासो भवति; becomes a slave
तात्पर्यम् यः पुरुषः अधिकतृष्णां करोति, सः (तृष्णाशान्तये सर्वेभ्यः जीवेभ्यः यत्किञ्चित् वाञ्छति। अतः) सर्वेषां जीवानां दासवत् जीवति। यः दीर्घाकाङ्क्षान् जहाति, सः (कस्यापि दासो न भवति, प्रत्युत) समस्तं जगत् तस्यैव दासो भवति (यतः सः कस्मादपि किमपि नाकाङ्क्षति।) जो आशा के दास हैं, वे पूरे लोक के दास होते हैं। आशा जिनकी दासी होती है, पूरा लोक उनका दास के समान होता है। ఆశకు దాసులైనవారు లోకానికంతటికీ దాసులు. ఆశ ఎవరికి దాసురాలో, వారికి లోకమంతా దాసత్వం చేస్తుంది.
Those who are under bondage of expectation are the bond-servants of the whole world. But to those whose slave is the expectation, the world is like a bond-servant. One who is made slave of greed, becomes a slave of all beings. [But] to that who has enslaved the greed, the whole world becomes a slave.
प्रश्नाः १.कः सर्वदेहिनां दासः?
२.आशया दासीकृतस्य किं भवति?
३.तस्य ------ जगत्। (रिक्तस्थानं पूरयत।)?
४.‘दासायते’ इत्यस्य पदविश्लेषणं वदत?
124.खलः करोति दुर्वृत्तं
मूलम् खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥
पदविभागः खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननः अहरत् सीतां बन्धनं तु महा-उदधेः ॥
अन्वयः खलः दुर्वृत्तं करोति । नूनं साधुषु फलति । दशाननः सीतां अहरत् । महोदधेः तु बन्धनम् (अभवत्)॥
प्रतिपदार्थः खलः = दुर्जनः; wicked man;
दुर्वृत्तं = दुष्कृतं, दुष्टाचरणं; bad deed;
करोति = आचरति; does;
नूनं = अवश्यम्; certainly, assuredly, surely, verily, indeed;
साधुषु = सज्जनेषु; upon good men;
फलति = फलितो भवति, प्रभावो पतति; bears fruit;
दशाननः = दशकण्ठः, दशग्रीवः, रावणः; the ten-faced demon (Rāvaṇa);
सीतां = जानकीं, रामपत्नीम्; Sita (obj.);
अहरत् = अपहरणम् अकरोत्; stole;
महोदधेः तु = समुद्रस्य तु; of the great ocean;
बन्धनं = (अत्र) सेतुनिर्माणं; confinement, (lit. binding);
तात्पर्यम् दुर्जनः दुष्टं कार्यमाचरति, तत्फलं सज्जनेषु आपतति। रावणः सीतां अपाहरत्, किन्तु बन्धनं समुद्रस्य अभवत्। (रामः सीताप्राप्तये लङ्कां गन्तुं समुद्रे सेतुं निर्मितवान्।)
The wicked one does bad things and they show up upon noble men. Ravana had taken away Sita and the ocean had to be confined. (Rama built bridge across the ocean to reach Ravana’s place, to get back Sita.)
प्रश्नाः १.खलः किं करोति?
२.साधुषु किं फलति?
३.बन्धनं कस्य कुतः अभवत्?
४.‘दुर्वृत्तं’ इत्यस्य कोऽर्थः?
५.‘महोदधेः’ इत्यत्र सन्धिः विभज्यताम्?
६.‘फलति साधुषु’ इत्यत्र कथं सप्तमीविभक्तिः?
125.अर्थनाशं मनस्तापं
मूलम् अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
(पाठ. गृहिणीचरितानि च) वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ -चाणक्यनीतिः
पदविभागः अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं च अपमानं च मतिमान् न प्रकाशयेत् ।
अन्वयः मतिमान् अर्थनाशं, मनस्तापं, गृहे दुश्चरितानि च, वञ्चनं च, अपमानं च- न प्रकाशयेत् ।
प्रतिपदार्थः मतिमान् = विवेकवान्; wise person, intelligent one;
अर्थनाशं = धनहानिं; loss of money;
मनस्तापं = हृदयपीडां; mental agony, inner pain;
गृहे = गेहे; at home;
दुश्चरितानि च = दुष्टानि आचरितानि; bad characters, wrong behaviour (of home-mates);
वञ्चनं च = प्रतारणं, छलः; deceit, fraud, deception;
अपमानं च = पराभवः; insult, dishonour;
न प्रकाशयेत् = न बहिः प्रकटयेत्; should not disclose;
(पाठ. गृहिणीचरितानि = पत्न्याः सम्बन्धिविषयाः = character aspects of one’s wife)
तात्पर्यम् विचारशीलः नरः स्वसम्बद्धविषयानां प्रस्तुतिम् अन्येषां समक्षे न कुर्यात् । एतान् रहसि स्थापयेत्– आर्थिकहानिः, हृदयपीडा, गेहे स्थितानां सदस्यानां दुष्टानि आचरितानि, (अन्यैः स्वस्मिन् कृतं) कपटं, अनादरः च।
Wise man should never disclose [the following things]– monitory loss, inner pain, having bad things/people/events within the household, being cheated and being humiliated.
प्रश्नाः १.अर्थनाशो नाम किम्?
२.मतिमान् किं न कुर्यात्?
३.------ प्रकाशयेत्। (रिक्तस्थानं पूरयत।)?
४.‘प्रकाशयेत्’ इत्यस्य पदविश्लेषणं वदत?
५.‘मनस्तापं’ कः सन्धिरिति विस्तरं वदत।
126.गर्वाय परपीडायै
मूलम् गर्वाय परपीडायै दुर्जनस्य धनं बलम्।
सुजनस्य तु दानाय रक्षणाय च ते सदा॥
पदविभागः गर्वाय परपीडायै दुर्जनस्य धनं बलम्। सुजनस्य तु दानाय रक्षणाय च ते सदा॥
अन्वयः दुर्जनस्य धनं गर्वाय बलम् परपीडायै (च भवतः)। सुजनस्य तु सदा (धनं) दानाय (बलं परेषां) रक्षणाय च ते (भवतः) ॥
प्रतिपदार्थः गर्वाय = औद्धत्याय, अहङ्काराय, मदाय, अभिमानाय; for arrogance;
परपीडायै = अन्येषां बाधनाय; for harming, paining others;
दुर्जनस्य = दुष्टपुरुषस्य; of the wicked;
धनं = वित्तं; money;
बलम् = शक्तिः; power, strength;
सुजनस्य तु = सज्जनस्य, सत्पुरुषस्य; of good one;
दानाय = अर्थवितरणाय; for charity;
रक्षणाय च = पालनाय; for protecting;
ते = एते; these two;
सदा = सर्वकालेषु; always
तात्पर्यम् दुष्टपुरुषस्य वित्तं सदा अहङ्काराय भवति। तस्य बलम् अन्येषां बाधनाय उपयुज्यते। सज्जनानाम् अर्थः (निर्धनेभ्यः) वितरणाय, शक्तिस्तु अन्येषां पालनाय उपयुज्यते (इति तयोः भेदः)।
Wicked one’s money and strength are for arrogance, and harming of others [respectively]. [But] those two of a good man are always [used] for giving to others and for protection.
प्रश्नाः १.दुर्जनस्य धनं किमर्थं भवति?
२.दुर्जनस्य बलं किमर्थं भवति?
३.सज्जनस्य धनं किमर्थं भवति?
४.सज्जनस्य बलं किमर्थं भवति?
५.‘परपीडायै’ इत्यत्र समासविग्रहं वदत?
६.‘गर्वाय’ इत्यत्र चतुर्थीविभक्तिः कथम्?
127.अक्रोधेन जयेत्
मूलम् अक्रोधेन जयेत् क्रोधमसाधुं साधुना जयेत् ।
(पाठ. जयेत् क्रुद्धं) जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥ महाभारतम्, उद्योगपर्व
पदविभागः अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् । जयेत् कदर्यं दानेन जयेत् सत्येन च अनृतम् ।
अन्वयः क्रोधम्अक्रोधेन जयेत्।असाधुं साधुना जयेत् । कदर्यं दानेन जयेत्। सत्येन च अनृतम् जयेत् ।
प्रतिपदार्थः क्रोधम् = चित्तस्य तीक्ष्णतां; anger;
अक्रोधेन = क्रोधराहित्येन, शान्त्या; by patience, lack of anger;
जयेत् = नियमितव्यम्; should win over;
असाधुं = साधुभिन्नं, असच्चरितं, दुष्टं; bad, unpleasant, wicked;
साधुना = उत्तमवृत्त्या; by (what is) fit, proper, right;
कदर्यं = क्षुद्रत्वं, कृपणभावं, धनादिदानभावकराहित्यं; avariciousness, miserliness;
दानेन = धनादिवितरणेन; by charity;
सत्येन च = तथ्येन, अवितथेन, यथार्थेन; by truth;
अनृतम् = सत्यभिन्नं, मिथ्यां; falsehood;
पाठ. क्रुद्धम् = क्रोधयुक्तं नरम्; angry person (obj.)
तात्पर्यम् शान्तिभावेन क्रोधं, दुष्टं सज्जनतया, दानविरुद्धबुद्धिं दानकरणेन, मिथ्यां च यथार्थतत्त्वेन नियतितव्यम्।
One should win over anger by patience; wicked(ness) by (what is) right(eousness); win over the miserliness by charity and falsehood by truth.
प्रश्नाः १.क्रोधं केन जयेत्?
२.कदर्यं नाम किम्?
३.दानेन किं जयेत्?
४.सत्येन किं जयेत्?
५.‘अक्रोधः’ इत्यस्य कोऽर्थः?
128.वित्तमेव कलौ नॄणां
मूलम् वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ भागवतम् १२.२.२
पदविभागः वित्तम् एव कलौ नॄणां जन्म-आचार-गुण-उदयः । धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ।
अन्वयः कलौ वित्तम् एव नॄणां जन्म-आचार-गुण-उदयः, बलं धर्म-न्याय-व्यवस्थायां कारणं एव हि (भवति)।
प्रतिपदार्थः कलौ = कलियुगे; in age of kali;
वित्तम् एव = धनम् एव; money alone;
नॄणां = मनुष्याणां; of men;
जन्म-आचार-गुण-उदयः = उत्पत्तौ, चरित्रे, गुणे च उदयकारणम्; cause for rise in birth, conduct and qualities;
बलम् = शक्तिः; strength;
धर्म-न्याय-व्यवस्थायां = धर्म(कर्तव्य/आचार)-व्यवस्थितौ, नीति-व्यवस्थितौ च; in the institution of dharma (here, duty) and law;
कारणं = हेतुः, बीजम्; cause;
एव हि = तथैव, तथ्यम्; alone
तात्पर्यम् कलियुगे धनमेव मनुष्याणां जन्मनि, चरित्रे, गुणे च उन्नतेः कारणं भवति। कर्तव्याचारादिव्यवस्थितौ शक्तिः एव हेतुः भवति । [धनस्य बलस्य च प्रामुख्यमत्रोच्यते। तत्सामान्यस्थितिरत्र वर्ण्यते। किन्तु धनस्य बलस्य उन्नतिकारणत्वादपि न केनचित् तद् अन्यायमार्गेण, अधर्ममार्गेण वा न लब्धव्यम्। अन्याय्यस्य फलं तु पापं सदा यस्मिन् कस्मिन्नपि युगे तथ्येन भवतीति स्मरणीयम्।]
In age of Kali, wealth becomes the main reason for rise of people in (terms of) birth, conduct and qualities; and strength is indeed the main reason in the institutions of dharma and nyAya.[Importance of money and strength is stated. This shloka only states the condition typical to the age. But it does not mean one should earn it by wrong means. And then, one should always remember that, though importance for money is established in every age, but adopting wrong means will always have its fruit as sin.]
प्रश्नाः १.नॄणां वित्तं कलौ किं भवति?
२.वित्तं कुत्र बलं भवति?
३.‘जन्माचारगुणोदयः’ इत्यत्र समासविग्रहं वदत?
४.‘धर्मन्यायव्यवस्थायां’ इत्यत्र समासविग्रहं वदत?
५.‘नॄणां’ इति पदं विश्लेषयत।
129.रत्नाकरः किं कुरुते
मूलम् रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ॥-सुभाषितरत्नभाण्डागारः
पदविभागः रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ।
अन्वयः रत्नाकरः स्वरत्नैः किं कुरुते ? विन्ध्याचलः करिभिः किं करोति ? मलयाचलः श्रीखण्डखण्डैः किं (करोति ?) सतां विभूतयः परोपकाराय (भवन्ति)।
प्रतिपदार्थः रत्नाकरः = समुद्रः; ocean;
स्वरत्नैः = स्वस्य अमूल्यमणिभिः; with gems;
किं कुरुते = किं प्रयोजनं निर्वहति; what does it do?;
विन्ध्याचलः = तन्नामविशिष्टः पर्वतः; the mountain of vindhya;
करिभिः = गजैः; with elephants;
किं करोति = किं कार्यं साध्नोति; what does it do?;
मलयाचलः = तन्नामविशिष्टः पर्वतः; mountain of malaya;
श्रीखण्डखण्डैः = चन्दनशकलैः; with sandal wood pieces;
सतां = सज्जनानां, उत्तमपुरुषाणां; of noble people;
विभूतयः = ऐश्वर्याणि; wealth, riches;
परोपकाराय = अन्येषां साहाय्यार्थं; for helping others
तात्पर्यम् उदधिः (स्वस्मिन् स्थितैः) रत्नैः किं करोति ? (स्वार्थाय नोपयुङ्क्ते)। विन्ध्याचलः गजैः किमपि प्रयोजनं न साधयति। मलयपर्वताय स्वस्य चन्दनस्य न कोऽपि उपयोगः। उत्तमानां ऐश्वर्याणि अन्येषां प्रयोजनायैव भवन्ति।
What does ocean do with its gems? What does Vindhya mountain do with its elephants? What use does Malaya mountain have of sandalwood pieces? The riches of noble people are for helping others.
प्रश्नाः १.कः स्वरत्नैः किं कुरुते?
२.कःकरिभिः किं करोति?
३.मलयाचलस्य इत्यत्र समासविग्रहं वदत?
४.‘श्रीखण्डखण्डैः’ इत्यत्र समासविग्रहं वदत?
५.सतां विभूतयः किमर्थं भवन्ति?
130.सतां हि दर्शनं
मूलम् सतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।
कालेन फलते तीर्थं सद्यः सज्जनसङ्गतिः॥
पदविभागः सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन फलते तीर्थं सद्यः सज्जन–सङ्गतिः॥
अन्वयः सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन तीर्थं फलते सज्जन–सङ्गतिः सद्यः (फलति)॥
प्रतिपदार्थः सतां हि = सज्जनानां, उत्तमजनानां; of the saints;
दर्शनं = अभ्युपगमनं, समीपं गमनं; (here) visiting (lit. seeing);
पुण्यं = पुण्यकरं, शुभादृष्टं, सुकृतं, श्रेयः; meritorious;
तीर्थभूताः च = पुण्यस्थल-सदृशाः; like a pilgrimage;
सज्जनाः = सन्तः पुरुषाः, उत्तमजनाः; saintly people;
कालेन = कञ्चित् कालानन्तरं; in time (here- after some time);
तीर्थम् = पुण्यस्थानं; pilgrimage;
फलते = लाभं करोति; is fruitful (अपाणिनीयप्रयोगः, फल इति परस्मैपदी);
सज्जन–सङ्गतिः = साधुजनानां संयोगः; meeting/ company of saints;
सद्यः = सपदि, तत्क्षणं; immediately
तात्पर्यम् साधुजनानां दर्शनं सुकृतिकरं भवति। सज्जनाः पुण्यक्षेत्रसदृशाः भवन्ति। पुण्यक्षेत्रसन्दर्शनेन फलं चिरेण लभ्यते। साधुसमागमस्तु सपदि फलं यच्छति।
Visiting the noble is by itself holy; since they are the source of pious and sacred knowledge. While the other 'tirthas' or holy places give their effects after some time, acquaintance with the good and righteous pays off immediately.
प्रश्नाः १.केषां दर्शनं पुण्यम्?
२.सज्जनाः कीदृशाः?
३.तीर्थं कदा फलति? सद्यः किं फलति?
४.‘तीर्थभूताः’ इत्यत्र समासविग्रहं वदत?
५.‘सज्जनसङ्गतिः’ इत्यत्र समासविग्रहं वदत?
६.साधुसमागमेन को लाभः? (स्वशब्दैः वर्णयत।)
131.ददाति प्रतिगृह्णाति
मूलम् ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ -पञ्चतन्त्रम्, मित्रसंप्राप्तिः
पदविभागः
अन्वयः ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति भुङ्क्ते भोजयते च एव (इति) षड्विधं प्रीतिलक्षणम् ।
प्रतिपदार्थः ददाति = वस्तु अन्यस्य आयत्तं करोति, अन्यस्मै अर्पयति; gives;
प्रतिगृह्णाति = स्वीकरोति, अन्यस्य वस्तु स्वायत्तीकरोति; receives (something in return);
गुह्यम् = रहस्यं, निगूढविषयं; secret (hidden feelings);
आख्याति = वदति, भाषते; speaks;
पृच्छति = ज्ञातुकामो भूत्वा प्रश्नं करोति; asks, inquires;
भुङ्क्ते = खादति; eats (along with);
भोजयते = अन्नं खादयति, भोक्तुं अन्नं ददाति; feeds, offers food to eat;
च एव = अपि च; also;
षड्विधं = षट्-प्रकारकं; six kinds;
प्रीतिलक्षणम् = मैत्रीभावस्य चिह्नं; characteristic of friendship
तात्पर्यम् (वस्तूनाम्) अर्पणं, (यदि किञ्चित् दीयते तर्हि) स्वीकरणं, रहस्यविषयस्य (स्वयं) भाषणं, (मित्रं रहःसम्बन्धि)प्रश्नकरणं, (मित्रगृहे स्वयं) भोजनस्य स्वीकृतिः, (मित्राय) भोजनदानं– इति षट्प्रकारकं लक्षणं मित्रतायाः वर्तते।
Giving (things), accepting (something in return), sharing secrets, asking (private questions), dines (along) and (invites to) offer food– these are the six signs of friendship.
प्रश्नाः १.अस्मिन् श्लोके कस्य लक्षणमुच्यते?
२.कति विधं तल्लक्षणम्?
३.‘दानं’ नाम किम्?
४.‘गुह्यम् आख्याति’ इत्यस्य कोऽर्थः?
५.‘प्रीतिलक्षणम्’ इत्यत्र समासविग्रहं वदत?
132.प्रकीर्णे विषयारण्ये
मूलम् प्रकीर्णे विषयारण्ये धावन्तं विप्रमाथिनम् ।
ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥ –सुभाषितसुधानिधिः
पदविभागः प्रकीर्णे विषय-अरण्ये धावन्तं विप्रमाथिनम् । ज्ञान-अङ्कुशेन कुर्वीत वश्यम् इन्द्रिय-दन्तिनम् ।
अन्वयः प्रकीर्णे विषयारण्ये विप्रमाथिनम् धावन्तं इन्द्रियदन्तिनं ज्ञानाङ्कुशेन वश्यं कुर्वीत ।
प्रतिपदार्थः प्रकीर्णे = विच्छिन्ने, विक्षिप्ते; confused, agitated, disordered;
विषयारण्ये = (विषयः = चक्षुरादिग्राह्य-भोगसाधनं) विषयाणां वने (आलङ्कारिकं); in the forest of objects of senses (in the material world (fig.));
विप्रमाथिनं = पीडनकर्तारम्, मारणकर्तारम्, प्रमथनशीलं, देहेन्द्रिय-क्षोभकं; (obj.) That which is tormenting, harassing, torturing, afflicting, harrowing;
धावन्तं = अतिवेगेन प्लवन्तं, प्रद्रवन्तं; that which is running (obj.);
इन्द्रियदन्तिनं = (इन्द्रियं = ज्ञानकर्मसाधनं) इन्द्रियगजं (आलङ्कारिकं); the elephant of senses (fig.);
ज्ञानाङ्कुशेन = अवबोध-नामकेन अस्त्रेण (आलङ्कारिकं) (अङ्कुशः = हस्त्यादि-चालनार्थकं लोहमय-वक्राग्रं अस्त्रं); by the goad of knowledge (fig.);
वश्यं = स्वस्य आयत्तं, स्वनियतं; submission, control;
कुर्वीत = कुर्यात्; should do, should make it happen
तात्पर्यम् चक्षुरादीन्द्रियं नाम गजः, यः विक्षिप्ते (चक्षुरादिग्राह्याणां) विषयाणां वने क्षोभकारको भूत्वा (अनियतः) धावति, तं गजं अवबोधनाम्ना अङ्कुशेन स्वनियतं कुर्यात्।
The elephant named ‘sense’ (‘indriya’ common name for ten senses) that is running uncontrolled in the forest of sensory objects, should be subdued by the goad of knowledge.
प्रश्नाः १.इन्द्रियदन्ती कुत्र धावति?
२.सः किंविधो भवति?
३.तं कथं वश्यं कुर्यात्?
४.‘विषयारण्ये’ इत्यत्र समासविग्रहं वदत?
५.‘विप्रमाथिनम्’ इति शब्दस्य व्युत्पत्तिं कथयत।
६.‘ज्ञानांकुशेन’ इत्यत्र समासविग्रहं वदत?
133.अहो साहजिकं प्रेम
मूलम् अहो साहजिकं प्रेम दूरादपि विराजते ।
चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥ –सुभाषितरत्नभाण्डागारः
पदविभागः अहो साहजिकं प्रेम दूराद् अपि विराजते । चकोर-नयन-द्वन्द्वम् आह्लादयति चन्द्रमाः ॥
अन्वयः अहो,दूराद् अपि साहजिकं प्रेम विराजते । (अत्रोदारहरणम्-) चन्द्रमाः चकोर–नयन–द्वन्द्वम् आह्लादयति ॥
प्रतिपदार्थः अहो = अहो; Oh;
दूराद् अपि = दूरे स्थित अपि; from far away;
साहजिकं = अकृतकं; natural;
प्रेम = प्रणयः; love;
विराजते = विलसति; hails;
चन्द्रमाः = चन्द्रः; moon;
चकोर–नयन–द्वन्द्वम् = चकोरपक्षिणः अक्षिद्वयं; two eyes of the bird Cakora;
आह्लादयति = आनन्दयति; delights
तात्पर्यम् (यः) अकृतकप्रणयः (तस्य लक्षणमेवं यथा, सः) दूरे स्थितोऽपि विलसति। (अस्योदाहरणं यथा) (बहुदूरे स्थितः) चन्द्रः चकोरपक्षिणः अक्षिद्वयं आनन्दयति।
Oh, the natural (inborn) love shines (keeps existing) even from long distance. The moon delights the pair of eyes of the Cakora bird.
प्रश्नाः १.साहजिकप्रेम्णः को विशेषः?
२.चन्द्रमाः किमाह्लादयति?
३.चन्द्रमाः-चकोरयोः उदाहरणेन किं ज्ञायते?
४.‘साहजिकं’ शब्दस्य पदविश्लेषणं वदत?
५.‘चकोरनयनद्वन्द्वम्’ इत्यत्र समासविग्रहं वदत?
६.‘आह्लादयति’ इत्यत्र को धातुः, क उपसर्गः, कश्च प्रत्ययः?
134.चित्तमिन्द्रियसेनाया
मूलम् चित्तमिन्द्रियसेनाया नायकस्तज्जयाज्जयः।
उपानद्गूढपादस्य ननु चर्मावृतैव भूः॥ --सुभाषितावलिः ३.३४७
पदविभागः चित्तम् इन्द्रिय-सेनायाः नायकः तत्-जयात् जयः। उपानद्-गूढपादस्य ननु चर्म-आवृता एव भूः॥
अन्वयः इन्द्रियसेनायाः नायकः चित्तम् । तत्-जयात् जयः। उपानद्-गूढपादस्य भूः चर्मावृता एव ननु ॥
प्रतिपदार्थः इन्द्रिय-सेनायाः = ज्ञानकर्मसाधनानां सैन्यस्य; नायकः = अधिपतिः;
चित्तम् = मनः; तत्-जयात् = तस्य उपरि जयं प्राप्य, तं पराजित्य;
जयः = वस्तुतः विजयः; उपानद्-गूढपादस्य = यस्य चरणौ पादरक्षाभ्यां रक्षितौ तस्य, पादरक्षाधारिणः;
भूः = भूमिः; चर्मावृता एव ननु = छादन्या आच्छन्ना किल;
तात्पर्यम् मनः इन्द्रियसैनिकाणाम्नियन्त्रकः इव अस्ति। तस्मिन् जयप्रात्पिरेव विजयः इति कथ्यते। (इन्द्रियाणामुपरि जयप्राप्त्या कोऽपि लाभः नास्ति।) यस्य अङ्घ्रिद्वयं पादत्राणाभ्याम् अवितं, तस्मै धरा कृत्त्याआच्छादिता इव भवति। इन्द्रियों की सेना का नायक चित्त है। उसके जीतने से जीत है। चप्पल से पैर को ढकने से सारी भूमि पर चर्म की बिछाव के समान ही तो है। ఇంద్రియాలనేసేనకునాయకుడుమనసు. దానిపైవిజయమే (నిజమైన) జయం. చెప్పులువేసుకున్నపాదాలకుభూమిఅంతాతోలు (తివాచీ) కప్పినట్టేకదా.
Mind is the head of the army of the sense organs. (Real) victory is (achieved) from winning it over. The earth is as if covered by hide, to the one who wears shoes.
प्रश्नाः १.चित्तं कस्य नायकः?
२.कस्य भूः चर्मावृतेव?
३.नायकस्तज्जयाज्जयः इत्यत्र कः सन्धिः?
४.‘इन्द्रियसेनायाः’ इत्यत्र समासः कः?
५.‘उपानद्गूढपादस्य’इत्यत्र समासः कः?
135.कन्दुको भित्तिनिक्षिप्त
मूलम् कन्दुको भित्तिनिक्षिप्त इव प्रतिफलन्मुहुः ।
आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षतः ॥ --कथासरित्सागरः (३.६.२१३)
पदविभागः कन्दुकः भित्ति-निक्षिप्तः इव प्रतिफलन् मुहुः । आपतति आत्मनि प्रायः दोषः अन्यस्य चिकीर्षतः ॥
अन्वयः कन्दुकः भित्तिनिक्षिप्तः मुहुः प्रतिफलन् इव, प्रायः अन्यस्य चिकीर्षतः दोषः आत्मनि आपतति ॥
प्रतिपदार्थः
तात्पर्यम् दीवार पर फेंका हुआ गेंद जिसप्रकार झट से उल्टा (फेंकने वाले की ओर) आजाता है, उसी प्रकार दूसरे के प्रति दोष आचरण करना चाहें, तो वह हमारे ही पर आगिरता है। గోడమీదకుకొట్టినబంతివెంటనేతిరిగివచ్చినట్టు, ఇతరులకుచెడుచేద్దామంటేఅదిమనమీదకేవచ్చిపడుతుంది.
A ball thrown on a wall bounces back immediately. Similarly, the faults desired to be done for others often fall upon the self.
प्रश्नाः