Home >> Text Contents >> Sloka Explanation - हितोपदेश-सुभाषित-श्लोकाः
संस्कृतं नाम दैवीवागन्वाख्याता महर्षिभिः। भाषेयं देववाणी। वागियं परमपवित्रा। अस्याः ज्ञानायावगमनाय च जना ईहन्ते। अवबुध्य स्वयं समुन्नता भवामः- इति भावनया तुष्यन्ति। आत्मनः सन्तुष्टिरियं पुरुषं धार्मिके प्रगतिपथे नयति। संस्कृतं संस्कृतेर्मूलम्। यथा चाचार्यः कपिलदेव द्विवेदी कथयति--
"सुविदितमेतत् समेषामपि शेमुषीमतां यद् भारतीया-संस्कृतिः न अधिगन्तुं पार्यते संस्कृतज्ञानमन्तरा। संस्कृतिमन्तरेण निर्जीवं जीवनं जीविनः। संस्कृतिर्हि स्वान्तस्य संस्कर्त्री, सद्भावानां भावयित्री, गुणगणस्य ग्राहयित्री, धैर्यस्य धारयित्री, दमस्य दात्री सदाचारस्य सञ्चारयित्री, दुर्गुणगणस्य दमयित्री, अविद्यान्धतमसस्य अपनोदयित्री, आत्मावबोधस्य अवगमयित्री, सुखस्य सीधयित्री, शान्तेः सन्धात्री च काचिदनुत्तमा शक्तिः। सेयं संस्कृतिः अजस्रं रक्षणीया, पालनीया, परिवर्धनीयेति भारतीय-संस्कृतेः समुद्धाराय अवबोधाय च संस्कृतज्ञानमनिवार्यम्। समग्रमपि पुरातनं भारतीयं वाङ्मयं संस्कृतमाश्रित्य अवतिष्ठते।" इति।
अतः संस्कृतभाषाज्ञानाय, शिक्षणाय, प्रचाराय, प्रसाराय च केचन प्रयत्नाः क्रियन्ते स्वस्वप्रतिभाः, अभिरुचीत्यादिकमनुसृत्य तज्ज्ञैः। तादृशः कश्चन प्रयत्नः मया क्रियमाणः भवतां संस्कृतानुरागिणां पुरतः सप्रणामं प्रस्तूयते।
"धर्मेण हीनाः पशुभिः समानाः", "विद्या ददाति विनयम्", "अनभ्यासे विषं विद्या", "उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः", "उद्यमेन हि सिध्यन्ति कार्याणि, न मनोरथैः", "पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।" ---एतानि सुप्रसिद्धानि वाक्यानि कुत्रचित् श्रुतानीव भासन्ते किल। एतानि हितोपदेशग्रन्थे सन्ति। भारतीय-सनातन-धर्मस्यांशानाम् उद्घोषणं कुर्वन्नयं ग्रन्थः जनसामान्ये प्रख्यातः। संस्कृतशिक्षणे प्राथमिकदशायां हितोपदेश-श्लोकान् कण्ठस्थीकारयन्ति शिक्षकाः विद्यार्थीन्। धार्मिकजीवनाय, अमूल्यज्ञानसम्पन्नतायै च श्लोकानामेतेषामुपयोगितां मनसि निधाय, टिप्पणीसहितं प्रतिपदार्थतात्पर्ययुक्तं सरलं व्याख्यानमत्र प्रस्तूयते।
व्याख्यानं सर्वं किञ्चित्प्रयोजनमुद्दिश्य संस्कृतेनैव कृतम्। ये जना संस्कृतभारत्या संस्कृतं शिक्षित्वा आगच्छन्ति, तेषाम् अवगतिः संस्कृतमूलग्रन्थानां पठनाय नालम्। हिन्दी-आङ्ग्लेय्यादि-भाषा-साहाय्यं अपेक्ष्यते तैः। अतस्तादृशानामनुवादं विनैव संस्कृते चिन्तनं वर्धतामिति सङ्कल्पं कृत्वा प्रयासोयं आरब्धः।
अत्र रचनाप्रणाली एवम्--- सर्वप्रथमं मूलश्लोकः दीयते। तदनन्तरं पदविभागः-- यत्र पदानि सर्वाणि विसन्धीकृत्य प्रदर्श्यन्ते। तत अन्वयः-- यत्र भारतीयभाषाणां वाक्यनिर्मितिमनुसृत्य श्लोकस्थशब्दानां अनुक्रमः योज्यते। तत्पश्चात् प्रतिपदार्थः-- यत्र श्लोके स्थितानां कठिनशब्दानां सामान्यार्थः दीयते। एते अर्थाः श्रीमतः गुरुप्रसादशास्त्रिणः 'अभिनवराजरक्ष्मी' इति संस्कृतटीकातः निर्मिताः। यत्र व्याख्याकृता न कोपि अर्थः दत्तः, तत्र मया यथाशक्ति अर्थाः कृताः। तस्मात् परं तात्पर्यं भवति-- यत्र संस्कृतवाक्येन श्लोकभावः प्रकटीकृतः। तात्पर्यं तु स्वतन्त्रतया मया कृतम्।
कार्यमिदं न सम्पूर्णम्। प्रतिदिनं एकैकं श्लोकं एवंरूपेण निर्मीय प्रकट्यते अत्र। अद्यावधि यावन्तः कृताः तावन्तः प्रदर्शिताः। अग्रेपि कार्यमिदं प्रचलिष्यति।
अत्र यत्रकुत्रचित् सन्ति चेद्दोषाः सूच्या इति नम्रं निवेदनम्। यत्किञ्चिद्वक्तव्यं, प्रयत्नस्यास्य संवर्धनाय, संशोधनाय च प्रयोजनकरं तत् सर्वं विमर्शनरूपेण वदन्तु इति प्रार्थना।
मदीयः प्रयत्नः संस्कृताध्यायिभ्यः यदि किञ्चिदपि उपयोगाय, प्रयोजनसिद्धये वा संसेत्स्यति, तर्हि सफलो जातः यावान् समयः अत्र यापित इति हर्षमनुभविष्यामि। अनुगृह्णन्तु। नमांसि। https://hitopadesha-subhashita.blogspot.in/
अथ मङ्गलाचरणम्

Click on each button to toggle the corresponding sections on/off.

मूलम्: श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥०.२॥
पदविभागः श्रुतः हितोपदेशः अयं पाटवं संस्कृत-उक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥०.२॥
अन्वयः अयं हितोपदेशः श्रुतः। संस्कृत-उक्तिषु पाटवं च सर्वत्र वाचां वैचित्र्यं ददाति। नीति-विद्यां च (ददाति) ॥०.२॥
प्रतिपदार्थः अयं = मया वक्ष्यमाणः; श्रुतः हितोपदेशः = ग्रन्थविशेषः; संस्कृत-उक्तिषु = संस्कृतभाषणादिषु; पाटवं = कौशलम्; सर्वत्र = सर्वविषयेषु; वाचां वैचित्र्यं = नानाविधोक्ति-चातुर्यम्; नीति-विद्यां = राजनीतिं, व्यवहारकौशलं च; ददाति = (अत्र) शिक्षयति ॥०.२॥
तात्पर्यम् मया वक्ष्यमाणः हितोपदेशः संस्कृतभाषाप्रावीण्यं, सर्वविषयेषु चातुर्यं, राजनीतिं व्यवहारज्ञानं च ददाति ॥०.२॥
हिन्द्यर्थः यह हितोपदेश नामक ग्रन्थ पढनेवालों को संस्कृत बोलने में कुशलता देता है, और सब विषयों में नाना भाषाओं में बोलनेकी नाना प्रकार की सुन्दर-सुन्दर रीतियाँ सिखाता है और नीति-विद्या भी सिखाता है ॥२॥
उच्चारणम्
मूलम्: अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥०.३॥
पदविभागः अजर-अमर-वत् प्राज्ञः विद्याम् अर्थं च चिन्तयेत् । गृहीतः इव केशेषु मृत्युना धर्मम् आचरेत् ॥०.३॥
अन्वयः प्राज्ञः अजर-अमर-वत् विद्याम् अर्थं च चिन्तयेत्। मृत्युना केशेषु गृहीतः इव धर्मम् आचरेत् ॥०.३॥
प्रतिपदार्थः प्राज्ञः = विद्वान्; अजर-अमर-वत् = जरा-मरण-वर्जितम् आत्मानं मन्यमान इव; विद्याम् = धर्मशास्त्रादिकं, कलाकलापविज्ञानं, ज्ञानं च; अर्थं च = धनं च; चिन्तयेत् = अभ्यसेत्, उपार्जयेत् च; मृत्युना केशेषु गृहीतः इव = कालकवलितम् इव आत्मानं पश्यन्; धर्मम्; आचरेत् = सेवेत, पालयेत् च ॥०.३॥॥
तात्पर्यम् विद्वान् जरामरणरहितः इव शास्त्रविद्यामभ्यसेत्। (आजीवनं शास्त्राध्ययनं कुर्यात्।) मृत्युदेवः केशान् गृहीत्वा तिष्ठति (मरणकालः आसन्नः, अत्यन्तं निकटे अस्ति) इति मत्वा धर्माचरणं कुर्यात् ॥०.३॥
हिन्द्यर्थः बुद्धिमान् मनुष्य को चाहिए कि अपने (आत्मा) को अजर व अमर समझकर विद्या तथा धन को कमावे । परन्तु धर्माचरण के समय तो मृत्यु को अपने शिर पर बैठी ही समझे ॥०.३॥
उच्चारणम्
मूलम्: सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥०.४॥
पदविभागः सर्व-द्रव्येषु विद्या एव द्रव्यम् आहुः अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वात् च सर्वदा ॥०.४॥
अन्वयः सर्वदा (अन्येन केनापि) अहार्यत्वाद्, अनर्घत्वाद्, अक्षयत्वात् च सर्व-द्रव्येषु विद्या एव अनुत्तमम् द्रव्यम् (इति विद्वांसः) आहुः ॥०.४॥
प्रतिपदार्थः सर्वदा; (अन्येन केनापि) अहार्यत्वाद् = हर्तुम् अशक्यत्वात्; अनर्घत्वाद् = बहुमूल्यत्वात्; अक्षयत्वात् च = दानादिना अपि अक्षीयमाणत्वात्; सर्व-द्रव्येषु = सर्वसाधनोपेक्षया; विद्या एव; अनुत्तमम् = सर्वश्रेष्ठम्; द्रव्यम् = धनं; आहुः ॥०.४॥
तात्पर्यम् सर्वकालेषु सर्वधनेषु विद्या एव सर्वश्रेष्ठं धनम् इति विद्वद्वचनम्। यतः– तत् अन्यैः हर्तुं न शक्यते। बहुमूल्या वर्तते। कदापि क्षयं न याति ॥०.४॥
हिन्द्यर्थः संसार के सब द्रव्यों से उत्तम धन विद्या ही है। क्यों कि न यह चुराई जा सकती है, न इसका कोई मोल ही लगा सकता है और न इसका कभी क्षय (नाश, घटना) ही हो सकता है ॥०.४॥
उच्चारणम्
मूलम्: संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥०.५॥
पदविभागः संयोजयति विद्या एव नीचगा अपि नरं सरित् । समुद्रम् इव दुर्धर्षं नृपं भाग्यम् अतः परम् ॥०.५॥
अन्वयः नीचगा अपि सरित् समुद्रम् (यथा संयोजयति) इव विद्या एव (नीचगा अपि) दुर्धर्षं नरं नृपं संयोजयति। अतः परं भाग्यम् (प्रमाणम्) ॥०.५॥
प्रतिपदार्थः नीचगा अपि = निम्नगा अपि; सरित् = नदी; समुद्रम् इव; विद्या; एव = केवलं; (नीचगा अपि = नीचजनस्था अपि) दुर्धर्षं = दुरासदं, दुष्प्रापं, दुर्लभदर्शनं; नृपं = राजानं; नरं संयोजयति = तेन सह पुरुषं सङ्गमयति। अतः परं = तेन सह समागमानन्तरं; भाग्यम् = भाग्यानुसारेण (ततो धनरत्नादीनां लाभः) ॥०.५॥
तात्पर्यम् नदी यथा निम्नस्थानात् गच्छन्ती अपि समुद्रं गच्छति, तथैव विद्या नीचजनमपि- राज्ञः सङ्गतिं नयति। तदुपरि यथा दैवानुकूलता, तथा घटते (राज्ञा यत् प्राप्तव्यं लब्धव्यं वा तत् प्राप्नोति।) ॥०.५॥
हिन्द्यर्थः जैसे नदी नीचे बहनेवाली भी है तो भी स्वाश्रितों को वह समुद्र से मिला देती है, उसी प्रकार यदि विद्या नीच के पास भी होवे तो भी वह विद्या उस मनुप्य को दुर्धर्ष राजा तक पतुँचा देती है । इसके बाद उस मनुष्य का जैसा भाग्य होता है, वैसा ही उसे राजा से लाभ होता है ॥०.५॥
उच्चारणम्
मूलम्: विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥०.६॥
पदविभागः विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥०.६॥
अन्वयः विद्या विनयं ददाति। विनयाद् पात्रतां याति । पात्रत्वात् धनम् आप्नोति। धनाद् धर्मं (आप्नोति) ततः सुखम् (चाप्नोति) ॥०.६॥
प्रतिपदार्थः विद्या; विनयं = सौजन्यं; ददाति; विनयाद्; पात्रताम् = योग्यताम्; याति = तत्स्थितिं लभते; पात्रत्वात्; धनम्; आप्नोति ; धनाद्; धर्मं; ततः; सुखम्; (चाप्नोति) ॥०.६॥
तात्पर्यम् (विद्यैव सर्वसुखसाधनम् इत्याशयः)। विद्यावान् विनयं प्राप्य, तेन पात्रत्वं लभते। पात्रभूतः सज्जनो धनं प्राप्नोति, धनात् धर्मोपार्जनं शक्यं कर्तुम्। ततः सुखं च सम्प्राप्नोति ॥०.६॥
हिन्द्यर्थः और विद्या नम्रता देती है, नम्रता से मनुष्य पात्र ( योग्य) बनता है। पात्रता ( योग्यता) से धन मिलता है, धन से धर्म प्राप्त हो सकता है, और धर्म से सुख प्राप्त होता है ॥०.६ ॥
उच्चारणम्
मूलम्: विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥०.७॥
पदविभागः विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीया आद्रियते सदा ॥०.७॥
अन्वयः (मनुष्यस्य) प्रतिपत्तये, शस्त्रं विद्या च शास्त्रं (विद्या) च द्वे विद्ये (प्रसिद्धे)। आद्या वृद्धत्वे हास्याय। द्वितीया (लोके) सदा आद्रियते ॥०.७॥
प्रतिपदार्थः प्रतिपत्तये = ज्ञानाय, यशोलाभाय च; शस्त्रं विद्या = धनुर्वेदादि; शास्त्रं (विद्या) च द्वे विद्ये; आद्या = प्रथमा ; वृद्धत्वे = वृद्धावस्थायां, बलक्षये; हास्याय = उपहासप्रदा; द्वितीया = शास्त्रविद्या; (लोके) सदा; आद्रियते = पूज्यते ॥०.७॥
तात्पर्यम् मनुष्यस्य ज्ञानार्जनाय, यशसे च द्वे विद्ये स्तः- शस्त्रविद्या, शास्त्रविद्या चेति। शस्त्रविद्यया गते वयसि न कोऽपि लाभः (शारीरिक-बलाभावात्)। किन्तु शास्त्रविद्यया जनः आजीवनं पूज्यते लोके (वृद्धोऽपि सन् विद्यां न त्यजति, अत्यागेन अपहासत्वमपि न याति।) ॥०.७॥
हिन्द्यर्थः विद्या दो प्रकार की है। एक शस्त्रविद्या और दूसरी शास्त्रविद्या । दोनों विद्याओंसे ही लोक में प्रतिष्ठा होती है । परन्तु पहिली विद्या (शस्त्रविद्या) वृद्धावस्था में हँसी कराती है, परन्तु दूसरी (शास्त्र) विद्या का तो सदा ही आदर होता है ॥०.७॥
उच्चारणम्
मूलम्: यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥०.८॥
पदविभागः यत् नवे भाजने लग्नः संस्कारः न अन्यथा भवेत् । कथा-छलेन बालानां नीतिः तद् इह कथ्यते ॥०.८॥
अन्वयः यत्, नवे भाजने लग्नः संस्कारः अन्यथा न भवेत्, तद् इह कथा-छलेन बालानां नीतिः (मया) कथ्यते ॥०.८॥
प्रतिपदार्थः यत् = यस्मात् कारणात्; नवे = नवीने, अपक्वे बाले; भाजने = पात्रे, पुंसि च; लग्नः = संसक्तः; संस्कारः = गुणाधानम्; अन्यथा न भवेत् = दूरीभवेत्; तद् = तस्मात् कारणात्; इह = हितोपदेशे; कथा-छलेन = काककूर्मादीनाम् आख्यानकानां व्याजेन; बालानां = बालोपदेशार्थं; नीतिः = राजनीतिः व्यवहारनीतिश्च; कथ्यते = मया निबध्यते ॥०.८॥
तात्पर्यम् नवीने पात्रे परिवेषितं (?) भोजनं यथा न नश्यति, तथैव नववयस्केषु बालकेषु निक्षिप्तः संस्कारः नैव विनश्यति। अतः (हितोपदेश)कथामाध्यमेन नीतिव्यवहारादीनां ज्ञानं बालकान् उपदिशामि ॥०.८॥
हिन्द्यर्थः नवीन पात्र में तथा छोटे-छोटे बालको में स्थपित किया हुआ (दिया हुआ) संस्कार व शिक्षण आदि कभी नष्ट नहीं होता है, इस लिये इस ग्रन्थ में कथा के बहाने से मैं बालकों के लिए नीतिशास्त्र का सार निकाल कर कहता हूँ ॥०.८॥
उच्चारणम्
मूलम्: अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥०.१०॥
पदविभागः अनेक-संशय-उच्छेदि परोक्ष-अर्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्ति अन्धः एव सः ॥०.१०॥
अन्वयः अनेक-संशय-उच्छेदि, परोक्ष-अर्थस्य दर्शकम्, सर्वस्य लोचनं (च यत्) शास्त्रं (तत्) यस्य (पुंसः) नास्ति, सः अन्धः एव ॥०.१०॥
प्रतिपदार्थः अनेक-संशय-उच्छेदि ~ अनेकान् संशयान् उच्छिनत्ति तच्छीलम् = नाना-वितर्क-विनाशकम्; परोक्ष-अर्थस्य = अतीत-अनागतादि-अर्थस्य; दर्शकम् = बोधकम्; सर्वस्य लोचनं = लोचनम् इव मार्गदर्शकम्; शास्त्रं यस्य (पुंसः) नास्ति, सः; अन्धः = लोचनविकलः; एव; ॥०.१०॥
तात्पर्यम् सकलान् सन्देहान् अपाकुर्वत्, अप्रत्यक्षस्य, निगूढस्यार्थस्य च दर्शकं यत् शास्त्रं, तत् सर्वेषां नयनमिव विलसति। यस्य मनुष्यस्य शास्त्रज्ञानं नास्ति, सः दृष्टिहीन एव ॥०.१०॥
हिन्द्यर्थः सब प्रकार के संशय को दूर करने वाला, तथा परोक्ष वस्तुओंको भी प्रत्यक्ष करानेवाला शास्त्र ही सबका सच्चा नेत्र है, और जिसके पास वह शास्त्र रूपी नेत्र नहीं है, वह मनुष्य अन्धे के समान है ॥०.१०॥
उच्चारणम्
मूलम्: यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥०.११॥
पदविभागः यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अपि अनर्थाय किमु यत्र चतुष्टयम् ॥०.११॥
अन्वयः यौवनं, धन-सम्पत्तिः, प्रभुत्वम्, अविवेकिता - (अत्र) एकैकम् अपि (पुंसाम्) अनर्थाय (भवति)। यत्र चतुष्टयम् (तत्र) किमु (अनर्थस्य विषये वक्तव्यम्?) ॥०.११॥
प्रतिपदार्थः यौवनं = युवावस्था; धन-सम्पत्तिः = वित्तसमृद्धिः; प्रभुत्वम् = ऐश्वर्यम्, अधिकारः; अविवेकिता = विचार-वैकल्यम्, मूढता; एकैकम् अपि (पुंसां); अनर्थाय = विपत्कारकं भवति; यत्र = यस्मिन् पुंसि; चतुष्टयम् (तत्र); किमु = किं वा वक्तव्यम्; ॥०.११॥
तात्पर्यम् युवावस्था, वित्तसमृद्धिः, अधिकारस्थानं, अविवेकः- इत्येतेषु गुणस्थितिषु प्रत्येकं (अन्यजनेभ्यः) आपत्करं भवति। यदि कस्मिंश्चित् पुरुषे सर्वाणि मिलित्वा विद्यन्ते, तर्हि अनर्थकत्वस्य किं विशेषतया वक्तव्यं भवति? तदवश्यमेव आपत्स्थानं भवति
हिन्द्यर्थः युवावस्था, धनसम्पत्ति, प्रभुत्व, अज्ञानता- इन चारों में एक भी जहाँ वस्तु हो वहाँ अनर्थ (जिस मनुष्य में) ही प्रायः होता है । फिर जहाँ ये चारों एकत्र हो, वहाँ की तो बात ही क्या है? ॥०.११॥
उच्चारणम्
मूलम्: कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥०.१२॥
पदविभागः कः अर्थः पुत्रेण जातेन यः न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडा एव केवलम् ॥०.१२॥
अन्वयः यः (पुत्रः) विद्वान् न (भवति) धार्मिकः न (वर्तते) (तेन) पुत्रेण जातेन कः अर्थः (प्रयोजनम्) ? (अत्र उदाहरणम्-) काणेन चक्षुषा किं वा (प्रयोजनम्?) चक्षुः पीडा एव केवलं (भवति) ॥०.१२॥
प्रतिपदार्थः यः = पुत्रः; न विद्वान् न धार्मिकः = धर्माचरणप्रवणः; (तेन) पुत्रेण जातेन = उत्पन्नेनापि; कः अर्थः = किं प्रयोजनम्?; काणेन = दर्शनशक्तिशून्येन; एकचक्षुर्युक्तः (काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्); चक्षुषा = नेत्रेण; किं वा = किं नु फलं, न किमपि फलं; चक्षुः-पीडा एव = शारीरिकव्यथा; केवलम् = मात्रम्; ॥०.१२॥
तात्पर्यम् यः सुतः विद्वत्त्वं न धारयति, धर्मं वा नाचरति, सः सम्भूय अपि न कस्यापि प्रयोजनं कारयति। अस्योदाहरणमेवम्– दर्शनशक्तिहीन-गोलरूपेणाक्ष्णा वस्तुदर्शनं न शक्यते। केवलं तत्व्यथां कारयति, न कस्याप्युपयोगाय भवति ॥०.१२॥
हिन्द्यर्थः उस पुत्र के उत्पन्न होने से क्या लाभ है, जो न विद्वान् है और न धार्मिक ही । क्यों कि कानी आँख से कोई लाभ नहीं होता, वह तो केवल पीडा ही देने के लिये होती है ॥०.१२॥
उच्चारणम्
मूलम्: अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥०.१३॥
पदविभागः अजात-मृत-मूर्खाणां वरम् आद्यौ न च अन्तिमः । सकृद्-दुःख-करौ आद्यौ अन्तिमः तु पदे पदे ॥०.१३॥
अन्वयः अजात-मृत-मूर्खाणां (इति त्रिविधानां पुत्राणां मध्ये) वरम् आद्यौ (द्वौ) न च अन्तिमः (मूर्खः)। सकृद् दुःख-करौ आद्यौ अन्तिमः तु पदे पदे (दुःख-करः) ॥०.१३॥
प्रतिपदार्थः अजातः = अनुत्पन्नः; मृतः = उत्पन्नोऽपि विगतप्राणः; मूर्खः = मूढः, जडः; वरम् = श्रेष्ठौ; आद्यौ = अजात-मृतौ; न च अन्तिमः = न मूर्खः; सकृद्-दुःख-करौ = एकवारमेव दुःखं दत्तः; आद्यौ = अजात-मृतौ; अन्तिमः = मूर्खः; तु पदे पदे = सर्वदा, यावज्जीवम् ॥०.१३॥
तात्पर्यम् अनुत्पन्नपुत्रः मृतपुत्रः वा एकवारमेव दुःखं ददाति। मूर्खपुत्रस्तु आजन्ममरणं दुःखयति। अतः अनुत्पन्न-मृत-पुत्रौ मूर्खपुत्रात् वरम् ॥०.१३॥
हिन्द्यर्थः जो उत्पन्न ही नहीं हुआ है (अजात), अथवा उत्पन्न होकर मर गया है (मृत), और मूर्ख - इन तीनों में से पहले दो तो कुछ अच्छे हैं, परन्तु अन्तिम (मूर्ख) पुत्र तो कभी अच्छा नहीं है, क्यों कि प्रथम दो पुत्र तो एकही बार दुःख देते हैं, परन्तु अन्तिम (मूर्ख) तो सदा दुःखदाई होता है ॥०.१३॥
उच्चारणम्
मूलम्: वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति- र्न वाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः॥
पदविभागः वरं गर्भ-स्रावः। वरम् ऋतुषु न एव अभिगमनम्। वरं जातः प्रेतः। वरम् अपि च कन्या एव जनिता । वरं वन्ध्या भार्या। वरम् अपि च गर्भेषु वसतिः। न वा अविद्वान् रूप-द्रविण-गुण-युक्तः अपि तनयः॥
अन्वयः गर्भ-स्रावः वरम्। ऋतुषु न एव अभिगमनम् वरम् । जातः प्रेतः वरम्। अपि च कन्या एव जनिता वरम्। वन्ध्या भार्या वरम् । अपि च गर्भेषु वसतिः वरम् । अविद्वान् रूप-द्रविण-गुण-युक्तः अपि तनयः न वा (वरम्)॥
प्रतिपदार्थः गर्भ-स्रावः =गर्भपातः; वरम् = ईषत् श्रेष्ठः; ऋतुषु = भार्यायाः ऋतुकाले; न एव; अभिगमनम् = उपसर्पणम्; वरम् । जातः प्रेतः = मृतः; वरम्। अपि च; कन्या एव जनिता वरम्। वन्ध्या = सन्तानजनने असमर्था; भार्या वरम् । अपि च; गर्भेषु = कुक्षौ एव; वसतिः = निवासः; वरम् । अविद्वान् = मूर्खः; रूप-द्रविण-गुण-युक्तः = सुन्दरः, धनवान्, सकलसद्गुणयुक्तः; अपि तनयः = पुत्रः; न वा (वरम्)॥
तात्पर्यम् रूपसद्गुणयुक्तोपि सन् मूर्खपुत्रः यदि जायते, तत्तुलनायां किं किं श्रेष्ठमिति वदति– गर्भपातः, भार्यासङ्गमवर्जनं, मृतशिशुजननं, कन्याजननं, पत्न्याः शिशुजननाशक्तता, कुक्षावेव पिण्डस्य वासः–एतानि सर्वाणि श्रेष्ठानि मूर्खसुतस्य जननात् इति॥
हिन्द्यर्थः और चाहे गर्भपात हो जाए श्रथवा पुत्रोत्पत्ति के लिए ऋतुकाल में स्त्री के पास गमन ही न किया जाए, या जन्मता ही पुत्र मर जाए या कन्या हो उत्पन्न हो, या सन्तान गर्भ में हो रहे, गर्भ से बाहर उत्पन्न ही न हो, यह सब ठकि है, पर मूर्ख पुत्र यदि सुन्दर भी हो तो भी वह ठकि नहीं है ॥०.१४॥
उच्चारणम्
मूलम्:
पदविभागः स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥०.१४॥
अन्वयः येन जातेन वंशः समुन्नतिं याति, सः (वस्तुतः) जातः । परिवर्तिनि संसारे कः वा मृतः? (कः वा) न जायते? ॥०.१४॥
प्रतिपदार्थः येन जातेन = यस्य जन्मना; वंशः = आत्मकुलं; समुन्नतिं = ख्यातिं, औन्नत्यं च; याति = भजते, प्राप्नोति; सः; जातः = सुजातः; परिवर्तिनि = परिवर्तनशीले; संसारे = अनादौ अस्मिन् जगति; को वा न मृतः? को वा न जायते? ॥०.१४॥
तात्पर्यम् यस्य जन्मना कुलं (कुटुम्बः) औन्नत्यं प्राप्नोति, सः पुत्रः जातः इति वक्तुं शक्यते। अन्ये जीवाः बहवो संसारेऽस्मिन् जीवन्ति, म्रियन्ते च। [कोटिशो जीवाः अस्मिन् जगति प्रत्यहमुद्यन्ते, विलीयन्ते च, स एव तु सुजन्मा धन्यजीवितो यस्य जन्मना स्वकुलं महीयते इत्याशयः] ॥०.१४॥
हिन्द्यर्थः और इस जगत् में उसी का जन्म लेना सफल है, जिसके जन्म से अपने वंश और जाति की उन्नति होती है । अन्यथा (इस तरह तो) इस परिवर्तनशील संसार में कौन नहीं जीता और मरता है ॥०.१४॥
उच्चारणम्
मूलम्: गुणिगणगणनारम्भे न पतति कठिनी सुसम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ? ॥०.१५॥
पदविभागः गुणि-गण-गणना आरम्भे न पतति कठिनी सुसम्भ्रमाद् यस्य । तेन अम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ? ॥०.१५॥
अन्वयः गुणि-गण-गणना-आरम्भे सुसम्भ्रमाद् यस्य कठिनी न पतति । तेन अम्बा यदि सुतिनी, वन्ध्या कीदृशी भवति, (इति) वद ? ॥०.१५॥
प्रतिपदार्थः गुणि-गण-गणना-आरम्भे ~ गुणिनां गणाः तेषां गणनायाः आरम्भे = विदुषां सङ्घाः, तेषां प्रारम्भावसरे ; सुसम्भ्रमाद् = सहसैव ; यस्य = यस्य पुंसो नामनि ; कठिनी = लेखनसाधनम् (=पेंसिल्) ; न पतति = (अत्र) लेखाधारे काष्ठपट्टे, पत्रादौ वा तन्नामोल्लेखार्थं न झटिति प्रसरति ; तेन अम्बा = माता ; यदि = यदा ; सुतिनी = पुत्रवती ; वन्ध्या = पुत्रहीना, अपुत्रा स्त्री ; कीदृशी = का ; भवति = भण्यते ; (इति) वद = कथय तावत् ; ॥०.१५॥
तात्पर्यम् विद्वत्सङ्घानां गणनायाः प्रारम्भावसरे सहसैव यस्य लेखकस्य कठिनी कस्यचित् पुरुषस्य नामलेखनाय लेखनपत्रे न पतति, यदि तत्पुरुषस्य माता पुत्रवती इति उच्यते, तर्हि का वा स्त्री वन्ध्या इति कथ्येत? गुणिसमवाये यस्य पुंसः शोभनं यशो वर्तते, स एव, सुजन्मेति हृदयम्। सैव तु खलु वन्ध्या ॥०.१५॥
हिन्द्यर्थः गुणियों की गिनती के आरम्भ में जिसके नाम पर सबसे पहले सहसा लोगों की कलम न उठे, उस पुरुष के जन्म से भी यदि उसकी माता पुत्र-वती कहलावे, तो कहो वन्ध्या किसे कहेंगे? [जिसे अपने सद्गुणों के कारण लोग नहीं पहचानते, ऐसे पुत्र का होना ना होने के समान है।] ॥०.१५॥
उच्चारणम्
मूलम्: दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥०.१६॥
पदविभागः दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायाम् अर्थलाभे च मातुः उच्चारः एव सः ॥०.१६॥
अन्वयः दाने तपसि शौर्ये च विद्यायाम् अर्थलाभे च यस्य यशः न प्रथितं, सः मातुः उच्चारः एव ॥०.१६॥
प्रतिपदार्थः दाने = धनादिवितरणे ; तपसि = धर्माचरणादौ ; शौर्ये = वीरत्वे ; विद्यायाम् = ज्ञाने ; अर्थलाभे = धनोपार्जने ; यस्य = पुंसः ; यशः = कीर्तिः ; न प्रथितं = न प्रसृतम् ; सः ; मातुः = जनन्याः ; उच्चारः = विष्टा, मलं ; एव = मात्रम् ॥०.१६॥
तात्पर्यम् धनादिवितरणे, धर्माचरणादौ, वीरत्वे, ज्ञाने, धनोपार्जने यस्य पुंसः कीर्तिः न प्रसृतम्, सः जनन्याः विष्ठामात्रम् । नासौ पुत्रः केषामपि उपयोगाय भवति। तस्य जन्म वृथा भवतीति अभिप्रायः ॥०.१६॥
हिन्द्यर्थः जिस मनुष्य का मन-दान, तपस्या, वीरता, विद्या तथा धनोपार्जन मे न लगा, वह मनुष्य केवल माता के मल के समान है ॥०.१६॥
उच्चारणम्
मूलम्: वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥०.१७॥
पदविभागः वरम् एकः गुणी पुत्रः न च मूर्ख-शतानि अपि । एकः चन्द्रः तमः हन्ति न च तारा-गणः अपि च ॥०.१७॥
अन्वयः एकः अपि गुणी पुत्रः वरम्। (किन्तु) मूर्ख-शतानि न च। एकः चन्द्रः तमः हन्ति। तारा-गणः अपि न च ॥०.१७॥
प्रतिपदार्थः एकः अपि ; गुणी = सुगुणसंयुक्तः ; पुत्रः = सुतः ; वरम् = श्रेष्ठः ; (किन्तु) न च ; मूर्ख-शतानि = जड-मन्दपुत्राणां शतमपि ; एकः चन्द्रः ; तमः = अन्धकारं ; हन्ति = नाशयति ; न च तारा-गणः अपि च = नक्षत्रकोटीरपि ॥०.१७॥
तात्पर्यम् गुणवता पुत्रेण एकेनापि अलम्। यदि एकशतं पुत्राः अपि मन्दबुद्धयः भवन्तु, तेन न कोऽपि लाभः। यथा– रात्रौ चन्द्रः एक एव अन्धकारं अपनेतुं समर्थः। असङ्ख्यकानि नक्षत्राणि मिलित्वा अपि कान्तिं न कुर्वन्ति ॥०.१७॥
हिन्द्यर्थः सौ मूर्ख पुत्रों की अपेक्षा एक ही पुत्र गुणी हो तो भी अच्छा है। बहुत से तारागणों से अन्धकार दूर नहीं होता है, पर चन्द्रमा अकेला ही उसे दूर कर देता है ॥०.१७॥
उच्चारणम्
मूलम्: पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥०.१८॥
पदविभागः पुण्य-तीर्थे कृतं येन तपः क्व-अपि अति-दुष्करम् । तस्य पुत्रः भवेद् वश्यः समृद्धः धार्मिकः सुधीः ॥०.१८॥
अन्वयः येन क्वापि पुण्य-तीर्थे अति-दुष्करं तपः कृतं, तस्य पुत्रः वश्यः, समृद्धः, धार्मिकः, सुधीः च भवेत् ॥०.१८॥
प्रतिपदार्थः येन क्वापि पुण्य-तीर्थे = महाक्षेत्रे ; कृतं ; अति-दुष्करं = कठिनं ; तपः ; तस्य = (पुण्यात्मनः) ; पुत्रः ; वश्यः = वशंवदः ; समृद्धः = गुणगण-अलङ्कृकृतः, धनी च ; धार्मिकः = धर्मात्मा ; सुधीः = विद्वान्, विनीतश्च ; भवेत् = स्यात् ॥०.१८॥
तात्पर्यम् येन पित्रा कुत्रचित् महापुण्यस्थले अतिकठिनं तपः आचरितं, तस्य एव नियतः, सम्पन्नः, धर्मानुष्ठानपरः, धीशाली च पुत्रो भवेत्। (अतिमहतस्तपसः फलमेतद्यत्पुत्रो विद्वान् विनीतश्च भवतीति भावः।) ॥०.१८॥
हिन्द्यर्थः जिस मनुष्य ने किसी पुण्यतीर्थं में कठिन तपस्या की है, उसीका पुत्र आज्ञाकारी, समृद्ध, धार्मिक तथा विद्वान् होता है ॥०.१८॥
उच्चारणम्
मूलम्: अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥०.१९॥
पदविभागः अर्थ-आगमः नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यः च पुत्रः अर्थकरी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥०.१९॥
अन्वयः राजन्, १) नित्यम् अर्थ-आगमः, २) अरोगिता च, ३) प्रिय-वादिनी (भार्या), ४) प्रिया च भार्या, ५) वश्यः च पुत्रः, ६) अर्थकरी विद्या (एतानि) षड् जीव-लोकस्य सुखानि च ॥०.१९॥
प्रतिपदार्थः राजन् = हे युधिष्ठिर, नित्यं = (अत्र) निर्बाधः ; अर्थ-आगमः = धनप्राप्तिः ; अरोगिता च = शरीरसौख्यं, स्वास्थ्यम् ; प्रिय-वादिनी = मधुरभाषिणी ; प्रिया =हृद्या ; भार्या = पत्नी ; वश्यः = अनुकूलः ; पुत्रः ; अर्थकरी = धनकरी ; विद्या ; एतानि षट् जीव-लोकस्य = मानवलोकस्य ; सुखानि = सुखकारकाणि ॥०.१९॥
तात्पर्यम् हे राजन्, निराघात-धनप्राप्तिः, शरीरस्वास्थ्यं, मधुरं वदन्ती, प्रियतमा च पत्नी, आज्ञाकारी पुत्रः, धनप्रापयित्री विद्या च– एतानि षट् मानवलोके सुखकराणि इति मन्यन्ते ॥०.१९॥
हिन्द्यर्थः हे राजन्! संसार में केवल छे ही सुख हैं- १. नित्य धनप्राप्ति, २. आरोग्यता, ३. प्रियतमा भार्या, ४. मधुर बोलने वाली स्त्री, ५. आज्ञाकारी पुत्र, तथा ६. धन देनेवाली विद्या ॥०.१९॥
उच्चारणम्
मूलम्: को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥०.२०॥
पदविभागः कः धन्यः बहुभिः पुत्रैः कुशूल-आपूरण-आढकैः । वरम् एकः कुल-आलम्बी यत्र विश्रूयते पिता ॥०.२०॥
अन्वयः कुशूल-आपूरण-आढकैः कः धन्यः बहुभिः पुत्रैः एकः कुल-आलम्बी वरम् । यत्र पिता विश्रूयते ॥०.२०॥
प्रतिपदार्थः कुशूल-आपूरण-आढकैः = धान्य-कोष्ठक-पूरण-असमर्थैः आढकपात्रैः इव [कुशूलं- = धान्यावपनम्- आढकम्- = आढकपरिमितम् धान्यपात्रम् (अढाई सेर का) ]; = स्वल्पाशयैः तुच्छैः ; बहुभिः पुत्रैरपि ; कः धन्यः = कः पुण्यवान् ; एकः कुल-आलम्बी = येन कुल आलम्ब्यते ; वरम् = श्रेष्ठः ; यत्र = यस्मिन् पुत्रे जाते ; पिता = जनकः ; विश्रूयते = लोके महीयते ; ॥०.२०॥
तात्पर्यम् कः पुमान् अल्पाशयैः पुत्रैः सुकृती इति लोके विश्रूयते? यः पुत्रः कुलं धरति, यस्य जातेन कुलस्य आलम्बनं भवति, स एव पुत्रत्वार्हः ; तेनैव पिता जगति कीर्तिं विन्दति। (अथवा अन्ये तु– खरीवाहादिपरिमितैः, आढकपरिमितैः च पुत्रस्थानीयधान्यादिभिः कः धनी इति गण्यते? कुशूलादिमितेनापि धान्यराशिना न कोपि धन्यतां लभते। एकेन कुलदीपकेन- रत्नादिना, कौस्तुभमणिना सागर इव- पिता धनी श्रेष्ठश्च भवति– इत्यर्थमाहुः) ॥०.२०॥
हिन्द्यर्थः अन्न की कोटी (ओवरी, कोठला) को भरने में असमर्थ आढकपात्रों (अढैया, पसेरी आदि नाप के पात्रों) के समान बहुत से पुत्रों से क्या लाभ है, वंश की सहायता करनेवाला तो एक ही पुत्र अच्छा है, जिससे पिता की प्रसिद्धि और प्रशंसा होती हो ॥०.२० ॥
उच्चारणम्
मूलम्: ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥०.२१॥
पदविभागः ऋण-कर्ता पिता शत्रुः माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुः अपण्डितः ॥०.२१॥
अन्वयः पिता ऋण-कर्ता शत्रुः। माता च व्यभिचारिणी (शत्रुः) । भार्या रूपवती शत्रुः । पुत्रः अपण्डितः शत्रुः ॥०.२१॥
प्रतिपदार्थः पिता = जनकः ; ऋण-कर्ता = यः पुनः पुनः अन्येभ्यः ऋणं स्वीकृत्य जीवति ; शत्रुः = अयशोहेतुत्वात् शत्रुरिव ; माता = जननी ; व्यभिचारिणी = परपुरुषरता ; भार्या = पत्नी ; रूपवती = सुन्दरी ; शत्रुः = विवाद-ईर्ष्यादि-हेतुत्वात् शत्रुरिव ; पुत्रः = सुतः ; अपण्डितः = मूर्खः ; शत्रुः = मनस्तापहेतुत्वात् शत्रुरिव ; ॥०.२१॥
तात्पर्यम् यस्य पिता ऋणं करोति, सः पुत्रस्य शत्रुरिव भवति (तस्य पुत्रेणैव तदृण-प्रत्यर्पणधुर्याः भारवहनत्वात्) । माता च नैकपतिव्रता (समाजे ज्ञातिषु चाकीर्तिकरत्वात्) शत्रुः भवति। सुन्दरी पत्नी तु (सर्वजनैः आकृष्टा, दृश्या च भूत्वा, पत्युर्मनसि ईर्ष्यादिदुर्भावान् जनयतीति कारणेन) शत्रुर्भवति। पुत्रस्तु विद्याहीनः, मूर्खश्च (कुलस्योद्गमे अयोग्यः सन्) शत्रुः भवति ॥०.२१॥
हिन्द्यर्थः ऋण करने वाला पिता शत्रुतुल्य है, व्यभिचारिणी माता शत्रुतुल्य है, रूपवती स्त्री भी शत्रुतुल्य है और मूर्ख पुत्र भी शत्रुतुल्य है ॥०.२१॥
उच्चारणम्
मूलम्: अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥०.२२॥
पदविभागः अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥०.२२॥
अन्वयः अनभ्यासे (सति) विद्या विषम् (इव) । अजीर्णे भोजनं विषम् । दरिद्रस्य सभा विषम् । वृद्धस्य तरुणी विषम् ॥०.२२॥
प्रतिपदार्थः अनभ्यासे (सति) = पुनःपुनरनुशीलनाभावे, पौनःपुन्येन करणाभावे ; विद्या = ज्ञानं ; विषं = अपमानस्थानत्वात् विषवद् दुःखप्रदा ; अजीर्णे = कुक्षौ अपक्वे आहारे (सति) ; भोजनं = अन्नं ; विषम् = जीवितापहारकत्वात् विषवद् दुःखप्रदम् ; दरिद्रस्य = धनहीनस्य, निर्धनस्य ; सभा = सदः, परिषद् ; विषं = सन्तापजनकत्वात् विषवद् दुःखप्रदा ; वृद्धस्य = विगतयौवनस्य ; तरुणी = युवा स्त्री ; विषम् = अयोग्यत्वात् विषवद् दुःखप्रदा ; ॥०.२२॥
तात्पर्यम् अभ्यासाभावे विद्या हानिकरी भवति । (आवृत्त्यभावे नरः अधिगतविद्योऽपि सन् आवश्यकतायां सत्यां तां नोपयोक्तुं पारयेत् । अतः तस्य विद्यावत्त्वमेव शङ्क्यते जनैः ।) (उदरे जीर्णमभूत्वा यदान्नं यथातथं तिष्ठेत्, तदा अस्वास्थ्यं जनयति । अतः) अपाके खाद्यं विषं भवति । (धनाभावे उत्तमवस्त्रादीनां राहित्यात् जनसमूहेषु अपमानमनुभवेदिति) अकिञ्चनस्य सदः विषतुल्यं भवति । (तरुण्या सह सम्पर्कः यौवने सुख-सन्तानादिकारकं भवति । तदनावश्यकत्वात् शरीरशैथिल्याच्च) वयोऽधिकस्य स्त्रीसम्पर्कः विषं (अनारोग्यकरः) भवति ॥०.२२॥
हिन्द्यर्थः विना अभ्यास के विद्या भी विष है, अजीर्ण होने पर भोजन भी विष है दरिद्र मनुष्य केलिए सभी संसार ही विष तुल्य है और वृद्ध पुरुष के लिए उसकी युवती स्त्री भी विष के समान ही है ॥०.२२॥
उच्चारणम्
मूलम्: यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥०.२३॥
पदविभागः यस्य कस्य प्रसूतः अपि गुणवान् पूज्यते नरः । धनुः वंश-विशुद्धः अपि निर्गुणः किं करिष्यति ॥०.२३॥
अन्वयः गुणवान् नरः, यस्य कस्य प्रसूतः अपि, पूज्यते । वंश-विशुद्धः अपि धनुः (चेत्) निर्गुणः, किं करिष्यति? ॥०.२३॥
प्रतिपदार्थः यस्य कस्य = अज्ञातकुलशीलस्य, अकुलीनस्यापि ; प्रसूतः = तत उत्पन्नः ; अपि ; गुणवान् = गुणी, सद्गुणसम्पन्नः, (अथवा धनुषः पक्षे) तन्तुयुतः, मौर्वीयुतः च ; नरः ; पूज्यते = सत्क्रियते, आद्रियते ; वंश-विशुद्धः अपि = श्रेष्ठवंशनिर्मितमपि ; धनुः = कोदण्डं ; निर्गुणः = गुणशून्यं, ज्यारहितम् ; किं करिष्यति = किं लक्ष्यं हन्तुं समर्थो भवति? ॥०.२३॥
तात्पर्यम् सामान्यपुरुषात् उत्पन्नोऽपि (कुलवैशिष्ट्यरहितः, वंशविशुद्धरहितोऽपि यावत् ) नरः यदि सद्गुणसम्पन्नः तर्हि सर्वैः आद्रियते। (अस्यैव वाक्यस्य समर्थनाय उदाहरणं दीयते।) उत्तमकोटिधनुः अपि यदि ज्यारहितं, तर्हि न किमपि लक्ष्यं भेत्तुं उपयुज्यते। (ज्या इत्यस्य गुण इति पर्यायशब्दः। अतः श्लेषः पुरुषेऽपि अनुवर्तते। श्रेष्ठवंशे जातोऽपि सन् पुरुषः गुणहीनः अर्थरहितः भवति) ॥०.२३॥
हिन्द्यर्थः गुणी मनुष्य चाहे किसी कुल में उत्पन्न हो, सर्वत्र पूजित ही होता है, परन्तु यदि अच्छे कुल में उत्पन्न होकर भी मनुष्य निर्गुण हो, तो वह क्या कर सकता है, किस काम का है? जैसे धनुष अच्छे बाँस का बना होने पर भी यदि उस में गुण (तात या डोरो) न हो तो वह क्या काम कर सकता है? कुछ भी नहीं । यहाँ वंश शब्द के दो अर्थ हैं, बांस और कुल ॥०.२३॥
उच्चारणम्
मूलम्: हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥०.२४॥
पदविभागः हा हा पुत्रक, न अधीतं गतासु एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौः इव सीदसि ॥०.२४॥
अन्वयः पुत्रक, हा हा! एतासु रात्रिषु गतासु न अधीतम् । तेन विदुषां मध्ये पङ्के गौः इव त्वं सीदसि ॥०.२४॥
प्रतिपदार्थः पुत्रक = हे पुत्र (सम्बोधनम्) ; हा हा = धिक्, अहो, (दुःखकरं) ; एतासु रात्रिषु गतासु = वृथा-अपयातासु रात्रिसमयेषु (दिनसामान्यार्थे) ; न अधीतं = शास्त्रं न अभ्यस्तम्, ज्ञानं न सम्प्राप्तम् ; तेन = कालयापनेन, अनध्ययनेन च ; विदुषां = पण्डितानां, विद्यावतां ; मध्ये = सभायां, पुरतः ; पङ्के = कर्दमे ; गौः इव = जन्तुविशेष-सदृशः ; त्वं सीदसि = क्लेशमनुभवसि, विषण्णो, आकुलो भवसि ॥०.२४॥
तात्पर्यम् हे सुत, धिक्। त्वं एतावन्ति नक्तंदिनानि विना विद्याभ्यासं व्यर्थं कालमपनीतवान्। अतः त्वं इदानीं विद्वज्जनसम्मुखं यथा पङ्के पतितः गौः, तथा खिन्नः भवसि ॥०.२४॥
हिन्द्यर्थः हे पुत्र! खेद है कि तुमने बाल्यकालकी बीती हुई रात्रियों में कुछ नहीं पढा, इसीलिए विद्वानों की मण्डली में आज तुम्हारी यह दशा हो रही है, जो दशा कीचड़ में फँसी हुई गाय की होती है ॥०.२४॥
उच्चारणम्
मूलम्: आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥०.२५॥
पदविभागः आहार-निद्रा-भय-मैथुनञ्च सामान्यम् एतत् पशुभिः नराणाम् । धर्मः हि तेषां अधिकः विशेषः धर्मेण हीनाः पशुभिः समानाः ॥०.२५॥
अन्वयः आहार-निद्रा-भय-मैथुनञ्च एतत् नराणाम् पशुभिः सामान्यम् । हि तेषां धर्मः अधिकः विशेषः । धर्मेण हीनाः पशुभिः समानाः ॥०.२५॥
प्रतिपदार्थः आहार-निद्रा-भय-मैथुनञ्च ~ आहारश्च, निद्रा च, भयञ्च, मैथुनं च = रतिश्च, एषां समाहारः ~ आहार-निद्राभयमैथुनम् । एतत् ; नराणां = पुंसां ; पशुभिः = गवादिभिः पशुभिः ; सामान्यं= तुल्यम् एव ; हि = यतः ; तेषां = नराणाम् ; धर्मः = विद्या-विनय-धर्माचारादिः एव ; अधिकः = असदृशः, अतिरिक्तः अंशः, तत्र अवर्तमानः ; विशेषः = भेदकः ; धर्मेण हीनाः = रहिताः नरास्तु ; पशुभिः समानाः = पशुतुल्या एव इत्यर्थः ॥०.२५॥
तात्पर्यम् अन्नादनं, शयनं, प्राणभीतिः, रतीच्छा च चतुष्पादजन्तूनां मनुष्याणां च समानधर्माः भवन्ति। तयोः द्वयोः धर्माचरणमेव भेदः। नराणां धर्मः अतिरिक्ततया विशेषांशो भवति। ये पुरुषाः धर्माचरणरहिताः ते पशुसदृशाः भवन्ति ॥०.२५॥
हिन्द्यर्थः भोजन, नींद, भय और मैथुन- ये चार बातें तो मनुष्यों और पशुओं में समान ही हैं। मनुष्य में केवल धर्म (गुण) ही अधिक है, इस लिए धर्महीन (विद्या विनय आदि गुणों से रहित) मनुष्य पशु के ही समान है ॥०.२५॥
उच्चारणम्
मूलम्: धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥०.२६॥
पदविभागः धर्म-अर्थ-काम-मोक्षाणां यस्य एकः अपि न विद्यते । अजा-गल-स्तनस्य इव तस्य जन्म निरर्थकम् ॥०.२६॥
अन्वयः यस्य धर्म-अर्थ-काम-मोक्षाणां एकः अपि न विद्यते, तस्य जन्म अजा-गल-स्तनस्य इव निरर्थकम् ॥०.२६॥
प्रतिपदार्थः यस्य = यस्य पुंसः ; धर्म-अर्थ-काम-मोक्षाणां = धर्मार्थ-काम-मोक्षाख्य-पुरुषार्थ-चतुष्टयस्य मध्ये ; एकोऽपि ; पुरुषार्थः = धर्मादिरूपो ; न विद्यते = (ध्येयत्वेन) न भवति ; तस्य = तस्य पुंसः ; अजागलस्तनस्य इव = अजा-गल-स्थित-स्तन-वत् लम्बमान-चर्म-खण्डस्य इव ; जन्म = जननं ; निरर्थकं = निष्फलमेव ; ॥०.२६॥
तात्पर्यम् यस्य पुरुषस्य पुरुषार्थ-चतुष्टयस्य मध्ये एकः अपि पुरुषार्थः धर्मो अर्थो कामो मोक्षो वा न विद्यते, तस्य धर्मादीनसेवमानस्य पुंसः दुग्धादि-रहित-बर्कर-गलचर्म-खण्डमिव वृथैव जन्म इत्याशयः ॥०.२६॥
हिन्द्यर्थः क्यों कि-धर्म अर्थ, काम, मोक्ष-इन चारों में से जिसके पास एक भी नहीं है, उस मनुष्य का जन्म वैसे ही व्यर्थ है, जैसे बकरी के गले का स्तन (चमड़ेकी स्तनाकार लम्बी थैली) ॥०.२६॥
उच्चारणम्
मूलम्: आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥०.२७॥
पदविभागः आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्च एतानि हि सृज्यन्ते गर्भस्थस्य एव देहिनः ॥०.२७॥
अन्वयः आयुः कर्म च वित्तं च विद्या निधनम् एव च– एतानि पञ्च हि गर्भस्थस्य एव देहिनः सृज्यन्ते ॥०.२७॥
प्रतिपदार्थः आयुः = जीवितकालः ; कर्म = जीविकासाधनं कर्म, शुभाशुभमाचरणं वा ; वित्तं = धनम् ; विद्या ; निधनं = मृत्युः ; एतानि पञ्च ; गर्भस्थस्य = मातुः कुक्षिस्थस्यैव ; देहिनः = प्राणिनः, जीविनः, शरीरिणः ; सृज्यन्ते = कल्प्यन्ते ॥०.२७॥
तात्पर्यम् शरीरिणः पञ्च विषयाः– १. जीवनपरिमाणं, २. पोषणाय वृत्तिः शुभाशुभकार्याणि वा, ३. आर्थिकस्थितिः, ४. ज्ञानं, ५. मरणसमयश्च– सर्वे जन्मनः पूर्वं गर्भे स्थिते एव निर्धृताः भवन्ति। (कोऽपि एतेषामभावस्य कारणं प्रयत्नलोप इति वक्तुं न शक्नोति। प्राणिनः मातृगर्भस्थितेः पूर्वमेव तस्य पूर्वजन्मनः कर्म अनुसृत्य आयुःप्रमाणादिकं निर्दिश्यते। अनेन निष्कर्षेण, स्थितौ परिणामः नितराम् असम्भव इति कथितुं न शक्यते। अभ्यासप्रयत्नाभ्यां तत्र कर्म-धन-विद्याविषयेषु लाभो भवेत्। यदि लाभो न दृश्येत, तर्हि शुचा न कार्या इत्येवास्य श्लोकस्यार्थः।) ॥०.२७॥
हिन्द्यर्थः कुछ लोग जो कहा करते हैं कि- जब मनुष्य गर्भ में रहता है तभी उसकी आयु, कर्म (व्यवसाय, धन, विद्या कौर मृत्युका समय- ये (चार वस्तु) निश्चित हो जाते हैं ॥०.२७॥
उच्चारणम्
मूलम्: अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥०.२८॥
पदविभागः अवश्यं भाविनः भावाः भवन्ति महताम् अपि । नग्नत्वं नीलकण्ठस्य महा-अहि-शयनं हरेः ॥०.२८॥
अन्वयः महताम् अपि भावाः अवश्यं भाविनः भवन्ति । नीलकण्ठस्य नग्नत्वं, हरेः महा-अहि-शयनं (चात्र प्रमाणम्) ॥०.२८॥
प्रतिपदार्थः महतामपि = महात्मानामपि ; भावाः = भवितव्यानि ; अवश्यं भाविनः = निश्चयेन भवमानाः घटनाः ; नीलकण्ठस्य = शिवस्य ; नग्नत्वं = दिगम्बरत्वम् ; हरेः = विष्णोः, महाहिशयनं = शेषशय्या ॥०.२८॥
तात्पर्यम् ये घटनाः नूनं भवमानाः भवन्ति, ते (न केवलं सामान्यानाम् अपि तु) महापुरुषाणामपि जीवने घटन्ते एव। (यद्यपि जगद्रक्षकौ, तथापि तयोः भाग्यमेवं भवति येन) शिवस्य तु दिगम्बरत्वं, विष्णोस्तु शेषे शय्या (परिकल्पिते स्तः) ॥०.२८॥
हिन्द्यर्थः जो बात अवश्य हाने वाली है, वह तो अवश्य ही होती है, उसको तो कोई भी नहीं हटा सकता है। इसमें शिवजी का नग्न रहना और विष्णु का शेषनाग का शय्या पर सोना ही प्रमाण है । अर्थात् यद्यपि ये दोनों संसार के प्रभु हैं, तथापि इनके प्रारब्ध में यही बिडम्बना लिखी है ॥०.२८॥
उच्चारणम्
मूलम्: यदभावि न तद् भावि भावि चेन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥०.२९॥
पदविभागः यद् अभावि न तद् भावि भावि चेद् न तद् अन्यथा । इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते ॥०.२९॥
अन्वयः यद् अभावि, न तद् भावि ; भावि चेद् तद् न अन्यथा इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते ॥०.२९॥
प्रतिपदार्थः यत् = सुखादि ; अभावि = न भावि ; तत् न भावि = न भवितुं न शक्यते ; चेत् = यदि ; भावि = सुखदुःखादिकं भावि, तत् = भाविसुखादि ; न अन्यया = न दूरीकर्तुं शक्यम् ; इति = इत्ययं ; चिन्ता एव विषं, तद्-हन्ति इति चिन्ताविषघ्नः = चिन्ताविषापहारी ; अगदः = औषधं, किं न = कुतो न ; पीयते = सेव्यते ॥०.२९॥
तात्पर्यम् यद्भावि, तत्तु विना प्रयत्नमपि भवति। यन्न भावि तत् प्रयत्न-सहस्रेणापि न सम्भवति। अतः अलं चिन्तया इति-- चिन्तानाम विषं हरन् विचार-औषधः जनैः किमर्थं न सेव्यते? अर्थात्- यद्भावि तद्भविष्यत्येव ; यच्च न भावि तन्न भविष्यत्येव, दैवाधीनमेव सर्वम् ; तत्र किं वृथा चिन्तया आयासेन च - इत्याशयः ॥०.२९॥
हिन्द्यर्थः जो बात नहीं होने वाली है, वह कभी नहीं होगी और जो होने वाली है, वह किसी प्रकार मिट नहीं सकती है इस विचाररूपी औषध को- जो कि सब चिन्ताओं को नाश करनेवाली है लोग क्यों नहीं पीते हैं? ॥०.२९॥
उच्चारणम्
मूलम्: न दैवमपि सञ्चिन्त्य त्यजेदुद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥०.३०॥
पदविभागः न दैवम् अपि सञ्चिन्त्य त्यजेद् उद्योगम् आत्मनः । अनुद्योगेन तैलानि तिलेभ्यः न आप्तुम् अर्हति ॥०.३०॥
अन्वयः दैवम् अपि सञ्चिन्त्य आत्मनः उद्योगं न त्यजेद् । (अत्रोदाहरणम्) अनुद्योगेन तिलेभ्यः तैलानि आप्तुं न अर्हति ॥०.३०॥
प्रतिपदार्थः देवम् अपि = दैवम् अस्ति इति, भाग्यम् (तदेव सर्वकार्यसाधकमिति) ; सञ्चिन्त्य = विभाव्य, चिन्तयित्वा ; आत्मनः = आत्माधीनम् ; उद्योगं = पुरुषार्थं ; (यत् स्वयं कर्तुं शक्यते तत्) न त्यजेत् ; (यतः) अनुद्योगेन = उद्योगविकलेन, आलस्येन वा ; (गृहकोणस्थितेभ्योऽपि तैलपूर्णेभ्योऽपि) तिलेभ्यः ; तैलानि ; आप्तुं = प्राप्तुं ; न अर्हति = योग्यो न भवति ॥०.३०॥
तात्पर्यम् भाग्यमस्ति इति चिन्तयित्वा स्वस्य हस्ते यदस्ति, तत् प्रयत्नं न त्यक्तव्यम् । प्रयत्नं विना तिलेषु सत्सु अपि तैलं न प्राप्नोति। (उद्योगाऽभावे हि गृहकोणस्थतिलेभ्योऽपि तैललाभो न भवति, किं पुनरभ्युदयसम्पत्तिसुखादिलाभः । एवञ्च दैवस्य आशां विहाय, पुरुषेण उद्योगोऽवश्यं विधेय इत्यर्थः) ॥०.३०॥
हिन्द्यर्थः बुद्धिमान् मनुष्य को अपना उद्योग कभी नहीं छोड़ना चाहिए । क्योंकि विना उद्योग के किये तो तिल से तेल भी नहीं निकल सकता है ॥०.३०॥
उच्चारणम्
मूलम्: उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥०.३१॥
पदविभागः उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीः दैवेन देयम् इति कापुरुषाः वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कः अत्र दोषः ॥०.३१॥
अन्वयः उद्योगिनं पुरुष-सिंहम् लक्ष्मीः उपैति । कापुरुषाः ‘दैवेन देयम्’ इति वदन्ति । दैवं निहत्य, आत्म-शक्त्या पौरुषं कुरु । यत्ने कृते यदि न सिध्यति कः अत्र दोषः ॥०.३१॥
प्रतिपदार्थः उद्योगिनम् = प्रयत्नशीलं ; पुरुषसिंहं = (~पुरुषः सिंह इव, पुरुषसिंहस्तं) सिंहवद् विक्रमशालिनं पुरुषश्रेष्ठम् ; लक्ष्मीः = धनं, सम्पत्तिः, सफलता, जयः ; स्वयमेव = स्वत एव ; उपैति = आगच्छति ; कापुरुषाः = उद्योगशक्तिशून्याः, भयशीलाः, कातरा एव, न शूराः ; ‘दैवेन देयम्’ इति = ‘भाग्येन एव दीयते (सर्वं सुखं दुःखं वे’ति) ; वदन्ति = कथयन्ति ; दैवम् = भाग्यं, अदृष्टं ; निहत्य = तन्मुखप्रेक्षितां विहाय, तदुपेक्ष्येति वा ; पौरुषम् = उद्योगं ; कुरु ; यत्ने = उद्योगे ; कृते सति ; यदि = चेत् ; कार्यं न सिध्यति (तर्हि अस्मिन्विषये) ; कः = को वा पुंसः ; दोषः = अपकर्षकारकं ; (नैव कश्चिद्दोष इत्यर्थः) । यद्वा-अत्र = यत्ने एव कः = कोऽपि दोषः = त्रुटिरस्तीति विभाव्यम्, अन्यथा बलवति यत्ने सति अवश्यमेव कार्यं भवत्येवेत्यवधेयमित्यन्ये व्याचक्षते ॥०.३१॥
तात्पर्यम् यः प्रयत्नशीलः सिंहवत् विक्रमशाली पुरुषः, सः सफलत्वं प्राप्नोति। भयशीलिनः तु ‘भाग्येनैव दीयते’ इति ब्रुवन्ति। अतः भाग्यमुपेक्ष्य, प्रयत्नं कुरु। यदि यत्नं कृत्वा अपि फलं न प्राप्यते, तर्हि न कोऽपि दोषस्तत्र। अथवा, यदि न प्राप्यते फलं, तर्हि ‘यत्ने को दोषः?’ इति चिन्तनीयम् ॥०.३१॥
हिन्द्यर्थः और भी-उद्योगशील पुरुषसिंह के पास स्वयं ही लक्ष्मी आती है । 'धन भाग्य से ही मिलता है' यह तो कायर पुरुष ही कहा करते हैं । इसलिये मनुष्य को भाग्य का भरोसा छोड़कर अपनी शक्ति के अनुसार उद्योग करना चाहिये, यदि उद्योग करने पर भी कार्य की सिद्धि न होने तो इस उद्योग में क्या दोष है। इसका विचार करो । अर्थात्- देखो कि तुमारे इस उद्योग में क्या त्रुटि है, न कि उद्योग को ही छोड दो ॥०.३१॥
उच्चारणम्
मूलम्: यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥०.३२॥
पदविभागः यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥०.३२॥
अन्वयः यथा हि एकेन चक्रेण रथस्य गतिः न भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥०.३२॥
प्रतिपदार्थः यथा = येन प्रकारेण ; एकेन ; चक्रेण = रथाङ्गेन ; रथस्य ; गतिः = अग्रे चलनं ; न भवेत् = न भवति ; एवं = तथैव ; पुरुषकारेण = मानवप्रयत्नेन, सहायभूतेन पौरुषेण ; विना ; दैवम् = केवलम् अदृष्टं ; न सिध्यति = नैव फलतीत्यर्थः ॥०.३२॥
तात्पर्यम् यथा रथः द्वयोः चक्रयोः चलति, एकेन चक्रेण नाग्रे गन्तुं पारयति, तथैव मनुष्यस्य प्रयत्नेन विना केवलं भाग्येन कार्यं न सिद्ध्यति ॥०.३२॥
हिन्द्यर्थः जैसे एक चक्र से रथ नहीं चल सकता है, उसी प्रकार उद्योग के विना केवल भाग्य से ही सिद्धि नहीं हो सकती है ॥०.३२॥
उच्चारणम्
मूलम्: पूर्वजन्मकृतं कर्म तद् दैवमिति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥०.३३॥
पदविभागः पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥०.३३॥
अन्वयः पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण अतन्द्रितः यत्नं कुर्याद् ॥०.३३॥
प्रतिपदार्थः पूर्वजन्मनि = गते जन्मकाले ; कृतं यत्कर्म = आचरितानि कार्याणि ; तत् = तदेव ; दैवमिति कथ्यते = ‘दैवपदवाच्यम्, इतोऽन्यद्दैवं नाम किञ्चिदपि नास्ति ; तस्मात् = पुरुषकारेण विना दैवस्य सिद्धेरभावात् ; पुरुषकारेण = पुरुषार्थमास्थाय, प्रयत्नं कृत्वा ; अतन्द्रितः = आलस्यवर्जितः, सावधानः सन् ; पुमान् = पुरुषः, मनुष्यः ; यत्नं कुर्यात् = उद्यमं कुर्यात् ॥०.३३॥
तात्पर्यम् गते जन्मनि यद्यदाचरितं कर्म वर्तते, तदेव अस्मिन् जन्मनि भाग्यरूपेण परिणमति। अतः (पूर्वकाले वा भवतु) प्रयत्नेनैव भाग्यस्यापि कल्पितत्वात्, सावधानो भूत्वा प्रयत्नः अवश्यं करणीयः ॥०.३३॥
हिन्द्यर्थः पूर्वजन्म में किया हुआ कर्म ही दूसरे जन्म में भाग्य कहा जाता है । इसलिये मनुष्य को पुरुषार्थं (उद्योग, कर्म) करना ही चाहिए ॥०.३३॥
उच्चारणम्
मूलम्: यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति । एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥०.३४॥
पदविभागः यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते ॥०.३४॥
अन्वयः यथा मृत्पिण्डतः कर्ता यद् यद् इच्छति (तत्तत्) कुरुते । एवम् मानवः आत्मकृतं कर्म प्रतिपद्यते ॥०.३४॥
प्रतिपदार्थः यथा मृत्पिण्डतः = मृत्तिकासंघेन ; कर्ता = (अत्र) कुलालः ; यद्यत् = शरावोदञ्चन-घटादिकम् ; इच्छति = कर्तुं वाञ्छति ; तत्तत्-कुरुते = स्वप्रयत्नेन सम्पादयति ; एवं = पूर्वोपपादितया रीत्या ; मानवः = कर्ता ; आत्मकृतमेव = स्वयमाचरितम् ; कर्म = कर्मफलम् ; धटादिकञ्च ; प्रतिपद्यते = लभते, प्राप्नोति ॥०.३४॥
तात्पर्यम् यथा कुलालः मृत्तिकामुपयुज्य यद्वस्तु आवश्यकं तत् निर्माति, (कार्येषु उपयुनक्ति च) तथा मनुष्योऽपि स्वयमाचरितस्य कर्मणः एव फलं भुनक्ति ॥०.३४॥
हिन्द्यर्थः जैसे कुम्हार मिट्टी के पिण्ड से जो जो वस्तु चाहता है, अपनी इच्छा के अनुसार बनाता है, उसी प्रकार मनुष्य अपने किये हुए कर्म के अनुसार ही फल पाता है ॥०.३४॥
उच्चारणम्
मूलम्: काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥०.३५॥
पदविभागः काक-तालीय-वत् प्राप्तं दृष्ट्वा अपि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥०.३५॥
अन्वयः काक-तालीय-वत् प्राप्तं निधिम् अग्रतः दृष्ट्वा अपि दैवं स्वयं न आदत्ते । पुरुषार्थम् अपेक्षते ॥०.३५॥
प्रतिपदार्थः काकस्य आगमनमिव, तालस्य पतनमिव-काकतालं, काकतालमिव ~ काकतालीयं = सहसा उपनतम् ; तद्वत् = काकतालीयवत् = काकागमनेन तालपतनवद्, कस्मात्, दैववशात् ; प्राप्तं = लब्धं, निधिम् = शेवधिम् = (खजाने को) ; अग्रतः = पुरतः, दृष्ट्वापि ; दैवं = भाग्यं ; स्वयम् = स्वतः ; न आदत्ते = न गृह्णाति ; किन्तु-- आदाने-पुरुषार्थे = हस्तचालनादिकं पुरुषव्यापारम् ; अपेक्षते = आश्रयते एव ; सहायमपेक्षते एव ॥०.३५॥
तात्पर्यम् काकतालीयमिव (कस्यचित् मनुष्यस्य) पुरतः पतितं धनमपि भाग्येन न गृह्णाति । तदर्थमपि प्रयत्न अपेक्ष्यते ॥०.३५॥
हिन्द्यर्थः काकतालीय न्याय से (अर्थात् अकस्मात्, भाग्य से) सामने प्राप्त हुए धन को भी उठाकर रखने में पुरुषार्थ की जरूरत रहती ही है ॥०.३५॥
उच्चारणम्
मूलम्: उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥०.३६॥
पदविभागः उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥०.३६॥
अन्वयः उद्यमेन हि कार्याणि सिध्यन्ति। मनोरथैः न। सुप्तस्य सिंहस्य मुखे मृगाः न हि प्रविशन्ति ॥०.३६॥
प्रतिपदार्थः उद्यमेन = उद्योगेन, प्रयत्नेन ; सिध्यन्ति = सफलानि भवन्ति ; कार्याणि = उद्दिष्टानि कर्माणि ; मनोरथैः = कामनाभिः ; हि = यतः ; सुप्तस्य = शयितस्य (बुभुक्षितस्यापि) ; सिंहस्य ; मुखे= वदने ; मृगाः = पशवः ; न प्रविशन्ति = आहारो न भवन्ति ; ॥०.३६॥
तात्पर्यम् आकाङ्क्षितैः, 'ममेदं भवतु' 'सिध्यतु ममेद'मित्यादि-मनोरथमात्रेण कर्माणि न सम्पद्यन्ते । सिंहः यदा शेते, तदा (स क्षुदा पीडित इति कृत्वा स्वयमेवागत्य) जन्तवः तस्य मुखान्ते (अन्नं भूत्वा) न प्रविशन्ति ।किन्तु तदर्थं सिंहोऽपि यत्नं करोति । एवमेव सर्वैरपि यत्नो विधेयः ॥०.३६॥
हिन्द्यर्थः क्योंकि- कार्य की सिद्धि उद्योग से ही होती है, केवल इच्छामात्र से नहीं । क्योंकि सोये हुये भूखे सिंह के मुख में मृग स्वयं नहीं चले जाते हैं, किन्तु उसको भी शिकार पकड़ने के लिए यत्न करना ही होता है ॥०.३६॥
उच्चारणम्
मूलम्: मातापितृकृताभ्यासो गुणितामेति बालकः । न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः ॥०.३७॥
पदविभागः माता-पितृ-कृत-अभ्यासः गुणिताम् एति बालकः । न गर्भ-च्युति-मात्रेण पुत्रः भवति पण्डितः ॥०.३७॥
अन्वयः माता-पितृ-कृत-अभ्यासः बालकः गुणिताम् एति । गर्भ-च्युति-मात्रेण पुत्रः पण्डितः न भवति ॥०.३७॥
प्रतिपदार्थः मात्रा च पित्रा च कृतः, कारितः अभ्यासो येनासौ ~ मातापितृ-कृताऽभ्यासः = मातापितृभ्यां कारिताभ्यासः ; बालकः = पुत्रः ; गुणितां = विद्वत्त्वं, गुणवत्त्वञ्च ; एति = प्राप्नोति, लभते ; केवलं गर्भ-च्युति-मात्रेण = जन्मग्रहण-मात्रेणैव ; पुत्रः = बालकः ; पण्डितो न भवति ॥०.३७॥
तात्पर्यम् माता पिता च यं बालकं (सद्गुणानां) अभ्यासं कारयन्ति, स एव गुणी भवति। जन्मप्राप्तिमात्रेण न कोऽपि पुत्रः पण्डितः भवति। (अतः शिक्षणमावश्यकम्।) ॥०.३७॥
हिन्द्यर्थः माता पिता के अभ्यास कराने से हरी बालक गुणी होता है । जन्मते ही कोई पण्डित नहीं हो जाता है। अतः बालका को उत्तम शिक्षा देनी चाहिए ॥०.३७॥
उच्चारणम्
मूलम्: माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥०.३८॥
पदविभागः माता शत्रुः पिता वैरी येन बालः न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बकः यथा ॥०.३८॥
अन्वयः माता शत्रुः पिता वैरी येन बालः न पाठितः । सभा-मध्ये (सः) हंस-मध्ये यथा बकः (तथा) न शोभते ॥०.३८॥
प्रतिपदार्थः माता = जननी ; शत्रुः = अरिः ; पिता = जनकः ; वैरी = रिपुः ; येन = पित्रा ; बालः = पुत्रः ; न पाठितः = अध्ययनं न कारितः, शिक्षा न प्रापयितः ; सभामध्ये = पण्डितानां समवाये, विद्वत्समाजे ; हंसमध्ये बक इव ; न शोभते = न प्रतिष्ठां लभते। 'याभ्या'मिति पाठान्तरम् ॥०.३८॥
तात्पर्यम् यं बालं माता पिता च न ज्ञानं प्रदापयन्ति, तौ (तस्य) शत्रू इव भवतः । सः विदुषां पुरतः न स्थातुं शक्नोति । हंसानां समूहे बक इव स भवति। यौ पितरौ स्वपुत्रं न शिक्षयन्ति तौ अशिक्षिताय स्वपुत्राय शत्रू भवतः, हंसानां समूहे बकः यथा न प्रकाशते तथैवायमशिक्षितः बालोपि विदुषां समूहे न शोभते, तस्मात् पितृभ्यामवश्यमपत्यानि शिक्षणीयानीति अस्य भावः ॥०.३८॥
हिन्द्यर्थः वे पिता माता शत्रु हैं, जिन्होंने अपने बालक पुत्र को नहीं पढ़ाया । क्यों कि हंसो के बीच में बगुले की तरह वह मूर्ख बालक भी विद्वानों के बीच में कभी शोभा नहीं देता है ॥०.३८॥
उच्चारणम्
मूलम्: रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥०.३९॥
पदविभागः रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः । विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः ॥०.३९॥
अन्वयः रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः (अपि) विद्याहीनाः निर्गन्धाः किंशुकाः इव न शोभन्ते ॥०.३९॥
प्रतिपदार्थः रूप-यौवन-सम्पन्नाः ~ रूपेण = सौन्दर्येण, शरीरकान्त्या च ; यौवनेन = युवत्वकृतेन वपुः ; सम्पन्नाः = शोभिताः अपि ; किञ्च--विशालकुलसम्भवाः = महाकुलप्रसूता अपि ; विद्याहीनाः = मूर्खाः ; निर्गन्धाः = (सुरूपा अपि) गन्धशून्याः, किंशुकाः = पलाशकुसुमानीव, न शोभन्ते = लोके न विराजन्ते ॥०.३९॥
तात्पर्यम् सुन्दराः, युवकाः, उन्नत-कुले जाताः अपि नराः ज्ञानेन विना, गन्धहीन-किंशुक-पुष्पाणीव न शोभन्ते ॥०.३९॥
हिन्द्यर्थः अच्छे कुल में उत्पन्न, सुन्दर, युवा मनुष्य भी विद्याहीन होने से निर्गन्ध पलाश (ढाक) के फूल के समान शोभा नहीं पाते हैं ॥०.३९॥
उच्चारणम्
मूलम्: मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्ठितः । तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥०.४०॥
पदविभागः मूर्खः अपि शोभते तावत् सभायां वस्त्रवेष्ठितः । तावत् च शोभते मूर्खः यावत्किञ्चिन्न भाषते ॥०.४०॥
अन्वयः मूर्खः अपि सभायां वस्त्रवेष्ठितः तावत् शोभते । मूर्खः यावत् किञ्चित् न भाषते तावत् च शोभते ॥०.४०॥
प्रतिपदार्थः मूर्खः = मूढबुद्धिः, अल्पधीः, अर्धज्ञानी ; शोभते = साधु दृश्यते ; सभायां = विद्वद्गोष्ठ्याम् ; तावत् = निश्चयेन ; वस्त्रवेष्टितः = महार्ह-पट्ट-वस्त्रावृतः, (दुशाला ओढे हुए) ; भाषते = वदति ॥०.४०॥
तात्पर्यम् मूढः पुरुषः अपि (सुसज्जीभूय सुन्दर)वस्त्राणि धृत्वा सभायां निश्चयेन शोभनो दृश्यते । यावत्कालं सः किमपि न वदति, तावत् पर्यन्तं सः (पण्डित इव) आदरं प्राप्नोति ॥०.४०॥
हिन्द्यर्थः विद्वानों की सभा में अच्छा कपडा पहन कर कदाचित्मूर्ख भी शोभता है, परन्तु वह तभी तक शोभता है, जब तक वह कुछ बोलता नहीं है । अर्थात् उसके बोलते ही उसकी योग्यता (मूर्खता) मालूम हो जाती है ॥०.४०॥
उच्चारणम्
मूलम्: काचः काञ्चनसंसर्गाद् धत्ते मारकतीर्द्युतीः । तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम् ॥०.४१॥
पदविभागः काचः काञ्चन-संसर्गाद् धत्ते मारकतीः द्युतीः । तथा सत्सन्निधानेन मूर्खः याति प्रवीणताम् ॥०.४१॥
अन्वयः काचः काञ्चन-संसर्गाद् मारकतीः द्युतीः धत्ते । तथा मूर्खः सत्सन्निधानेन प्रवीणताम् याति ॥०.४१॥
प्रतिपदार्थः काचः = मृत्तिकाभेदः ; काञ्चनम् = सुवर्णम् ; संसर्गाद् = सम्पर्कात् ; मारकतीं = मरकतमणि-सम्बन्धिनीं, तत्तुल्यतामिति यावत् [मरकतः=पन्ना] ; द्युतीः = प्रकाशान् ; सत्सन्निधानेन = सतां साङ्गत्येन ; प्रवीणतां = कुशलतां, पाण्डित्यञ्च ; याति = लभते ॥०.४१॥
तात्पर्यम् काञ्चनस्य सम्पर्केण काचः अपि मरकतमणिरिव कान्तिं प्राप्नोति। तथैव बुद्धिहीनोऽपि सज्जनानां सङ्गतौ कौशल्यं लभते ॥०.४१॥
हिन्द्यर्थः क्यों कि-जैसे काच भी सुवर्ण के सम्बन्ध से मरकत मणि (पन्ना) की सी शोभा को पाता है, इसी प्रकार सज्जनों के संसर्ग से मूर्ख भी चतुर हो जाता है ॥०.४१॥
उच्चारणम्
मूलम्: हीयते हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥०.४२॥
पदविभागः हीयते हि मतिः तात हीनैः सह समागमात् । समैः च समताम् एति विशिष्टैः च विशिष्टताम् ॥०.४२॥
अन्वयः तात, हीनैः सह समागमात् मतिः हीयते हि । समैः च समताम् एति । विशिष्टैः च विशिष्टताम् ॥०.४२॥
प्रतिपदार्थः ‘ताते’ति सम्बोधनम् ; तात = हे वत्स! ; हीनैः = अधमैः, मूर्खैः ; समागमात् = मित्रत्वात्, साङ्गत्यात् ; मतिः = बुद्धिः ; हीयते = अल्पतामेति, क्षयमेति ; समैः = स्वात्मतुल्यैः, ये समानबुद्धयः भवन्ति तैः सह ; समतां = समान-बौद्धिक-स्थितिं ; विशिष्टैः = स्वस्माद् अधिकैः, ये विलक्षण-बुद्धयः भवन्ति तैः सह ; विशिष्टता= वैदुष्यं, महत्त्वञ्च ॥०.४२॥
तात्पर्यम् हे वत्स, अल्पबुद्धिभिः सहवासेन धीशक्तिः क्षीयते। स्वतुल्यधीभिः सह साङ्गत्येन समा धीस्थितिः भवति। स्वस्मात् विशेषेण अधिकमतिभिः सह सख्यतया नरः स्वयमपि महान् भवति ॥०.४२॥
हिन्द्यर्थः किसी ने कहा भी है कि ‘हे तात, नीचों के सङ्ग-साथ से मनुष्य की बुद्धि छोटी हो जाती है, और अपने बराबर बुद्धिवालों के साथ से बुद्धि साधारण रहती है, और अपने से बद्धि लोगों के सङ्ग से मनुष्य की बुद्धि उत्कृष्ट (उन्नत) होती है ॥०.४२॥
उच्चारणम्
मूलम्: नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवत् पाठ्यते बकः ॥०.४३॥
पदविभागः न अद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेन अपि शुकवत् पाठ्यते बकः ॥०.४३॥
अन्वयः अद्रव्ये निहिता काचित् क्रिया फलवती न भवेत् । व्यापार-शतेन अपि बकः शुकवत् न पाठ्यते ॥०.४३॥
प्रतिपदार्थः देव = हे राजन् ; अद्रव्ये = अयोग्ये, अपात्रे च ; निहिता = योजिता, स्थापिता च ; क्रिया = संस्कारः, शिक्षा च = शिक्षणं ; फलवती = सफला ; व्यापार-शतेनापि = उपाय-शतेनापि ; बकः = पक्षिविशेषः ; न खलु ; पाठ्यते=पाठयितुं शक्यते ॥०.४३॥
तात्पर्यम् अपात्रं शिक्षयित्वा संस्कारयितुं कृतानि प्रयतनानि न कदापि सफलानि भवन्ति। बकः शुकवत् भणितुं न पारयति। अतः तं शिक्षयितुं प्रयत्नः व्यर्थो भवति ॥०.४३॥
हिन्द्यर्थः अयोग्य अपात्र में कोई भी सुधार सफल नहीं होता है । अनेक उपाय करने पर भी कोई भी बगुले को शुक (सुग्गे) की तरह कभी नहीं पढा सकता है ॥०.४३॥
उच्चारणम्
मूलम्: अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥०.४४॥
पदविभागः अस्मिन् तु निर्गुणं गोत्रे न अपत्यम् उपजायते । आकरे पद्म-राणाणां जन्म काचमणेः कुतः ॥०.४४॥
अन्वयः अस्मिन् गोत्रे तु निर्गुणम् अपत्यम् न उपजायते । पद्म-रागाणाम् आकरे काचमणेः जन्म कुतः ॥०.४४॥
प्रतिपदार्थः अस्मिन् = भवतां प्रसिद्धे ; गोत्रे = वंशे, (अत्र) राजकुले ; निर्गुणं = गुणशून्यम् ; अपत्यं = सन्तानं, पुत्र इति यावत्, तोकं ; न उपजायते = न उत्पद्यते ; यतः ; पद्मरागाणां = तन्नामविशिष्ट-मणयः तेषां ; आकरे = खनौ ; काचमणेः = काचस्य ; जन्म = उत्पत्तिः ; कुतः = कस्माद् हेतोः भवति? नैव संभवतीत्यर्थः ॥०.४४॥
तात्पर्यम् (सद्गुणविशिष्टे) अस्मिन् राजकुले गुणशून्यं सन्तानं न कदापि सञ्जायते। (अमूल्ये) पद्मरागमणीनाम् उत्पत्तिस्थाने (अयोग्यः) काचमणिः कथमुत्पद्यते ॥०.४४॥
हिन्द्यर्थः परन्तु इस (आपके) वंश में मूर्ख सन्तति हो ही नहीं सकती है । जैसे पद्मरागमणि (लाल' 'चुन्नी') की खान से कभी काच की उत्पत्ति नहीं होती है ॥०.४४॥
उच्चारणम्
मूलम्: कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥०.४५॥
पदविभागः कीटः अपि सुमनः सङ्गाद् आरोहति सतां शिरः । अश्मा अपि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥०.४५॥
अन्वयः कीटः अपि सुमनः सङ्गाद् सतां शिरः आरोहति । अश्मा अपि महद्भिः सुप्रतिष्ठितः (भूत्वा) देवत्वं याति ॥०.४५॥
प्रतिपदार्थः कीटः = भृङ्गादिः । पामरश्च । सुमनः सङ्गात् = पुष्पसम्बन्धात् । विद्वत्सङ्गाच्च । सतां = सज्जनानां, महताञ्च । शिरः = मस्तकमपि । आरोहति = तत्पूज्यो भवति । अश्मा = पाषाणः । महद्भिः = विद्वद्भिः, श्रेष्ठैश्च । सुप्रतिष्ठितः = स्थापितः ॥०.४५॥
तात्पर्यम् (अस्मिन् पद्ये अल्पवस्तूनां महद्वस्तुसाङ्गत्येन महत्त्वप्राप्तिः उक्ता।) कीटाः पुष्पाणां साङ्गत्येन सज्जनस्य शिरसि न्यस्यते। पाषाणश्च श्रेष्ठैः जनैः मन्दिरादिषु संस्थापितः, प्रतिष्ठितः सन् देवः भूत्वा पूज्यत्वं प्राप्नोति। (अत्र कीटस्य, पाषाणस्य च तुलना पामरजनेन, पुष्पानां, प्रतिष्ठया देवत्वप्राप्तेः च पण्डितजनेन तुलना कृता।) ॥०.४५॥
हिन्द्यर्थः पुष्पों के साथ होने से कीडा भी बड़े लोगों के शिर पर चढ़ जाता है । और बड़े लोगों से आदर प्रतिष्ठा पाकर पत्थर भी देवता बन जाता है ॥०.४५॥
उच्चारणम्
मूलम्: यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते ॥०.४६॥
पदविभागः 🌸
अन्वयः यथा उदयगिरेः द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन हीनवर्णः अपि दीप्यते ॥०.४६॥
प्रतिपदार्थः उदयगिरेः = उदयपर्वतस्य ; द्रव्यं = पाषाणवृक्षादिकं वस्तुजातमपि ; सन्निकर्षेण = सामीप्यं, सम्पर्कः ; दीप्यते = सूर्यसम्पर्कात् प्रकाशते, शोभते ; हीनवर्णः = बुद्धिविषये नीचः, मूढः ; दीप्तिरहितोऽपि = प्रज्ञादिगुणैः विहीनोऽपि; दीप्यते = संवर्ध्यते ॥०.४६॥
तात्पर्यम् यथा सूर्योदयानन्तरम् उदयाचलसमीपे स्थितं सर्वं वस्तु सूर्यप्रकाशसम्पर्केण शोभते, तथैव मूर्खजनः सतां सन्निधौ विवेकशीली भवति। तस्य बुद्धिविकासो जायते ॥०.४६॥
हिन्द्यर्थः और भी- जैसे उदयाचल की सभी वस्तु सूर्य के समीप होने से चमकने लगती हैं, उसी तरह सज्जनों के संसर्ग से मूर्ख भी विद्वानों जाते हैं ॥०.४६॥
उच्चारणम्
मूलम्: गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥०.४७॥
पदविभागः गुणाः गुणज्ञेषु गुणाः भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य-तोयाः प्रवहन्ति नद्यः समुद्रम् आसाद्य भवन्ति अपेयाः ॥०.४७॥
अन्वयः गुणाः गुणज्ञेषु गुणाः भवन्ति। ते निर्गुणं प्राप्य दोषाः भवन्ति । नद्यः आस्वाद्य-तोयाः प्रवहन्ति । समुद्रम् आसाद्य अपेयाः भवन्ति ॥०.४७॥
प्रतिपदार्थः गुणा इति । गुणाः = दयादाक्षिण्य-सत्कुल-प्रसूतत्वादयः ; गुणज्ञेषु = गुणि-जनसमवधाने, ये गुणं जानन्ति, तेषु ; गुणा भवन्ति = गुणत्वं वहन्ति । ते = गुणाः । निर्गुणं = गुणशून्यम् ; दोषा भवन्ति ; आस्वाद्यं तोयं यासान्ताः ~ आस्वाद्य-तोयाः = सुपेयपानीयाः, मधुरजलाः ; प्रवहन्ति = प्रचरन्ति ; 'प्रभवन्ती'ति पाठेऽपि स एवाऽर्थः ; आसाद्य = प्राप्य ; अपेयाः = क्षारोदकाः ; एवञ्च त्वत्संनिधानेन (भवत्सङ्गेन) कुलीना मत्पुत्रा विद्वांसो भविष्यन्तीत्याशयः ॥०.४७॥
तात्पर्यम् गुणज्ञा नाम ये गुणं जानन्ति, तेषु गुणाः गुणाः भवन्ति। गुणहीनं प्राप्य ते दोषा भवन्ति। अत्र सादृश्यम् नदीभिः। नद्यः यावत् प्रवहणशीलाः तावत् मधुरजलैः युक्ताः, पानयोग्याः भवन्ति। ताः प्रवाहान्ते समुद्रं यदा प्राप्नुवन्ति तदा पानाय अयोग्यजलयुक्ता सम्पद्यन्ते। [अत्र नदीजलानां सन्दर्भे, पानयोग्यत्वमधिकृत्य समुद्रः क्षारजलत्वात् निर्गुण इति अभिहितः। तावन्मात्रेण अन्यसल्लक्षणानां सन्दर्भे समुद्रस्य गुणहीनत्वं न कीर्तनीयम्।] ॥०.४७॥
हिन्द्यर्थः क्योंकि गुणी मनुष्य के सम्बन्ध से गुणगुण ही रहते है, अर्थात् उनका आदर होता है । पर वे ही गुण-निर्गुण मनुष्य के सम्बन्ध से हो जाते हैं । देखो, नदियों का जल स्वभाव से ही स्वादिष्ट होता है, परन्तु वही जल जब समुद्र में जाकर पड़ता है, तो वह खारा हो जाता है ॥०.४७॥
उच्चारणम्
मूलम्: काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१.१॥
पदविभागः काव्य-शास्त्र-विनोदेन कालः गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥१.१॥
अन्वयः धीमताम् कालः काव्य-शास्त्र-विनोदेन गच्छति । मूर्खाणां तु व्यसनेन, निद्रया कलहेन वा (गच्छति) ॥१.१॥
प्रतिपदार्थः काव्यशास्त्रविनोदेन ~ काव्यञ्च शास्त्रञ्च- काव्यशास्त्रे, ताभ्यां यो विनोदस्तेन ~ यद्वा- काव्यमेव शास्त्रन्तेन विनोद इति विग्रहः = काव्यशास्त्र-पर्यालोचनेनेत्यर्थः ; धीमतां च = विदुषां ; कालः = जीवितसमयः ; गच्छति = सुखं याति ; मूर्खाणान्तु व्यसनेन = स्त्रीद्यूत-मद्यपानादिव्यसनेन ; किञ्च- निद्रया = स्वापेन ; कलहेन = विवादेन च ; कालो गच्छति ॥१.१॥
तात्पर्यम् विदुषां, विज्ञानां च जीवनसमयः सत्काव्यानां, शास्त्रविज्ञानग्रन्थानां च पठन-चर्चादिना याति। मूढजनानां कालस्तु आत्मनः अवनतिकारकैः दुर्व्यसनैः वा, शयनेन, परस्परं विवादैः वा याति ॥१.१॥
हिन्द्यर्थः बुद्धिमान् मनुष्यों का समय काव्यों व शास्त्रों के विचार में ही बीतता है, परन्तु मूर्खों का समय तो व्यसन (बुरे काम) एवं निद्रा तया झगडों में ही बीतता है ॥१.१॥
उच्चारणम्
मूलम्: असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः । साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥१.२॥
पदविभागः असाधनाः वित्त-हीनाः बुद्धिमन्तः सुहृन्मताः । साधयन्ति आशु कार्याणि काक-कूर्म-मृग-आखु-वत् ॥१.२॥
अन्वयः असाधनाः वित्त-हीनाः बुद्धिमन्तः सुहृन्मताः । काक-कूर्म-मृग-आखु-वत् आशु कार्याणि साधयन्ति ॥१.२॥
प्रतिपदार्थः असाधनाः = उपकरणवर्जिताः ; वित्तहीनाः = धनवर्जिताः ; (अपि-) बुद्धिमन्तः = मनीषिणः ; सुहृत्तमाः = परस्परहितैषिणः, परस्परं मित्रतां गताः सहृदयाः ; आशु = शीघ्रम् । काककूर्ममृगाखुवत् = वायस-कच्छपमूषकवत् ॥१.२॥
तात्पर्यम् साधनरहिताः, धनहीनाः चापि धीमन्तः, मित्रतासम्पन्नाः (ये जनाः) ते (आगामिन्यां कथायां) वायस-कच्छपमूषकवत् कार्याणि शीघ्रं साधयन्ति ॥१.२॥
हिन्द्यर्थः उपायरहित, धनहीन पर बुद्धिमान् और दृढ मैत्री वाते पुरुष अपने कार्यों को उसी प्रकार शीघ्र सिद्ध कर लेते हैं, जैसे कि उन कौआ, कछुआ, मृग और चूहों ने किया था ॥१.२॥
उच्चारणम्
मूलम्: शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥१.३॥
पदविभागः शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥१.३॥
अन्वयः शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति। पण्डितम् न (आविशन्ति) ॥१.३॥
प्रतिपदार्थः शोक-स्थान-सहस्राणि = सहस्रशः शोककारणानि, शोकावसरा इत्यर्थः ; भयस्थानशतानि = शतशो भयहेतवः ; दिवसे-दिवसे = प्रतिदिनमेव ; मूढं = मूर्खमेव ; आविशन्ति = आश्रयन्ते, व्याकुलं कुर्वन्ति ; परन्तु पण्डितं = विद्वांसन्तु ; न = नैव आविशन्ति ॥१.३॥
तात्पर्यम् सहस्रशः शोककारणानि शतशो भयहेतवः प्रतिदिनमेव मूर्खम् व्याकुलं कुर्वन्ति ; परन्तु विद्वांसन्तु नैव पीडयन्ति ॥१.३॥
हिन्द्यर्थः 🙏
उच्चारणम्
मूलम्: उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम्।(पाठ. किमद्य सुकृतं कृतम् ।) मरणव्याधिशोकानां किमद्य निपतिष्यति ॥१.४॥
पदविभागः उत्थाय उत्थाय बोद्धव्यं महद्-भयम् उपस्थितम्। (पाठ. किम् अद्य सुकृतं कृतम्) । मरण-व्याधि-शोकानां किम् अद्य निपतिष्यति ॥१.४॥
अन्वयः उत्थाय उत्थाय उपस्थितं महद्-भयम् बोद्धव्यं । (पाठ. अद्य किम् सुकृतं कृतम्) । अद्य मरण-व्याधि-शोकानां किम् निपतिष्यति (इति) ॥१.४॥
प्रतिपदार्थः उत्थाय उत्थाय = मुहुः प्रबुध्य ; उपस्थितं = प्राप्तं ; महद्भयं = महाभीतिः ; बोद्धव्यं=ज्ञातव्यम् ; किं ज्ञातव्यमत आह- मरणेति ; मरण-व्याधि-शोकानां = मृत्यु-रोग-मानसिकपीडानां मध्यात् ; निपतिष्यति = आपतिष्यति ॥१.४॥
तात्पर्यम् जीवैः प्रतिदिनं (प्रातः निद्रातः) समुत्थाय विचारणीयं (स्मर्तव्यम्) । संसारे स्थिताभ्यः पीडाभ्यः का वा अद्य माम् आगत्य पीडयेदिति (सर्वदा सावधानेन भवितव्यम्। विपत्तये सन्नद्धतया स्थातव्यम्) ॥१.४॥
हिन्द्यर्थः संसारी जीवों को प्रतिदिन उठकर विचारना चाहिये और सदा सावधान रहना चाहिए कि आज मृत्यु शोक भय आदि विपत्तियो में से कौन सी विपत्ति आनेवाली है? अर्थात् जाने कब कौन विपत्ति आजाए, अतः बुद्धिमान् मनुष्य को उसके लिए सदा सावधान रहना चाहिए ॥१.४॥
उच्चारणम्
मूलम्: अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा । यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥१.६॥
पदविभागः अनिष्टाद् इष्टलाभे अपि न गतिः जायते शुभा । यत्र आस्ते विष-संसर्गः अमृतं तद् अपि मृत्यवे ॥१.६॥
अन्वयः अनिष्टाद् इष्टलाभे अपि शुभा गतिः न जायते । यत्र विष-संसर्गः आस्ते (तत्र) अमृतं, तद् अपि मृत्यवे ॥१.६॥
प्रतिपदार्थः अनिष्टाद् = अशुभोपायात्, अयुक्तेन मार्गेण, दुष्टाद्वा पुंसः ; इष्टलाभे अपि = इष्टं वस्तु प्राप्यते, तथापि ; गतिः = परिणतिः, फलं ; शुभा = कल्याणकरी, क्षेमकारी ; यत्रेति । विष-संसर्गः = विषसंपृक्तम्, गरलं ; अमृतं = पीयूषमपि ; मृत्यवे = मरणकारी, मृत्युप्रदं भवतीत्यर्थः ॥१.६॥
तात्पर्यम् अयुक्तेन मार्गेण इष्टं वस्तु प्राप्यते, तथापि तस्य परिणामः न मङ्गलकारी। यस्मिन् स्थाने गरलेन संयुक्तः, तत्र अमृतमपि प्राणहारकद्रव्यं भवति॥
हिन्द्यर्थः अपने अहित कारक- (शत्रु) से इष्ट वस्तु मिलने पर भी उसका परिणाम अच्छा नहीं होता है । जैसे अमृत में विष का संसर्ग हो तो वह अमृत भी मृत्यु का ही कारण होता है ॥१.६॥
उच्चारणम्
मूलम्: न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥१.७॥
पदविभागः न संशयम् अनारुह्य नरः भद्राणि पश्यति । संशयं पुनः आरुह्य यदि जीवति पश्यति ॥१.७॥
अन्वयः नरः संशयम् अनारुह्य भद्राणि न पश्यति । पुनः संशयं आरुह्य यदि जीवति, पश्यति ॥१.७॥
प्रतिपदार्थः नेति । नरः = मानवः ; संशयं= सङ्कटं, प्राणसन्देहम्। अनारुह्य = अननुभूय, अनवाप्य च ; भद्राणि = श्रेयांसि, सुखं, धनादिसम्पत्तिञ्चेति यावत् ; पुनः =किन्तु ; संशयं = जीवनशङ्काम् ; जीवति = जीवन्नेव संशयदोलाया यदि उत्तरति तर्हि ; पश्यति = अवश्यं भद्राणि पश्यतीत्यर्थः ॥१.७॥
तात्पर्यम् मानवः सन्देहम् (प्राणसङ्कटादिकं) अप्राप्य सुखादिकं न लभते। तादृशस्य विपत्तेः प्राप्तेरनन्तरं यदि प्राणैः विहीनो न भवति, तर्हि सुखं भुञ्जते। (कष्टं विना सुखं असम्भवमिति भावः।) ॥१.७॥
हिन्द्यर्थः मनुष्य बिना संशय में पड़े कभी लाभ नहीं उठा सकता है, यदि संशय में पद कर भी जीता बच जाता है, तो बह (लाभ का) सुख भोगता है ॥१.७॥
उच्चारणम्
मूलम्: इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥१.८॥
पदविभागः 🌸
अन्वयः इज्या-अध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभः इति मार्गः अयं धर्मस्य अष्टविधः स्मृतः ॥१.८॥
प्रतिपदार्थः इज्या = यज्ञः ; अध्ययनं = (गुरुमुखतः उच्चारितस्य पुनः उच्चारणं) पठनं ; दानं = अन्येभ्यः धनादिवस्तुत्यागः ; तपः = धार्मिकफलोद्दिष्टं विधियुक्तकर्म ; सत्यं = यथार्थं, अवितथं ; धृतिः = धैर्यम् ; क्षमा = सहिष्णुता, सहनं ; अलोभः = तृष्णाराहित्यं ; इति ; अयं धर्मस्य = शुभादृष्टस्य ; मार्गः = पन्थाः, धर्मोपार्जने उपाय-भूतः ; अष्टविधः ; स्मृतः = कथितः ॥१.८॥
तात्पर्यम् धर्मोपार्जने उपायभूताः अष्टौ मार्गाः। ते- यज्ञः, (वेद)पठनं, धनादीनाम् आर्तेभ्यः वितरणं, वैधशारीरक्लेशः, सत्यं, धैर्यं, सहिष्णुता, अतृष्णा चेति ॥१.८॥
हिन्द्यर्थः क्योंकि- धर्म के आठ मार्ग हैं, यज्ञ करना, पढ़ना, दान देना, तपस्या करना, सत्य बोलना, धीरता, क्षमा, और निर्लोभ होना ॥१.८॥
उच्चारणम्
मूलम्: तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥१.९॥
पदविभागः 🌸
अन्वयः तत्र पूर्वः चतुर्वर्गः दम्भार्थम् अपि सेव्यते । उत्तरः तु चतुर्वर्गः महात्मनि एव तिष्ठति ॥१.९॥
प्रतिपदार्थः तत्र = अष्टविधे पूर्वोक्ते धर्ममार्गे ; पूर्वश्चतुर्वर्गः = इज्याध्ययनतपो-दानात्मकः ; दम्भार्थं = लोकसङ्ग्रह-लोकवञ्चनाद्यर्थमपि ; सेव्यते = आश्रीयते ; 'लोकै'रिति शेषः ; उत्तरः चतुर्वर्गः तु = सत्य-धृति-क्षमा-अलोभात्मको धर्ममार्गस्तु महात्मस्वेव सम्भवति, न क्षुद्राशयेषु ॥१.९॥
तात्पर्यम् (इज्याध्ययनतपोदानाः, सत्यधृतिक्षमालोभाश्च धर्मोपार्जनमार्गाः।) तत्र पूर्वगणं न केवलं धर्माय, अपि तु दम्भप्रदर्शनादि-लौकिकप्रयोजनार्थमपि भजते नरः। अपरगणे स्थिताः गुणास्तु महापुरुषेषु, सन्तजनेषु एव दृश्यन्ते ॥१.९॥
हिन्द्यर्थः इन आठों में से पहले के चारों को (यज्ञ, पढ़ना, दान, तप, इन चारों को) महानताको दिखलाने के लिये पाखण्डी लोग भी कर सकते हैं, परन्तु अन्तिम चार (सत्य, धैर्य, क्षमा, अलोभ-सन्तोष) का अनुष्ठान तो महात्मा लोग ही करते हैं ॥१.९॥
उच्चारणम्
मूलम्: मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥१.११॥
पदविभागः मरु-स्थल्यां यथा वृष्टिः क्षुधा-आर्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥१.११॥
अन्वयः पाण्डु-नन्दन, यथा मरु-स्थल्यां वृष्टिः, क्षुधा-आर्ते भोजनं, तथा दरिद्रे (यत्) दानं दीयते (तत्) सफलं (भवति) ॥१.११॥
प्रतिपदार्थः पाण्डुनन्दन = हे युधिष्ठिर! ; मरुस्थल्यां = मरुभूमौ, निर्जलप्रदेशे ; यथा वृष्टिः = यथा वृष्टिः सफला, नितरामुचिता ; क्षुधार्ते = बुभुक्षया पीडिताय ; तथा = तथैव ; दरिद्रे = धनहीनाय ; यद्दानं दीयते तदपि सफलमित्यन्वयः ॥१.११॥
तात्पर्यम् हे युधिष्ठिर, यथा जलरहितदेशे वर्षणेन वृष्टिः सफला भवति, भोजनेच्छोः अन्नदानेन क्षुधानिवारणेन च अनन्दानं सफलं भवति, तथैव निर्धनाय दत्तं दानं सफलं भवति। (जलं यत्र प्रभूतं तत्र वृष्टये न कोऽपि आर्तः। अन्नं खादित्वा यः तृप्तः तस्य अन्नस्यावश्यकता नास्ति। तथैव धनिकाय धनदानेन न लाभः। यत्र यन्नास्ति, तत्र तद्दातव्यम् इति यावत्।)॥
हिन्द्यर्थः हे युधिष्ठिर! जैसे मरुस्थल (मारवाड़) में वर्षा सफल है और भूखे को भोजन देना सफल है, वैसे दरिद्र को दिया हुआ दान भी सफल होता है ॥१.११॥
उच्चारणम्
मूलम्: प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥
पदविभागः प्राणाः यथा आत्मनः अभीष्टाः भूतानाम् अपि ते तथा । आत्मा-औपम्येन भूतानां दयां कुर्वन्ति साधवः ॥१.१२॥
अन्वयः यथा आत्मनः प्राणाः अभीष्टाः ते भूतानाम् अपि तथा । साधवः आत्मा-औपम्येन भूतानां दयां कुर्वन्ति ॥१.१२॥
प्रतिपदार्थः आत्मनः = स्वस्य ; अभीष्टाः = प्रियाः ; भूतानां = स्वातिरिक्तानां सर्वेषां जीवानामपि ; ते = प्राणाः ; तथा = तथैव प्रियाः ; अत आत्मौपम्येन = स्वात्मानम् उपमानं कृत्वा ; साधवः = सज्जनाः, दयालवः ; भूतानां = जीवानां, प्राणिनां ; दयां कुर्वन्ति = अनुकम्पां, करुणां, कृपां वा दर्शयन्ति ॥१.१२॥
तात्पर्यम् यथा स्वस्य प्राणाः स्वस्य अत्यन्तमिष्टाः भवन्ति, तथैव अन्येषां जीवानामपि ते अभीप्सिता भवन्ति। अतः साधवः अन्यानपि जीवान् आत्मनः समानमेव पश्यन्ति ॥१.१२॥
हिन्द्यर्थः और जैसे मनुष्य अपने प्राणों को प्रिय समझता है, वैसे ही दूसरे प्राणियों को भी अपने-अपने प्राण प्यारे हैं । इसलिये महात्मा लोग अपनी ही तरह दूसरों को भी समझ कर सभी जीवों पर समान रूप से ही दया करते हैं ॥१.१२॥
उच्चारणम्
मूलम्: प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥१.१३॥
पदविभागः प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये । आत्मा-औपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥१.१३॥
अन्वयः पुरुषः प्रत्याख्याने च दाने च सुख-दुःखे प्रिय-अप्रिये आत्मा-औपम्येन प्रमाणम् अधिगच्छति ॥१.१३॥
प्रतिपदार्थः प्रत्याख्याने = प्रार्थनाभङ्गे, परतिरस्कारे वा ; सुखे = सुखप्रदाने, दुःखे = क्लेशदाने, दुःखोत्पादने च । प्रिये = इष्टाचरणे, अप्रिये = अनिष्टाचरणे च ; आत्नौपम्येन = आत्मानमेव निदर्शनं कृत्वा ; प्रमाणं = निश्चयम् ; अधिगच्छति = लभते ; ॥१.१३॥
तात्पर्यम् प्रत्याख्याने = प्रार्थनाभङ्गे, परतिरस्कारे वा ; सुखे = सुखप्रदाने, दुःखे = क्लेशदाने, दुःखोत्पादने च । प्रिये = इष्टाचरणे, अप्रिये = अनिष्टाचरणे च ; आत्नौपम्येन = आत्मानमेव निदर्शनं कृत्वा ; प्रमाणं = निश्चयम् ; अधिगच्छति = लभते ; ॥१.१३॥
हिन्द्यर्थः प्रत्याख्यान (कोई कुछ कहे तो उसके टाल देना, ना हीं कर देना), दान, सुख और दुःख में अर्थात् किसी को सुखी या दुःखी बनाना, किसी को भला बुरा कहना, इन बातों से लोगों को कितना सुख या दुःख होता है। इसका अनुमान मनुष्य को अपने ऊपर ही करना चाहिए ॥१.१३॥
उच्चारणम्
मूलम्: मातृवत् परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥१.१४॥
पदविभागः मातृवत् परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः ॥१.१४॥
अन्वयः परदारेषु मातृवत्, परद्रव्येषु लोष्टवत्, सर्वभूतेषु आत्मवत् (च) यः पश्यति सः पण्डितः ॥१.१४॥
प्रतिपदार्थः परदारेषु = परकलत्रेषु, परेषां भार्याविषये ; मातृवत् = मातृभावेन यः पश्यति ; लोष्टवत् = मृत्खण्डवत्, पाषाणपिण्डवत् वा ; पश्यतीति शेषः ; पण्डितः = तत्त्वज्ञः ॥१.१४॥
तात्पर्यम् परनराणां पत्नीः स्वस्य जननी इति भावनया, परेषां धनानि पाषाणखण्डा इति धिया, सर्वान् प्राणिनः आत्मा इति बुद्ध्या- यः भावयति, सः विद्वान् भवति ॥१.१४॥
हिन्द्यर्थः और भी- जो मनुष्य दूसरोंकी स्त्रियों को अपनी माता की तरह समझें, दूसरे के द्रव्य को मिट्टी का ढेला (टुकडा) समझे और प्राणिमात्र को अपनी ही तरह समझे, वही सच्चा पण्डित है ॥१.१४॥
उच्चारणम्
मूलम्: दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१.१५॥
पदविभागः दरिद्रान् भर कौन्तेय मा प्रयच्छ ईश्वरे धनम् । व्याधितस्य औषधं पथ्यं नीरुजस्य किम् औषधैः ॥१.१५॥
अन्वयः कौन्तेय, दरिद्रान् भर। ईश्वरे धनं मा प्रयच्छ । व्याधितस्य औषधं पथ्यं (भवति)। नीरुजस्य किम् औषधैः (प्रयोजनम्?) ॥१.१५॥
प्रतिपदार्थः कौन्तेय = हे कुन्ती-पुत्र, युधिष्ठिर ; दरिद्रान् = धनहीनान् ; भर = पालय ; ईश्वरे = धनिनि, ऐश्वर्यवति ; धनं = वित्तं ; मा प्रयच्छ = मा देहि ;व्याधितस्य = रुग्णस्य, शरीरबाधया पीडितस्य ; पथ्यं = हितकारकम् ; नीरुजस्य = रोगशून्यस्य, स्वस्थस्य तु ; औषधैः = भैषजैः, अगदैः ; किं = किं फलं ; न किमपीत्यर्थः ॥१.१५॥
तात्पर्यम् हे कुन्तीपुत्र, निर्धनान् (धनेन) पोषय। यः पूर्वमेव धनवान्, तस्मै धनं मा देहि। अस्य उदाहरणं दीयते। यथा- यः रोगपीडितः सः औषधेन हितं प्राप्नोति। यः पूर्वमेव स्वस्थः तस्य औषधसेवनं कुतः? ॥१.१५॥
हिन्द्यर्थः हे कुन्तीपुत्र युधिष्ठिर! दरिद्रों का ही पालनपोषण करो, धनियों को दान मत दो, क्यों कि रोगी के लिये ही औषध लाभदायक होता है, पर जो नीरोग उनको औषध (दवा) की क्या आवश्यकता है? ॥१.१५॥
उच्चारणम्
मूलम्: दातव्यमिति यद् दानं दीयतेऽनुपकारिणि । देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥१.१६॥
पदविभागः दातव्यम् इति यद् दानं दीयते अनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१.१६॥
अन्वयः यद् दानं अनुपकारिणि ‘दातव्यम्’ इति देशे काले च पात्रे च दीयते, तद् सात्त्विकं दानं विदुः ॥१.१६॥
प्रतिपदार्थः दातव्यमिति = मया अवश्यमिदं कस्मैचन सत्पात्राय देयम् ; इति = इति बुद्ध्या ; दीयते = अर्पयते ; अनुपकारिणि = यस्मिन् पुरुषे आत्मनः लाभप्रत्यपेक्षा नास्ति, यस्मात् न किमपि स्वार्थं न साध्यते ; देशे = तीर्थादौ, सुक्षेत्रेषु ; काले = सूर्येन्दुग्रहणादौ, सत्काले ; पात्रे = योग्ये, सत्पात्रे, विदुषि ; (यद्दानं दीयते) तत् सात्त्विकमित्यन्वयः ॥१.१६॥
तात्पर्यम् ‘मया अवश्यं कस्मैचन सत्पात्राय धनं देयम्’ इति (निःस्वार्थबुद्ध्या) प्रतिफलानापेक्षया साधुस्थले, साधुकाले, साधुपुरुषाय दत्तं दानं सात्विकं दानमिति व्यपदिश्यते ॥१.१६॥
हिन्द्यर्थः 'मुझे यह देना है' इस बुद्धि से जो दान- देश, काल, पात्र समभ कर अनुपकारी (जिससे अपना कुछ लाभ व स्वार्थं न हो) को दिया जाता है, वही सात्त्विक (सच्चा) दान है ॥१.१६॥
उच्चारणम्
मूलम्: न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥
पदविभागः न धर्मशास्त्रं पठति इति कारणं न च अपि वेद-अध्ययनं दुरात्मनः । स्वभावः एव अत्र तथा अतिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥
अन्वयः धर्मशास्त्रं पठति इति कारणं न ; वेद-अध्ययनं न च अपि (कारणं)। दुरात्मनः स्वभावः एव अत्र- यथा प्रकृत्या मधुरं गवां पयः- तथा अतिरिच्यते ॥१.१७॥
प्रतिपदार्थः धर्मशास्त्रं = पुराणस्मृत्यादीनि ; पठति = अध्ययनं करोति ; दुरात्मनः = दुष्टस्वभावस्य ; (स्वभावपरिवर्तने) कारणं = हेतुः ;वेदाध्ययनं = वेदस्य गुरुमुखतः अध्ययनं ; स्वभावः = स्वतःसिद्धः, स्वकीयभावः ; अतिरिच्यते = सर्वोन्नतं, सर्वत्र बलवत् ; गवां पयः = दुग्धं ; प्रकृत्या = संसिद्ध्या ; मधुरं = गुड-इक्ष्वादिस्थः मिष्टस्वादुभावः ॥१.१७॥
तात्पर्यम् धर्मशास्त्रं पठति, वेदाध्ययनं करोति इति कारणेन (स्वभावः) न परिवर्तते। दुर्जनस्य स्वभावः सर्वस्मात् अतिक्रम्य भवति। धेनूनां दुग्धं स्वभावत- एव मधुरं भवति (तत्र न कोऽपि बाह्यप्रयत्नः आवश्यकः इति यावत्।)☘ [धर्मशास्त्र-पठनं, वेदाध्ययनं वा दुष्टानां खलानां दुरात्मनां स्वभावपरिवर्तने न शक्तं भवति, स्वभावस्य सर्वतो बलवत्त्वात् । अत एव हि कटुकषाय-प्राय-तृणादि-भक्षणेऽपि, दुग्धं स्वभावेनैव मधुरं भवति, एवं- मधुरपयःपानेऽपि भुजङ्गानां स्वभावतो विषमेव भवति,नाऽमृतमिति भावः] ॥१.१७॥
हिन्द्यर्थः धर्मशास्त्र व वेद पढ़ने से ही अथवा कथा वार्त्ता, उपदेश आदि सुनने से ही कोई दुष्ट सज्जन नहीं हो जाता है, किन्तु सज्जन तो स्वभाव ही से सज्जन होते हैं । देखो, गाय का दूध स्वभाव ही से मीठा होता है ॥१.१७॥
उच्चारणम्
मूलम्: अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१.१८॥
पदविभागः अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥
अन्वयः अवश-इन्द्रिय-चित्तानां क्रिया हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः। दुर्भग-आभरण-प्रायः। ॥१.१८॥
प्रतिपदार्थः अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणि, चित्तं च येषान्ते, तेषाम्-अवशेन्द्रिय-चित्तानाम् = निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिव, निष्फलम् ; दुर्भगाया आभरणानीव- दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्, ज्ञानं = विद्या ; क्रियां विना = तद्विहिताचरणं विना, भार एव ॥१.१८॥
तात्पर्यम् येषां चित्तं स्वाधीनं नास्ति, तैराचरितं धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति। अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति। यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धते, केवलं भारवत्त्वमेव तथा ॥१.१८॥ [दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्या, दुष्टा कुरूपा वा स्त्री न शोभते, न वा सा पत्युर्मनः प्रीणाति, एवं ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभते, इत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालन, तत्तुल्यं निष्फलमिति वाऽर्थः।] ॥१.१८॥
हिन्द्यर्थः जिन मनुष्यों की इन्द्रियाँ और चित्त वश में नहीं है, उनका सब कार्य हाथी के स्नान की तरह हो निष्फल है। (हाथी स्नान करके भी अपने ऊपर धूल फेंक कर अपने को पुनः मलिन कर लेता है) । और जो लोग अपने ज्ञान का उपयोग नहीं करते, उनका ज्ञान भी दुर्भगा (पतिपरित्यक्ता अथवा विधवा) स्त्री के भूषण की तरह भारमात्र ही है ॥१.१८॥
उच्चारणम्
मूलम्: नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥१.१९॥
पदविभागः नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासः न एव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥१.१९॥
अन्वयः नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा स्त्रीषु राज-कुलेषु च विश्वासः न एव कर्तव्यः ॥१.१९॥
प्रतिपदार्थः नदीनामिति । नदीनाम् = आपगानाम् ; शस्त्रपाणीनां = गृहीत-शस्त्राणाम् ; नखिनां = नखायुधानां सिंहादीनाम् ; शृङ्गिणां = शृङ्गायुधानां गोवृषभादीनाम् ; स्त्रीषु = युवतिषु ; राजकुलेषु च = राजगृहेषु च, विश्वासः = 'मद्वशगा इमे' इति विसम्भो, नैव कर्त्तव्यः = न विधेय इत्यर्थः ॥१.१९॥
तात्पर्यम् नदीनां, शस्त्रधारकाणां, नखधारि-क्रूरजन्तूनां, शृङ्गधारि-पशूनां, स्त्रीणां, राजकुलानां च उपरि विश्वासः न करणीयः। [अत्र स्त्रीणां अविश्वासाय परामर्शं दृष्ट्वा स्त्रीवादिभिः अन्यथा न भावनीया। अत्र विष्णुशर्मा राजकुमारेभ्यः पाठनाय राजभिः आचारणयोग्यान् धर्मान् बोधयति। राजकुलेषु राजपुरुषाणां वशीकरणाय शत्रुपक्षिणः नर्तकीणां, सुन्दरस्त्रीणां प्रयोगं कुर्वन्ति (चाणक्यः अर्थशास्त्रे एनं विषयं विशदयति)। अतः तादृग्भिः स्त्रीभिः स्वस्य, देशस्य च रक्षा करणीया, नो चेत् ताः आगत्य, मनः भ्रामयित्वा रक्षणव्यवस्थारहस्यान् ज्ञात्वा शत्रुपक्षिभ्यः तत् सर्वं प्रकाशयेदिति मात्रमेवात्र ग्रहणीयम्। एतत् न सामान्यस्त्री-गृहिण्यादीनां विषये उच्यते।] ॥१.१९॥
हिन्द्यर्थः किसी ने कहा भी है- नदियों का, शस्त्रधारी मनुष्यों का, नख कौर सींग बाले जन्तुओं का, स्त्रियों का और राजकुल का (राजा, रानी, राजपुत्र आदि का-) विश्वास कभी नहीं करना चाहिए ॥१.१९॥
उच्चारणम्
मूलम्: सर्वस्य हि परीक्ष्यन्ते स्वभावो नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥१.२०॥
पदविभागः सर्वस्य हि परीक्ष्यन्ते स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते ॥१.२०॥
अन्वयः सर्वस्य हि स्वभावः (परीक्ष्यते) न इतरे गुणाः परीक्ष्यन्ते । सर्वान् गुणान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥१.२०॥
प्रतिपदार्थः सकलस्यापि = गुणिनः, निर्गुणस्य वा, स्वभावाः = प्रकृतिः, संस्कारादयः ; इतरे = विद्वत्त्-औदार्य- कुशलत्वादयः गुणाः ; 'न परीक्ष्यन्ते' इति शेषः ; कुत एतदत आह- अतीत्येति ; सर्वान् गुणान् = सल्लक्षणान् ; अतीत्य = अतिक्रम्य ; स्वभावः = प्रकृतिरेव ;मूर्ध्नि = सर्वेषां गुणानामुपरि, वर्तते = प्रभवतीत्यर्थः ॥१.२०॥
तात्पर्यम् सर्वेषां मनुष्याणां स्वभावः परीक्ष्यते। इतरे गुणाः न परीक्ष्यन्ते। सर्वान् गुणान् अतिक्रम्य स्वभावः शिरःस्थायी विराजते ॥१.२०॥
हिन्द्यर्थः और भी- मनुष्यों के गुणों की ओर ध्यान न देकर उनके स्वभाव की ही परीक्षा करनी चाहिए । क्योंकि गुणों की अपेक्षा स्वभाव ही सबसे ऊपर रहता है। स्वभाव ही सब में प्रधान है ॥१.२०॥
उच्चारणम्
मूलम्: स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी । विधुरपि विधियोगाद् ग्रस्यते राहुणासौ लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥
पदविभागः सः हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शतकर-धारी ज्योतिषां मध्यचारी । विधुः अपि विधि-योगाद् ग्रस्यते राहुणा असौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥
अन्वयः सः (विधुः) हि गगन-विहारी, कल्मष-ध्वंस-कारी, दश-शतकर-धारी, ज्योतिषां मध्यचारी, (अस्ति, तथापि तादृशः) असौ विधुः अपि विधि-योगाद् राहुणा ग्रस्यते । ललाटे लिखितम् अपि प्रोज्झितुं कः समर्थः ॥१.२१॥
प्रतिपदार्थः सः = त्रिलोकीप्रसिद्धः ; गगन-विहारी = आकाश-सञ्चारी ; कल्मष-ध्वंस-कारी = अन्धकार-विनाशकः ; दशशत-कर-धारी = सहस्र-किरणः ; ज्योतिषां = ताराणां ; मध्यचारी = मध्यवर्ती ; असौ विधुरपि = चन्द्रोऽपि ; विधियोगात् = दैवविपर्ययात् ; ग्रस्यते = गृह्यते ; राहुणा = ग्रहविशेषेण ; लिखितं = विधात्रा लिखितम् ; ललाटे = फालभागे ; प्रोज्झितुं = त्यक्तुं, परिहर्तुं, पारं गन्तुं ॥१.२१॥
तात्पर्यम् चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? ॥१.२१॥
हिन्द्यर्थः चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? ॥१.२१॥
उच्चारणम्
मूलम्: सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥१.२२॥
पदविभागः सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य च उक्तं सुविचार्य यत् कृतं सुदीर्घ-काले अपि न याति विक्रियाम् ॥१.२२॥
अन्वयः सुजीर्णम् अन्नं, सुविचक्षणः सुतः, सुशासिता स्त्री, सुसेवितः नृपतिः, सुचिन्त्य च उक्तं, सुविचार्य यत् कृतं, (तत्) सुदीर्घ-काले अपि विक्रियाम् न याति ॥१.२२॥
प्रतिपदार्थः सुजीर्णं = सुपक्वम् ; सुविचक्षणः = नितरां शिक्षितो विद्वान् ; सुतः = पुत्रः ; सुशासिता = सुष्ठु आत्मना अनुशासिता, आत्मनः वशे या अस्ति, सा; सुदीर्घकालेऽपि = गतेऽपि बहुतिथे काले ; विक्रियां = विकारम्। न याति = विकृतं न भवति ॥१.२२॥
तात्पर्यम् भोजनं सुपक्वं, पुत्रः कार्याकार्यविचारशीलः, आत्मनः अनुशासनेन सन्मार्गगामिनी स्त्री, मन्त्रि-सेनापत्यादिभिः सम्यक् अनुगतः राजा, विचार्य उक्तं वचनं, कृतं कार्यं च एतानि सर्वाणि बहुकालानन्तरमपि दुष्टानि न भवन्ति ॥१.२२॥
हिन्द्यर्थः क्यों कि-भली भाँति पका हुआ अन्न, बुद्धिमान् पुत्र, शिक्षित स्त्री, अच्छी तरह से सेवित राजा, सोच कर कही हुई बात, और विचार कर किया हुआ काम- ये सब कभी बिगड़ते नहीं हैं ॥१.२२॥
उच्चारणम्
मूलम्: वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते । सर्वत्रैवं विचारे च भोजनेऽप्यप्रवर्तनम्** ॥१.२३॥
पदविभागः वृद्धनां वचनं ग्राह्यम् आपत्-काले हि उपस्थिते । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥
अन्वयः वृद्धानां वचनं आपत्-काले हि उपस्थिते ग्राह्यम् । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥
प्रतिपदार्थः ग्राह्यं = स्वीकार्यम् ; आपत्काले = विपत्तिसमये ; उपस्थिते = प्राप्ते सति ; सर्वत्र = सर्वेषु कार्येषु ; एवं विचारे = वृद्धवचनानुसारेणैव सुविचार्यैव प्रवृत्तौ तु ; अप्रवर्तनम् = अप्रवृत्तिः स्यादित्यर्थः ; 'विचारेणेति पाठान्तरम् ॥१.२३॥
तात्पर्यम् यदा विपत्तिः सम्भवति, तदा एव ज्येष्ठानाम् उपदेशकथनानुसारम् आचरणीयम्। अन्यथा- ‘यत्रकुत्रचित् तेषाम् उपदेशनेनैव कार्ये प्रवर्ते’ इति विचिन्तनेन भोजनमपि न खादेत् ॥ [**अस्मात् वाक्यात् पूर्वं “कपोतः सदर्पमाह”- इत्यस्ति। दर्पस्यात्र सन्दर्भः। अतः दर्पवन्तः एवं विचिन्तयन्ति इति यावत् ग्राह्यमत्र।] ॥१.२३॥
हिन्द्यर्थः आपत्ति के समय में ही वृद्धों का वचन मानना चाहिये। सब जगह ऐसा विचार करने से तो फिर भोजन में भी प्रवृत्ति नहींहो सकती है ॥१.२३॥
उच्चारणम्
मूलम्: शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥
पदविभागः शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ? ॥१.२४॥
अन्वयः भूतले सर्वम् अन्नं पानं च शङ्काभिः आक्रान्तम् । कुत्र प्रवृत्तिः कर्तव्या? कथं नु वा जीवितव्यं? ॥१.२४॥
प्रतिपदार्थः भूतले = लोके ; सर्वं = अशेषं ; अन्नं = भक्ष्यम्, भोजनम् ; पानं = पातुं योग्यं पदार्थं जलादिः ; शङ्काभिः = (अत्र भोजन-सम्बन्धि-शङ्काः इति) वात-पित्त-कफादि-जन्य-रोगादि-शङ्काभिः ; आक्रान्तं = व्यापृतं ; कुत्र = कस्मिन् भोज्ये पदार्थे ; प्रवृत्तिः कर्तव्या = (अत्र) खादितव्यम् ; कथं नु = केन प्रकारेण? ; जीवितव्यम् = लोके स्थातव्यम्; ॥१.२४॥
तात्पर्यम् जगति यत्किञ्चित् खाद्यं, पानयोग्यं च वस्तु वर्तते, तत् समस्तं (वस्तुनः गुण-प्रभावादिषु) नानाविधसन्देहैः आपृतं वर्तते। (अनेन कारणेन) किं खादनीयं, किं न (इति भ्रान्ताः), कथं वा जीवनयात्रां यापयाम इति (विचारयामश्च) ॥१.२४॥
हिन्द्यर्थः इस पृथ्वी तल पर अन्न और पान सन्देहों से भरा है, किस वस्तु में खाने-पीने की इच्छा करे या कैसे जिये ? क्यों कि-संसार में सभी बातें शङ्का से भरी हुई हैं, फिर कहा प्रवृत्ति की जाय और कहाँ प्रवृत्ति न की जाय और किसी प्रकार जीवन निर्वाह किया जाय? ॥१.२४॥
उच्चारणम्
मूलम्: ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते दुःखभागिनः ॥१.२५॥
पदविभागः ईर्ष्यी घृणी तु असन्तुष्टः क्रोधनः नित्य-शङ्कितः । परभाग्य-उपजीवी च षड् एते दुःखभागिनः ॥१.२५॥
अन्वयः ईर्ष्यी घृणी असन्तुष्टः क्रोधनः नित्य-शङ्कितः परभाग्य-उपजीवी च-- एते षड् दुःखभागिनः (भवन्ति) ॥१.२५॥
प्रतिपदार्थः ईर्ष्यी = ईर्ष्यालुः, परोत्कर्षासहिष्णुः ; घृणी = घृणाशीलः, जुगुप्सा-स्वभावकः ; असन्तुष्टः = सन्तुष्टि-हीनः ; क्रोधनः = कोपस्वभावकः ; नित्यशङ्कितः = यः सर्वदा सर्वत्र शङ्कां करोति ; परभाग्योपजीवी = परान्नभोजी, पराधीनः ; षडेते दुःखभागिनः = एते षट्जनाः सर्वदा दुःखमेव अनुभवन्ति ॥१.२५॥
तात्पर्यम् एते षट्-जनाः नित्यं दुःखिता भवन्ति-- १. यः परेषामुत्कर्षं न सहते, अन्यस्य भाग्योदये खिन्नः भवति, २. यः सर्वत्र घृणां प्रदर्शयति, ३. य असन्तुष्टः, कुत्रचित् केनचिदपि सन्तोषं नाननुभवति, ४. यः सदा क्रुद्धः भवति, ५. यः अकारणं, सकारणं वा सर्वत्र सन्देहं करोति, ६. य अन्येषां गृहे तिष्ठति, इतरेषां सम्पदा स्वजीवनं यापयति ॥१.२५॥
हिन्द्यर्थः कहा भी है- दूसरों से ईर्ष्या करने वाला, असन्तोषी, क्रोधी, सदा सन्देह करने वाला, दूसरे के आश्रय से जीने वाला, ये छः प्रकार के मनुष्य सदा दुःखी ही रहते हैं ॥१.२५॥
उच्चारणम्
मूलम्: सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥१.२६॥
पदविभागः सुमहान्ति अपि शास्त्राणि धारयन्तः बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभ-मोहिताः ॥१.२६॥
अन्वयः (ये) बहुश्रुताः, सुमहान्ति अपि शास्त्राणि धारयन्तः, संशयानां छेत्तारः च, (ते) लोभ-मोहिताः (सन्तः) क्लिश्यन्ते ॥१.२६॥
प्रतिपदार्थः सुमहान्ति शास्त्राणि = सर्व-संशय-उच्छेदकानि, सुगूढ-तत्त्वानि, यानि च पठित्वा उत्कृष्टं ज्ञानं लभ्यते जनः ; धारयन्तः = बुद्ध्या अर्थम् अवबोधितवन्तः ; बहुश्रुताः = व्यवहार-पटवो, नीति-विदश्च, ज्ञानवन्तः ; संशयानां = पर-सन्देहानां ; छेत्तारः = निराकरिष्णवः, ये परिष्कुर्वन्ति ; लोभमोहिताः = लोभात् मोहे पतिताः ; क्लिश्यन्ते = दुःखम् अनुभवन्ति इत्यर्थः ॥१.२६॥
तात्पर्यम् उत्कृष्टानि, अत्युत्तमानि च शास्त्राणि अधीतवन्तः, पण्डिताः, ये परेषां स्वेषां च सन्देहानां निराकरणे समर्थाः सन्तः- ते अपि लोभकारणात् मोहिताः भवन्ति। अनेन मोहेन कष्टेषु पतन्ति च [अस्यार्थः- लोभात् जायमानात् मोहात् पतनात् च जागरूकतया भवितव्यमित्येव। शास्त्राध्ययनं त्यक्तव्यमिति न। यदि पण्डिताः एव लोभात् विभ्रमे पतन्ति, तत्र का वा सामान्यानां वार्ता?] ॥१.२६॥
हिन्द्यर्थः बड़े बड़े शास्त्रों को जानने वाले, बहुत बातों को जानने वाले, सब प्रकार के भ्रमों को दूर करने वाले लोग भी लोभ मे पड़ कर दुःख भोगते हैं ॥१.२६॥
उच्चारणम्
मूलम्: बड़े बड़े शास्त्रों को जानने वाले, बहुत बातों को जानने वाले, सब प्रकार के भ्रमों को दूर करने वाले लोग भी लोभ मे पड़ कर दुःख भोगते हैं ॥१.२६॥
पदविभागः लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभात् मोहः च नाशः च लोभः पापस्य कारणम् ॥१.२७॥
अन्वयः लोभात् क्रोधः प्रभवति। लोभात् कामः प्रजायते । लोभान् मोहः च नाशः च (भवतः)। लोभः पापस्य कारणम् (भवति) ॥१.२७॥
प्रतिपदार्थः लोभात् = पर-द्रव्ये अभिलाषायाः ; प्रभवति = प्रवर्त्तते, प्रवर्द्धते च ; प्रजायते = उत्पद्यते, प्रवर्द्धते च ; लोभात्- मोहश्च, नाशश्च । 'उपजायते' इति शेषः । अतो लोभः पापस्य कारणमित्यर्थः ॥१.२७॥
तात्पर्यम् लोभस्य कारणेन किं किं प्रवर्धते इति उच्यते-- (लोभस्यासम्पूर्तौ) क्रोधः, (लोभस्य सन्तुष्टौ) कामः, मोहश्च जायेते। तेन पापं च प्रभवति। (पापमयं जीवनं भवति।) ॥१.२७॥
हिन्द्यर्थः लोभ ही से क्रोध उत्पन्न होता है, लोभ ही से काम उत्पन्न होता है। और लोभ ही से मोह (अज्ञान) भी उत्पन्न होता है और लोभ ही से मनुष्य का नाश भी होता है, अतः लोभ ही सब पापों का मूल कारण है ॥१.२७॥
उच्चारणम्
मूलम्: असम्भवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥१.२८॥
पदविभागः असम्भवं हेममृगस्य जन्म तथापि रामः लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियः अपि पुंसां मलिनाः भवन्ति ॥१.२८॥
अन्वयः हेममृगस्य जन्म असम्भवम्। तथापि रामः मृगाय लुलुभे । प्रायः समापन्न-विपत्ति-काले, पुंसां धियः अपि मलिनाः भवन्ति ॥१.२८॥
प्रतिपदार्थः हेममृगस्य = स्वर्णमृगस्य ; जन्म = उत्पत्तिः ; असम्भवम् = सम्भावनाविषयीभूतमपि न भवति ; तथापि रामः = सकल-ज्ञान-निधिः भगवान् दाशरथिः अपि ; मृगाय = स्वर्ण-मृगम् आदातुं ; लुलुभे = लोभमकरोत् ; प्रायः = बाहुल्येन ; समापन्न-विपत्ति-काले ~ समापन्नाः = सन्निहताः, आपतिताः, या विपदः, तासां कालः = समयः, तस्मिन् ; पुंसां = पुरुषाणां, मनुष्याणां ; धियः अपि = बुद्धयः अपि ; मलिनाः = मलाविलाः, मलेन कुण्ठिताः ; भवन्ति = जायन्ते ; 'इति तर्कयामी'ति शेषः ॥१.२८॥
तात्पर्यम् ‘स्वर्णः मृगः लोके कुत्रचिदपि न भवितुमर्हति’ इति जानन्नपि साक्षात् पुरुषोत्तमः श्रीरामः अपि (मारीचधृत)काञ्चनं मृगरूपं दृष्ट्वा तं प्राप्तुम् अकामयत। बहुधा एवं भवति- आपत्सु समापन्नेषु जनानां बुद्धयः अपि भ्रान्ताः भवन्ति। (अतः विपत्तौ प्राप्ते सति जागरूकतया भवितव्यम्। यत्र धीरपि प्रमाद्यते, तत्र अन्यचित्तवृत्तीनां किं वा कथनम्? निर्णयकरणसमये अत्यन्तं विचक्षणैः भवितव्यम्- इति तात्पर्यम्। न पुनः श्रीरामस्य विमर्शनमत्रार्थः।) ॥१.२८॥
हिन्द्यर्थः सोने के मृग का होना यद्यपि असम्भव है, तथापि भगवान् श्री रामचन्द्रजी महाराज भी सोने के मृग के लोभ में बह गए। ठीक ही है- प्रायः विपत्ति काल सन्निहित होने पर मनुष्यों की बुद्धि भी मलिन हो जाती है ॥१.२८॥
उच्चारणम्
मूलम्: न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥१.२९॥
पदविभागः न गणस्य अग्रतः गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यात् मुखरः तत्र हन्यते ॥१.२९॥
अन्वयः गणस्य अग्रतः न गच्छेत् । कार्ये सिद्धे (सति) समं फलम् (प्राप्यते) । यदि कार्य-विपत्तिः स्यात्, तत्र मुखरः हन्यते ॥१.२९॥
प्रतिपदार्थः गणस्य = सङ्घस्य, समूहस्य, वर्गस्य ; अग्रतः = अग्रे, सर्वस्मात् पुरतः ; कार्ये = कर्त्तव्ये कर्मणि ; सिद्धे = निष्पन्ने सति, सफलत्वे प्राप्तौ सति ; समं = तुल्यं, समानं ; कार्यविपत्तिः = कार्यहानिः, असाफल्यम् ; मुखरः = अग्रणीः, प्रवर्त्तकश्च, नायकः ; हन्यते = वध्यते ; ॥१.२९॥
तात्पर्यम् न कदापि समूहे सर्वेभ्यः अग्रे भवितव्यम्। कार्ये सफलत्वं प्राप्ते सति तु (समूहसदस्यानां नायकस्य च) सर्वेषामपि फले समानता भवति। परन्तु कार्यनाशे तु अग्रे विद्यमानस्य नायकस्यैव क्षतिः न तु इतरेषाम्। [अत्र पक्षीणां प्रसङ्गः। ‘कदापि तथा अग्रे मा गच्छतु’ इति न अस्यार्थः। अग्रे गमनस्य परिणामान् मनसि निधाय प्रवर्ततामिति, यदि धैर्यः अस्ति, तथैव गच्छतु इति वा भावना।] ॥१.२९॥
हिन्द्यर्थः किसी कार्य में सबके आगे कभी नहीं होना चाहिये, क्यों कि कार्य की सिद्धि होने पर तो फलमें समान ता हो रहती है, परन्तु यदि दैवात् कार्य में कोई विघ्न हो गया तो पहिले अगुआ ही मारा जाता है ॥१.२९॥
उच्चारणम्
मूलम्: आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदां मार्गो, येनेष्टं तेन गम्यताम् ॥१.३०॥
पदविभागः आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥
अन्वयः इन्द्रियाणाम् असंयमः आपदां पन्थाः कथितः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥
प्रतिपदार्थः इन्द्रियाणाम्= चक्षुरादीनाम् ; असंयमः = अनिग्रहः ; आपदां = विपदां, दुःखस्य च ; पन्थाः = मार्गः ; कथितः = (नीतिविद्भिः) प्रोक्तः ; तज्जयः = इन्द्रियाणां जयः, इन्द्रिय-निग्रहश्च ; सम्पदां= सम्पत्तीनां, कल्याणस्य च, ; मार्गः = पन्थाः ; येन = येन पथा ; इष्टम् = अभीष्टसिद्धिः ; तेन गम्यताम् = तदनुस्रियताम् ; यद्वा- येन इष्टं = सुखं भवेत्, तेन = इन्द्रियजयमार्गेण, गम्यतामित्यर्थो बोध्यः ॥१.३०॥
तात्पर्यम् कर्म-ज्ञानेन्द्रियाणाम् अनियन्त्रणं विपत्तीनां मार्ग इति (बुधैः) कथितः। इन्द्रियाणां जयः तु सम्पत्तीनां मार्गः। येन मार्गेण गन्तुमिच्छसि, तेन गच्छतु। (यदि विपत्तय इष्टाः, तर्हि पूर्वस्मिन् मार्गे गच्छतु। यदि सम्पत्तय इष्टाः तर्हि परस्मिन् मार्गे गच्छतु। परिणामस्तु तव पुरतः वर्तते।) ॥१.३०॥
हिन्द्यर्थः कहा भी है- इन्द्रियों को अपने वश में न रखना विपत्ति का मार्ग है । और इन्द्रियों को वश में रखना ही सम्पत्ति का मार्ग है । जिस रास्ते से इच्छा हो, जाओ ॥१.३०॥
उच्चारणम्
मूलम्: आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥
पदविभागः आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥
अन्वयः आपतन्तीनाम् आपदां हितः अपि हेतुताम् आयाति । मातृजङ्घा हि वत्सस्य बन्धने स्तम्भीभवति ॥१.३१॥
प्रतिपदार्थः आपतन्तीनाम् = आगच्छन्तीनाम् ; हितः = हितकारकः, प्रियोऽपि ; हेतुतां = कारणताम् ; आयाति = प्राप्नोति, आगच्छति वा ; हि = यतः ; मातृजङ्घा = मातुः, गोः जङ्घा = पादाग्रभागः, काण्डम् ; वत्सस्य = स्वबाल-वत्सस्य ; स्तम्भी-भवति = गोदोहनकाले तत्र प्रायो वत्सस्य बन्धनाद् वत्सबन्धनस्तम्भतां याति । बन्धनोपकरण-शङ्कुभावं भजतीत्यर्थः ॥१.३१॥
तात्पर्यम् जीवने या विपत्तयः आगच्छन्ति, तेषां पृष्ठे कारणं हितमपि भवितुमर्हति, अर्थात् हितमपि तत्र विपदि कारणं भवति। अत्रोपन्यासः- गोः दुग्धनिःसारणे वत्सः विघ्नमुत्पादयतीति मत्वा सः धेनोः पादेन रज्ज्वा बध्यते। तदानीं मातुः पादः अपि वत्साय स्तम्भस्य कारणं भवति, गमनरोधनस्य च ॥१.३१॥
हिन्द्यर्थः विपत्ति जब आने वाली होती है, तत्र अपना मित्र भी उस आने वाली आपत्ति का कारण हो जाता है । जैसे बछड़े के बाँधने के लिये कभी कभी (दूध दूहते समय) उसकी माता (गाय) की जङ्घा भी खूँटे (स्तम्भ) का काम देती है ॥१.३१॥
उच्चारणम्
मूलम्: स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः । न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥१.३२॥
पदविभागः सः बन्धुः यः विपन्नानाम् आपद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः ॥१.३२॥
अन्वयः यो विपन्नानाम् आपद्-उद्धरण-क्षमः सः बन्धुः । भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः न तु ॥१.३२॥
प्रतिपदार्थः यो विपन्नानां = विपद्-ग्रस्तानाम् ; आपदुद्धरणे = विपत्तिनिरासे, आपदः अपाकरणे ; क्षमः = शक्तः, स एव बन्धुः = सुबन्धुः ; यस्तु- भीतपरित्राणे = विपन्नस्य रक्षणावसरे, उपालम्भ-पण्डितः = नानाविध-तत्तिरस्कार-वाक्यप्रयोग-विशारदः, यः आक्षेपकर-वाक्यानि, पीडाकर-वचनानि वा वदति, तथा वचने यः कुशलः सः ; न तु = नैव बन्धुः ॥१.३२॥
तात्पर्यम् यः आपदि आपतितायां ततः अस्मान् उद्धर्तुं समर्थः, स एव वास्तवबन्धुः। यः तदकृत्वा पीडाकरवचनैः त्रस्तस्य इतोऽधिक-भयोत्पादने समर्थः, स बन्धुः नास्ति। (आपदि पतितस्य भीतिः वर्धते। तदानीं बन्धुना भयनिष्कासनं कार्यं, न पुनः तद्वर्धक-दुर्वचनप्रयोगः।) ॥१.३२॥
हिन्द्यर्थः मित्र वही है जो विपत्ति में पड़े हुए प्राणियों को आपत्ति से छुडाने में समर्थ हो । और जो भयभीत व विपत्तिग्रस्त की रक्षा करने के समय खाली उलहना देने में अपने कर्त्तव्य की समाप्ति समझता है वह मित्र नहीं, किन्तु वह शत्रु है ॥१.३२॥
उच्चारणम्
मूलम्: विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥१.३३॥
पदविभागः विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्-पटुता युधि विक्रमः । यशसि च अभिरुचिः व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥१.३३॥
अन्वयः महात्मनाम् इदं हि प्रकृति-सिद्धम्-- विपदि धैर्यम्, अथ अभ्युदये क्षमा, सदसि वाक्-पटुता, युधि विक्रमः, यशसि च अभिरुचिः, श्रुतौ व्यसनम् ॥१.३३॥
प्रतिपदार्थः महात्मनां = महापुरुषाणाम् ; इदं प्रकृतिसिद्धं = स्वभाव-सिद्धमेव ; किन्तद् इत्यत आह- विपदीति ; धैर्यं =धैर्यमवलम्ब्य तत्प्रतीकार-चिन्तनम् ; अभ्युदये = सम्पत्तौ ; क्षमा = परानुग्रहः, अभिमानविरहश्च ; सदसि = सभायां वाक्पटुता = वाक्पाटवं, वचनचातुरी ; युधि = युद्धे, विक्रमः = पराक्रमः ; यशसि = कीर्तौ ; इच्छा = अभिलाषः, यशोधनत्वमिति यावत् ; श्रुतौ = शास्त्रे, व्यसनम् = निर्हेतुकोऽनुरागः ॥१.३३॥
तात्पर्यम् कष्टकाले धीरत्वं, अभिवृद्धौ सहनभावः, सभायां वचनसामर्थ्यं, समराङ्गणे पराक्रमः, कीर्तौ काङ्क्षा, शास्त्राध्ययने निरन्तरपरिश्रमः --एते सर्वे महाजनानां स्वभावलक्षणानि भवन्ति (एतेषां पृथक् शिक्षणस्य अभ्यासस्य वा आवश्यकता नास्ति महात्मनामिति यावत्) ॥१.३३॥
हिन्द्यर्थः क्यों कि- विपत्ति में धीरता, उन्नति होने पर नम्रता, सभा में बोलने की शक्ति, युद्ध में वीरता, कीर्ति की इच्छा और शास्त्रों के अभ्यास में व्यसन, ये सब महात्माओं के स्वभावसिद्ध गुण हैं ॥१.३३॥
उच्चारणम्
मूलम्: सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१.३४॥
पदविभागः सम्पदि यस्य न हर्षः विपदि विषादः रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥१.३४॥
अन्वयः यस्य सम्पदि न हर्षः, विपदि विषादः (न), रणे च भीरुत्वं (न), तं भुवन-त्रय-तिलकं सुतं जननी विरलं जनयति ॥१.३४॥
प्रतिपदार्थः सम्पदि = अर्थाभिवृद्धौ ; हर्षः = प्रमोदः, गर्वश्च ; विपदि = विपत्तौ, कष्टकाले ; विषादः = दुःखं, वैक्लव्यं ; रणे = समरभूमौ ; धीरत्वम् = धैर्यगुणः ; तम् = अनुत्सिक्तम् अकातरं, निर्भयञ्च ; भुवनत्रय-तिलकं = लोकत्रये रत्नतुल्यम् ; जननी = अम्बा ; सुतं = पुत्रं ; विरलं = कञ्चिदेव, स्वल्पमेव ; जनयति = प्रसूते ; ॥१.३४॥
तात्पर्यम् यः जीवने अभिवृद्धिकाले गर्वं न प्राप्नोति, आपत्काले पीडां नानुभवति, युद्धे धैर्यगुणं न मुञ्चति-- तादृशं पुत्रं माता बहु अल्पं प्रसूते (एतादृशानां जननम् अधिकं न भवति। लोके अल्पसङ्ख्याकास्ते।) ॥१.३४॥
हिन्द्यर्थः जिसको सम्पत्ति में विशेष हर्ष न हो, विपत्ति में विषाद न हो, युद्ध में धीरता हो- ऐसे भुवनत्रय के तिलकस्वरूप पुत्र को विरली ही मातायें उत्पन्न करती हैं ॥१.३४॥
उच्चारणम्
मूलम्: षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥१.३५॥
पदविभागः षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥१.३५॥
अन्वयः भूतिम् इच्छता पुरुषेण इह षड्-दोषाः हातव्याः -- (ते एवं सन्ति) निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घ-सूत्रता (चेति) ॥१.३५॥
प्रतिपदार्थः षड्-दोषाः = तत्सङ्ख्याविशेषकाः अपाराधाः ; भूतिम् = अष्टैश्वर्यम् ; इच्छता = वाञ्छता ; पुरुषेण ; हातव्याः = परित्याज्याः ; तन्द्रा = प्रमीला, निद्रेव नीरसभावः ; आलस्यं = अलसत्वं ; दीर्घसूत्रता = चिरक्रियता ; 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः ॥१.३५॥
तात्पर्यम् यः अभिवृद्धिम् आकाङ्क्षति, तेन षट् अपराधा न कार्याः- (अधिक)निद्रा, नीरसभावः, भीतिः, कोपः, अलसत्वं, कार्यातिक्षेपः चेति ॥१.३५॥
हिन्द्यर्थः निद्रा (अधिक सोना, तन्द्रा (ऊँघना) डर, क्रोध, आलस्य, दीर्घसूत्रता (थोड़े समय में होने लायक काम को बहुत देर में करना), इन सब दोषों को अपनी उन्नति चाहनेवाले पुरुषों को छोड़ देना चाहिये ॥१.३५॥
उच्चारणम्
मूलम्: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥१.३६॥
पदविभागः अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त-दन्तिनः ॥१.३६॥
अन्वयः अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते ॥१.३६॥
प्रतिपदार्थः अल्पानां = स्वल्पानाम्, निर्बलानामपि ; वस्तूनां = द्रव्याणां ; संहतिः = सङ्घः ; कार्यसाधिका = लक्ष्यसिद्धौ सहायिका ; तृणैः = घासैः ; गुणत्वमापन्नैः = संहत्या रज्जुत्वं प्राप्तैः ; मत्तदन्तिनः = मदोन्मत्ता गजेन्द्रा अपि ; बध्यन्ते = बन्धने स्थाप्यन्ते ॥१.३६॥
तात्पर्यम् अविशेषाणां वस्तूनामपि सङ्घीभवनेन (तेषां ह्रस्वत्वभावः निर्गच्छति, ततश्च) उन्नतं लक्ष्यमपि सुसाध्यं भवति। अत्रोदाहरणम्- मदयुक्ता गजाः (बलवन्तः सन्तः) अपि (अत्यल्पबलयुक्तानां) घासांशानां संयोजनेन या रज्जुः निर्मीयते तया बध्यन्ते ॥१.३६॥
हिन्द्यर्थः छोटी छोटी वस्तु भी एक साथ मिलने पर कार्य साधक हो जाती है । देखो-तृण (घासफूस) भी जब एकत्र होकर रस्सी बन जाते हैं, तब बड़े बड़े हस्तियों को भी बाँध सकते हैं ॥१.३६॥
उच्चारणम्
मूलम्: संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥
पदविभागः संहतिः श्रेयसी पुंसां स्वकुलैः अल्पकैः अपि । तुषेण अपि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥
अन्वयः पुंसां स्वकुलैः अल्पकैः अपि संहतिः श्रेयसी । तुषेण अपि परित्यक्ता तण्डुलाः न प्ररोहन्ति ॥१.३७॥
प्रतिपदार्थः संहतिः = समूहः, सङ्घः ; श्रेयसी = कल्याणप्रदा ; अल्पकैरपि = स्वल्पबलैरपि सह, तुच्छैरपि ; स्वकुलैः = स्ववंश्यैः, तुषेणापि परित्यक्ताः = धान्यत्वचा हीनाः ; तण्डुलाः = धान्यकणाः ; न प्ररोहन्ति = अङ्कुरिता न भवन्ति ॥१.३७॥
तात्पर्यम् मनुष्याणां स्ववंश्य-जनैः सह सङ्घीभावः शुभप्रदः। (सङ्गीभावस्य विरहे का दशा भवतीति उदाहरणमुच्यते) धान्यत्वचा वियुक्तानि तण्डुलबीजानि (पुनः भूम्याम् उप्तानि) न अङ्कुरीभवन्ति। (पुनरुत्पत्तौ असमर्थानि भवन्ति) ॥१.३७॥
हिन्द्यर्थः और अपने कुल के छोटे छोटे लोगों की भी संगति अच्छी होती है । देखो, चावल भी अपने छिलके (भूसी) से अलग होने पर उग ही नहीं सकते हैं (अङ्कुरित नहीं हो सकते हैं) ॥१.३७॥
उच्चारणम्
मूलम्: माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥१.३९॥
पदविभागः माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । कार्य-कारणतः च अन्ये भवन्ति हित-बुद्धयः ॥१.३९॥
अन्वयः माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । अन्ये च कार्य-कारणतः हित-बुद्धयः भवन्ति ॥१.३९॥
प्रतिपदार्थः माता = जननी ; पिता = जनकः ; मित्रं = सुहृत् ; स्वभावात् = प्रकृत्यैव ; त्रितयं = एते त्रयः ; हितं = हितकारकम् ; अन्ये तु = एतत्-त्रितयातिरिक्तास्तु ; कार्यकारणतः = कार्यकारण-प्रसङ्गेनैव ; किमपि कार्यं, कारणं वा उद्दिश्यैव ; हितबुद्धयः = हितकारकाः भवन्ति ॥१.३९॥
तात्पर्यम् पितरौ, सखा चेति त्रयः प्रकृत्या श्रेयस्कराः भवन्ति। एतान् विहाय अन्यजनाः यं कमपि लाभं मनसि निधाय शुभचिन्तका भवन्ति ॥१.३९॥
हिन्द्यर्थः माता पिता और मित्र ये तीनों स्वभाव ही से हित चाहते हैं, परन्तु दूसरे लोग तो कार्यवश ही हितेषी हुआ करते हैं ॥१.३९॥
उच्चारणम्
मूलम्: यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥१.४०॥
पदविभागः यस्य मित्रेण सम्भाषः यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापः ततः न अस्ति इह पुण्यवान् ॥१.४०॥
अन्वयः यस्य मित्रेण सम्भाषः, यस्य मित्रेण संस्थितिः, यस्य मित्रेण संलापः (च) ततः पुण्यवान् इह न अस्ति ॥१.४०॥
प्रतिपदार्थः यस्य मित्रेण = सुहृदा सह ; सम्भाषः = आलापः ; संस्थितिः = सहावस्थानम्., सहवासः ; संलापः = मुहुर्मुहः कथा, गोष्ठीबन्धः ; ततः = तदपेक्षया ; इह जगति ; पुण्यवान् = सुकृती ॥१.४०॥
तात्पर्यम् यः नित्यं सख्या आलपते, सह तिष्ठति, वार्तालापरतो भवति, ततः भाग्यवान् नरः न भवति अन्यः ॥१.४०॥
हिन्द्यर्थः जो अपने मित्र के साथ सम्भाषण (मधुर भाषण) करता है और जो अपने मित्र के साथ रहता है और जो अपने मित्र के साथ प्रेम पूर्वक 'वार्तालाप करता है, उससे बढ़कर इस पुण्यवान् संसार में दूसरा कोई नहीं है ॥१.४०॥
उच्चारणम्
मूलम्: यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृवशादुपैति ॥१.४१॥
पदविभागः यस्मात् च येन च यथा च यदा च यत् च यावत् च यत्र च शुभ-अशुभम् आत्मकर्म । तस्मात् च तेन च तथा च तदा च तत् च तावत् च तत्र च विधातृ-वशाद् उपैति ॥१.४१॥
अन्वयः यस्मात् च येन च यथा च यदा च यत् च यावत् च यत्र च शुभ-अशुभम् आत्मकर्म । तस्मात् च तेन च तथा च तदा च तत् च तावत् च तत्र च विधातृ-वशाद् उपैति ॥१.४१॥
प्रतिपदार्थः यस्माद्धेतोः, येन-करणेन हस्तादिना, यथा च = येन च प्रकारेण ; यदा च = यस्मिन् काले च, यत्-शुभाशुभशुभम् अशुभं वा ; आत्मकर्म = स्वस्य पापपुण्य-सुखदुःखादिकं ; यावत् = यावन्मितं ; यत्र =यस्मिन्देशे च भावि ; तत् = तस्मात् कारणात् ; तेनैव = उपकरणेन, तथा तेनैव प्रकारेण ; तदा च = तस्मिन्नेव काले च ; तच्च = तत्फलम् ; तावच्च = तावत् प्रमाणमेव ; तत्रैव देशे ; विधातृवशात् = भाग्यवशात् ; उपैति = शुभाशुभमात्मफलं स्वयमेव नरमुपयाति ॥१.४१॥
तात्पर्यम् जीवः- १. येन कारणेन, २. येनोपायेन, ३. येन विधानेन, ४. यस्मिन् काले, ५. यस्मिन् देशे, ६. यत्स्वरूपकं, ७. यत्प्रमाणकं च, -पापमथवा पुण्यकर्म आचरति, तस्य फलमपि तत्कारणकं, तदुपायकं, तद्विधानकं, तत्कालकं, तद्देशकं, तत्प्रमाणकं, तथैव च भवति ॥१.४१॥
हिन्द्यर्थः पुण्य अथवा पाप कर्म जिस कारण से, जिस उपाय से, जिस प्रकार से, जिस समय मे, जैसा, जितना, जिस स्थान पर करता है, वह प्राणी उसी कारण से, उसी उपाय से, उसी प्रकार से, उसी समय, वैसा ही, उतना ही, उसी स्थान पर, उस पापपुण्य के फल को अवश्य ही (भाग्यवश) पाता है ॥१.४१॥
उच्चारणम्
मूलम्: रोगशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥१.४२॥
पदविभागः रोग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मा-अपराध-वृक्षाणां फलानि एतानि देहिनाम् ॥१.४२॥
अन्वयः एतानि देहिनाम् आत्मा-अपराध-वृक्षाणां फलानि (भवन्ति)-- रोग-शोक-परीताप-बन्धन-व्यसनानि च (इति) ॥१.४२॥
प्रतिपदार्थः देहिनां = शरीरिणाम् ; परीतापः = सन्तापः ; बन्धनं = कारादि-प्राप्तिः ; तान्येव- व्यसनानि = विपत्तयः ; तानि च-- आत्मापराधवृक्षाणां ~आत्मना कृताः अपराधाः, ते एव वृक्षाः तेषाम्-- अपराधाः = पापानि ; वृक्षाणां = स्वकर्म-वृक्षाणां, फलानि = फलभूतान्येव [स्वकृतैरेव पापैर्दुःखानि जनो लभते, नान्यैरिति भावः] ॥१.४२॥
तात्पर्यम् आतुरता, हृत्पीडा, पश्चात्तापः, निर्बन्धः, दुःखकालाश्च प्राणिनां स्वयमाचरितानाम् अकार्याणां परिणामत्वेन सम्भवन्ति ॥१.४२॥
हिन्द्यर्थः रोग, शोक, सन्ताप, बन्धन, विपत्ति, ये सब मनुष्य के अपने किए हुए अपराध (पाप) रूपी वृक्ष के ही फल हैं ॥१.४२॥
उच्चारणम्
मूलम्: आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१.४३॥
पदविभागः आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैः अपि । आत्मानं सततं रक्षेद् दारैः अपि धनैः अपि ॥१.४३॥
अन्वयः आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैः अपि । आत्मानं सततं रक्षेद् दारैः अपि धनैः अपि ॥१.४३॥
प्रतिपदार्थः आपदर्थे = आपत्प्रतीकाराय ; रक्षेत् = अर्जयेत्, निभृतं स्थापयेत् ; दारान् = कलत्रम् ; धनैः = धनदानादिभिः ; रक्षेत् = गोपायेत् ; आत्मानं = स्वशरीरन्तु ; दारैरपि = पत्न्यपेक्षयापि ; धनैरपि = धनापेक्षयापि च, तद्व्ययेनापि च ; रक्षेत् = पालयेत् ॥१.४३॥
तात्पर्यम् कदाचित् भविष्यत्काले विपत्तिस्थितिः सम्भवेदिति धिया किञ्चित् धनम् उपयोगार्थं निकटे स्थापनीयम्। धनस्यापेक्षया पत्न्याः रक्षणं कार्यमथवा समये आपतिते वित्तेन भार्या रक्षणीया। ततश्च यदा आत्मनः विपत्कालः आपतेत्, तदानीं धनपत्न्योरपेक्षया, अथवा भार्यया, धनेन च स्वस्य रक्षणं करणीयम् ॥१.४३ ॥🌹
हिन्द्यर्थः आपत्तिकाल के लिये धन की रक्षा करनी चाहिए, और धन को खर्च कर के भी स्त्री को रक्षा करनी चाहिए, और स्त्री और धन दोनों से भी (उनकी चिन्ता छोडकर, या उनको देकर भी) सदा अपनी रक्षा करनी चाहिए ॥१.४३॥
उच्चारणम्
मूलम्: धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥१.४४॥
पदविभागः धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थिति-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥१.४४॥
अन्वयः प्राणाः धर्मार्थ-काम-मोक्षाणां संस्थिति-हेतवः । तान् निघ्नता किं न हतम् ? रक्षता किं न रक्षितम्? ॥
प्रतिपदार्थः प्राणाः धर्मार्थ-काम-मोक्षाणां संस्थिति-हेतवः । तान् निघ्नता किं न हतम् ? रक्षता किं न रक्षितम्? ॥
तात्पर्यम् (शरीरस्य धारणे ये हेतवः ते) प्राणाः एव धर्मादि-पुरुषार्थ-चतुष्टयस्य संस्थापनेऽपि कारणम्। पुरुषः प्राणान् हत्वा सर्वं हन्ति, प्राणान् ऊत्वा (अव्+त्वा) सर्वम् अवति ॥१.४४॥
हिन्द्यर्थः और भी- धर्म, अर्थ, काम, मोक्ष, इन चारों पुरुषार्थों के मूल कारण प्राण ही हैं । अतः जिसने अपने प्राणों का नाश किया उसने किस चीज का नाश नहीं किया? अर्थात् सबका नाश किया । और जिसने उन प्राणों की रक्षा की तो उसने किसकी रक्षा नहीं की? । अर्थात् सबकी रक्षा की ॥१.४४॥
उच्चारणम्
मूलम्: धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥१.४५॥
पदविभागः धनानि जीवितं च एव परार्थे प्राज्ञः उत्सृजेत् । सन्निमित्ते वरं त्यागः विनाशे नियते सति ॥१.४५॥
अन्वयः प्राज्ञः धनानि जीवितं च एव परार्थे उत्सृजेत् । विनाशे नियते सति सन्निमित्ते त्यागः वरम् ॥१.४५॥
प्रतिपदार्थः प्राज्ञः = विद्वान् ; जीवितं = प्राणान् ; परार्थे = परोपकाराय ; उत्सृजेत् = दद्यात् ; विनाशे = मरणे ; नियते = निश्चिते सति ; सन्निमित्ते = सत्कार्यसिद्धये, परोपकाराय ; त्यागः = प्राणपरित्यागः ; वरं = किञ्चित् श्रेष्ठः ॥१.४५॥
तात्पर्यम् बुधजनः परेषामुपयोगाय वित्तं जीवनं चार्पयति। नाशनमेव यदि (अशाश्वतेऽस्मिन्) लोके नियमः भवति, तर्हि सत्कार्याचरणार्थं धनप्राणयोः उपयोगः एव श्रेष्ठः ॥१.४५॥
हिन्द्यर्थः किसी ने ठीक ही कहा है, कि- विद्वान् लोगों को अपने धन तथा प्राणों को स्वरों के उपकार के लिए समर्पण कर देना चाहिए । क्यों कि जब उन प्राणों का और धन का नाश होना निश्चित ही है, तो उन्हें सदुपयोग में लगा देना ही अच्छा है ॥१.४५॥
उच्चारणम्
मूलम्: विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन्मे प्राणव्ययेनापि जीवयैतान् ममाश्रितान् ॥१.४७॥
पदविभागः विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन्मे प्राणव्ययेनापि जीवयैतान् ममाश्रितान् ॥१.४७॥
अन्वयः एते वर्तनं विना एव न मम अन्तिकं न त्यजन्ति । तत् एतान् मम आश्रितान् मे प्राण-व्ययेन अपि जीवय ॥१.४७॥
प्रतिपदार्थः वर्त्तनं = जीविकां, वेतनं ; विनैव = (वेतनादिग्रहणं) विनाऽपि ; मम अन्तिकं = मत्सान्निध्यं ; न त्यजन्ति = न परिहरन्ति ; तत् = तस्मात् ; प्राण-व्ययेनापि = मत्प्राणोपयोगेन अपि ; जीवय = पाशच्छेदेन एनान् परिपालय ॥१.४७॥
तात्पर्यम् (कपोतानां कथायां मूषकेन कपोत राजा इत्थं वदति-) एतेभ्यः कपोतेभ्यः मासिकभृतिः कापि न दीयते, तथापि एते सदा मम सन्निधावेव वसन्ति, मां न परित्यजन्ति। अतः मम प्राणः अपगच्छेत् तथापि इमान् मम अधीने स्थितान् पूर्वं रक्ष- इति ॥१.४७॥
हिन्द्यर्थः और भी- विना किसी प्रकार की जीविका और वेतन के भी ये मेरा साथ नहीं छोडते हैं, इसलिये मेरे प्राणों की पर्वाह न करके भी आप पहिले इन (मेरे आश्रितों) को ही बचाइए ॥१.४७॥
उच्चारणम्
मूलम्: मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥
पदविभागः मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥
अन्वयः मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥
प्रतिपदार्थः मित्र = हे सुहृत् ; मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते, परिपूर्णे च ; विनश्वरे = विनाशशीले ; कलेवरे = शरीरे ; आस्थां = आलम्बनं, आदरं वा ; मे यशः = मम कीर्तिम् ; पालय = रक्ष ; ॥१.४८॥
तात्पर्यम् हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव ॥१.४८॥
हिन्द्यर्थः और भी- हे मित्र! माँस, मूत्र, विष्ठा, हड्डी आदि से बने हुए मेरे इस नाश-शील शरीर के बचाने की इच्छा को लोक में आप मेरी कीर्ति की ही रक्षा करो ॥१.४८॥
उच्चारणम्
मूलम्: यदि नित्यमनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तन्न लब्धं भवेन् नु किम् ॥१.४९॥
पदविभागः यदि नित्यम् अनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तत् न लब्धं भवेत् नु किम् ॥१.४९॥
अन्वयः यदि नित्यं, निर्मलं, यशः- अनित्येन, मलवाहिना, कायेन- लभ्येत तत् (तर्हि) न लब्धं किम् नु भवेत् ? ॥१.४९॥
प्रतिपदार्थः नित्यं = चिरस्थायि ; निर्मलं = स्वच्छम् ; यशः = कीर्तिः ; अनित्येन = नश्वरेण ; मलवाहिना = मलमूत्रपरिपूर्णेन ; कायेन = शरीरेण ; तत्र 'नु'-इति वितर्के । किं लब्धं न भवेत् = सर्वमेव लब्धं भवेदित्यर्थः ॥१.४९॥
तात्पर्यम् यदि शाश्वती, मलरहिता कीर्तिः, अशाश्वतकेन, दूषितेन देहेन (तन्माध्यमेन) लभ्यते, तर्हि न किमपि अप्राप्तं शिष्यते। (सर्वमेव लब्धमिति यावत्।) ॥१.४९॥
हिन्द्यर्थः अनित्य और सूत्र विष्ठा आदि मलों को वहन करने वाले शरीर के बदले में यदि निर्मल और नित्य यश मिले, तो फिर कहो क्या नहीं मिला? । अथपि सब कुछ मिल गया ॥१.४९॥
उच्चारणम्
मूलम्: शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥१.५०॥
पदविभागः शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनः गुणाः ॥१.५०॥
अन्वयः शरीरस्य गुणानां च अन्तरम् अत्यन्तं दूरम् । शरीरं क्षण-विध्वंसि । गुणाः कल्पान्त-स्थायिनः ॥१.५०॥
प्रतिपदार्थः शरीरस्य = देहस्य ; अत्यन्तं दूरं = नितरां विप्रकृष्टम् ; अन्तरं = प्रभेदः ; क्षणविध्वंसि = अचिरविनाशि, क्षणभङ्गुरम् ; गुणाः = दयादाक्षिण्यादयः, यश इति यावत् । कल्पान्तस्थायिनः = प्रलयपर्यन्तस्थायिनः ॥१.५०॥
तात्पर्यम् देहस्य गुणानां च मध्ये भेदः महान्। कायः अविलम्बेन विनश्यति। गुणास्तु सृष्टिविलयं यावत् तिष्ठन्ति ॥१.५०॥
हिन्द्यर्थः क्यों कि- शरीर में और गुणों में बहुत बडा भेद है, शरीर तो क्षण ही में नष्ट हो जाता हैं, परन्तु गुण प्रलय काल तक रहते हैं ॥१.५०॥
उच्चारणम्
मूलम्: योऽधिकाद् योजनशतात् पश्यतीहामिषं खगः । स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥१.५१॥
पदविभागः यः अधिकाद् योजन-शतात् पश्यति इह आमिषं खगः । सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥
अन्वयः यः खगः योजन-शतात् अधिकाद् इह आमिषं पश्यति, सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥
प्रतिपदार्थः खगः = गृध्रादिः ; योजनशताद् अपि अधिकात् = शतमपि योजनानां पारे ; आमिषं = स्वभक्ष्यं मांसं ; पश्यति = (अत्र) द्रष्टुं शक्नोति ; स एव = दूरदृष्टिः खगः; प्राप्त-कालः = आसन्नमृत्युः सन् ; पाशबन्धं = जालं ; न पश्यति = नैव लक्षयति ॥१.५१॥
तात्पर्यम् यः पक्षी शताधिकयोजनदूरात् खाद्यपदार्थं मांसं द्रष्टुं शक्नोति, स एव मुत्यौ समीपे स्थिते सति (समीपस्थं) जालं न पश्यति ॥१.५१॥
हिन्द्यर्थः क्यों कि--जो यज्ञ आदि पक्षी, सौ योजन (४०० कोश) से अधिक की दूरी से भी माँस को देख सकता है, वही पक्षी बुरा समय आने पर अपने फँसाने के लिए बिछाये गए जाल को भी नहीं देखता है और उसमें फँसकर अपने प्राण देदेता है ॥१.५१॥
उच्चारणम्
मूलम्: शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः ॥१.५२॥
पदविभागः शशि-दिवाकरयोः ग्रहपीडनं गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिः अहो बलवान् इति मे मतिः ॥१.५२॥
अन्वयः शशि-दिवाकरयोः ग्रहपीडनं, गज-भुजङ्गमयोः अपि बन्धनम् । मतिमतां च दरिद्रतां विलोक्य “अहो, विधिः बलवान्” इति मे मतिः ॥१.५२॥
प्रतिपदार्थः शशिदिवाकरयोः = सूर्यचन्द्रमसोः । ग्रहपीडनं = राहुणा ग्रहणम् ; गजभुजङ्गमयोः = हस्तिसर्पयोः ; बन्धनं = निग्रहं च ; विलोक्य = दृष्ट्वा ; च = पुनः ; मतिमतां = विदुषां ; दरिद्रतां = दारिद्र्यं च ; विलोक्य = दृष्ट्वा ; अहो = इति आश्चर्ये, खेदे वा ; विधिः = दैवं ; बलवान् = अनिवार्यम् इति ; मे = मम ; मतिः = निश्चयः ; 'ग्रहः, सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोरिति मेदिनी ; ॥१.५२॥
तात्पर्यम् दिनकर-निशाकरयोः (राहु)ग्रहेण ग्रसनं, नागद्वयोः (करिणः, भुजगस्य च ) (व्याधेन) निर्बन्धनं, पण्डितानां धनहीनता च— एतत् त्रितयं दृष्ट्वा (स्थितः अहं) ‘विधिः बलीयः’ इति निश्चिनोमि ॥१.५२॥
हिन्द्यर्थः क्योंकि-- और भी--चन्द्रमा और सूर्य को ग्रहण की पीडा, अर्थात् ग्रहण लगना, हाथों और साँपों का बन्धन,पण्डितों की भी दरिद्रता, इन सब बातों को देखकर मैं तो समझता हूँ कि भाग्य ही सबसे प्रबल है ॥१.५२॥
उच्चारणम्
मूलम्: व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलात् मत्स्याः समुद्रादपि । दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥१.५३॥
पदविभागः व्योम-एकान्त-विहारिणः अपि विहगाः सम्प्राप्नुवन्ति आपदं बध्यन्ते निपुणैः अगाध-सलिलात् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इह अस्ति किं सुचरितं कः स्थानलाभे गुणः कालः हि व्यसन-प्रसारित-करः गृह्णाति दूराद् अपि ॥१.५३॥
अन्वयः विहगाः व्योम-एकान्त-विहारिणः अपि आपदं सम्प्राप्नुवन्ति । मत्स्याः अगाध-सलिलात् समुद्राद् अपि निपुणैः बध्यन्ते । इह दुर्नीतं किम् अस्ति? किं सुचरितं (अस्ति)? कः स्थानलाभे गुणः (अस्ति)? व्यसन-प्रसारित-करः कालः हि दूराद् अपि गृह्णाति ॥१.५३॥
प्रतिपदार्थः विहगाः = पक्षिणः ; व्योमैकान्त-विहारिणः अपि = दूरतर-गगनाङ्गण-विहारिणः अपि ; आपदं = प्राणसङ्कटं, जालबन्धनादि-विपदम् ; सम्प्राप्नुवन्ति = लभन्ते ; निपुणैः = कुशलैः ; अगाध-सलिलात् = अतल-स्पर्शिजल-पूर्यात् ; समुद्रादपि = सागरादपि ; मत्स्याः = मीनाः ; बध्यन्ते = जलात् अपनीय गृह्यन्ते ; लौकैरिति शेषः ; दुर्नीतं = दुश्चरितं ; सुचरितं = शोभनम् आचरणं वा- किम्? । स्थानलाभे = दुर्धर्ष-निरापद-दुरासद-दुर्गम-स्थानलाभे वा ; को गुणः = किं फलम्? ; कालः = मृत्युः ; व्यसन-प्रसारितकरः = विपदवसरे करौ प्रसार्य इव ; दूरादपि = दुर्गमादपि स्थानात् ; गृह्णाति = आदत्ते ॥१.५३॥
तात्पर्यम् पक्षिणः दूरे गगने डयमाना अपि सङ्कटे पतन्ति । अगाधे वारिनिधौ स्थिता अपि मीनाः धीवरैः प्रसारितैः जालैः निर्बध्यन्ते । इह लोके किं साधु, किमसाधु? अत्यन्तं योग्यस्थानप्राप्त्या किम्? मृत्युः दूरादपि विपत्तिरूपेण आगत्य करौ विस्तीर्य (अस्मान् अवश्यं) धरति ॥१.५३॥
हिन्द्यर्थः आकाश के एकान्त और अत्युच्च प्रदेश में विहार करने वाले पक्षी भी आपत्ति में फँस जाते हैं । चतुर लोग अथाह जल वाले समुद्र से भो मछलियों को पकड़ लेते हैं । इसलिये इस संसार में क्या अच्छा है? और क्या बुरा है? और क्या योग्य स्थान की प्राप्ति में भी लाभ है? अर्थात् कुछ नहीं । क्यों कि कालरूपी शत्रु व्यसन (विपत्ति) रूपी हाथ पसारे बैठा है, और वह मौका पाते ही दूर से भी प्राणियों को पकड़ लेता है ॥१.५३॥
उच्चारणम्
मूलम्: यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य मूषिकमिज्रेण कपोता मुक्तवन्धनाः ॥१.५४॥ यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य, मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.५४॥ यानि कानि च मित्राणि कर्त्तव्यानि शतानि च, पश्य मूषिक-मित्रेण कपोताः मुक्तबन्धनाः ॥१.५४॥ यानि कानि=निर्बलानि, सबलानि बा, योग्यानि, अयोग्यानि वा । शतानिध असङ्ख्यातानि । (सैकहो) । मुक्तबन्धनाः कृताः ॥१.५४॥
पदविभागः
अन्वयः
प्रतिपदार्थः
तात्पर्यम्
हिन्द्यर्थः इसलिए मनुष्य को सभी प्रकार के अपने बहुत से मित्र करने चाहिये । देखो चित्रग्रीव के मित्र चूहेने कधूतरो को बन्धन से क्रुद्धा दिया या ॥१.५४॥
उच्चारणम्
मूलम्: यद्येन युज्यते लोके बुधस्तत् तेन योजयेत् । अहमन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति ॥१.५५॥ भक्ष्यभक्षयोः प्रीतिर्विपत्तेः कारणं मतम् ।
पदविभागः यद् येन युज्यते लोके बुधः तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिः भविष्यति । भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं मतम् ॥१.५५॥
अन्वयः लोके यद् येन युज्यते, बुधः तत् तेन योजयेत् । अहम् अन्नं (अस्मि), भवान् (तु) भोक्ता (अस्ति), (अतः) कथं प्रीतिः भविष्यति? भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं (इति) मतम् ॥१.५५॥
प्रतिपदार्थः लोके यद् येन युज्यते, बुधः तत् तेन योजयेत् । अहम् अन्नं (अस्मि), भवान् (तु) भोक्ता (अस्ति), (अतः) कथं प्रीतिः भविष्यति? भक्ष्य-भक्षयोः प्रीतिः विपत्तेः कारणं (इति) मतम् ॥१.५५॥
तात्पर्यम् अस्मिन् संसारे प्रज्ञावान् योज्यवस्तूनि एव परस्परं योजयति, नान्यानि, विरुद्धानि वा। आवयोः सा स्थितिः नास्ति, यत् साम्यं लेशमपि भवेत्। भवतः अहं आहारोऽस्मि। भवान् मां खादति। कथं साध्यमिति यावत् । अतः आवयोः मिथः स्नेहभावः न युक्तः ॥१.५५॥
हिन्द्यर्थः क्योंकि-पण्डित को चाहिये कि जिसके साथ मेल (मित्रता) हौ सकता है, उसके ही साथ मेल करे । परन्तु मैं तो आपका अन्न (भक्ष्य) हूँ और आप मेरे भक्षक हैं । भला हमारी तुमारी मित्रता कैसे हो सकती है? ॥१.५५॥
उच्चारणम्
मूलम्: तावद् भयस्य भेतव्यं यावद् भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८॥
पदविभागः तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥१.५८॥
अन्वयः यावद् भयम् अनागतं, तावद् भयस्य भेतव्यम् । आगतं भयं तु वीक्ष्य नरः यथोचितं कुर्यात् ॥१.५८॥
प्रतिपदार्थः भयस्य = भयजनकस्य चौरव्याघ्रादेः ; भेतव्यं = भीतिः कार्या ; भयं = भयप्रदं चोरव्याघ्रादिकम्, आगतम् = उपस्थितम् ; वीक्ष्य = दृष्ट्वा तु ; यथोचितं = यथायोग्यं तत्प्रतीकारोपायम् ; कुर्यात् = विदधीत ॥१.५८॥
तात्पर्यम् धैर्यहारकं, भीतिजनकं च यद्यद् कारणं भवति, तस्य आगमनात् पूर्वमेव भीतिर्न कार्या। (तस्मात् प्राक् धैर्यं वोढव्यम् ।) तस्मिन् आगते सति सकृत् परिशील्य यद् योग्यं तत् कर्तव्यम् ॥१.५८॥
हिन्द्यर्थः जब तक विपत्ति नहीं आये तभी तक उससे डरना चाहिये। पर यदि विपत्ति आ ही पड़े, तो मनुष्य को निर्भय होकर उसका यथोचित प्रतीकार करना चाहिए ॥१.५८॥
उच्चारणम्
मूलम्: जातिमात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥१.५९॥
पदविभागः जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥
अन्वयः जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यः अथवा भवेत् ॥१.५९॥
प्रतिपदार्थः कश्चिदपि ; क्वचित् = कस्मिंश्चित् स्थलेऽपि ; जातिमात्रेण = 'अयं एवंजातीय' इत्येतावन्मात्रेणैव ; किं वध्यते = किं हन्यते ; किं पूज्यते = किं सत्क्रियते ; नैवेत्यर्थः ; व्यवहारं = तदाचारम् ; परिज्ञाय = दृष्ट्वा, अनुरुध्यैव वध्यः = हन्तव्यः ; पूज्यः = सत्कारयोग्यः ॥१.५९॥
तात्पर्यम् जन्ममात्रेण प्राप्तेन जीवाकारेण एव कोऽपि सत्क्रियार्हत्वं वा, हन्तव्यत्वं वा न प्राप्नोति । तस्य प्रवृत्त्या ज्ञायते यत् सः व्यापादितव्य उत सत्कारपात्रं वेति ॥१.५९॥
हिन्द्यर्थः क्योंकि-कोई भी व्यक्ति जातिमात्र ही से मारने वा पूजने लायक नहीं होता है, किन्तु उनका व्यवहार देख कर ही उसे मारना या पूजना चाहिए ॥१.५९॥
उच्चारणम्
मूलम्: अरावप्युचितं कार्यमातिथ्यं गृहमागते । छेत्तुः पार्श्वगताच्छायां नोपसंहरते द्रुमः ॥१.६०॥
पदविभागः अरौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुः पार्श्वगतात् छायां न उपसंहरते द्रुमः ॥१.६०॥
अन्वयः अरौ अपि गृहम् आगते (सति) उचितं आतिथ्यं कार्यम् । द्रुमः छेत्तुः अपि पार्श्वगतात् छायां न उपसंहरते ॥१.६०॥
प्रतिपदार्थः अराविति । अरौ = शत्रौ-अपि ; गृहमागते सति- उचितं = योग्यम्, आतिथ्यम् = अतिथिसत्कारः ; द्रुमः = वृक्षः ; पार्श्वगतात् = निकटस्थितात् ; छेत्तुः = स्वच्छेदकात्, तक्ष्णः सकाशादपि ; स्वच्छायां नोपसंहरते = न सङ्कोचयति ॥१.६०॥
तात्पर्यम् (गृहस्थ-धर्मः च एषः–) यदा शत्रुः गृहमागच्छति, तदापि योग्या सत्क्रिया कार्या । (अत्रोपमानम्) यदा (तरुं खण्डशः कर्तुं) छेदकः परितः आगच्छति, तदापि वृक्षः (तं) छायां (प्रददाति), न निवर्तयति ॥१.६०॥
हिन्द्यर्थः शत्रु भी यदि अपने धर पर आ जाए तो उसका भी उचित आतिथ्य सत्कार करना चाहिए । देखो- वृक्ष अपने काटने वाले बढई, सुतार आदि की ओर से भी अपनी सुशीतल छाया को कभी नहीं हटाता है ॥१.६०॥
उच्चारणम्
मूलम्: तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१.६१॥
पदविभागः तृणानि भूमिः उदकं वाक् चतुर्थी च सूनृता । एतानि अपि सतां गेहे न उच्छिद्यन्ते कदाचन ॥१.६१॥
अन्वयः सतां गेहे- तृणानि, भूमिः, उदकं, वाक्, चतुर्थी च सूनृता - एतानि अपि कदाचन न उच्छिद्यन्ते ॥१.६१॥
प्रतिपदार्थः तृणानि = आस्तरणार्थं पलाल-कुशादीनि ; भूमिः = निवास-स्थानम् ; उदकं = पानाद्यर्थे शीतलं पयः ; एतत् त्रितयं ; किञ्च-चतुर्थी- ; सूनृता = प्रिया, सत्या च ; वाक् = वाणी ; ['सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपी'ति मेदिनी] ; एतानि = चत्वारि ; अपि = तु ; सतां = साधूनां ; गेहे = गृहे ; न उच्छिद्यन्ते कदाचन = न कदाचन विरलीभवन्ति ; सदैव सुलभानि एव इत्याशयः ॥१.६१॥
तात्पर्यम् सज्जनानां गृहे- (उपवेशनाय, शयनाय च) तृणानि, (वासयोग्या) धरा, (तृषाशान्त्यर्थं) जलं, मधुरा च वाणी- एतानि वस्तूनि कदापि अनुपलब्धतां न यान्ति ॥१.६१॥
हिन्द्यर्थः बिछाने के लिए और बैठने के लिए पुआल आदि घास फूस, रहने को स्थान, जल- ये तीन चीज़ और चौथा मीठा वचन, इन चार चीज़ों की कमी तो सज्जनों के घर में कभी भी नहीं होती है । अर्थात् कुछ भी घर में देने को न हो तो भी इन चार वस्तुओं से ही अतिथि का सत्कार करना चाहिये ॥१.६१॥
उच्चारणम्
मूलम्: बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥१.६२॥
पदविभागः बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्य आभ्यागतः गुरुः ॥१.६२॥
अन्वयः यदि बालः वा, वृद्धः वा, युवा वा गृहम् आगतः, (तर्हि) तस्य पूजा विधातव्या । आभ्यागतः सर्वस्य गुरुः (वर्तते) ॥१.६२॥
प्रतिपदार्थः गृहमागतः = स्वगृह-द्वारि समुपस्थितः, अतिथिः ; तस्य = अतिथेः ; पूजा = सत्क्रिया ; विधातव्या = कर्तव्या ; अभ्यागतः = अन्य-ग्रामादागतः अतिथिः ; गुरुः = पूज्यः ॥१.६२॥
तात्पर्यम् गेहस्य पुरतः आगतः अतिथिः बालकः, युवा, वृद्धो वा भवतु- तस्य समुचितः सत्कारः कर्तव्यः। अभ्यागतः सर्वेषां (सर्ववर्णाश्रमधर्मिणां) पूज्यः वर्तते ॥१.६२॥
हिन्द्यर्थः अतिथि यदि बालक हो या वृद्ध हो या जवान हो, वह यदि अपने घर पर आ जाय, तो उसकी पूजा अवश्य करनी चाहिये। क्यों कि अतिथि सभी का गुरु और पूज्य होता है ॥१.६२॥
उच्चारणम्
मूलम्: निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥१.६३॥
पदविभागः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रः चाण्डाल-वेश्मनः ॥१.६३॥
अन्वयः साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः ज्योत्स्नां चाण्डाल-वेश्मनः न हि संहरते ॥१.६३॥
प्रतिपदार्थः अपरं च– साधवः निर्गुणेषु अपि सत्त्वेषु दयां कुर्वन्ति । चन्द्रः चाण्डाल-वेश्मनः ज्योत्स्नां न हि संहरते ॥१.६३॥ साधवः = सन्तः ; निर्गुणेष्वपि = अयोग्येष्वपि, नीचेष्वपि च ; सत्त्वेषु = भूतेषु ; दयां कुर्वन्ति = करुणां प्रदर्शयन्ति ; हि = यतः ; चन्द्रः = इन्दुः ; चाण्डाल-वेश्मनः = पतितान्तावसायिगेहात्। ज्योत्स्नां = स्वचन्द्रिकां ; न संहरते = न सङ्कोचयति ॥१.६३॥
तात्पर्यम् सज्जनाः गुणहीनेषु प्राणिषु अपि अनुकम्पां दर्शयन्ति। (अत्र उदाहरणम्-) इन्दुः कौमुदीं (सर्वत्र प्रसारयति) अत्यजगृहेषु अपि (अयोग्यानीति अमत्वा) स्वकान्तिं नोपसंहरति ॥१.६३॥
हिन्द्यर्थः महात्मा लोग गुणहीन (साधारण पामर, तुच्छ) जीवों पर भी सदा दया ही करते हैं । देखो, चन्द्रमा चाण्डाल केघर से भी अपनी किरणों को नहीं हटाता है । अर्थात् चन्द्रमा की शीतल किरण गुणी व निर्गुण सभी के ऊपर समान ही पड़ती हैं ॥१.६३॥
उच्चारणम्
मूलम्: अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥१.६४॥
पदविभागः अतिथिः यस्य भग्नाशः गृहात् प्रतिनिवर्तते । सः दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥१.६४॥
अन्वयः यस्य अतिथिः भग्नाशः (सन्) गृहात् प्रतिनिवर्तते, सः (अतिथिः) तस्मै (गृहस्थाय) दुष्कृतं दत्त्वा, पुण्यम् आदाय (च) गच्छति ॥१.६४॥
प्रतिपदार्थः यस्य = पुंसः ; गृहात् = निवासात् ; अतिथिः = अभ्यागतः ; भग्नाशः = निराशः सन् ; प्रतिनिवर्त्तते = पुराङ्मुखो गच्छति ; सः = अतिथिः ; तस्मै = गृहस्वामिने ; दुष्कृतं = स्वपापम् ; दत्त्वा = प्रदाय ; पुण्यं = गृहस्वामिनः पुण्यम् ; आदाय गच्छति = अपहरति, स्वीकृत्य निर्गच्छति ॥१.६४॥
तात्पर्यम् यदि (गृहमागतः) कश्चित् अतिथिः (केनचित्कारणेन) उपहतः सन् निर्गच्छति, तर्हि सः गृहस्थाय पापं दत्त्वा, (गहस्थेनाचरितं) सुकृतं च नीत्वा गच्छति ॥१.६४॥
हिन्द्यर्थः जिस गृहस्थ के घर से अतिथि निराश होकर लौट जाता है, तो वह अतिथि उस गृहस्थ को अपना पाप देकर और उसका पुण्य लेकर चला जाता है । [अर्थात् अतिथि को निराश करने से बड़ा पाप होता है ॥१.६४ ॥]
उच्चारणम्
मूलम्: उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.६५॥
पदविभागः उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्वदेवमयः अतिथिः ॥१.६५॥
अन्वयः उत्तमस्य वर्णस्य अपि गृहम् आगतः नीचः अपि यथायोग्यं पूजनीयः । अतिथिः सर्वदेवमयः ॥१.६५॥
प्रतिपदार्थः उत्तमस्यापि वर्णस्य = श्रेष्ठस्यापि ब्राह्मणादेर्वर्णस्य ; गेहे = गृहे ; नीचोऽपि = स्वतो निकृष्टः चाण्डालादिः अपि ; यथायोग्यं = यथोचितम् ; पूजनीयः = पूज्यः ; कुत एतदत आह- सर्वेति । सर्वदेवमयः = सर्वदेवस्वरूपः ॥१.६५॥
तात्पर्यम् अग्रवर्णस्य कस्यचित् गृहं प्रति इपि (कदाचित्) अन्त्यवर्णः कश्चित् आगच्छति चेत्, सः यथार्हं सत्क्रियापात्रमेव भवति । अभ्यागतस्तु सर्वदेवस्वरूपः ॥१.६५॥
हिन्द्यर्थः उत्तम वर्ण (ब्राह्मण आदि) के घर में यदि नीच वर्ण (चाण्डालादिक) भी अतिथि होकर आये तो उसका भी यथायोग्य सत्कार करना चाहिये, क्यों कि अतिथि सब देवताओंका रूप है ॥१.६५॥
उच्चारणम्
मूलम्: सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥१.६८॥
पदविभागः सर्वहिंसा-निवृत्ताः ये नराः सर्व-सहाः च ये । सर्वस्य आश्रय-भूताः च ते नराः स्वर्ग-गामिनः ॥१.६८॥
अन्वयः ये नराः सर्वहिंसा-निवृत्ताः, ये च सर्व-सहाः, (ये) सर्वस्य आश्रय-भूताः च, ते नराः स्वर्ग-गामिनः ॥१.६८॥
प्रतिपदार्थः सर्वहिंसा-निवृत्ताः = परपीडाकार्ये ये रताः न भवन्ति ; सर्वसहाः = तितिक्षा-परायणाः ; आश्रयभूताः = सर्वाभयप्रदाः ; स्वर्ग-गामिनः = ये स्वर्गं प्रति गच्छन्ति ॥१.६८॥
तात्पर्यम् ये प्राणिपीडकाः न, ये च सर्वं क्षन्तुमर्हन्ति, ये सर्वेषां शरण्यस्थानं भवन्ति, ते स्वर्गं गच्छन्ति ॥१.६८॥
हिन्द्यर्थः जो लोग सब प्रकार की जीवहिंसा से निवृत्त हैं, और जो सब कुछ सहन करते हैं, तथा सबको यथाशक्ति आश्रय देते हैं, वे ही लोग स्वर्ग में जाते हैं ॥१.६८ ॥
उच्चारणम्
मूलम्: एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥१.६९॥
पदविभागः एकः एव सुहृद् धर्मः निधने अपि अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यत् तु गच्छति ॥१.६९॥
अन्वयः धर्मः एक एव सुहृद् यः निधने अपि अनुयाति । सर्वम् अन्यत् तु शरीरेण समं नाशं गच्छति ॥१.६९॥
प्रतिपदार्थः धर्मः एक एव सुहृद् यः निधने अपि अनुयाति । सर्वम् अन्यत् तु शरीरेण समं नाशं गच्छति ॥१.६९॥
तात्पर्यम् (नश्वरे अस्मिन् लोके) धर्मः (पुण्यं) मरणेऽपि प्राप्ते जीवेन साकं गच्छति। तद्भिन्नं समस्तं कायनाशं समनन्तरमेव विनश्यति ॥१.६९॥
हिन्द्यर्थः और धर्म ही केवल एक ऐसा मित्र है, जो मरने पर भी साथ देता है। और सब सम्पत्ति तो शरीर के साथ ही नष्ट हो जाती है ॥१.६९॥
उच्चारणम्
मूलम्: योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥१.७०॥
पदविभागः यः अत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिः अन्यः प्राणैः विमुच्यते ॥१.७०॥
अन्वयः यः यदा यस्य मांसम् अत्ति उभयोः अन्तरं पश्यत । एकस्य क्षणिका प्रीतिः (भवति) । अन्यः प्राणैः विमुच्यते ॥१.७०॥
प्रतिपदार्थः यः = पुमान् ; यस्य = मृगादेः ; यदा = यस्मिन् समये ; अत्ति = भक्षयति ; उभयोः = भक्ष्यभक्षकयोः ; अन्तरं = भेदम् ; पश्यत = विलोकयत ; एकस्य = भक्षकस्य पुंसः तु ; क्षणिका = भक्षण-मात्रस्थायिनी एव ; प्रीतिः = तृप्तिः ; परम्- अन्यः = मृगादिः भक्ष्यभूतः पशुस्तु ॥१.७०॥
तात्पर्यम् कश्चन जीवः यदा अन्यप्राणिनः मांसं खादति, तदा द्वयोः मध्ये भेदः एवमस्ति। यः मांसभुक्, सः तात्कालिकं बुभुक्षाशमनरूपम् आनन्दमनुभवति। किन्तु यं जीवं स भुङ्क्ते, स जीवः प्राणान् त्यजति (मरणं प्राप्नोति इति तस्य सर्वदा नाशः) ॥१.७०॥
हिन्द्यर्थः एक प्राणी जब दूसरे प्राणी का मांस खाता है, तो उस समय उन दोनों का भेद देखिये। एक (खानेवाले) को तो क्षणभर का आनन्द (आस्वाद) मिलता है, परन्तु दूसरा (भक्ष्य प्राणी) सर्वदा के लिये इस संसार से चला जाता है ॥१.७०॥
उच्चारणम्
मूलम्: मर्तव्यमिति यद् दुःखं पुरुषस्योपजायते । शक्यते नानुमानेन परेण परिवर्णितुम् ॥१.७१॥
पदविभागः मर्तव्यम् इति यद्-दुःखं पुरुषस्य उपजायते । शक्यते न अनुमानेन परेण परिवर्णितुम् ॥१.७१॥
अन्वयः पुरुषस्य यत् मर्तव्यम् इति दुःखम् उपजायते, परेण अनुमानेन परिवर्णितुं न शक्यते ॥१.७१॥
प्रतिपदार्थः 'मया मर्त्तव्यमिदानी'मिति ज्ञात्वा, यत् = यादृशं ; दुःखं = मनःक्लेशः ; पुरुषस्य = जन्तोः ; उपजायते = भवति ; तेन = तद्धेतुकेन ; अनुमानेन = अनुमित्या ; परोऽपि = मृगपक्ष्यादिरपि ; शक्यः = योग्यः ; 'मरणाद्यथा मम दुःखं, तथैव परस्यापीति विज्ञाय परोऽपि स्वात्मवदेव रक्षणीय इत्याशयः ॥१.७१॥
तात्पर्यम् मनुष्यस्य या मरणविषया पीडा अनुभूयते, सा (यः तं क्लेशम् अधुना नानुभवति तेन) अन्यजनेन (‘इदमित्थम् एवंरूपेण दुःखं भवती’ति शब्दैः) प्रकटयितुं न शक्या ॥१.७१॥
हिन्द्यर्थः 'मुझको मरना होगा' यह सोच कर मरने वाले मनुष्य को जो दुःख होता है, उसको दूसरा मनुष्य केवल अनुमान से वर्णन नहीं कर सकता है ॥१.७१॥ { माम् सः भक्षयिताsमुत्र यस्य मांसम् इह अद्मि अहम् । इति मांसस्य मांसत्वम् प्रवदन्ति मनीषिणः ।। अद्मि - खादामि वह परलोक में मुझे खाएगा जिसका मांस मैं इस लोक में खा रहा हुँ ।बुद्धिमान लोगों का कहना है इसी कारण से मांस को माम् (मुझको) + सः (वह) कहते हैं ।}
उच्चारणम्
मूलम्: स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥
पदविभागः स्वच्छन्द-वन-जातेन शाकेन अपि प्रपूर्यते । अस्य दग्ध-उदरस्यार्थे कः कुर्यात् पातकं महत् ॥१.७२॥
अन्वयः स्वच्छन्द-वन-जातेन शाकेन अपि (उदरं) प्रपूर्यते । (एवं स्थिते) अस्य दग्ध-उदरस्यार्थे कः महत् पातकं कुर्यात्? (न करोतीति भावः) ॥१.७२॥
प्रतिपदार्थः स्वच्छन्द-वन-जातेन = स्वतन्त्रतया वने उद्भूतेन सुलभेन ; शाकेन = फलमूल-शाकादिना, वृक्षोत्पदनेन ; प्रपूर्यते = यत्परिपूर्णं भवति ; तस्य दग्धोदरस्य = उदरहतकस्य, धिग् अस्य उदरस्य ; अर्थे = निमित्तं ; कः = कः सचेताः पुमान् ; महत् = नितरां गुरु ; पातकं = प्राणिवध-रूपं पापम् ; कुर्यात् = आचरेत् ; (न कश्चिदपि सहृदयः कुर्यादित्यर्थः) ॥१.७२॥
तात्पर्यम् स्वयमेव (विना कृषकेण, श्रमेण वा) अरण्ये उत्पन्नेन सस्येन जठरस्य भरणं भवति। (एवं सति) कः (बुद्धिहीनः) कुक्ष्यै (क्षुधापूर्तये जीवहननरूपकं) पापं विदधाति? ॥१.७२॥
हिन्द्यर्थः बिना बोये-जोते स्वयं वन में उत्पन्न हुए साग से भी जब यह पेट भरा जा सकता है, तो इस पापी पेट के लिये इतना बड़ा पाप कौन समझदार मनुष्य करेगा? अर्थात् इस पापी पेट के लिए किसी को भी ऐसा जघन्य काम नहीं करना चाहिये। ॥१.७२॥
उच्चारणम्
मूलम्: यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥१.७३॥
पदविभागः यत्र विद्वज्जनः नास्ति श्लाघ्यः तत्र अल्पधीः अपि । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥
अन्वयः यत्र विद्वज्जनः नास्ति, तत्र अल्पधीः अपि श्लाघ्यः । निरस्त-पादपे देशे एरण्डः अपि द्रुमायते ॥१.७३॥
प्रतिपदार्थः विद्वज्जनः = पण्डितजनः ; श्लाघ्यः = प्रशंसार्हः ; अल्पधीः अपि = मन्दबुद्धियुक्तः, तुच्छमतिः अपि ; निरस्तपादपे = वृक्षशून्ये ; एरण्डः = पञ्चाङ्गुलः ; द्रुमायते = द्रुम इव आचरति, वृक्षशब्दं धत्ते ; एवञ्च भवान् ॥१.७३॥
तात्पर्यम् यस्मिन् प्रदेशे बहुश्रुतः नास्ति, तत्र लघुवेत्तापि विख्यायते । (अत्र उदाहरणम्) यत्र वृक्षाः न विद्यन्ते, तत्र एरण्डोऽपि वृक्षत्वं प्राप्नोति ॥१.७३॥
हिन्द्यर्थः जहाँ कोई योग्य विद्वान् नहीं है, वहाँ अल्प बुद्धि वाले पुरुष की भी प्रशंसा होती है। जिस जगह वृक्ष नहीं हैं, वहाँ रेंड भी वृक्ष कहा जाता है ॥१.७३॥
उच्चारणम्
मूलम्: अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥१.७४॥
पदविभागः अयं निजः परः वा इति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥
अन्वयः अयं निजः परः वा इति लघु-चेतसां गणना । उदार-चरितानां तु वसुधा एव कुटुम्बकम् ॥१.७४॥
प्रतिपदार्थः अयं = अयं जनः ; निजः = आत्मीयः, अयं परः = अयं जनः अपरः, शत्रुर्वा ; इति = इत्येवं ; लघुचेतसां = सङ्कुचित-चित्तानां, तुच्छानां ; गणना = विचारो भवति ; उदार-चरितानां = महानुभावानां, महतान्तु ; वसुधैव = सकलं जगदपि ; कुटुम्बकम् = कुटुम्बतुल्यमेव ; सर्वत्रैव तेषामात्मीयभाव इत्यर्थः ॥१.७४॥
तात्पर्यम् (मनुष्यान् दृष्ट्वा) एषः मदीयः, एषः इतरः इति अधमानां चिन्तनं भवति। ये उन्नतचेताः तेषां (दृष्टौ) संसारः सर्वः स्वकुलम् इव वर्तते ॥१.७४॥
हिन्द्यर्थः 'यह मेरा है', 'यह दूसरा है' यह विचार तो छोटे लोगों का ही होता है । बड़े लोगों का तो संसार ही अपना कुटुम्ब है ॥१.७४॥
उच्चारणम्
मूलम्: न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥१.७५॥
पदविभागः न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवः तथा ॥१.७५॥
अन्वयः कश्चित् कस्यचित् मित्रं न (भवति)। कश्चित् कस्यचिद् रिपुः न (भवति) । व्यवहारेण (एव) मित्राणि रिपवः (वा) तथा जायन्ते ॥१.७५॥
प्रतिपदार्थः मित्रं = स्वभावतो मित्रम् ; रिपुः = सहजो शत्रुः ; व्यवहारेण = हित-अहित-आचरणेन, कार्यकारणभावेन च ॥१.७५॥
तात्पर्यम् कोऽपि कस्यापि सहजमेव सुहृद् वा, अरिर्वा न भवति। (परस्परं) यथा समाचरति, (तस्य फलतः) सौहार्दभावो वा अमित्रभावो वा (तन्मध्ये) समुत्पद्यते ॥१.७५॥
हिन्द्यर्थः स्वभाव से तो न कोई किसी का मित्र है और न कोई किसी का शत्रु ही है । शत्रुता और मित्रता तो व्यवहार (कार्य) से ही होती है ॥१.७५॥
उच्चारणम्
मूलम्: आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥
पदविभागः आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥१.७६॥
अन्वयः मित्रम् आपत्सु जानीयात्। शूरं रणे (जानीयात्)। शुचिम् ऋणे (जानीयात्)। भार्यां क्षीणेषु वित्तेषु (जानीयात्)। बान्धवान् च व्यसनेषु (जानीयात्) ॥१.७६॥
प्रतिपदार्थः जानीयात् = (अत्र) परीक्षेत ; शुचिम् = शुद्धव्यवहारम् ; क्षीणेषु = विनष्टेषु ; वित्तेषु = धनेषु ; व्यसनेषु = विपत्तिषु ; 'जानीया'दिति शेषः ॥१.७६॥
तात्पर्यम् (कस्य वास्तवं स्वभावं कस्मिन् स्थितौ ज्ञायेत इति उच्यते क्रमेण) सङ्कटे स्थितौ सुहृदं, युद्धकाले वीरं, ऋणप्रसङ्गे (स्वीकारे अथवा प्रत्यर्पणवेलायां) स्पष्टव्यवहारं, धनहानौ पत्नीं, महद्दुःखवेलायां बन्धुजनान् च ज्ञायेत। ॥१.७६॥
हिन्द्यर्थः आपत्ति में-मित्र को, युद्ध में-वीर को, ऋण में-साफ और निष्कपट को, निर्धनता में-स्त्रीको, दुःख पड़ने पर-भाई बन्धुओं को पहचानना चाहिये ॥१.७६॥
उच्चारणम्
मूलम्: उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१.७७॥
पदविभागः उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राजद्वारे श्मशाने च यः तिष्ठति सः बान्धवः ॥१.७७॥
अन्वयः यः- उत्सवे, व्यसने प्राप्ते, दुर्भिक्षे, शत्रु-सङ्कटे, राजद्वारे, श्मशाने च- तिष्ठति, सः बान्धवः ॥१.७७॥
प्रतिपदार्थः उत्सवे = विवाहादौ आनन्दसमये ; व्यसने = विपत्तौ ; दुर्भिक्षे = अनावृष्टौ, अन्नकष्टे, अकाले ; राष्ट्रविप्लवे = राज्यभङ्गे, राजपरिवर्तनावसरे ; राजद्वारे = बन्धनागारे, धर्माधिकरणे वा ; श्मशाने = पितृवने, प्रियमरणे ; तिष्ठति = साहय्यमाचरति ॥१.७७॥
तात्पर्यम् सन्तोषवेलायां, कष्टसमये, अन्नाभावकाले, राज्यसङ्कटे स्थिते, राज्ञः पुरतः, गृहे बन्धुववियोगे-- यः (पार्श्वे) भवति (धैर्यं संवर्धयन्, हितमाचरति) स एव मित्रं, बान्धवो वा ॥१.७७॥
हिन्द्यर्थः हर्ष में, शोक में, दुर्भिक्ष पड़ने पर, राज्य क्रान्ति के समय, राज-द्वार (कचहरी) में और श्मशान में जो साथ देता है, वही सच्चा मित्र है ॥१.७७॥
उच्चारणम्
मूलम्: सुहृदां हितकामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥१.७८॥
पदविभागः सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य सः नरः शत्रु-नन्दनः ॥१.७८॥
अन्वयः यः हित-कामानां सुहृदां भाषितं न शृणोति, तस्य विपत् सन्निहिता (इति ज्ञातव्यम्)। सः नरः शत्रु-नन्दनः ॥१.७८॥
प्रतिपदार्थः सुहृदां = मित्राणां ; हितकामानां= हितैषिणाम् ; भाषितम् = उपदेशम् ; विपत् = कष्टं ; सन्निहिता समीपवर्ति ; शत्रुनन्दनः = शत्रुभ्यः हर्षप्रदः (विपन्नं तं दृष्ट्वा शत्रवो नन्दन्तीत्यर्थः) ॥१.७८॥
तात्पर्यम् शुभचिन्तकानां मित्राणां उक्तीः यः नाकर्णयति, तस्य जीवने दुःखकरसमयः समीपे अस्तीति ज्ञातव्यम्। सः अरीणां मनःसु सन्तोषं जनयति ॥१.७८॥
हिन्द्यर्थः जो लोग अपने हित चाहने वाले मित्रों का कहना नहीं सुनते हैं, उनके ऊपर विपत्ति अवश्य आती है और वे अपने शत्रुओं के आनन्द के कारण ही होते हैं ॥१.७८॥
उच्चारणम्
मूलम्: अपराधो न मेऽस्तीति नैतद् विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥१.७९॥
पदविभागः अपराधः न मे अस्ति इति न एतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यः भयं गुणवताम् अपि ॥१.७९॥
अन्वयः (मम) मे अपराधः नास्ति इति एतद् विश्वास-कारणम् न (अस्ति)। गुणवताम् अपि नृशंसेभ्यः भयं विद्यते हि ॥१.७९॥
प्रतिपदार्थः अपराधः = दोषः ; विश्वासकारणम् = आश्वासनस्य आस्पदम् ; नृशंसेभ्यः = क्रूरजनेभ्यः ; गुणवताम् = सज्जनानाम् ॥
तात्पर्यम् स्वस्य दोषाचरणं न विद्यते इति मात्रेण विश्वासः न कर्तव्यः। सद्गुणयुक्तानामपि क्रूरजनेभ्यः भयं विद्यते। (हिंसापराः अकारणमेव सर्वेभ्यः अहितमाचरन्ति। कश्चित् सच्छीलोऽपि भवतु, अपकृतेराचरणं विनापि, नृशंसः तं न त्यजति। अतः सावधानेन भाव्यमिति यावत्।) ॥१.७९॥
हिन्द्यर्थः मेरा कोई अपराध नहीं है- यह कोई कारण नहीं है आश्वासन का। गुणवान व्यक्तियों को भी क्रूरजनों से भय होता ही है॥
उच्चारणम्
मूलम्: दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः ॥१.८०॥
पदविभागः दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥
अन्वयः दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गत-आयुषः ॥१.८०॥
प्रतिपदार्थः दीप-निर्वाण-गन्धं = निर्गतः दीपः, तस्य सुगन्धं ; सुहृद्-वाक्यम् = मित्राणां, हितकाङ्क्षिणां वचनानि ; अरुन्धतीम् = ताराम् ; न जिघ्रन्ति = घ्रातुं न शक्नुवन्ति ; न शृण्वन्ति = न आकर्णयन्ति ; न पश्यन्ति = न वीक्षन्ते ; गत-आयुषः = येषां आयुः समाप्तम् ॥१.८० ॥
तात्पर्यम् येषां जीवनकालः समाप्तप्रायः, ते विगतस्य दीपस्य गन्धं न जिघ्रन्ति, हितैषिणां वचः न श्रुण्वन्ति, अरुन्धतीतारां न ईक्षन्ते ॥१.८०॥
हिन्द्यर्थः जिनका आयु क्षीण होगया, वे दीपक के बुझने वाले गन्ध को नहीं सूंघते। हितैषी के बातों को नहीं सुनते। और अरुन्धती नक्षत्र को नहीं देखते ॥१.८०॥
उच्चारणम्
मूलम्: परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥१.८१॥
पदविभागः परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥१.८१॥
अन्वयः परोक्षे कार्य-हन्तारं, प्रत्यक्षे प्रियवादिनम्- तादृशं विषकुम्भं पयोमुखं मित्रं वर्जयेत् ॥१.८१॥
प्रतिपदार्थः परोक्षे = अन्यत्र स्थिते सति ; कार्य-हन्तारं = कार्यनाशकं ; प्रत्यक्षे = उपस्थितौ ; प्रियवादिनम् = प्रियं वक्ति यः तं ; तादृशं = तद्वन्मित्रं ; विषकुम्भं पयोमुखं = यस्यान्ते विषमस्ति, बहिस्तु पयः दर्श्यते तादृग् घटः, तं ; मित्रं = सुहृदं ; वर्जयेत् = त्यजेत् ॥१.८१॥
तात्पर्यम् यः अनुपस्थितौ सति कार्यविघातं करोति, पुरतः स्थिते सति प्रीतिकराणि वचांसि वदति, तं मित्रं त्यजेत्। सः तत्कुम्भ इव भवति, यत्र अन्तः गरलमस्ति, उपरि दुग्धं दृश्यते ॥१.८१॥
हिन्द्यर्थः जो पीठ पीछे काम को बिगाड़ता है, और सामने मीठी बातें करता है, ऐसे अन्दर विषभरे, पर बाहर दूध दिखाने वाले घड़े के समान मित्र का त्याग करना चाहिए ॥१.८१॥
उच्चारणम्
मूलम्: संलापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥१.८२॥
पदविभागः संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥
अन्वयः संलापितानां मधुरैः वचोभिः मिथ्या-उपचारैः च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यम् अस्ति ॥१.८२॥
प्रतिपदार्थः संलापितानां= विहितालापानाम् (विश्वस्तानामिति यावत्), यैः सह परिचयो जातः तेषां ; किञ्च, मिथ्या = कपटपूर्णैः ; उपचारैः- सेवा-सत्कारादिभिः ; वशीकृतानां = वशे स्थापितानां वा ; आशावताम् = आशा-पाशेन बद्धानां च ; च = किञ्च ; श्रद्धावतां = श्रद्दधतां वा, ये श्रद्धालवः तेषां वा ; अर्थिनां= याचकानां, प्रणयिनां च ; किं वञ्चयितव्यम् = कि वञ्चनीयम्? (अस्ति? इति अवशिष्यते) ; विश्वस्तवञ्चने किं कौशलम् इत्यर्थः ॥१.८२॥
तात्पर्यम् ये परिचिताः, ये च सुवचनैः कपट-सेवाभिः आकृष्टाः, ये लोभपूरिताः, ये श्रद्धावन्तः, ये च भिक्षुकाः-- तान् वञ्चयितुं कः न समर्थः? (यः कोऽपि तत् विनायासं साध्नोतीति, एतादृशाः स्वयमेव वञ्चकानां वशे आपतन्तीति वा भावः) ॥१.८२॥
हिन्द्यर्थः मीटी-मीठी बातों से तथा कपटमय सत्कारों से वश में किए गए तथा आशा रखनेवाले श्रद्धालु लोगों व याचकों को ठगना कौन बड़ी बात है? ॥१.८२॥
उच्चारणम्
मूलम्: उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥
पदविभागः उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनम् असत्यसन्धं भगवति वसुधे कथं वहसि ॥१.८३॥
अन्वयः भगवति वसुधे, यः उपकारिणि विश्रब्धे शुद्ध-मतौ पापं समाचरति, तम् असत्यसन्धं जनं कथं वहसि ॥१.८३॥
प्रतिपदार्थः वसुधे = हे पृथ्वि! ; उपकारिणि = उपकारपरे ; विश्रब्धे = विश्वासमुपगते ; अत एव - शुद्ध-मतौ = सरलाशये, अशङ्किते ; पापं = (अत्र) विश्वासघातेन अनिष्टम् ; असत्यसन्धम् = असत्यप्रतिज्ञं, मिथ्याभाषिणम् ; कथं वहसि = त्वं कथं धारयसि? ॥१.८३॥
तात्पर्यम् यः (अस्मत् प्रति) उपकृतिमाचरति, अस्मासु विश्वसिति, शङ्कां न करोति- तादृशं प्रति यदि कोऽपि कपटम् आचरति, तर्हि हे भूमातः, त्वं तं (विश्वासघातकं) कथं (स्वस्यां) जीवयसि? (त्वया सः न धार्यः इति भावः)। ॥१.८३॥
हिन्द्यर्थः जो प्राणी-उपकारी, विश्वासी, एवं निष्कपट प्राणी के साथ भी विश्वासघात करता है, उस कपटी झूटे नीच पुरुष को तुम कैसे धारण करती हो? ॥१.८३॥
उच्चारणम्
मूलम्: दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
पदविभागः दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
अन्वयः दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
प्रतिपदार्थः सख्यं = स्नेहं, मैत्रीं ; अङ्गारः = कोकिलः (कोयला) ; उष्णः = प्रदीप्तः सन् ; दहति = अग्नियुक्तं करोति ; शीतः = अनुष्णः कृष्णायते - कृष्णं करोति = मलिनीकुरुते। करं = हस्तम् ॥१.८४॥
तात्पर्यम् दुष्टेन साकं मित्रता वा शत्रुता वा न कार्या। (सः अङ्गारवत् भवति) अङ्गारः यदि तप्तः भवति तर्हि पाणिं तापयति। यदि अनुष्णः भवति तदा हस्तं कालवर्णेन मलिनं करोति॥१.८४॥
हिन्द्यर्थः दुर्जन के साथ मित्रता और प्रीति दोनों ही नहीं करनी चाहिये। क्यों कि -अङ्गार गरम (जलता) हो तो हाथ जलता है, और वही यदि शीतल हो तो हाथ को ही काला कर देता है ॥१.८४॥
उच्चारणम्
मूलम्: प्राक् पादयोः पतति खादति पृष्ठमांसं कर्णे कलं किमपि रौति शनैर्विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥
पदविभागः प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे कलं किम् अपि रौति शनैः विचित्रम् । छिद्रं निरूप्य सहसा प्रविशति अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥
अन्वयः प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे कलं किम् अपि रौति शनैः विचित्रम् । छिद्रं निरूप्य सहसा प्रविशति अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥
प्रतिपदार्थः प्राक् = पूर्वम्। पादयोः पतति = नीचैः गच्छति, (खलपक्षे-) चरणयोः प्रणमति च । पृष्ठमांसं खादति = पृष्ठे दशति, (खलपक्षे-) पृष्ठतो निन्दां करोति च ; कर्णे = श्रवणाङ्गे ; कलं = सुमधुरम् ; विचित्रं = नानाप्रकारम् ; किमपि = अनिर्वचनीयम् ; रौति = कूजति, कथयति च ; छिद्रं = विवरम्, अवसरं च ; निरूप्य = दृष्ट्वा ; अशङ्कः = निर्भयः सन् ; सहसा = सपदि, झटिति, अकस्मात् ; सर्वं = आसमन्तात्, अशेषं ; खलस्य = दुष्टस्य ; मशकः = दंशः ; चरितं = आचरणं ; ॥१.८५॥
तात्पर्यम् मशकः पूर्वं चरणयोः दशति। ततः मांसं खादन् इव पृष्ठभागं दशति। (केवलं दंशित्वा न विश्राम्यति) कर्णयोः आगत्य किमपि मधुरं गायन्निव ध्वनिं करोति । ततः तत्र रन्ध्रमस्तीति दृष्ट्वा अन्तः निर्भयं प्रविशति। (खलोऽपि तथैवास्ति।) प्रथमं पादयोः नमस्करोति। ततः पृष्ठतः अस्माभिरविज्ञातम् अस्माकमेव निन्दां करोति। ततश्च अवसरं प्राप्य अन्येषां दोषान् अस्माकं पुरतः कथयति, अस्मासु आक्रमणमपि करोति। ॥१.८५॥
हिन्द्यर्थः मच्छर पहले पैर पर गिरता है, फिर पीठ का मांस खाता है, पुनः धीरे-धीरे कान में कुछ गुनगुनाता है, फिर धीरे-धीरे मौका देखकर सहसा निर्भय होकर भीतर प्रवेश कर जाता है। इस प्रकार मच्छर दुर्जनों के सब चरित्रों का अनुकरण करता है । दुष्ट भी- पहले पैर पर गिरता है, फिर परोक्ष में (पीछे से) काम को बिगाड़ता है, फिर कान के पास आकर दूसरों की चुगली करता है, और मौका पाते ही आक्रमण भी करता है ॥१.८५॥
उच्चारणम्
मूलम्: दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥१.८६॥
पदविभागः दुर्जनः प्रियवादी च न एतद् विश्वास-कारणम् । मधु तिष्ठति जिह्व-अग्रे हृदि हालाहलं विषम् ॥१.८६॥
अन्वयः दुर्जनः प्रियवादी च- एतद् विश्वास-कारणं न । जिह्वाग्रे मधु तिष्ठति हृदि हालाहलं विषं (तिष्ठति) ॥१.८६॥
प्रतिपदार्थः दुर्जनः प्रियवादी च- एतद् विश्वास-कारणं न । जिह्वाग्रे मधु तिष्ठति हृदि हालाहलं विषं (तिष्ठति) ॥१.८६॥
तात्पर्यम् यः दुर्मनाः सन् मधुरालापं करोति तथापि तत्र आश्वासः न विधेयः, यतस्तस्य जिह्वायामेव मधुनः माधर्यं भवति। हृदये तु पुनः गरलमिव अतिभयानकभावना भवति। ॥१.८६॥
हिन्द्यर्थः दुर्जन भी कभी सच्चा प्रियवादी (मीठा बोलनेवाला हितैषी) हो सकता है, यह कभी विश्वास नहीं करना चाहिए, क्यों कि दुर्जन की जिह्वा पर हो मधुरता रहती है, परन्तु हृदय में तो उसके हलाहल विष ही भरा हुआ है ॥१.८६॥
उच्चारणम्
मूलम्: त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥१.८७॥
पदविभागः त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः । अत्युत्कटैः पापपुण्यैः इह एव फलम् अश्नुते ॥१.८७॥
अन्वयः अत्युत्कटैः पापपुण्यैः त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः फलम् इह एव अश्नुते ॥१.८७॥
प्रतिपदार्थः अत्युत्कटैः = विषमैः ; पापपुण्यै = सत्कर्मभिः दुष्कर्मभिः च ; वर्षैः = वत्सरावधिककालेन ; मासैः = मासावधिककालेन ; पक्षैः = पक्षावधिककालेन ; दिनैः = दिवसैः ; इह एव = अस्मिन्नेव जन्मनि ; अश्नुते = उपभुङक्ते ॥१.८७॥
तात्पर्यम् अत्युत्कटैः = विषमैः ; पापपुण्यै = सत्कर्मभिः दुष्कर्मभिः च ; वर्षैः = वत्सरावधिककालेन ; मासैः = मासावधिककालेन ; पक्षैः = पक्षावधिककालेन ; दिनैः = दिवसैः ; इह एव = अस्मिन्नेव जन्मनि ; अश्नुते = उपभुङक्ते ॥१.८७॥
हिन्द्यर्थः उत्कट पापों व पुण्यों का फल इसी लोक में- तीन वर्ष में, या तीन महीने में, या तीन पक्ष में, या तीन दिन के भीतर ही मनुष्य को मिल जाता है ॥१.८७ ॥
उच्चारणम्
मूलम्: तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् । सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥१.८९॥
पदविभागः तिरश्चाम् अपि विश्वासः दृष्टः पुण्य-एककर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावः न निवर्तते ॥१.८९॥
अन्वयः पुण्य-एककर्मणां तिरश्चाम् अपि विश्वासः दृष्टः । सतां स्वभावः साधु-शीलत्वात् न निवर्तते हि ॥१.८९॥
प्रतिपदार्थः तिरश्चां = पशुपक्ष्यादीनाम् ; विश्वासः = आश्वासः ; दृष्टः = अनुभूतः ; (पुण्यमेकं कर्म येषा तेषां) पुण्यैककर्मणां = पुण्यात्मनां जनानाम् ; साधुशीलत्वात् = शुभाचारत्वात् ; स्वभावः = प्रकृतिः (व्यवहरणाधारभूतः मूलभूतः गुणः) ; साधुता शीलत्वं तस्मात् ; न निवर्तते = (जन्मान्तरेऽपि) न अपयाति ॥१.८९॥
तात्पर्यम् ये पशुपक्षिणः पुण्यवन्तः भवन्ति, तेषु परस्परं विश्वासः दृश्यते । सज्जनाः प्रकृतेः सदाचारित्वं न त्यजन्ति ॥१.८९॥
हिन्द्यर्थः पुण्यात्मा पशुपक्षियों का भी परस्पर में विश्वास देखा गया है, क्यों कि पुण्यवान् सज्जनों का स्वभाव साधुशील (सदाचारी) होने के कारण किसी भी योनि (जन्म) में नहीं बदलता है ॥१.८९॥
उच्चारणम्
मूलम्: पुण्यात्मा पशुपक्षियों का भी परस्पर में विश्वास देखा गया है, क्यों कि पुण्यवान् सज्जनों का स्वभाव साधुशील (सदाचारी) होने के कारण किसी भी योनि (जन्म) में नहीं बदलता है ॥१.८९॥
पदविभागः साधोः प्रकोपितस्य अपि मनः न आयाति विक्रियाम् । न हि तापयितुं शक्यं सागर-अम्भः तृण-उल्कया ॥१.९०॥
अन्वयः प्रकोपितस्य साधोः अपि मनः विक्रियाम् न आयाति । सागराम्भः तृणोल्कया हि तापयितुं न शक्यम् ॥१.९०॥
प्रतिपदार्थः साधोः = सज्जनस्य ; प्रकोपितस्य = कोपं प्रापितस्यापि ; मनः = मतिः ; विक्रियां = विकारम् ; न आयाति = न प्राप्नोति गच्छति वा ; हि = यतः ; सागराम्भः = समुद्रजलं ; तृणोल्का = तृणमेव उल्का इव, अग्नियुक्तघासः ; तापयितुं = उष्णीकर्तुं ; न शक्यम् = असाध्यम्; ॥१.९०॥
तात्पर्यम् साधोः = सज्जनस्य ; प्रकोपितस्य = कोपं प्रापितस्यापि ; मनः = मतिः ; विक्रियां = विकारम् ; न आयाति = न प्राप्नोति गच्छति वा ; हि = यतः ; सागराम्भः = समुद्रजलं ; तृणोल्का = तृणमेव उल्का इव, अग्नियुक्तघासः ; तापयितुं = उष्णीकर्तुं ; न शक्यम् = असाध्यम्; ॥१.९०॥
हिन्द्यर्थः सज्जन का चित्त क्रोध दिलाये जाने पर भी विकार को प्राप्त नहीं होता है । जैसे समुद्र के जल को घास कूस को अग्नि (लुकाटी) से गरम नहीं किया जा सकता है । ॥१.९०॥
उच्चारणम्
मूलम्: शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥१.९२॥
पदविभागः शत्रुणा न हि सन्दध्यात् सुश्लिष्टेन अपि सन्धिना । सुतप्तम् अपि पानीयं शमयति एव पावकम् ॥१.९२॥
अन्वयः शत्रुणा सुश्लिष्टेन अपि सन्धिना न हि सन्दध्यात् । पानीयं सुतप्तम् अपि पावकं शमयति एव ॥१.९२॥
प्रतिपदार्थः शत्रुणा सुश्लिष्टेन अपि सन्धिना न हि सन्दध्यात् । पानीयं सुतप्तम् अपि पावकं शमयति एव ॥१.९२॥
तात्पर्यम् अत्यन्तं दृढबन्धनशीलेन मैत्रिणा अपि अरिणा सह सुहृद्भावः न युक्तः । (अत्र उदाहरणम्) वारि तप्तम् अपि अग्निं निर्वापयति एव। [अत्र अयं भावः- नीरम् अग्नेः शत्रुः भवति। द्वयोः गुणौ विलोमौ। वह्निना युक्तः सन्नेव अम्बु उष्णीभवति। तेनैव तप्तं सदपि तदुदकम् अनलं ज्वलने न सहकरोति अपिच अपाकरोति।]॥१.९२॥
हिन्द्यर्थः उत्तम से उत्तम स्नेहभाव के द्वारा भी शत्रु से कभी सन्धि (मेल) नहीं करना चाहिये। क्यों कि यदि पानी गरम होगा तो भी वह अग्नि को तो बुझा ही देता है ॥१.९२॥
उच्चारणम्
मूलम्: दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१.९३॥
पदविभागः दुर्जनः परिहर्तव्यः विद्यया अलङ्कृतः अपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥१.९३॥
अन्वयः दुर्जनः विद्यया अलङ्कृतः अपि सन् परिहर्तव्यः । मणिना भूषितः सर्पः असौ किम् न भयङ्करः? ॥१.९३॥
प्रतिपदार्थः दुर्जनः = दुष्टः ; विद्यया = ज्ञानेन ; अलङ्कृतः अपि सन् = भूषितः भूत्वा अपि ; परिहर्तव्यः = त्याज्यः ; मणिना = रत्नेन ; भूषितः = अलङ्कृतः ; सर्पः = नागः ; असौ = सः ; किम् न = (प्रश्नः) ; भयङ्करः = भयमुत्पादयति यः ; ॥१.९३॥
तात्पर्यम् ज्ञानेन आभूषितोऽपि दुष्टात्मा (दूरेणैव) परित्याज्यः। अत्र उदाहरणम्। भुजङ्गः रत्नेन अलङ्कृतोऽपि (सुन्दरः उपगमने योग्यः न भवति) भयमेवोत्पादयति ॥१.९३॥
हिन्द्यर्थः यदि दुर्जन विद्या से विभूषित भी हो तो भी उससे दूर ही रहना चाहिये । क्यों कि मणि से विभूषित होने पर भी क्या सर्प भयङ्कर नहीं होता है? अवश्य ही भयङ्कर होता है ॥१.९३॥
उच्चारणम्
मूलम्: यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥१.९४॥
पदविभागः यद् अशक्यं न तत् शक्यं यत् शक्यं शक्यम् एव तत् । न उदके शकटं याति न च नौः गच्छति स्थले ॥१.९४॥
अन्वयः यद् अशक्यं तत् न शक्यम् । यत् शक्यं तत् शक्यम् एव । उदके शकटं न याति । नौः च स्थले न गच्छति ॥१.९४॥
प्रतिपदार्थः यत् = यत्कार्यम् ; अशक्यम् = यत् कर्तुम् वयं न समर्थाः ; यत् च शक्यं = यत् कर्तुं वयं प्रभवामः ; तत् शक्यमेव = सम्भवत्येव ; स्वयमेव = अनायासेन एव भवति ; उदके = जले ; शकटं = गन्त्री (गाडी) ; स्थले = भूमौ ; नौः = नौका ॥१.९४॥
तात्पर्यम् यत् आचरितुं प्रभवामः, तत् कार्यं सम्पन्नं भवत्येव। यत् आचरितुं न समर्थाः तत् असम्पन्नं भवति । (अस्योदाहर्णम्) वारिणि नौका गन्तुं पारयति, किन्तु स्थलयानं न याति। तथैव भुवि नौः न व्रजति । ॥१.९४॥
हिन्द्यर्थः जो कार्य नहीं होने लायक है, वह नहीं हो सकता है, और जो होने लायक है, वह सर्वदा हो ही सकता है । जैसे गाड़ी जल में नहीं चल सकती है और भूमि पर नाव नहीं चल सकती है । अर्थात्- जो कार्य होने लायक हो वही करना चाहिए, असम्भव कार्य के लिए प्रयत्न करना मूर्खता है ॥१.९४॥
उच्चारणम्
मूलम्: महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥
पदविभागः महता अपि अर्थसारेण यः विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥
अन्वयः यः महता अपि अर्थसारेण शत्रुषु विश्वसिति, विरक्तासु भार्यासु च तस्य जीवनं तदन्तम् ॥१.९५॥
प्रतिपदार्थः महता अपि = विपुलेन अपि ; अर्थसारेण = धनादिबलेन समन्वितोऽपीति शेपः ; यद्वा अर्थसिद्ध्यादिकारणवशेन; यः = यो जनः ; च = पुनः ; विरक्तासु = अननुरक्तासु, परपुरुषरतासु च विश्वसितीति शेपः ; तदन्तं = तद्विश्वासपर्यन्तमेव ; जीवितं = जीवनम् ; केचित्तु- महता अपि अर्थसारेण इत्यस्य गुरुणापि प्रयोजनेन इत्यर्थम् आहुः ॥१.९५॥
तात्पर्यम् यः पुरुषः बृहतः प्रयोजनस्य कारणेनापि अरिषु आश्वासनं करोति, परस्त्रीषु अनुरक्तेः कारणेन आश्वस्तः वा भवति, तस्य जीवनं तावत् पर्यन्तमेव चलति, यावत् सः आश्वासभावः तिष्ठति। विश्वासभावः यदा समाप्तिमेति तदा तस्य जीवनम् अन्तं याति॥१.९५॥
हिन्द्यर्थः जो पुरुष विशेष लाभवश भी शत्रुओंका, या विरक्त स्त्री (पर-पुरुषानुरागवती) का विश्वास करता है, उस पुरुष के जीवन का अन्त ही समझना चाहिये ॥१.९५॥
उच्चारणम्
मूलम्: मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥१.९६॥
पदविभागः मृद्घट-वत् सुखभेद्यः दुःसन्धानः च दुर्जनः भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
अन्वयः दुर्जनः च मृद्घटवत् सुखभेद्यः दुःसन्धानः च भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
प्रतिपदार्थः मृद्धटवत् = मृत्तिकया निर्मतकुम्भः इव ; सुखभेद्यः = सुकरं भेत्तुं शक्यः ; दुःसन्धानः = पुनर्योजितुम् अशक्यः ; कनकघटवत् = सुवर्णादिकुम्भवत् ; दुर्भेद्यः = भेत्तुम् असुकरः ; आशु = अनायासेन ; सन्धेयः = योज्यः ॥१.९६॥
तात्पर्यम् (अयं श्लोकः दुर्जनसज्जनयोः मध्ये भेदं ज्ञापयति) दुर्जनः मृत्तिकाभाण्डः इव अनायासेन भग्नः भवति, नाम क्रोधादिविकारान् प्राप्नोति भवति; पुनः योजितुं कदापि शक्यः न भवति, नाम शान्तः न भवति। किन्तु सज्जनः स्वर्णकलशसदृशः विभक्तुम् अशक्यः, नाम अविकृतः भवति; पुनश्च यदि किञ्चित् भग्नः, तदा विनायासं योजितुं शक्यः, नाम झटिति स्वस्थितिं प्राप्नोति॥१.९६॥
हिन्द्यर्थः दुर्जन प्राणी मिट्टी के घड़े की तरह अनायास ही विकृत हो (फूट-फूट) जाते हैं और उनका पुनः मेल (जोड़ना) कठिनता से होता है । परन्तु सज्जन लोग सुवण के घट की तरह जल्दी बिगड़ते (टूटते) नहीं है, और यदि बिगड़ते भी है, तो शीघ्र ही पुनः ठीक किए (जोड़े) जा सकते हैं ॥१.९६॥
उच्चारणम्
मूलम्: द्रवत्वात् सर्वलोहानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
पदविभागः द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
अन्वयः सर्व-लोहानां द्रवत्वात्, मृग-पक्षिणां निमित्ताद्, मूर्खाणां भयात् लोभात् च, सतां सङ्गतं दर्शनात् (भवति)॥१.९७॥
प्रतिपदार्थः सर्वलौहानां = सकलधातूनां ; द्रवत्वात् = द्रवभावेन ; मृगपक्षिणां = पशूनां खगानां च ; निमित्तात् = भोजनादिदानात्, कार्यकारण-भावाच्च ; मूर्खाणां = मूढानां ; भयात् = भीतेः ; लोभात् = लौल्यात् ; सतां = सज्जनानां ; दर्शनाद् = प्रेक्षणमात्राद् एव ; सङ्गतं = मैत्री ॥१.९७॥
तात्पर्यम् समस्तधातुपदार्थानां विगलनमार्गेण संयुक्तता भवति। पशूनां पक्षिणां च मैत्री केनचिद् हेतुना कल्प्यते। बुद्धिहीनानां साङ्गत्यं भीतेः लोलुपतायाः च कारणात् घटते। सज्जनानां मित्रत्वं केवलं दर्शनमात्रेण जागर्ति॥१.९७॥
हिन्द्यर्थः सब धातुओंका परस्पर मेल गलाने से ही होता है, पशुपक्षियों का मेल किसी निमित्त (कारण) से ही होता है, मूर्खों का मेल भय और लोभ से ही होता है, परन्तु सज्जनों का मेल (मैत्री) तो केवल दर्शनमात्र से ही हो जाता है ॥१.९७॥
उच्चारणम्
मूलम्: नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥१.९८॥
पदविभागः नारिकेल-समाकाराः दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिका-आकाराः बहिः एव मनोहराः ॥१.९८॥
अन्वयः सुहृज्जनाः नारिकेलसमाकाराः दृश्यन्ते हि । अन्ये बदरिकाकाराः बहिः एव मनोहराः ॥१.९८॥
प्रतिपदार्थः नारिकेलसमाकाराः = नारिकेलफलवद्वहिः कठिनाः, अन्तः मृदवः च; दृश्यन्ते = भान्ति ; सुहृज्जनाः = सज्जनाः, सन्तः; अन्ये = सज्जनेतराः, खलाः; बदरिकाकाराः = बदरीफलमिव बाह्ये कोमलाः अभ्यन्तरे कठिनाः च, दुःखदाः; ॥१.९८॥
तात्पर्यम् नारिकेलफलसदृशाः सुहृदयाः जनाः बाह्यदर्शनाय कठिनाः भवन्ति, परन्तु यथा नारिकेलस्यान्तः जलं वर्तते, तथैव ऐते अन्तः मृदवः भवन्ति। दुष्टजनाः पुनः बदरीफलसन्निभाः भवन्ति- बहिः दर्शनाय सरलाः मृदवश्च। किन्तु अन्तः सर्वं कठोरबीजमेव भवति। ॥१.९८॥
हिन्द्यर्थः सज्जन लोग नारियल के फल के समान ऊपर से ही रूखे व कड़े देख पड़ते हैं, परन्तु भीतर उनके मधुरता ही होती है । अर्थात् बाहर से तो वे कठोर मालूम पड़ते हैं, परन्तु भीतर से बड़े ही दयालु होते हैं । पर दूसरे लोग (अर्थात् दुर्जन लोग) बैर के फल की तरह बाहर से ही सुन्दर देख पड़ते हैं, परन्तु भीतर उनके कठोरता (कड़ी गुठली) ही रहती है ॥१.९८॥
उच्चारणम्
मूलम्: स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥१.९९॥
पदविभागः स्नेहच्छेदे अपि साधूनां गुणा न आयान्ति विक्रियाम् । भङ्गे अपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥१.९९॥
अन्वयः साधूनां गुणाः स्नेहच्छेदे अपि विक्रियाम् न आयान्ति । मृणालानां भङ्गे अपि तन्तवः अनुबध्नन्ति हि॥१.९९॥
प्रतिपदार्थः स्नेहच्छेदे = प्रणयभङ्गे ; साधूनां = सज्जनानां ; गुणाः = सरलत्वादयः सद्गुणाः ; विक्रियां = विकारम् ; भङ्गेऽपि = छेदेऽपि ; मृणालानाम् = कमलदण्डानाम् ; तन्तवः = बिससूत्राणि, बिसतन्तवः ; अनुबध्नन्ति = सम्बन्धं न परिहरन्ति ॥१.९९॥
तात्पर्यम् सत्पुरुषानां मध्ये यदा स्नेहच्छेदः भवति, तदापि तेषां सल्लक्षणानि दूषितानि न भवन्ति। (अत्रोदाहरणम्) कमलनालानि यदा विच्छिद्यन्ते तदापि तेषाम् अन्तःस्थितानि तनूनि सूत्राणि परस्परं बद्धानि एव भवन्ति, बन्धं न त्यजन्ति॥१.९९॥
हिन्द्यर्थः और सज्जनों के साथ प्रीति टूट जाने पर भी उनका चित्त विकृत नहीं होता है, किन्तु उनका साधारण सम्बन्ध बना ही रहता है। जैसे मृणालों (कमल की डण्डी) के बीच में से टूट जाने पर भी उनके तन्तु परस्पर में जुड़े ही रहते हैं ॥१.९९॥
उच्चारणम्
मूलम्: शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥१.१००॥
पदविभागः शुचित्वं त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं च अनुरक्तिः च सत्यता च सुहृद्गुणाः ॥१.१००॥
अन्वयः शुचित्वं, त्यागिता, शौर्यं, सुख-दुःखयोः सामान्यं, दाक्षिण्यम्, अनुरक्तिः, सत्यता च – (एते) सुहृद्गुणाः (सन्ति) ॥१.१००॥
प्रतिपदार्थः शुचित्वं= स्वच्छता ; त्यागिता = औदार्यम् ; शौर्यं = वीरता ; सुखदुःखयोः = सुखे, दुःखे च ; सामान्यं = समता ; दाक्षिण्यं = कुशलता ; अनुरक्तिः = अनुरागभावः ; सत्यता = सत्यवाक्॥१.१००॥
तात्पर्यम् स्वच्छत्वं, उदारत्वं, शूरत्वं, सन्तोषपीडयोः समत्वं, सामर्थ्यम्, अनुरागः, सत्यत्वं – एतानि सर्वाणि मित्रस्य लक्षणानि॥१.१००॥
हिन्द्यर्थः चित्त शुद्धि, त्याग, वीरता, सुख और दुःख में एक सा भाव, उदारता, प्रेम, सत्य- ये सब मित्र के गुण हैं ॥१.१००॥
उच्चारणम्
मूलम्: घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥१.१०१॥
पदविभागः घर्म-आर्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अपि अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायः यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्र-उपमम् ॥१.१०१॥
अन्वयः घर्म-आर्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अपि अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायः यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्र-उपमम् ॥१.१०१॥
प्रतिपदार्थः घर्मार्तं = निदाघसन्तप्तं पुमांसं; सुशीतलजैः = शीतनीरैः ; स्नानं = शरीरस्य जलेन शुद्धीकरणं ; मुक्तावली = मुक्तानां माला ; प्रत्यङ्गं = प्रत्यवयवम् ; अर्पितं = दत्तं, लेपितं ; श्रीखण्डविलेपनम् = चन्दनस्य लेपनं ; सुखयति = प्रसन्नकरं भवति ; चेतसः = मनसः ; प्रीत्यै = आनन्दाय ; सद्युक्या = शोभनयुक्त्या, कल्पोक्तविधिविधानेन च ; परिष्कृतं = शोभितम् ; आकृष्टिमन्त्रोपमम् = आकर्षणमन्त्रतुल्यम् ; सज्जनभाषितं =सत्पुरुषाणां वचांसि ; प्रभवति = शक्तो भवति ॥१.१०१॥
तात्पर्यम् निदाघतप्तं पुरुषं हिमजलैः स्नानं तथा न हर्षयति। मुक्तानां हारं धृत्वा वा, श्रीचन्दनं सर्वेषु अवयवेषु विलेप्य वा सः तादृशं सुखं नानुभवति। सुष्ठु युक्तिभिः अलङ्कृतं, आकर्षणमन्त्रसदृशं सत्पुरुषवचनं श्रुत्वा मनसः अतिशयेन सन्तोषः भवति॥१.१०१॥
हिन्द्यर्थः आकर्षण मन्त्र की तरह मन को खींचने वाली, अच्छी २ युक्तियों से युक्त सज्जनों की वाणी चित्त को जितना आनन्द देती है, उतना सुख घाम से सन्तप्त मनुष्यों को- शीतल जल का स्नान, मोती की माला और शरीर में लगा शुभा चन्दन भी नहीं देता है ॥१.१०१॥
उच्चारणम्
मूलम्: रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥१.१०२॥
पदविभागः रहस्यभेदः याच्ञा च नैष्ठुर्यं चलचित्तता । क्रोधः निःसत्यता द्यूतम् एतत् मित्रस्य दूषणम् ॥१.१०२॥
अन्वयः रहस्यभेदः, याच्ञा च, नैष्ठुर्यं, चलचित्तता, क्रोधः, निःसत्यता, द्यूतम् - एतत् मित्रस्य दूषणम् ॥१.१०२॥
प्रतिपदार्थः रहस्यभेदः = मित्रस्य अन्तरङ्गविषयाणां बहिः वचनम् ; याच्ञा = द्रव्यादिप्रार्थना ; नैष्टुर्यं = कोठरव्यवहारः; चलचित्तता = अस्थिरत्वम् ; निःसत्यता = मिथ्याभाषित्वम् ; द्यूतम् = अक्षक्रीडा ; मित्रस्य = सुहृदः ; दूषणम् = दोषः, ॥१.१०२॥
तात्पर्यम् मित्रीभङ्गकारिणः, मित्रे अवगुणाः केचन अत्र उच्यन्ते- १. मित्रस्य रहस्यानाम् उद्घाटनम्, २. वस्तुभ्यः, धनार्थं वा याचनम्, ३. परुषवचांसि, व्यवहारश्च ४. मनसः चाञ्चल्यम्, ५. असत्यभाषणम्, ६. द्यूतम् ॥१.१०२॥
हिन्द्यर्थः गुप्त बातों को प्रगट कर देना, माँगना, निष्ठुरता, चित्त की अस्थिरता, क्रोध, झूठ बोलना, जुआ खेलना ये सब मित्र के दोष हैं ॥१.१०२॥
उच्चारणम्
मूलम्: पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥१.१०३॥
पदविभागः पटुत्वं सत्य-वादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
अन्वयः पटुत्वं सत्य-वादित्वं (च) कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
प्रतिपदार्थः पटुत्वं = कुशलत्वम् ; सत्यवादित्वम् = सदा सत्यं वचनं ; कथायोगैन = प्रसङ्गेन ; बुध्यते = सर्वैर्ज्ञातुं शक्यते, मया च ज्ञायते ; अस्तब्धत्वम् = अजडत्वम्, अभीतत्वम् ; अचापल्यं = स्थिरत्वम् ; प्रत्यक्षेण = सावाद्दर्शनेन ; साक्षात् = त्वन्मुखदर्शनादेव च मया ज्ञायते इति भावः ॥१.१०३॥
तात्पर्यम् मनुष्यः समर्थः, सत्यवादी वा अस्ति, न वेति प्रसङ्गात् ज्ञायते। (तदर्थं सन्दर्भादिकस्य आवश्यकता वर्तते।) किन्तु सः जडः नास्ति, चपलः नास्तीति प्रत्यक्षमेव ज्ञायते॥१.१०३॥
हिन्द्यर्थः मनुष्य की चतुराई और सचाई तो बात चीत करने से मालूम होती है, पर मनुष्य की नमता और गम्भीरता ता उसे देखने से ही मालूम हो जाती है ॥१.१०३॥
उच्चारणम्
मूलम्: अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥१.१०४॥
पदविभागः अन्यथा एव हि सौहार्दं भवेत् स्वच्छ-अन्तरात्मनः । प्रवर्तते अन्यथा वाणी शाठ्य-उपहत-चेतसः ॥१.१०४॥
अन्वयः स्वच्छ-अन्तरात्मनः सौहार्दम् अन्यथा एव हि भवेत् । शाठ्योपहतचेतसः वाणी अन्यथा प्रवर्तते ॥१.१०४॥
प्रतिपदार्थः स्वच्छान्तरात्मनः = शुद्धचेतसः ; अन्यथैव = अन्यप्रकारेण एव ; सौहार्दं = मैत्री ; शाठ्योपहतचेतसः = क्रौर्य-निष्ठुर-चेतसः, शठस्य ; अन्यथैव = अन्यादृशी एव कपटपूर्णा ; वाणी = वाक् ; प्रवर्त्तते = प्रसरति ॥१.१०४॥
तात्पर्यम् स्वच्छमनसः सौमनस्यं एकविधं (समं, सद्भावपूर्णं च) भवति। दुष्टमनस्कस्य भाषा अन्यथा (कठिना, परुषा च) भवति ॥१.१०४॥
हिन्द्यर्थः शुद्धहृदय वाले सज्जन की सहृदयता तो कुछ और ही प्रकार की होती है और कुटिल हृदय धूर्त की बोलचाल कुछ और ही तरह की दोती है। अर्थात् सज्जन और दुर्जन का भेद तो बातों से ही मालूम हो जाता है ॥१.१०४॥
उच्चारणम्
मूलम्: मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥१.१०५॥
पदविभागः मनसि अन्यद् वचसि अन्यत् कर्मणि अन्यद् दुरात्मनाम् । मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ॥१.१०५॥
अन्वयः दुरात्मनां मनसि अन्यद्, वचसि अन्यत्, कर्मणि अन्यद् (भवति) । महात्मनां मनसि एकं वचसि एकं कर्मणि एकम् (भवति)॥१.१०५॥
प्रतिपदार्थः मनसि = चित्ते ; वचसि = वचने ; कर्मणि = कार्याचरणे ; अन्यत् = यद् दृश्यते तस्मात् भिन्नम् ; दुरात्मनां = पापिनाम् ; महात्मनाम् = सत्पुरुषानाम् ॥१.१०५॥
तात्पर्यम् दुष्टानां मनसि अन्यद् भवति। ते हि अन्यया भाषन्ते । क्रियायाम् अन्यदेव आचरन्ति । महात्मनां तु यदेव मनसि, तदेव तेषां वचसि, तेषां क्रियायां च इत्यर्थः ॥१.१०५॥
हिन्द्यर्थः और दुर्जन लोग सोचते कुछ और है, कहते कुछ और है, करते कुछ और है । परन्तु सज्जन लोगों के मन में जो है वहीं वे कहते हैं और वही वे करते भी हैं ॥१.१०५॥
उच्चारणम्
मूलम्: स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
पदविभागः स्थानभ्रष्टाः न शोभन्ते दन्ताः केशाः नखाः नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
अन्वयः दन्ताः केशाः नखाः नराः (च) स्थानभ्रष्टाः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
प्रतिपदार्थः दन्ताः = दशनाः ; केशाः = मूर्धजाः ; नखाः = अङ्गुल्यन्ताः ; नराः = मनुष्याः ; स्थानभ्रष्टाः = स्वस्थानात् चलिताः ; न शोभन्ते = शोभां, श्रियं च न लभन्ते ; इति विज्ञाय = एवं ज्ञात्वा ; मतिमान् = बुद्धिमान् ; स्वस्थानं = वर्तमानां स्वकीयां स्थितिं ; न परित्यजेत् = न मुञ्चेत् ॥१.१०६॥
तात्पर्यम् रदाः, शिरोजाः, नखाः, मानवाः च स्वस्मात् स्थिरस्थानात् विचलिताः न शोभन्ते इति ज्ञात्वा विवेकी कदाचित् स्वस्थानं न मुञ्चेत् ॥१.१०६॥
हिन्द्यर्थः दाँत, केश, नख, मनुष्य, ये चारों स्थानभ्रष्ट होने पर शोभते नहीं हैं । ऐसा विचारकर बुद्धिमान् मनुष्य को अपना स्थान कभी नहीं छोडना चाहिये॥१.१०६॥
उच्चारणम्
मूलम्: स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
पदविभागः स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्र एव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
अन्वयः सिंहाः सत्पुरुषा गजाः (च) स्थानम् उत्सृज्य गच्छन्ति । काकाः कापुरुषा मृगाः (च) तत्र एव निधनं यान्ति ॥१.१०७॥
प्रतिपदार्थः सिंहाः = वनराजाः ; सत्पुरुषाः = सज्जनाः ; गजाः = करिणः ; स्थानं = निवासयोग्यं स्वस्थानम् ; उत्सृज्य = विहाय ; काकाः = वायसाः ; कापुरुषाः = भीरवः ; मृगाः = हरिणाः ; तत्रैव = निवास-अयोग्ये अपि स्थाने ; निधनं यान्ति = मृत्युं प्राप्नुवन्ति ॥१.१०७ ॥
तात्पर्यम् (यदा निवासाय अयोग्यं भवति, तदा) प्रकृतं निवासस्थानमपि केचन तत् त्यक्त्वा गच्छन्ति- यथा दन्तिनः, केसरिणः, सन्तः च। (यदा स्वस्य वासस्थानं वस्तुं न योग्यं, तदापि केचन तत् परित्यज्य न निर्गच्छन्ति, तत्कारणात्) स्वस्थाने मरणमपि प्राप्नुवन्ति- यथा काकाः, धर्यहीनाः, कुरङ्गाः च ॥१.१०७॥
हिन्द्यर्थः क्यों कि क्यों कि सिंह, सत्पुरुष और हाथी ये तीनों तो अपना अपना स्थान छोडकर जहाँ चाहते हैं, वहीं (अच्छे स्थान में) चले जाते हैं । परन्तु कौवा, कायर मनुष्य और मृग, ये तीनों तो अपने स्थान पर ही पड़े-पड़े मर जाते हैं ॥१.१०७॥
उच्चारणम्
मूलम्: को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥१.१०८॥
पदविभागः कः वीरस्य मनस्विनः स्वविषयः कः वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रताप-अर्जितम् । यद् दंष्ट्रा-नख-लाङ्गुल-प्रहरणः सिंहः वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैः तृष्णां छिनत्ति आत्मनः ॥१.१०८॥
अन्वयः मनस्विनः वीरस्य कः स्वविषयः, कः वा विदेशः स्मृतः? (सः) यं देशं श्रयते तम् एव बाहुप्रतापार्जितं कुरुते । यद् दंष्ट्रानख-लाङ्गुलप्रहरणः सिंहः वनं गाहते, तस्मिन् एव (वने) हतद्विपेन्द्ररुधिरैः आत्मनः तृष्णां छिनत्ति ॥१.१०८॥
प्रतिपदार्थः वीरस्य = शूरस्य ; मनस्विनः = धीरस्य, गम्भीराशयस्य ; स्वविषयः = (अत्र) स्वदेशः ; विदेशः = स्वदेशात् भिन्नः प्रदेशः ; स्मृतः = भावितः ; श्रयते = आश्रयते ; बाहुप्रतापार्जितम् ~ बाह्वोः-प्रतापेन अर्जितम् = भुजयोः बलेन स्वाधीनं कृतम् ; दंष्ट्रानखलाङ्गुलप्रहरणः ~ दंष्ट्राः नखाः पुच्छं च आयुधाः यस्य ; सिंहः = केसरी ; वनं = अरण्यं ; गाहते = प्रविशति ; तस्मिन्नेव = (अत्र) वने ; हतद्विपेन्द्ररुधिरैः ~ हतः द्विपेन्द्रः, तस्य रुधिराणि, तैः = व्यापादितः गजेन्द्रः तस्य रक्तैः, आत्मनः = स्वीयं ; तृष्णां = पिपासाम् अथवा बुभुक्षाम् ; छिनत्ति = अपनयति ॥१.१०८॥
तात्पर्यम् धैर्यशालिनः विक्रान्तस्य चिन्तने स्वदेशः कः, विदेशः कः? (कोपि भेदो न। सः सर्वत्र एकथैव तिष्ठति) यत्रापि (गच्छेत्) निवसेत्, तत्र स्वभुदोर्बलेन स्वायत्तं करोति। (अत्र उदाहरणम्) यथा सिंहः दशनरूपैः नखरूपैः, पुच्छरूपेण च आयुधैः युक्तः इव कानने निवसति, तत्रैव गजान् हत्वा तेषां शोणितेन स्वस्य बुभुक्षादिकं निवारयति। (अस्यार्थः- सिंहः स्वस्य वनं वा अपरं वनं वेति न चिन्तयति। यत्र निवासाय याति तत्रैव स्वस्याहारम् अन्विष्यति, तेन जीवति च।) ॥१.१०८॥
हिन्द्यर्थः और भी-वीर एवं मनस्वी पुरुष के लिये कौन अपना देश है कौन-कौन विदेश है? वह तो जिस देश में जाता है, उसी को अपने बाहुबल से अपना कर लेता है । जैसे (दाँत, नख, और पूंछ ही आयुध जिसके हैं, ऐसा वीर) सिंह जिस वन में जाता है, उसी वन में हाथियों को मारकर, उनके रुधिर से हो अपनी प्यास बुझाता है॥१.१०८॥
उच्चारणम्
मूलम्: चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥१.१०९॥
पदविभागः मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– चलति एकेन पादेन तिष्ठति एकेन बुद्धिमान् । न असमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१.१०९॥
अन्वयः मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– बुद्धिमान् एकेन पादेन चलति एकेन तिष्ठति । परं स्थानं असमीक्ष्य पूर्वम् आयतनं न त्यजेत् ॥१.१०९॥
प्रतिपदार्थः बुद्धिमान् = विवेकी ; एकेन पादेन चलति = किञ्चित् अग्रे सरति ; एकेन तिष्ठति = किञ्चित् तत्रैव स्थित्वा ईक्षते ; परं = वर्तमानात् अन्यत् ; स्थानं = प्रदेशं ; असमीक्ष्य = सम्यक् अदृष्ट्वा ; पूर्वम् = वर्तमाने स्थितं ; आयतनं = स्थानम् न त्यजेत् = न मुञ्चेत् ॥१.१०९॥
तात्पर्यम् मतिमान् मनुष्यः सः पदमेकमग्रे न्यस्यति, पुनः अन्यत् पदं न सारयति, तत्रैव तिष्ठति। अस्य स्थानस्य त्यागात् पूर्वं यत्र गन्तव्यं तत्र समीचीनत्वं परीक्षितव्यम्। अपरीक्ष्य अधुना यदस्ति तत् विमुच्य न यातव्यम्। (विवेकशीलः अविलोक्य अविचार्य वा कार्यं न करोतीति भावः) ॥१.१०९॥
हिन्द्यर्थः बुद्धिमान् मनुष्य वही है, जो एक पैर से चलता है, अर्थात् एक पैर वह आगे रखता है, और एक पैर पूर्व स्थान पर ही रखे (जमाए) रहता है । इसलिए दूसरे स्थान को पहिले से निर्धारित किये बिना ही पहले स्थान को नहीं छोड़ना चाहिये॥१.१०९॥
उच्चारणम्
मूलम्: परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
पदविभागः परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
अन्वयः परोपदेशे पाण्डित्यं सर्वेषां नृणां सुकरम् । धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः ॥१.११०॥
प्रतिपदार्थः परोपदेशे = परशिक्षणे ; पाण्डित्यं = नैपुण्यं, विद्वत्त्वम् ; सर्वेषां नृणां = समेषां मनुष्याणां ; सुकरम् = सुलभम् ; धर्मे = कर्तव्यपालने ; स्वीयं = स्वकीयम् ; अनुष्ठानं = आचरणम् ; महात्मनः = महापुरुषस्य ॥१.११०॥
तात्पर्यम् अन्येषाम् उपबोधने सामान्याः सर्वे कुशलिनः । किन्तु स्वयमेव आचरणीयस्य अनुपालनं केचन उत्तमाः एव कर्तुं पारयन्ति॥१.११०॥
हिन्द्यर्थः क्यों कि- धर्म के विषय में दूसरे को उपदेश देने के लिये पण्डिताई दिख-लाना तो सभी के लिए सहज है, परन्तु धर्म का स्वयं आचरण तो बिरले ही महात्मा लोग किया करते हैं ॥१.११०॥
उच्चारणम्
मूलम्: यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
पदविभागः यस्मिन् देशे न सम्मानः न वृत्तिः न च बान्धवः । न च विद्या-आगमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
अन्वयः यस्मिन् देशे सम्मानः न, वृत्तिः न, बान्धवः च न, विद्या-आगमः च न कश्चित् (वर्तेत), तं देशं परिवर्जयेत् ॥१.१११॥
प्रतिपदार्थः सम्मानः = सत्कारः ; वृत्तिः = जीविका ; बान्धवाः = ज्ञातिनः, परिचिताः, मित्राणि वा ; विद्यागमः = विद्यालाभः ; परिवर्जयेत् = विमुञ्चेत् ॥१.१११॥
तात्पर्यम् यत्र स्वस्मै आदरभावः न वर्तते, वित्ताय कार्यनियोगः नास्ति, बन्धुजनाः न सन्ति, ज्ञानलाभः न विद्येत तस्मिन् प्रदेशविशेषे कदापि न वस्तव्यम्। त्यक्त्वा गन्तव्यम् ॥१.१११॥
हिन्द्यर्थः जिस देश में सम्मान न हो, कोई जीविका न हो, कोई मित्र न हो, और न किसी प्रकार की विद्या की प्राप्ति ही हो, उस देश को छोड़ देना चाहिये, उसमें कभी नहीं रहना चाहिये ॥१.१११॥
उच्चारणम्
मूलम्: जिस देश में सम्मान न हो, कोई जीविका न हो, कोई मित्र न हो, और न किसी प्रकार की विद्या की प्राप्ति ही हो, उस देश को छोड़ देना चाहिये, उसमें कभी नहीं रहना चाहिये ॥१.१११॥
पदविभागः धनिकः श्रोत्रियः राजा नदी वैद्यः तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
अन्वयः धनिकः, श्रोत्रियः, राजा, नदी, पञ्चमः तु वैद्यः – (एते) पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
प्रतिपदार्थः धनिकः = ऋणादिदाता श्रेष्ठी ; श्रोत्रियः = वेदपारगः ; राजा = परिपालकः ; नदी = नीरस्थानं, जलाशयः वा ; वैद्यः = चिकित्सकः ; पञ्च = एते पञ्च ; वासं = संस्थितिम् ॥१.११२॥
तात्पर्यम् यस्मिन् प्रदेशविशेषे एते उच्यमानाः पञ्च न वर्तन्ते, तस्मिन् देशे केनापि निवासः न कार्यः । ते पञ्च सन्ति- धनवान्, पुरोहितः, पालयिता, नदी सरः वा, रोगहारकश्च ॥१.११२॥
हिन्द्यर्थः यस्मिन् प्रदेशविशेषे एते उच्यमानाः पञ्च न वर्तन्ते, तस्मिन् देशे केनापि निवासः न कार्यः । ते पञ्च सन्ति- धनवान्, पुरोहितः, पालयिता, नदी सरः वा, रोगहारकश्च ॥१.११२॥
उच्चारणम्
मूलम्: लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
पदविभागः लोकयात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
अन्वयः लोकयात्रा, भयं, लज्जा, दाक्षिण्यं, त्याग-शीलता (च इति) पञ्च यत्र न विद्यन्ते तत्र संस्थितिं न कुर्यात् ॥१.११३॥
प्रतिपदार्थः लोकयात्रा = जीवनोपायः ; भयं = राज-लोक-धर्म-भयम् ; लज्जा = लोके पापमाचरामः तेन जनाः निन्देयुः इति भीतिपूर्वका व्रीडा ; दाक्षिण्यं = अनुकूलता ; त्यागशीलता = निःस्वार्थबुद्धिः ; संस्थितिं = वासम् ॥१.११३॥
तात्पर्यम् यस्मिन् प्रदेशे एते पञ्च न वर्तन्ते, तत्र निवासः न कार्यः- जीविकायाः मार्गः, असाध्वाचरणेन भीतिः, लोकतः ह्री, कार्यानुकूलता, स्वार्थराहित्यं च ॥१.११३॥
हिन्द्यर्थः और जिस देश में जीविका का साधन, लोकभय, लोकलज्जा, सरलता, त्याग, (उदारता) ये पाँच बातें न हों, वहाँ कभी नहीं रहना चाहिए ॥१.११३॥
उच्चारणम्
मूलम्: तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१.११४॥
पदविभागः तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१.११४॥
अन्वयः मित्र ! यत्र चतुष्टयं नास्ति तत्र न वस्तव्यम् - ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
प्रतिपदार्थः मित्र = हे सुहृत् ; न वस्तव्यं = निवासः न कार्यः ; चतुष्टयम् = चत्वारः ; ऋणदाता = यः धनं ददाति उपयोगाय, पुनः प्रत्यर्पणाय ; वैद्यः = चिकित्सकः ; श्रोत्रियः = वेदपारगः ब्राह्मणः, सजला नदी = जलपूर्णा नदी ॥१.११४॥
तात्पर्यम् हे सुहृत्, यत्र एते चत्वारः न भवन्ति, तत्र वासः न कार्यः- ऋणं ददाति यः, रोगनिवारकः, वेदज्ञः, जलयुक्ता नदी च ॥१.११४॥
हिन्द्यर्थः हे मित्र- जहाँ ऋणदाता धनी, वैद्य, श्रोत्रिय (वैदिक विद्वान्) और जल से पूर्ण नदी, ये चार चीज़े नहीं हों, वहाँ कभी नहीं रहना चाहिए ॥१.११४॥
उच्चारणम्
मूलम्: बालो वा यदि वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥१.११५॥
पदविभागः बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्र अभ्यागतः गुरुः ॥१.११५॥
अन्वयः गृहम् आगतः यदि बालः वा, वृद्धः वा, युवा वा, तस्य पूजा विधातव्या। अभ्यागतः सर्वत्र गुरुः ॥१.११५॥
प्रतिपदार्थः गृहम् = निवासस्थानम् ; आगतः = आयातः ; यदि = चेत् ; बालः = अल्वयस्कः ; वृद्धः = अधिकायुः ; युवा = युवकः ; पूजा = स्वागतसत्कारपूर्वक-वस्तुप्रदानादिभिः युक्तः समुचितव्यवहारः ; विधातव्या = कर्तव्या ; अभ्यागतः = विशेषेण गृहमागतः ; सर्वत्र = यत्र क्वचिदपि ; गुरुः = पूज्यः, सद्व्यवहारार्हः ॥१.११५॥
तात्पर्यम् गेहमागतः यः कोपि भवतु सः सत्कारार्हः एव। तस्य आदरः एव विहितव्यः। यतो हि सः सर्वेषां गौरवयोग्यो भवति॥१.११५॥
हिन्द्यर्थः बालक, या वृद्ध, या जवान कोई भी हो, वह यदि अपने घर पर आजाये तो उसका भोजन आदि से सत्कार और अतिथिपूजन अवश्य करना चाहिए, क्योंकि- अतिथि सबका पूज्य है ॥१.११५॥
उच्चारणम्
मूलम्: गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥१.११६॥
पदविभागः गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
अन्वयः गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
प्रतिपदार्थः द्विजातीनां = ब्राह्मणादीनां त्रैवर्णिकानाम् ; अग्निः = वैश्वानरः ; गुरुः पूज्यः ; वर्णानां = ब्राह्मणादीनां चतुर्णा वर्णानां ; गुरुः = श्रेष्ठः ; एकः = केवलः, नान्यः ; स्त्रीणां = पत्नीसम्बन्धेन नारीणां ; सर्वस्य = सर्वस्यापि लोकस्य ; अभ्यागतः = आह्वानेन गृहमागतः ; गुरुः = सत्कारार्हः॥१.११६॥
तात्पर्यम् कस्य कस्य कः कः पूज्यः इति कीर्तयति- चतुर्षु वर्षेणु प्रथमत्रयेभ्यः अग्निः आराध्यः। सर्ववर्णास्थेभ्यः ब्राह्मणः सत्क्रियार्हः। स्त्रीणां कृते पतिः एव गुरुः। समस्तलोकाय अतिथिः पूज्यः भवति॥१.११६॥
हिन्द्यर्थः अग्नि- द्विजाति (ब्राह्मण, क्षत्रिय, वैश्य इन तीनों) का गुरु (पूज्य) हैं । वर्णों (ब्राह्मण क्षत्रिय, वैश्य, शूद्र इन चारों को, ब्राह्मण गुरु हैं । स्त्री का पति ही गुरु है और अभ्यागत (अतिथि) सभी का गुरु है ॥१.११६॥
उच्चारणम्
मूलम्: उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.११७॥
पदविभागः उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
अन्वयः उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
प्रतिपदार्थः उत्तमस्य वर्णस्य = ब्राह्मण-क्षत्रियादेः अपि ; नीचोऽपि = शूद्रादिरपि ; गृहम् = स्वनिवासम् ; आगतः = मेलनाय समागतः ; पूजनीयः = सत्कारयोग्यः ; यतायोग्यं = यावच्छक्ति ; सर्वदेवमयः = सकलदेवस्वरूपः ; सः = अतिथिः ॥१.११७॥
तात्पर्यम् उत्तमस्य वर्णस्य = ब्राह्मण-क्षत्रियादेः अपि ; नीचोऽपि = शूद्रादिरपि ; गृहम् = स्वनिवासम् ; आगतः = मेलनाय समागतः ; पूजनीयः = सत्कारयोग्यः ; यतायोग्यं = यावच्छक्ति ; सर्वदेवमयः = सकलदेवस्वरूपः ; सः = अतिथिः ॥१.११७॥
हिन्द्यर्थः और उत्तम वर्ण (ब्राह्मण आदि) के घर पर यदि अपने से नीच (क्षत्रिय वैश्य या शूद्र आदि) भी कोई आवे तो भी उसकी भी यथायोग्य पूजा करनी चाहिए, क्यों कि अतिथि में सब देवताओं का निवास रहता है ॥१.११७ ॥
उच्चारणम्
मूलम्: मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥१.११८॥
पदविभागः मुखं प्रसन्नं विमला च दृष्टिः कथानुरागः मधुरा च वाणी । स्नेहः अधिकः सम्भ्रम-दर्शनं च सदा अनुरक्तस्य जनस्य लक्ष्म ॥१.११८॥
अन्वयः सदा अनुरक्तस्य जनस्य लक्ष्म (इत्थं भवति)- प्रसन्नं मुखं, विमला च दृष्टिः, कथानुरागः, मधुरा च वाणी, अधिकः स्नेहः, सम्भ्रम-दर्शनं च ॥१.११८॥
प्रतिपदार्थः मुखं = वदनं ; प्रसन्नं = सन्तुष्टियुक्तं ; विमला = स्वच्छा, रागशून्या ; दृष्टिः = दर्शनम् ; कथानुरागः = वार्ताश्रवणादरः ; मधुरा वाणी = श्रवणानन्दकरी वाक् ; स्नेहः = सुहृद्भावः ; सम्भ्रमर्दनं = आगमने सत्कारादिषु च त्वरादर्शनम् ; सदा = नित्यं ; अनुरक्तस्य = प्रीतिभावयुक्तस्य ; लक्ष्म = लक्षणम् ॥१.११८॥
तात्पर्यम् यः सदा अनुरागयुक्तः भवति तस्य लक्षणानि उच्यन्ते- तद्वदनम् आनन्दितं, दृष्टिः स्वच्छा च भवति । तस्मिन् सुहृदः वार्तां श्रोतुम् उत्साहः दृश्यते । तस्य वाक् मधुरा । अधिकं सुहृद्भावं च दर्शयति । मित्रे आगते सति सानन्दाश्चर्यं दर्शयति ॥१.११८॥
हिन्द्यर्थः प्रसन्न मुख, विमल नेत्र, बातों में प्रेम, मधुर वाणी, अधिक स्नेह, आने पर संभ्रम से (हडबडाकर, उत्सुकतापूर्वक) देखना- ये सब अनुरक्त मनुष्यों के लक्षण हैं ॥१.११८॥
उच्चारणम्
मूलम्: अदृष्टिदानं कृतपूर्वनाशनम् अमाननं दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृति- र्विरक्तभावस्य जनस्य लक्षणम् ॥१.११९॥
पदविभागः अदृष्टिदानं कृतपूर्व-नाशनम् अमाननं दुश्चरित-अनुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिः विरक्त-भावस्य जनस्य लक्षणम् ॥१.११९॥
अन्वयः विरक्त-भावस्य जनस्य लक्षणम्- अदृष्टिदानं, कृतपूर्व-नाशनम्, अमाननं, दुश्चरित-अनुकीर्तनम्, कथा-प्रसङ्गेन च नाम-विस्मृतिः (इति)॥१.११९॥
प्रतिपदार्थः अदृष्टिदानम् = अविलोकनम् ; कृतपूर्वनाशनम् = पूर्वोपकारादि-अचिन्तनम् ; अमाननम् = तिरस्कारः, सत्काराभावश्च ; दुश्चरितानुकीर्तनम् = दोषवर्णनम् ; कथाप्रसङ्गेन = कथावसरेणापि ; नामविस्मृतिः = नाम-अस्मरणम् ; विरक्तभातस्य = विरक्तस्य ; जनस्य = मनुष्यस्य ; लक्षणम् = सङ्केतः॥१.११९॥
तात्पर्यम् यः पूर्वानुरागी, अधुना रागरहितः विरक्तश्च सञ्जातः तस्य लक्षणानि एवं सन्ति- सः सहृदं न पश्यति । पूर्वकृतं सर्वं विस्मरति । मित्रं पराभवति । आचरितानां दोषानां वर्णनं करोति । वार्ताप्रसङ्गे नाम अपि विस्मरति ॥१.११९॥
हिन्द्यर्थः असन्तुष्ट होकर देखना, पूर्वकृत कार्यों (उपकारों) को भूल जाना, सत्कार न करना, दोषों को प्रकट करना, अक्सर (मौके) पर नाम तक भी भूल जाना, वे सब विरक्त मनुष्य के लक्षण है ॥१.११९॥
उच्चारणम्
मूलम्: अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति । पतिं निर्दयमालिङ्ग्य हेतुरत्र भविष्यति ॥१.१२०॥
पदविभागः अकस्माद् युवती वृद्धं केशेषु आकृष्य चुम्बति । पतिं निर्दयम् आलिङ्ग्य हेतुः अत्र भविष्यति' ॥१.१२०॥
अन्वयः युवती अकस्माद् वृद्धं पतिं निर्दयम् आलिङ्ग्य केशेषु आकृष्य चुम्बति, अत्र हेतुः भविष्यति' ॥१.१२०॥
प्रतिपदार्थः अकस्माद् = हेतुना विना, विनापि हेतोः ; युवती = तरुणी ; वृद्धं = जराजीर्णम् ; केशेषु = मूर्धजेषु ; आकृष्य = बलात् समीपमाहूय ; पतिम् = स्वामिनम् ; निर्दयम् = बलवत् ; आलिङ्ग्य = आश्लिष्य ; चुम्बति = मुखम् ओष्ठैः स्पृशति ; हेतुः = किमपि कारणम् ॥१.१२०॥
तात्पर्यम् यदि काचित् प्राप्तयौवना अकारणं स्थविरं भर्तारं बलेन निकटमाहूय परिष्वङ्गसहितं मुखसंयोगं करोति, तत्र अवश्यं किमपि कारणम् अवश्यं भविष्यति ॥१.१२०॥
हिन्द्यर्थः वृद्धपति की जवान (युवती) स्त्री सहसा अपने वृद्धपति के केशों को पकड़कर उसका गाढ़ आलिङ्गन कर उसके मुख का चुम्बन करती है, तो उसमें ज़रूर कुछ कारण होगा ॥१.१२० ॥
उच्चारणम्
मूलम्: शशिनीव हिमार्तानां घर्मार्तानां रवाविव । मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ ॥१.१२१॥
पदविभागः शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव । मनः न रमते स्त्रीणां जरा-जीर्णेन्द्रिये पतौ ॥१.१२१॥
अन्वयः शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव स्त्रीणां मनः जरा-जीर्णेन्द्रिये पतौ न रमते ॥१.१२१॥
प्रतिपदार्थः हिमार्तानाम्= शीतपीडितानाम् ; शशिनि = चन्द्रे ; इव = वत् ; घर्मार्तानां = ग्रीष्मोपतापतप्तानाम् ; रवौ = सूर्ये ; स्त्रीणां = नारीणां ; मनः = चित्तं ; जराजीर्णेन्द्रिये = जरया विकले इन्द्रियग्रामे ; पतौ = भर्तरि (छान्दसोऽयं प्रयोगः, पत्यौ इत्युचितम्) ; 'धवे' इति पाठान्तरम् ; न रमते = आनन्दितं न भवति ॥१.१२१॥
तात्पर्यम् शैत्येन पीडितानां यथा चन्द्रमसि आसक्तिः न भवति, आतपेन तप्तानाम् आदित्ये चेतः न भवति, तथैव यस्य इन्द्रियाणि जीर्णानि तादृशि वृद्धे पत्यौ नारीणां मनः रतं न भवति ॥१.१२१॥
हिन्द्यर्थः हिम (बर्फ़ जाड़ा) से पीडित प्राणी को चन्द्रमा अच्छा नहीं लगता है, धूप से पीडित मनुष्य को सूर्य अच्छा नहीं लगता है, वैसे ही जिस की सभी इन्द्रियों जीर्ण हो गयी हो ऐसा वृद्धपति युवति स्त्रियों को कभी अच्छा नहीं लगता है ॥१.१२१॥
उच्चारणम्
मूलम्: पलितेषु हि दृष्टेषु पुंसः का नाम कामिता । भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥१.१२२॥
पदविभागः पलितेषु हि दृष्टेषु पुंसः का नाम कामिता! । भैषज्यम् इव मन्यन्ते यद् अन्य-मनसः स्त्रियः ॥१.१२२॥
अन्वयः पुंसः (केशेषु) पलितेषु हि दृष्टेषु का नाम कामिता! यद् अन्य-मनसः स्त्रियः भैषज्यम् इव मन्यन्ते ॥१.१२२॥
प्रतिपदार्थः पलितेषु = शुक्लेषु केशेषु, केशशौक्ल्ये ; दृष्टेषु = जातेषु ; का नाम = का खलु ; कामिता = कामोपभोगपरायणता ; सा नैवोचिता इत्यर्थः ; यत् = यस्मात् ; अन्यमनसः = विरक्ताः, अन्यासक्ता वा ; स्त्रियः = कामिन्यः ; भैषज्यम् इव = कटुकौषधम् इव ; मन्यन्ते = भावयन्ति, ॥१.१२२॥
तात्पर्यम् मनुष्यस्य मूर्धजाः यदा शुक्लवर्णं प्राप्ताः, तदा का वार्ता कामभावस्य? नार्यः तादृशं पतिं परिहार्यं मन्यन्ते, अनिच्छया च तं सेवन्ते ॥१.१२२॥
हिन्द्यर्थः और जब पुरुष के सब बाल पक गये हों तो फिर कहो उसकी कामुकता कैसी ? अर्थात् वृद्धावस्था में कामोपभोग की इच्छा व्यर्थ है । क्यों कि- वृद्ध पुरुष की स्त्री दूसरे से आसक्त हो जाती हैं और वह अपने उस वृद्ध पति को औषध (दवा) की तरह ही कडुआ समझती है ॥१.१२२॥
उच्चारणम्
मूलम्: धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥१.१२३॥
पदविभागः धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
अन्वयः प्राणभृतां सदा धनाशा जीविताशा च गुर्वी । तरुणी भार्या वृद्धस्य प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
प्रतिपदार्थः यद्यपि- प्राणभृतां = प्राणिनां ; धनाशा = वित्ते इच्छा ; जीविताशा = जीवनयापने आकाङ्क्षा ; सदा = तर्वदा ; गुर्वी = महती, अधिका भवति ; तथापि- वृद्धस्य = जराजीर्णस्य ; तरुणी भार्या = यौवनवती पत्नी ; तु तस्य प्राणेभ्योऽपि = प्राणानाम् अपेक्षया अपि ; गरीयसी = नितरां गुर्वी भवति ; ॥१.१२३॥
तात्पर्यम् यद्यपि- जीवानां द्रविणाकाङ्क्षा, आयुषि कामना च प्रबला भवति, तथापि- गतयौवनस्य प्राणेभ्यः अपि अधिका युवती कान्ता भाति ॥१.१२३॥
हिन्द्यर्थः क्यों कि- सभी प्राणियों को धन की आशा और जीवन की आशा (लालसा) स्वभावतः अधिक होती है । परन्तु वृद्ध पुरुष को तो अपनी युवती स्त्री अपने प्राणों से भी अधिक प्यारी होती है ॥ १.१२३ ॥
उच्चारणम्
मूलम्: क्यों कि- सभी प्राणियों को धन की आशा और जीवन की आशा (लालसा) स्वभावतः अधिक होती है । परन्तु वृद्ध पुरुष को तो अपनी युवती स्त्री अपने प्राणों से भी अधिक प्यारी होती है ॥ १.१२३ ॥
पदविभागः न उपभोक्तुं न च त्यक्तुं शक्रोति विषयान् जरी । अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥
अन्वयः जरी विषयान् न उपभोक्तुं (शक्नोति) न च त्यक्तुं शक्रोति । निर्दशनः श्वेव केवलम् अस्थि जिह्वया लेढि ॥१.१२४॥
प्रतिपदार्थः जरी = जराजीर्णो वृद्धः ; विषयान् = कान्तासुखादीन् ; उपभोक्तुम् = सुखं प्राप्तुं, आनन्दितुम् ; त्यक्तुं = परित्यक्तुं ; शक्नोति = पारयति ; निर्दशनः = दन्तविकलः ; श्वा इव = कुक्कुरवत् ; अस्थि = कीकशम् ; केवलं लेढि = जिह्वया केवलम् आस्वादयति एव ॥१.१२४॥
तात्पर्यम् जर्जरः नरः उपभोगवस्तूनि न च आनन्दितुं न वा हातुं पारयति। (अत्रोदाहरणम्) दन्तै विहीनः शुनकः कर्करं केवलं लिह्यति (दष्टुं न शक्नोति)॥१.१२४॥
हिन्द्यर्थः और वृद्ध मनुष्य न तो विषयों (स्त्री आदि) को भोग ही सकता है, और न उन्हें छोड़ ही सकता किन्तु जिस प्रकार दन्तहीन कुत्ता हड्डी को केवल जीभसे चाटता रहता है, किन्तु उसे चबा नहीं सकता है, वही दशा उस वृद्ध मनुप्य की भी होती है ॥१.१२४॥
उच्चारणम्
मूलम्: स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति- र्गोष्ठी पूरुषसन्निधावनियमो, वासो विदेशे तथा । संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः, पत्युर्वार्द्धकमीषितं प्रवसनं नाशस्य हेतुः स्त्रियाः॥१.१२५॥
पदविभागः स्वातन्त्र्यं पितृमन्दिरे निवसतिः यात्रोत्सवे सङ्गति-गोष्ठी पूरुषसन्निधौ अनियमः, वासः विदेशे तथा । संसर्गः सह पुंश्चलीभिः असकृद् वृत्तेः निजायाः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं, नाशस्य हेतुः स्त्रियाः॥१.१२५॥
अन्वयः स्वातन्त्र्यं, पितृमन्दिरे निवसतिः, यात्रोत्सवे सङ्गतिः, गोष्ठी, पूरुषसन्निधौ अनियमः, विदेशे वासः तथा, पुंश्चलीभिः सह असकृत् संसर्गः, निजायाः वृत्तेः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं- स्त्रियाः नाशस्य हेतुः ॥१.१२५॥
प्रतिपदार्थः स्वातन्त्र्यमिति । स्वातन्त्र्यं = स्वतन्त्रता ; पितृमन्दिरे = जनकस्य गेहे ; निवसतिः = निवासः ; यात्रोत्सवे, यात्रा = ग्रामान्तरादि-गमनम्, उत्सवे = विवाहादौ ; सङ्गतिः = जनैः सह गमनम्, जनसंसर्गः ; यद्वा यात्रोत्सवे = जनमेलापके, देवयात्रादौ, विवाहादौ च, सङ्गतिः = मुहुर्यानमित्यर्थः ; पुरुषसन्निधौ = पुरुषाणां सविधे ; गोष्ठी = आसनबन्धः वार्तालापः च ; अनियमः = निरोधाभावः ; विदेशे वासः = परदेशे निवासः ; पत्युरात्मनश्चेति शेषः । पुंश्चलीभिः = दुष्टस्त्रीभिः, कुलटाभिः ; असकृत् = मुहुर्मुहुः ; संसर्गः = सम्पर्कः ; निजायाः = आत्मनः ; वृत्तेः = जीविकायाः ; क्षतिः = अभावः, विनाशश्च ; वार्धक्यं = पत्युः वृद्धावस्था ; ईर्षितं = पत्युरीर्ष्यालुत्वम्, स्वस्य वा ; प्रवसनं = पत्युर्विदेशे प्रवासः ; (पाठ. प्रहसनं = अकारणं हसणं च) स्त्रीणां = नारीणां ; नाशस्य = पतनस्य, शीलखण्डनस्य ; हेतुः = हेतवः ॥१.१२५॥
तात्पर्यम् योषितां शीलविनाशे हेतवः उच्यन्ते- नियन्त्रणराहित्यं, जन्मदस्य सदने (दीर्घकालं यावत्) वासः, अत्र तत्र प्रदेशान्तर-विहरणं, उत्सवमेलनादिषु (सुदीर्घकालं यावत्) विचरणं, वृथासँल्लापवर्गेषु गमनं, पुरुषैः सह समीपवर्तनं, नियमराहित्यं, विदेशवासः, दुश्चरिताभिः वनिताभिः सह मित्रता, स्वस्याः पत्युः वा जीविकायाः अभावः, भर्तुः वृद्धत्वं, धवस्य ईर्ष्यालुत्वं, स्वस्याः पत्युः वा अधिककालं यावत् देशान्तरवासः च ॥१.१२५॥
हिन्द्यर्थः क्यों कि- स्वतन्त्रता, पिता के घर (पीहर में) रहना, यात्रा (देवता आदि के दर्शनों के मेले एवं विवाह उत्सव इत्यादि में लोगों से मित्रता, पुरुषों के साथ में बिना रोक टोक बैठना और उनसे गप लड़ाना, किसी की रोक टोक का न रहना, विदेश में रहना, व्यभिचारिणी स्त्रियों का साथ होना, जीविका (खाने-पीने) का अभाव, पति का वृद्ध होना, पति का इर्षालु होना, और पति का परदेश में रहना,-ये सब स्त्रियों के बिगड़ने के कारण हैं ॥१.१२५॥
उच्चारणम्
मूलम्: पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥१.१२६॥
पदविभागः पानं दुर्जन-संसर्गः, पत्या च विरहः अटनम् । स्वन्नश्चा अन्यगृहे वासः, नारीणां दूषणानि षट् ॥१.१२६॥
अन्वयः नारीणां दूषणानि षट् – पानं, दुर्जनसंसर्गः, पत्या च विरहः, अटनम्, अन्यगृहे स्वप्नः वासः च ॥१.१२६॥
प्रतिपदार्थः नारीणां = स्त्रीणां ; दूषणानि = दुष्टलक्षणानि ; पानं = मद्यपानम् ; दुर्जनसंसर्गः = दुष्टैः जनैः सह मित्रता ; पत्या = भर्त्रा ; विरहः = कोपात् दूरे वासः ; अटनं = भ्रमणम् ; अन्यगृहे = बन्धुमित्राणां, अज्ञातानां वा गेहे ; स्वप्नः = शयनम् ; ॥१.१२६॥
तात्पर्यम् अत्र योषितां दुर्लक्षणानि उक्तानि- मधुपानं, दुर्जनसम्पर्कः, भर्तुः दूरे स्थितिः, वृथा विचरणं, परेषां गृहेषु निद्राकरणं, दीर्घवासः चेति ॥१.१२६॥
हिन्द्यर्थः और भी- शराब पीना, दुष्टों का साथ, पति का विरह, इधर उधर घूमना, दूसरे के धर में रहना या सोना, अकारण हँसना, हँसी-ठट्ठा ये छः कारण स्त्रियों के दूषित होने (बिगड़ने) के होते हैं ॥१.१२६॥
उच्चारणम्
मूलम्: स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता तेन नारद नारीणां सतीत्वमुपजायते ॥१.१२७॥
पदविभागः स्थानं नास्ति, क्षणः नास्ति, नास्ति प्रार्थयिता तेन नारद! नारीणां सतीत्वम् उपजायते॥१.१२७॥
अन्वयः नारद! स्थानं नास्ति, क्षणः नास्ति, प्रार्थयिता नास्ति। तेन नारीणां सतीत्वम् उपजायते॥१.१२७॥
प्रतिपदार्थः स्थानम् = व्यभिचाराय एकान्तस्थानमित्यर्थः ; क्षणः = अवसरः ; प्रार्थयिता = कामयिता, कामी, यः व्यभिचरितुमिच्छेत्, शीलखण्डनाय लोभादिप्रदर्शनेनोत्तेजकः ; हे नारदेति सम्बोधनपदम् ; तेन = तेनैव, नान्यथा इत्यर्थः ॥१.१२७॥
तात्पर्यम् हे नारद, आस्पदराहित्यम्, अवसराभावः, कामिनः अनुपलब्धिरेव स्त्रियः साध्वीत्वे कारणानि भवन्ति (स्थानादिकानामभावात् एव स्त्रीणां सतीत्वं तिष्ठति)॥१.१२७॥
हिन्द्यर्थः हे नारद! स्त्रियाँ पतिव्रता तभी तक रह सकती हैं, जब तक या तो उनके लिए व्यभिचारका कोई स्थान ही नहीं हो, या समय (व्यभिचार के लिये मौका) ही न मिले, या उनके चाहने वाला कोई पुरुष ही न हो ॥१.१२७॥
उच्चारणम्
मूलम्: न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥१.१२८॥
पदविभागः न स्त्रीणाम् अप्रियः कश्चित् प्रियः वा अपि न विद्यते । गावः तृणम् इव अरण्ये प्रार्थयन्ति नवं नवम् ॥१.१२८॥
अन्वयः कश्चित् स्त्रीणाम् अप्रियः प्रियः वा अपि न विद्यते । गावः अरण्ये नवं नवं तृणं प्रार्थयन्ति इव (ताः अपि)॥१.१२८॥
प्रतिपदार्थः स्त्रीणां = नारीणां ; प्रियः = हृदयसमीपवर्ती ; अप्रियः = इष्टाभावपात्रम् ; कश्चित् न विद्यते = कोपि न अस्ति ; अरण्ये = वने ; गावः = धेनवः ; नवं नवं = प्रत्यहं नूतनं नूतनं ; तृणम् = हरितम् ; इव = वत् ; प्रार्थयन्ति = इच्छन्ति ॥१.१२८॥
तात्पर्यम् नारीणां इष्टः, इष्टरहितः वा कोपि न भवति। (अत्रोदाहरणम्) धेनवः वने नवं नवं त्रिणम् अभिलषन्ति, (तथैव वनिताः अपि नूतनं पुरुषम् काङ्क्षन्ति)॥१.१२८॥
हिन्द्यर्थः और भी- स्त्रियों का न तो कोई प्रिय है और न उनका कोई अप्रिय ही है । किन्तु जैसे गाय वन में नया नया तृण (घास) ढूँढती रहती हैं, (वैसे ही स्त्रियां भी नये नये पुरुषों को खोजा करती हैं) ॥१.१२८ ॥
उच्चारणम्
मूलम्: घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्। तस्माद् घृतञ्च वह्निञ्च नैकत्र स्थापयेद्बुधः ॥१.१२९॥
पदविभागः घृतकुम्भसमा नारी, तप्त-अङ्गार-समः पुमान्। तस्मात् घृतञ्च वह्निं च, न एकत्र स्थापयेद् बुधः ॥१.१२९॥
अन्वयः नारी घृतकुम्भसमा, पुमान् तप्ताङ्गारसमः । तस्मात् बुधः घृतं च वह्निं च, एकत्र न स्थापयेत् ॥१.१२९॥
प्रतिपदार्थः घृतकुम्भसमा = घृतपूर्णघटतुल्या ; नारी = स्त्री ; तप्ताङ्गारसमः =ज्वलद्-अङ्गार-तुल्यः ; पुमान् = पुरुषः ; तस्माद् = तेन कारणेन ; घृतञ्च = आज्यं च ; वह्निञ्च = अग्निं च ; नैकत्र = एकस्मिन् स्थान् न ; स्थापयेद् = न्यस्येत् ; बुधः= बुद्धिमान् ;॥१.१२९॥
तात्पर्यम् वनिता सर्पिःसदृशा। नरः तु उष्ण-अङ्गारतुल्यः। अतः द्वावपि एकत्र न स्थापनीयौ। ॥१.१२९॥
हिन्द्यर्थः और स्त्री- घी से भरे घड़े के समान है, पुरुष-जलते हुए अङ्गार (अग्नि) है समान है, इस लिए बुद्धिमान् पुरुष को चाहिये कि घृत और अग्नि को एक साथ कभी न रखे ॥१.१२९॥
उच्चारणम्
मूलम्: मात्रा, स्वस्रा, दुहित्रा वा न विविक्तासनो भवेत्। बलवानिन्द्रियग्रामो महान्तमपि कर्षति ॥१.१३०॥
पदविभागः मात्रा, स्वस्रा, दुहित्रा वा न विविक्ता आसनः भवेत्। बलवान् इन्द्रिय-ग्रामः महान्तम् अपि कर्षति ॥१.१३०॥
अन्वयः मात्रा, स्वस्रा, दुहित्रा वा न विविक्ता आसनः भवेत्। बलवान् इन्द्रिय-ग्रामः महान्तम् अपि कर्षति ॥१.१३०॥
प्रतिपदार्थः मात्रा = जनन्या ; स्वस्रा = भगिन्या ; दुहित्रा = पुत्र्या ; विविक्तासनः = निर्जनप्रदेशस्थितः, एकान्त-स्थितः ; बलवान् = शक्तिशाली, अनियतः ; इन्द्रियग्रामः = इन्द्रियाणां समूहः ; महान्तम् अपि = सद्गुणयुक्तम्, सच्छीलम् अपि ; कर्षति = बलवत् समीपं नयति, अत्र- पापे नियोजयति ॥१.१३०॥
तात्पर्यम् जनयित्र्या, सोदर्या, आत्मजायाः च सह एकाकी न तिष्ठेत्। अवशः महापुरुषमपि हृषीकाणां वर्गः महात्मानम् अपि प्रलोभे पातयति ॥१.१३०॥
हिन्द्यर्थः बुद्धिमान् पुरुष को अपनी माता, बहन तथा अपनी लड़की के साथ भी कभी भी एकान्त में नहीं बैठना चाहिये, क्यों कि इन्द्रियों बड़ी प्रबल हैं, ये (इन्द्रियाँ) विद्वान् को भी अपने वश में कर ले सकती है ॥१.१३०॥
उच्चारणम्
मूलम्: न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता। प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः ॥१.१३१॥
पदविभागः न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता। प्रार्थना-अभावः एव एकं सतीत्वे कारणं स्त्रियाः ॥१.१३१॥
अन्वयः न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता (वा नास्ति कारणम्)। प्रार्थनाभावः एव एकं स्त्रियाः सतीत्वे कारणम् ॥१.१३१॥
प्रतिपदार्थः न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता (वा नास्ति कारणम्)। प्रार्थनाभावः एव एकं स्त्रियाः सतीत्वे कारणम् ॥१.१३१॥
तात्पर्यम् नारी साध्वी भवतीति अत्र कारणं – लज्जा, विनयभावः, सरलता, भीतिः वा न। तत्र कामुकः कोपि आगत्य सङ्गमेच्छा न व्यनक्ति इत्येव हेतुः तत्र ॥१.१३१॥
हिन्द्यर्थः और स्त्री के सती होने का कारणा तो लज्जा है, न नम्रता है, न दान-शीलता है, और न डर ही है, किन्तु इसमें यदि कोई कारण है, तो वह केवल प्रार्थना करने वाले पुरुष का पास में नहीं होना ही है ॥१.१३१॥
उच्चारणम्
मूलम्: पिता रक्षति कौमारे भर्ता रक्षति यौवने। पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥१.१३२॥
पदविभागः पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने। पुत्रः च स्थाविरे भावे, न स्त्री स्वातन्त्र्यम् अर्हति ॥१.१३२॥
अन्वयः पिता कौमारे रक्षति, भर्त्ता यौवने रक्षति । पुत्रः च स्थाविरे भावे (रक्षति), स्त्री स्वातन्त्र्यं न अर्हति ॥१.१३२॥
प्रतिपदार्थः पिता = जनकः ; कौमारे = बाल्ये ; भर्ता = पतिः ; यौवने = युवावस्थायाम् ; स्थाविरे भावे = वृद्धावस्थायाम् ; रक्षति = संरक्षणं करोति ; अतः- स्त्री = नारी ; कदापि स्वातन्त्र्यं = स्वाधीनतां ; न अर्हति = नैव अर्हति ॥१.१३२॥
तात्पर्यम् वनिता यदा कुमारी तदा जन्मदः संरक्षति। यदा सा युवती तदा धवः रक्षणं निर्वहति। सा जराजीर्णा भवति तदा आत्मजः तां पश्यति। सा स्वतन्त्रा न तिष्ठेत्॥१.१३२॥
हिन्द्यर्थः और बाल्यावस्था में स्त्री की रक्षा पिता को करनी चाहिए जवानी में पति को रक्षा करनी चाहिये । और वृद्धावस्था में पुत्र की उनकी रक्षा करना चाहिये। इस प्रकार स्वयं को कभी स्वतन्त्र नहीं छोडना चाहिये ॥१.१३२॥
उच्चारणम्
मूलम्: स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम्। ताश्चापि रक्षिता येषां ते नराः सुखभागिनः ॥१.१३३॥
पदविभागः स्त्रियः हि चपलाः नित्यं देवानामपि विश्रुतम् । ताः च अपि रक्षिता येषां ते नराः सुखभागिनः ॥१.१३३॥
अन्वयः देवानामपि स्त्रियः हि नित्यं चपलाः (इति) विश्रुतम् । येषां ताः च अपि रक्षिता ते नराः सुखभागिनः ॥१.१३३॥
प्रतिपदार्थः (न केवलं मानुषाणामेव, किन्तर्हि) देवानाम् अपि स्त्रियः = लक्ष्मी-प्रभृतयः स्त्रियः ; चपलाः = चञ्चलाः ; इति विश्रुतं = पुराणादौ प्रसिद्धमेव ; ताः = प्रकृति-चपलाः स्त्रियः ; येषां = अन्येषां पुसां, यैर्वा पुरुषैः ; रक्षिताः = सुरक्षिताः, शीले स्थापिताः ; ते एव नराः सुखभागिनः = लोके सुखिनः ॥१.१३३॥
तात्पर्यम् देवतानामपि नार्यः नित्यं चञ्चलाः इति प्रसिद्धमेव। तादृश्यपि नार्यः येषां पुरुषाणां सुरक्षिताः सन्ति, एते सुखिनः सन्ति॥१.१३३॥
हिन्द्यर्थः क्योकि- स्त्रियाँ सदा चञ्चल हैं- यह बात लक्ष्मी आदिके विषय में देवताओं में भी प्रसिद्ध है । अतः जिन पुरुषों की स्त्रियां सुशील व सुरक्षित हैं, वे ही मनुष्य संसार में सुखी हैं ॥१.१३३॥
उच्चारणम्
मूलम्: उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्वभावेनैव तच्छास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥१.१३४॥
पदविभागः उशना वेद यत्-शास्त्रं यत् च वेद बृहस्पतिः । स्वभावेन एव तत् शास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥१.१३४॥
अन्वयः यत्-शास्त्रम् उशना वेद यत् च बृहस्पतिः वेद, तत् शास्त्रं स्त्रीबुद्धौ स्वभावेन एव सुप्रतिष्ठितम् ॥१.१३४॥
प्रतिपदार्थः उशनाः = शुक्राचार्यः ; यच्छास्त्रं = यत् नीतिशास्त्रादिकम् ; वेद = अध्ययनादिना वेत्ति ; बृहस्पतिः = देवगुरुः ; वेद = अधीत्य ज्ञातवान् ; तत्-शास्त्रसारं ; स्वभावेनैव = प्रकृत्यैव ; स्त्रीबुद्धौ = नारीणां मतौ ; सुप्रतिष्ठितम् = सम्यक् उपस्थितम् ; ननु शिक्षणादेः तत्र न आवश्यकतेति भावः ॥१.१३४॥
तात्पर्यम् दैत्यगुरुः देवगुरुश्च यत् शास्त्रादिकं जानाति, तत् सर्वं सहजमेव नारीणां बुद्धिषु पूर्वमेव सुस्थितम् (अध्ययनादिकस्य आवश्यकता नास्तीति यावत्) ॥१.१३४॥
हिन्द्यर्थः कहा भी है- शुक्राचार्य और बृहस्पति भी जिन शास्त्रों को अपने गुरु से पढकर ही जानसके हैं, वे सब शास्त्र स्त्रियों की बुद्धि में स्वभाव से ही रहते हैं ॥१.१३४॥
उच्चारणम्
मूलम्: धनवान् बलवाँल्लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥१.१३५॥
पदविभागः धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञाम् अपि उपजायते ॥१.१३५॥
अन्वयः लोके सर्वः सर्वत्र सर्वदा धनवान् बलवान् । राज्ञाम् अपि प्रभुत्वं धनमूलं हि उपजायते ॥१.१३५॥
प्रतिपदार्थः धनवान् = वित्तयुक्तः ; बलवान् = बलसम्पन्नः ; राज्ञामपि = महाराजानमपि ; प्रभुत्वं = राजत्वं ; धनमूलमेव = धनेनैव, धन-हेतुकमेव ; उपजायते = भवति ॥१.१३५॥
तात्पर्यम् लोके सर्वस्थानेषु सर्वकालेषु धनसम्पन्नः एव बलयुक्तः भवति । राजानः अपि धनकारणेनैव सर्वशासकाः जायन्ते ॥१.१३५॥
हिन्द्यर्थः क्योकि- संसार में सभी जगह, सदा ही, धनी लोग ही बलवान् गिने जाते हैं । राजा लोग भी धन ही के कारण सबके स्वामी बने रहते हैं ॥१.१३५॥
उच्चारणम्
मूलम्: अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥१.१३७॥
पदविभागः अर्थेन तु विहीनस्य पुरुषस्य अल्प-मेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितः यथा ॥१.१३७॥
अन्वयः अर्थेन तु विहीनस्य पुरुषस्य अल्प-मेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितः यथा ॥१.१३७॥
प्रतिपदार्थः अर्थेन = धनेन ; विहीनस्य = रहितस्य ; अल्पमेधसः = स्वल्पमतेः ; सर्वाः क्रियाः = सर्वाणि कर्माणि ; विनश्यन्ति = हीयन्ते ; ग्रीष्मे = आतपकाले ; कुसरितः = स्वल्पजला नद्यः ; ॥१.१३७॥
तात्पर्यम् यथा अधिके आतपे अल्पनीरयुक्ताः नद्यः शुष्यन्ति, तथैव बुद्धिहीनस्य धनहीनस्य प्रयतनानि सर्वाणि व्यर्थानि भवन्ति॥१.१३७॥
हिन्द्यर्थः धनहीन (दरिद्र) हो जाने से अल्पबुद्वि वाले भाग्यहीन मनुष्य के सभी काम उसी प्रकार बिगड़े जाते हैं, जैसे गरमी में सब छोटी छोटी नदियाँ सूख जाती है ॥१.१३७॥
उच्चारणम्
मूलम्: यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥१.१३८॥
पदविभागः यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः सः पुमान् लोके यस्य अर्थाः सः हि पण्डितः ॥१.१३८॥
अन्वयः यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः सः पुमान् लोके यस्य अर्थाः सः हि पण्डितः ॥१.१३८॥
प्रतिपदार्थः यस्य = पुंसः ; अर्थाः = धनानि सन्ति ; तस्य = तस्य एव ; मित्राणि = सुहृदः भवन्ति ; बान्धवाः = सम्बन्धिनः ; पुमान् = पुरुषश्रेष्ठः ; लोके विश्वे ; पण्डितः = विद्वान् ॥१.१३८॥
तात्पर्यम् यस्य = पुंसः ; अर्थाः = धनानि सन्ति ; तस्य = तस्य एव ; मित्राणि = सुहृदः भवन्ति ; बान्धवाः = सम्बन्धिनः ; पुमान् = पुरुषश्रेष्ठः ; लोके विश्वे ; पण्डितः = विद्वान् ॥१.१३८॥
हिन्द्यर्थः जिसके पास धन है, उसीके सब लोग मित्र हैं, उसी के भाह बन्धु है, वह श्रेष्ठ पुरुष है और वही सच्चा पण्डित है ॥१.१३८॥
उच्चारणम्
मूलम्: अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१.१३९॥
पदविभागः अपुत्रस्य गृहं शून्यं सन्मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१.१३९॥
अन्वयः अपुत्रस्य सन्मित्र-रहितस्य च गृहं शून्यम् । मूर्खस्य च दिशः शून्याः । दरिद्रता सर्वशून्या ॥१.१३९॥
प्रतिपदार्थः अपुत्रस्य = पुत्ररहितस्य पुंसः ; गृहं = गेहं ; शून्यं = रिक्तम् इव भवति ; सन्मित्ररहितस्य च = श्रेष्ठमित्रविरहितस्यापि च ; मूर्खस्य = अविवेकिनः ; दिशः = दिक्प्रदेशाः शून्याः, क्वचिदपि स गन्तुमशक्तः, मूर्खत्वात् ; दरिद्रता = धनहीनत्वं ; सर्वशून्या = दरिद्रस्य सर्वमेव शून्यमित्यर्थः ॥१.१३९॥
तात्पर्यम् यस्य पुत्रः नास्ति, तस्य वेश्म सत्सु सर्वेष्वपि अन्येषु सर्वरहितमिव । सुहृदेन विनापि गृहं रिक्तमिव । विवेकहीनस्य आशाः सर्वाः प्रयोजनहीनाः । वित्तहीनता तु सर्वविधशून्यत्वस्य आस्पदम्॥१.१३९॥
हिन्द्यर्थः और भी-जिसको लडका नहीं है उसका, तथा जिसके सच्चा मित्र नहीं है उसका तो घर ही सूना है । और मूर्ख के लिए सब दिशायें ही सूनी हैं । (सभी देश शून्यवत् है, परन्तु दरिद्र के लिये तो सभी कुछ सूना है, अर्थात् दरिद्र के इसलिये सब कुछ सूने की तरह ही है ॥१.१३९॥
उच्चारणम्
मूलम्: दारिद्र्यान्मरणाद् वापि दारिद्र्यमवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥१.१४०॥
पदविभागः दारिद्र्यान् मरणाद् वा अपि दारिद्र्यम् अवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥१.१४०॥
अन्वयः दारिद्र्यान् मरणाद् वा अपि दारिद्र्यम् अवरं स्मृतम् । मरणम् अल्प-क्लेशेन, दारिद्र्यम् अतिदुःसहम् ॥१.१४०॥
प्रतिपदार्थः दारिद्र्यात् = धनहीनत्वात् ; मरणात् = मृत्योः ; अवरं = निकृष्टम् ; स्मृतम् = उक्तम्, ज्ञायेत ; अल्पक्लेशेन = क्षणमात्र-स्थायिना दुःखेन ; दारिद्र्यं = दारिद्र्योत्थितं दुखन्तु ; अतिदुःसहम् = नितरां सोढुमशक्यम् ; ॥१.१४०॥
तात्पर्यम् अत्र वित्तहीनतायाः मृत्योः च तुलना कृता । द्वयोः वित्तहीनता निकृष्टतरास्ति तस्याः अतिदुस्तरत्वात् । प्राणहरणम् अत्यल्पकष्टप्रदम्, दारिद्र्यदुःखं तु आजीवनपीडाकरम्॥१.१४०॥
हिन्द्यर्थः दरिद्रता और मरना इन दोनों में से मरना ही अच्छा है, क्यों कि मरने में तो थोड़ी देर ही क्लेश है, पर दरिद्रता में तो सदा कष्ट ही कष्ट है ॥१.१४०॥
उच्चारणम्
मूलम्: तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रमेतत् ॥१.१४१॥
पदविभागः तानि इन्द्रियाणि अविकलानि तद् एव नाम सा बुद्धिः अप्रतिहता वचनं तद् एव । अर्थ-ऊष्मणा विरहितः पुरुषः सः एव अन्यः क्षणेन भवति इति विचित्रम् एतत् ॥१.१४१॥
अन्वयः तानि अविकलानि इन्द्रियाणि । तद् एव नाम । सा अप्रतिहता बुद्धिः । तद् एव वचनम् । सः एव अर्थोष्मणा विरहितः पुरुषः । अन्यः क्षणेन भवति- इति एतत् विचित्रम् ॥१.१४१॥
प्रतिपदार्थः तानि = यानि पूर्वम् आसन् तानि एव ; अविकलानि = दोषैः अनुपहतानि ; इन्द्रियाणि = चक्षुरादीनि (अप्रकटानि अवयवान्तरिक-संवेदकानि) ; तदेव = यद्धन-सत्त्वसमये आसीत्, तदेव च ; नाम = नामधेयम् ; अप्रतिहता = अकुण्ठिता सा निर्मला एव ; बुद्धिः = मतिः ; तदेव वचनं= वाक्यम् ; अर्थोष्मणा = वित्तागमनेन जनितः अहङ्कारतापः ; स एव = यो धनसत्त्वसमये आसीत्स एवास्ति ; अन्यः = अन्य इव, धनापगमेन प्रभावशून्यः ; इत्येतत् = अयं विषयः ; विचित्रम् = आश्चर्यजनकम् ॥१.१४१॥
तात्पर्यम् धनं यदा अस्ति, तदा यानि अकुण्ठितानि इन्द्रियाणि, नाम, अविहता बुद्धिः, उक्तयः- सर्वाः समानाः धनापगमे अपि सन्ति । मनुष्यः अपि स एवास्ति । किन्तु लोके वित्तहीनस्य स्थितिः सपदि एव पूर्वस्याः धनवत्त्वस्थितेः नितान्तं विरुद्धा घटते इति विचित्रम्॥१.१४१॥
हिन्द्यर्थः यद्यपि दरिद्र होने पर भी पुरुष की वे ही अविकृत इन्द्रियाँ रहती है, वही नाम है, वही पहिले की तरह ही अल्प बुद्धि है, वही वाणी है, परन्तु जब उसमें धन की गर्मी नहीं रहती है, तो क्षण भर में ही उसकी दशा बदल जाती है, यह कैसी विचित्र और आश्चर्य की बात है ॥१.१४१॥
उच्चारणम्
मूलम्: अर्थनाशं मनस्तापं गहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥१.१४२॥
पदविभागः अर्थनाशं मनस्तापं गहे दुश्चरितानि च । वञ्चनं, च अपमानं च, मतिमान्न प्रकाशयेत् ॥१.१४२॥
अन्वयः मतिमान् अर्थनाशं, मनस्तापं, गहे दुश्चरितानि च, वञ्चनं, च अपमानं च- न प्रकाशयेत् ॥१.१४२॥
प्रतिपदार्थः अर्थनाशं = धननाशम् ; मनस्तापं = मानसं क्लेशम् ; गृहे = गृहे भवानि ; दुश्चरितानि = दुराचररगानि, व्यभिचारादीनि ; वञ्चनं = दुष्टैः छलः ; अपमानं = तिरस्कारञ्च ; मतिमान् = बुद्धिमान् ; न प्रकाशयेत् = कस्याप्यग्रे न प्रकटीकुर्यात् ॥१.१४२॥
तात्पर्यम् विवेकशीलः कदापि एतान् स्वदोषान् बहिः न प्रकटयेत्- धनापगमं, मनसि पीडां, गेहे घटमानानि दुर्घटनानि, छलं, पराभवं च॥१.१४२॥
हिन्द्यर्थः क्यों कि- बुद्धिमान् मनुष्य,- अपने धनको नाश, अपने मन को सताप घरकी बुराई, ठगा जाना और अपने अपमान को किसी के सामने प्रकाशित न करे ॥१.१४२॥
उच्चारणम्
मूलम्: आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । तपो दानापमानञ्च नव गोप्यानि यत्नतः ॥१.१४३॥
पदविभागः आयुः वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपः, दानापमानं च नव गोप्यानि यत्नतः ॥१.१४३॥
अन्वयः यत्नतः गोप्यानि नव – आयुः, वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपो, दानापमानं च ॥१.१४३॥
प्रतिपदार्थः आयुः = जीवितकालः ; वित्तं = धनम् ; गृहच्छिद्रं = गृहे भवानि दुश्चरितानि ; मन्त्रमैथुनभेषजम् = मन्त्रसुरतभेषजानि ; तपः = व्रतपूर्वकप्रयत्नः, दीक्षा ; दानम् = धनादीनां समर्पणम् ; अपमानञ्चेति = पराभवः च इति ; नव गोप्यानि = रहसि स्थाप्यानि, न प्रकाशनीयानि ॥१.१४३॥
तात्पर्यम् (मनुष्येन कतिपय विषयाः न प्रकटनीयाः, क्वचिदपि कस्यचित् अपि पुरतः न वक्तव्याः । ते) प्रयत्नपूर्वकं गोप्यविषयाः नव सन्ति- वयः, वेतनं, गेहे दोषाः, मन्त्रदीक्षादिकं, रतिसुखप्रस्तावः, औषधं, तपस्या, वित्ताद्यर्पणं चेति ॥१.१४३॥
हिन्द्यर्थः आयु, धन, गृह का कलंक, मन्त्र, मैथुन, औषध, तप, दान और अपमान, इन नौ बातों को सदा बहुत सावधानी से छिपाना चाहिए ॥१.१४३॥
उच्चारणम्
मूलम्: अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनादन्यत् कुतः सुखम् ॥१.१४४॥
पदविभागः अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
अन्वयः दैवे अत्यन्तविमुखे (सति) यत्ने पौरुषे च व्यर्थे (सति) मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
प्रतिपदार्थः दैवे = अदृष्टे ; अत्यन्तं विमुखे = नितरां प्रतिकूले सति ; यत्ने = प्रयत्ने च ; पौरुषे = बले च ; व्यर्थे = व्यर्थतां गते सति ; मनस्विनः = मानधनस्य, उन्नतचित्तस्य ; दरिद्रस्य = धनहीनस्य ; वनाद् अन्यत् = स्वदेशं विहाय वनगमनं विना ; कुतः सुखं = क्व सुखं स्यात् ॥१.१४४॥
तात्पर्यम् यदा भाग्यं विमुखं, यदा आत्मबलः, प्रयत्नश्च व्यर्थतां यातः- तदानीम् उत्तममनसः वित्तहीनस्य वनं विहाय क्व सुखम्? नैव कुत्रापि सुखमित्यर्थः ॥१.१४४॥
हिन्द्यर्थः जब विधाता प्रतिकूल हो और जब सब यत्न भी निष्फल हो जाए, तो निर्धन मनस्वी मनुष्य के लिये वन को छोड़कर और काहाँ सुख हो सकता है ? अर्थात् इसे देश छोड़कर अन्यत्र कहीं वनमें चला जाना चाहिए ॥१.१४८॥
उच्चारणम्
मूलम्: मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥१.१४५॥
पदविभागः मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
अन्वयः मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
प्रतिपदार्थः मनस्वी = उन्नतचेतः ; कामं = इच्छया ; म्रियते=स्वप्राणान् जहाति ; कार्पण्यं = दैन्यम् ; गच्छति, आयाति, याति = स्थितिं प्राप्नोति ; निर्वाणं = शान्तिम् ; शीततां = शैत्यम् ; अनलः = वह्निः ॥१.१४५॥
तात्पर्यम् मानधनी नरः इच्छापूर्वकं मरणं प्राप्नोति किन्तु दीनस्थितिं न आप्नोति । (अस्योदाहरणम्) अनलः अन्ततो गत्वा उपशाम्यति किन्तु शीतो न भवति॥१.१४५॥
हिन्द्यर्थः मानधनी नरः इच्छापूर्वकं मरणं प्राप्नोति किन्तु दीनस्थितिं न आप्नोति । (अस्योदाहरणम्) अनलः अन्ततो गत्वा उपशाम्यति किन्तु शीतो न भवति॥१.१४५॥
उच्चारणम्
मूलम्: कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥१.१४६॥
पदविभागः कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
अन्वयः कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
प्रतिपदार्थः कुसुमस्तबकस्य इव=पुष्पगुच्छकस्य इव ; वृत्ती = व्यवस्थिती ; मनस्विनः = मानधनिनः ; मूर्ध्नि = शिरसि ; विशीर्येत = म्लायेत् ; वने = अरण्ये ; ॥१.१४६॥
तात्पर्यम् पुष्पमालेव उत्तममनस्काः द्वौ मार्गौ एव सरन्ति। सा यद्वा जनानां शिरसि तिष्ठति, नो चेत् वने म्लानीभवति । (तथैव मानिनः सर्वेषां हृदये स्थिताः नो चेत् जनसमाजात् बहिरेव भवन्ति)॥१.१४६॥
हिन्द्यर्थः फूल के गुच्छे की तरह मनस्वी मनुष्य की भी दो ही वृत्तियाँ होती हैं। या तो वह सब के (शिर के) ऊपर ही रहता है, अथवा वह वन में ही पड़ा-पड़ा नष्ट हो जाता है ॥१.१४६॥
उच्चारणम्