Home >> Text Contents >> Resources - धातुपाठविस्तरः
This dhatupatha is taken from the Dhatukosha part of the appendix from the book "Brihad-Dhaturupavali". The list has all the essential parameters to understand a dhatu along with the first-form, that other dhatupathas usually miss.
Details:
Book name- Brihad-Dhaturupavali
Author - TR Krishnacharya Publishers- (Madhava Vilasa Book Depot, Kumbhakonam; Year- October 1924)
https://archive.org/details/brihad-dhaturupavali
धातुः मूलधातुः धात्वर्थः गणः कर्मकत्वं इट्त्वं पदम्-उपग्रहः रूपम्
अंश् अंश विभाजने चुरादिः सकर्मकः सेट् उभयपदी अंशयति-ते
अंस् अंस समाघाते चुरादिः सकर्मकः सेट् उभयपदी अंसयति-ते
अक् अक कुटिलायां गतौ भ्वादिः अकर्मकः सेट् परस्मैपदी अकति
अङ्क् अकि लक्षणे भ्वादिः सकर्मकः सेट् आत्मनेपदी अङ्कते इदित्
अक्ष् अक्षू व्याप्तौ भ्वादिः सकर्मकः वेट् परस्मैपदी अक्ष्णोति, अक्षति उदित्
अग् अग कुटिलायां गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी अगति
अगद् अगद नीरोगत्वे
कण्ड्वादिः
अगद्यति
अङ्ग् अगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी अङ्गति इदित्
अङ्घ् अघि गत्याक्षेपे भ्वादिः अकर्मकः सेट् आत्मनेपदी अङ्घते इदित्
अङ्क् अङ्क पदे लक्षणे च चुरादिः सकर्मकः सेट् उभयपदी अङ्कयति-ते
अङ्ग् अङ्ग पदे लक्षणे च चुरादिः सकर्मकः सेट् उभयपदी अङ्गयति-ते अदन्तः
अञ्च् अचि गतौ याचने च भ्वादिः सकर्मकः सेट् उभयपदी अञ्चति-ते इदित्
अच् अचु गतौ याचने च भ्वादिः सकर्मकः सेट् उभयपदी अचति-ते उदित्
अज् अज गति-क्षेपणयोः भ्वादिः सकर्मकः
सेट्, वि-आदेशे तु अनिट्
परस्मैपदी अजति
अञ्ज् अजि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी अञ्जयति-ते इदित्
अञ्च् अञ्चु गति-पूजनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी अञ्चति उदित्
अञ्च् अञ्चु गतौ याचने च भ्वादिः सकर्मकः सेट् उभयपदी अञ्चति-ते उदित्
अञ्च् अञ्चु विशेषणे चुरादिः सकर्मकः सेट् उभयपदी अञ्चयति-ते उदित्
अञ्ज् अञ्जू व्यक्ति-म्रक्षण-कान्ति-गतिषु रुधादिः सकर्मकः वेट् सेट्(धा.पा) परस्मैपदी अनक्ति ऊदित्
अट् अट गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी अटति
अट्ट् अट्ट अतिक्रम-हिंसनयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी अट्टते
अट्ट् अट्ट अनादरे चुरादिः सकर्मकः सेट् उभयपदी अट्टयति-ते
अण्ठ् अठि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी अण्ठते इदित्
अड् अड उद्यमने भ्वादिः सकर्मकः सेट् परस्मैपदी अडति
अड्ड् अड्ड अभियोगे भ्वादिः सकर्मकः सेट् परस्मैपदी अड्डति
अण् अण शब्दे भ्वादिः सकर्मकः सेट् परस्मैपदी अणति
अण् अण प्राणने दिवादिः अकर्मकः सेट् आत्मनेपदी अण्यते
अत् अत सातत्यगमने भ्वादिः सकर्मकः सेट् परस्मैपदी अतति
अन्त् अति बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी अन्तति इदित्
अद् अद भक्षणे अदादिः सकर्मकः अनिट् परस्मैपदी अत्ति
अन्द् अदि बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी अन्दति इदित्
अन् अन प्राणने अदादिः अकर्मकः सेट् परस्मैपदी अनिति
अन् अन प्राणने दिवादिः अकर्मकः सेट् आत्मनेपदी अन्यते
अन्ध् अन्ध दृष्ट्युपघाते चुरादिः सकर्मकः सेट् उभयपदी अन्धयति-ते
अम्ब् अबि शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी अम्बते इदित्
अम्भ् अभि शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी अम्भते इदित्
अभ्र् अभ्र गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी अभ्रति
अम् अम गत्यादिषु भ्वादिः सकर्मकः सेट् परस्मैपदी अमति
अम् अम रोगे चुरादिः सकर्मकः सेट् उभयपदी आमति-ते, आमयति-ते
अय् अय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी अयते
अरर् अररु क्रूरकर्मणि
कण्ड्वादिः
अरर्यति
अर्क् अर्क स्तवने, तपने च चुरादिः सकर्मकः सेट् उभयपदी अर्कयति-ते
अर्घ् अर्घ मूल्ये चुरादिः सकर्मकः सेट् उभयपदी अर्घयति-ते
अर्च् अर्च पूजायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी अर्चति
अर्च् अर्च पूजायाम् चुरादिः सकर्मकः सेट् उभयपदी अर्चयति-ते
अर्ज् अर्ज अर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी अर्जति
अर्ज् अर्ज प्रतियत्ने चुरादिः सकर्मकः सेट् उभयपदी अर्जयति-ते
अर्थ् अर्थ उपयाञ्चायाम् चुरादिः सकर्मकः सेट् आत्मनेपदी अर्थयते
अर्द् अर्द गतौ, याचने च भ्वादिः सकर्मकः सेट् परस्मैपदी अर्दति
अर्द् अर्द हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी अर्दयति-ते, अर्दति-ते
अर्ब् अर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी अर्बति
अर्व् अर्व हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी अर्वति
अर्ह् अर्ह पूजायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी अर्हति
अर्ह् अर्ह पूजायाम् चुरादिः सकर्मकः सेट् उभयपदी अर्हयति-ते, अर्हति-ते
अल् अल भूषण-पर्याप्ति-वारणेषु भ्वादिः सकर्मकः सेट् परस्मैपदी अलति(ते)
अव् अव रक्षणादिः भ्वादिः सकर्मकः सेट् परस्मैपदी अवति
अश् अश भोजने क्र्यादिः सकर्मकः सेट् परस्मैपदी अश्नाति
अश् अशू व्याप्तौ, सङ्घाते च स्वादिः सकर्मकः वेट् आत्मनेपदी अश्नुते
अष् अष गति-दीप्ति-आदानेषु भ्वादिः सकर्मकः, दीप्तौ अकर्मकः सेट् उभयपदी अषति-ते
अस् अस गति-दीप्ति-आदानेषु भ्वादिः सकर्मकः, दीप्तौ अकर्मकः सेट् उभयपदी असति-ते
अस् अस भुवि अदादिः अकर्मकः सेट् परस्मैपदी अस्ति
अस् असु क्षेपणे दिवादिः सकर्मकः सेट् परस्मैपदी अस्यति उदित्
असूञ् असूञ् उपतापे
कण्ड्वादिः
असूयति
अह् अह व्याप्तौ स्वादिः सकर्मकः सेट् परस्मैपदी अह्नोति
अंह् अहि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी अंहते इदित्
अंह् अहि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी अंहयति-ते इदित्
आञ्च्छ् आच्छि आयामे भ्वादिः सकर्मकः सेट् परस्मैपदी आञ्छति इदित्
आप् आप्ऌ व्याप्तौ स्वादिः अनिट् परस्मैपदी आप्नोति ऌदित्
आप् आप्ऌ लम्भने चुरादिः सकर्मकः सेट् उभयपदी आपयति-ते, आपति-ते ऌदित्
आस् आस उपवेशने अदादिः अकर्मकः सेट् आत्मनेपदी आस्ते
गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी अयति
इक् स्मरणे अदादिः सकर्मकः अनिट् परस्मैपदी अध्येति
इख् इख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी एखति
इङ्ख् इखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी इङ्खति इदित्
इङ्ग् इगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी इङ्गति इदित्
इङ् अध्ययने अदादिः सकर्मकः अनिट् आत्मनेपदी अधीते
इट् इट गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी एटति
इण् गतौ अदादिः सकर्मकः अनिट् परस्मैपदी एति
इन्द् इदि परमैश्वर्ये भ्वादिः सकर्मकः सेट् परस्मैपदी इन्दति इदित्
इन्ध् ञिइन्धी दीप्तौ रुधादिः अकर्मकः सेट् आत्मनेपदी इन्धे ईदित्, ञीत्
इयस् इयस् ऐश्वर्ये
कण्ड्वादिः
इयस्यति
इरज् इरज् ईर्ष्यायाम्
कण्ड्वादिः
इरज्यति
इर् इरञ् ईर्ष्यायाम्
कण्ड्वादिः
ईर्यति
इरस् इरस् ईर्ष्यायाम्
कण्ड्वादिः
इरस्यति
इल् इल स्वप्न-क्षेपणयोः तुदादिः स्वप्ने अकर्मकः, क्षेपणे सकर्मकः सेट् परस्मैपदी इलति
इल् इल प्रेरणे चुरादिः सकर्मकः सेट् उभयपदी इलयति-ते
इन्व् इवि व्याप्तौ भ्वादिः सकर्मकः सेट् परस्मैपदी इन्वति इदित्
इष् इष गतौ दिवादिः सकर्मकः सेट् परस्मैपदी इष्यति
इष् इष आभीक्ष्ण्ये क्र्यादिः सकर्मकः सेट् परस्मैपदी इष्णाति
इष् इष इच्छायाम् तुदादिः सकर्मकः सेट् परस्मैपदी इच्छति
इषुध् इषुध शरधारणे
कण्ड्वादिः
इषुध्यति
गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी अयति
गति-प्रजन-कान्ति-असन-खादनेषु अदादिः अर्थानुगुण्यम्-- अनिट् परस्मैपदी एति
ईक्ष् ईक्ष दर्शने भ्वादिः सकर्मकः सेट् आत्मनेपदी ईक्षते
ईङ्ख् ईखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ईङ्खति इदित्
ईङ् गतौ दिवादिः सकर्मकः अनिट् आत्मनेपदी ईयते
ईज् ईज गति-कुत्सनयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी ईजते
ईड् ईड स्तुतौ अदादिः सकर्मकः सेट् आत्मनेपदी ईडे
ईड् ईड गतौ चुरादिः सकर्मकः सेट् उभयपदी ईडयति
ईर् ईर गतौ-कम्पने च अदादिः सकर्मकः सेट् आत्मनेपदी ईर्ते
ईर् ईर क्षेपे चुरादिः सकर्मकः सेट् उभयपदी ईरयति-ते
ईर्क्ष्य् ईर्क्ष्य ईर्ष्यायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी ईर्क्ष्यति
ईर्ष्य् ईर्ष्य ईर्ष्यायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी ईर्ष्यति
ईश् ईश ऐश्वर्ये अदादिः अकर्मकः सेट् आत्मनेपदी ईष्टे
ईष् ईष गति-हिंसा-दर्शनेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी ईषते
ईष् ईष उञ्छे भ्वादिः सकर्मकः सेट् परस्मैपदी ईषति
ईह् ईह चेष्टायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी (सम्)ईहते
उक्ष् उक्ष सेचने भ्वादिः सकर्मकः सेट् परस्मैपदी उक्षति
उख् उख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ओखति
उङ्ख् उखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी उङ्खति
उङ् शब्दे भ्वादिः अकर्मकः अनिट् आत्मनेपदी अवते
उच् उच समवाये (सङ्गमो मिश्रणम्) दिवादिः अकर्मकः सेट् परस्मैपदी उच्यति पुषादिः
उञ्छ् उच्छि उञ्छे भ्वादिः सकर्मकः सेट् परस्मैपदी उञ्छति
उञ्छ् उच्छि उञ्छे तुदादिः सकर्मकः सेट् परस्मैपदी उञ्छति स्वरे विशेषः
उच्छ् उच्छी विवासे (समाप्तिः) भ्वादिः अकर्मकः सेट् परस्मैपदी (वि)उच्छति
उच्छ् उच्छी विवासे तुदादिः अकर्मकः सेट् परस्मैपदी (वि)उच्छति स्वरे विशेषः
उज्झ् उज्झ उत्सर्गे तुदादिः सकर्मकः सेट् परस्मैपदी उज्झति
उठ् उठ उपघाते भ्वादिः सकर्मकः सेट् परस्मैपदी ओठति
उध्रस् उध्रस उञ्छे क्र्यादिः सकर्मकः सेट् परस्मैपदी उध्रस्नाति ध्रस्नाति
उन्द् उन्दी क्लेदने रुधादिः सकर्मकः सेट् परस्मैपदी उनत्ति
उब्ज् उब्ज आर्जवे तुदादिः सकर्मकः सेट् परस्मैपदी उब्जति
उभ् उभ पूरणे तुदादिः सकर्मकः सेट् परस्मैपदी उभति
उम्भ् उम्भ पूरणे तुदादिः सकर्मकः सेट् परस्मैपदी उम्भति कुम्भः
उरस् बलार्थे
कण्ड्वादिः
उरस्यति
उर्द् उर्द माने क्रीडायां च भ्वादिः अकर्मकः सेट् आत्मनेपदी ऊर्दते
उर्व् उर्वी हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी ऊर्वति ईदित्
उष् उष दाहे भ्वादिः सकर्मकः परस्मैपदी ओषति उष्णः
उषस् प्रभातभावे
कण्ड्वादिः
उषस्यति
उह् उहिर् अर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी ओहति इरित्
ऊठ् ऊठ उपघाते भ्वादिः सकर्मकः सेट् परस्मैपदी ऊठति
ऊन् ऊन परिहाणे चुरादिः सकर्मकः सेट् उभयपदी ऊनयति-ते ऊनं-हीनम्
ऊय् ऊयी तन्तुसन्ताने भ्वादिः सकर्मकः सेट् उभयपदी ऊयते
ऊर्ज् ऊर्ज बलप्राणनयोः चुरादिः सकर्मकः सेट् उभयपदी ऊर्जयति-ते
ऊर्जस्वी- अधिकबलवान्
ऊर्ण् ऊर्णुञ् आच्छादने अदादिः सकर्मकः सेट् उभयपदी ऊर्णोति-ऊर्णौति
ऊष् ऊष रुजायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी ऊषति
ऊषरः-क्षारभूमिः
ऊह् ऊह वितर्के भ्वादिः सकर्मकः सेट् आत्मनेपदी ऊहते
गतिप्रापणयोः भ्वादिः सकर्मकः अनिट् परस्मैपदी ऋच्छति
गतौ
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी इयर्ति
ऋच् ऋच स्तुतौ तुदादिः सकर्मकः सेट् परस्मैपदी ऋचति
ऋच्छ् ऋच्छ गति-प्रलय-इन्द्रिय-मूर्तिभावेषु तुदादिः अकर्मकः सेट् परस्मैपदी ऋच्छति
ऋज् ऋज गति-स्थान-अर्जन-उपार्जनेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी अर्जते
ऋञ्ज् ऋजि भर्जने (भर्जनं पाकविशेषः) भ्वादिः सकर्मकः सेट् आत्मनेपदी ऋञ्जते इदित्
ऋण् ऋणु गतौ तनादिः सकर्मकः सेट् उभयपदी ऋणोति, अर्णोति उदित्
ऋध् ऋधु वृद्धौ दिवादिः अकर्मकः सेट् परस्मैपदी ऋध्यति पुषादिः
ऋध् ऋधु वृद्धौ स्वादिः अकर्मकः सेट् परस्मैपदी ऋध्नोति
ऋफ् ऋफ हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी ऋफति
ऋम्फ् ऋम्फ हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी ऋम्फति
ऋष् ऋषी गतौ तुदादिः सकर्मकः सेट् परस्मैपदी ऋषति ऋषिः
गतौ क्र्यादिः सकर्मकः सेट् परस्मैपदी ॠणाति प्वादिः
एज् एजृ दीप्तौ भ्वादिः सकर्मकः सेट् आत्मनेपदी एजते
एज् एजृ कम्पने भ्वादिः अकर्मकः सेट् परस्मैपदी एजति
एठ् एठ विबाधायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी एठते
एध् एध वृद्धौ भ्वादिः अकर्मकः सेट् आत्मनेपदी एधते
एला विलासे
कण्ड्वादिः
एलायति
एष् एषृ गतौ, प्रयत्ने च भ्वादिः सकर्मकः सेट् आत्मनेपदी एषते ऋदित्
ओख् ओखृ शोषण-अलमर्थयोः भ्वादिः अकर्मकः सेट् परस्मैपदी ओखति ऋदित्
ओण् ओणृ अपनयने भ्वादिः सकर्मकः सेट् परस्मैपदी ओणति
कक् कक लौल्ये (गर्वश्चापल्यं च) भ्वादिः अकर्मकः सेट् आत्मनेपदी ककते काकः
कङ्क् ककि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी कङ्कते इदित्
कख् कखे हसने भ्वादिः सकर्मकः सेट् परस्मैपदी कखति एदित्
कग् कगे अनेकार्थः, क्रियासामान्यार्थः भ्वादिः सकर्मकः सेट् परस्मैपदी कगति एदित्
कच् कच बन्धने भ्वादिः सकर्मकः सेट् आत्मनेपदी कचते
कञ्च् कचि दीप्ति-बन्धनयोः भ्वादिः दीप्तौ अकर्मकः, बन्धने सकर्मकः सेट् आत्मनेपदी कञ्चते इदित्
कट् कटी गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी कटति ईदित्
कट् कटे वर्षावरणयोः भ्वादिः सकर्मकः सेट् परस्मैपदी कटति एदित्
कठ् कठ कृच्छ्रजीवने भ्वादिः अकर्मकः सेट् परस्मैपदी कठति कठिनम्
कण्ठ् कठि शोके (आध्यानम्) भ्वादिः अकर्मकः सेट् आत्मनेपदी कण्ठते शोक इह आध्यानम्
कण्ठ् कठि शोके चुरादिः अकर्मकः सेट् उभयपदी कण्ठयति-ते, कण्ठति-ते
आधृषीयः, शोक इह आध्यानम्
कड् कड मदे भ्वादिः अकर्मकः सेट् परस्मैपदी कडति
कड् कड बन्धने, मदे च तुदादिः सकर्मकः सेट् परस्मैपदी कडति कुटादिः
कड् कडि मदे भ्वादिः अकर्मकः सेट् परस्मैपदी कण्डति
कण्ड् कडि मदे भ्वादिः अकर्मकः सेट् आत्मनेपदी कण्डते
कण्ड् कडि भेदने चुरादिः सकर्मकः सेट् उभयपदी कण्डयति-ते
कड्ड् कड्ड कार्कश्ये (कठोरत्वं) भ्वादिः अकर्मकः सेट् परस्मैपदी कड्डति
कण् कण शब्दे, गतौ च भ्वादिः अकर्मकः, सकर्मकश्च सेट् परस्मैपदी कणति
कण् कण सङ्कोचने चुरादिः सकर्मकः सेट् आत्मनेपदी काणयते आकुस्मीयः
कण् कण निमीलने चुरादिः सकर्मकः सेट् उभयपदी काणयति-ते काण्यादिः
कण्डूञ् गात्रविधर्षणे
कण्ड्वादिः
कण्डूयति
कत्थ् कत्थ श्लाघायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी कत्थते
कत्र् कत्र शैथिल्ये चुरादिः अकर्मकः सेट् उभयपदी कत्रयति-ते
कथ् कथ वाक्यप्रबन्धे चुरादिः सकर्मकः सेट् उभयपदी कथयति-ते
कन्द् कदि आह्वाने रोदने च भ्वादिः आह्वाने सकर्मकः, रोदने अकर्मकः सेट् परस्मैपदी कन्दति
कन्द् कदि
वैक्लव्ये (भयादिना अभिभवः) वैकल्य इत्येके, (वैकल्यं न्यूनत्वम्)
भ्वादिः अकर्मकः सेट् आत्मनेपदी कन्दते घटादिः
कन् कनी दीप्ति-कान्ति-गतिषु (कान्तिः कामना) भ्वादिः अकर्मकः सेट् परस्मैपदी कनति इदित्
कम्प् कपि चलने भ्वादिः अकर्मकः सेट् आत्मनेपदी कम्पते ऋदित्
कब् कबृ वर्णे भ्वादिः अकर्मकः सेट् आत्मनेपदी कबते ऋदित्
कम् कमु कान्तौ (इच्छा) भ्वादिः सकर्मकः सेट् आत्मनेपदी कामयते अयं न मित्
कर्ज् कर्ज व्यथने भ्वादिः सकर्मकः सेट् परस्मैपदी कर्जति
कर्ज् कर्ज पीडने भ्वादिः सकर्मकः सेट् परस्मैपदी कर्जति
कर्ज्जपीडायाम्¦ भ्वा० पर० सक० सेट् । कर्जति अकर्जीत् । चकर्ज्ज प्रनिकर्ज्जति ।
कर्ण् कर्ण भेदने चुरादिः सकर्मकः सेट् उभयपदी कर्णयति-ते
कर्द् कर्द कुत्सिते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी कर्दति
कर्ब् कर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी कर्बति
कर्व् कर्व दर्पे भ्वादिः अकर्मकः सेट् परस्मैपदी कर्वति
कल् कल शब्दसंख्यानयोः भ्वादिः शब्दे सकर्मकः, सङ्ख्याने अकर्मकः सेट् आत्मनेपदी कलते
कल् कल क्षेपे चुरादिः सकर्मकः सेट् उभयपदी कालयति-ते
कल् कल गतौ संख्याने च चुरादिः सकर्मकः सेट् उभयपदी कलयति-ते अदन्तः
कल्ल् कल्ल अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी कल्लते
कश् कश गति-शासनयोः अदादिः सकर्मकः सेट् आत्मनेपदी कष्टे, कशाते, कशते
कंश् कशि गति-शासनयोः अदादिः सकर्मकः सेट् आत्मनेपदी कंष्टे
कस् कस गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी कसति
कंस् कसि गति-शासनयोः अदादिः सकर्मकः सेट् आत्मनेपदी कंस्ते
काङ्क्ष् काक्षि काङ्क्षायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी काङ्क्षति
काञ्च् काचि दीप्तबन्धनयोः भ्वादिः दीप्तौ अकर्मकः, बन्धने सकर्मकः सेट् आत्मनेपदी काञ्चते इदित्
काल् काल कालोपदेशे चुरादिः सकर्मकः सेट् उभयपदी कालयति-ते
काश् काशृ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी काशते
काश् काशृ दीप्तौ दिवादिः अकर्मकः सेट् आत्मनेपदी काश्यते
कास् कासृ शब्दकुत्सायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी कासते
कि कि ज्ञाने
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी चिकेति छान्दसः
किट् किट त्रासे, गतौ च भ्वादिः अकर्मकः सेट् परस्मैपदी केटति
कित् कित निवासे, रोगापनयने च भ्वादिः सकर्मकः सेट् परस्मैपदी चिकित्सति
निवासार्थे- केतति इति वोपदेवः
किल् किल श्वैत्ये, क्रीडायां च तुदादिः अकर्मकः सेट् परस्मैपदी किलति
कीट् कीट वर्णे चुरादिः अकर्मकः सेट् उभयपदी कीटयति-ते
कील् कील बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी कीलति
कु कु शब्दे अदादिः अकर्मकः अनिट् परस्मैपदी कौति उकारान्तः
कुक् कुक आदाने भ्वादिः सकर्मकः सेट् आत्मनेपदी कोकते
कु कुङ् शब्दे भ्वादिः अकर्मकः अनिट् आत्मनेपदी कवते उकारान्तः
कु कुङ् शब्दे तुदादिः अकर्मकः अनिट् आत्मनेपदी कुवते
कुटादिः, उकारान्तः
कुच् कुच सम्पर्चन-कौटिल्य-प्रतिष्टम्भ-विलेखनेषु भ्वादिः सकर्मकः सेट् परस्मैपदी कोचति
कुच् कुच सङ्कोचने (ह्रस्वीभवनम्) तुदादिः अकर्मकः सेट् परस्मैपदी (सं)कुचति कुटादिः
कुञ्च् कुञ्च कौटीय-अल्पीभावयोः भ्वादिः अकर्मकः सेट् परस्मैपदी कुञ्चति
कुज् कुजु स्तेयकरणे भ्वादिः सकर्मकः सेट् परस्मैपदी कोजति उदित्
कुट् कुट कौटिल्ये तुदादिः अकर्मकः सेट् परस्मैपदी कुटति कुटादिः
कुट् कुट छेदने चुरादिः सकर्मकः सेट् आत्मनेपदी कोटयते आकुस्मीयः
कुट्ट् कुट्ट छेदन-भर्त्सनयोः, पूरण इत्येके चुरादिः सकर्मकः सेट् उभयपदी कुट्टयति-ते
कुट्ट् कुट्ट प्रतापने चुरादिः सकर्मकः सेट् आत्मनेपदी कुट्टयते आकुस्मीयः
कुण्ठ् कुठि वेष्टने चुरादिः सकर्मकः सेट् उभयपदी कुण्ठयति-ते इदित्
कुण्ठ् कुठि प्रतिघाते भ्वादिः सकर्मकः सेट् परस्मैपदी
कुड् कुड बाल्ये तुदादिः अकर्मकः सेट् परस्मैपदी कुडति कुटादिः
कुण्ड् कुडि दाहे भ्वादिः सकर्मकः सेट् आत्मनेपदी कुण्डते इदित्
कुण्ड् कुडि वैकल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी कुण्डति इदित्
कुण्ड् कुडि रक्षणे चुरादिः सकर्मकः सेट् उभयपदी कुण्डयति-ते
कुण् कुण शब्दोपकरणयोः तुदादिः अकर्मकः सेट् परस्मैपदी कुणति
कुण् कुण आमन्त्रणे चुरादिः सकर्मकः सेट् उभयपदी कुणयति-ते अदन्तः
कुत्स् कुत्स अवक्षेपणे (निन्दने) चुरादिः सकर्मकः सेट् आत्मनेपदी कुत्सयते आकुस्मीयः
कुथ् कुथ पूतीभावे (दुर्गन्धः) दिवादिः अकर्मकः सेट् परस्मैपदी कुथ्यति
कुथ् कुथ संश्लेषणे (सङ्क्लेशन इत्येके) क्र्यादिः सकर्मकः सेट् परस्मैपदी कुथ्नाति
कुन्थ् कुथि हिंसा-सङ्क्लेशनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी कुन्थति
कुन्द्र कुद्रि अनृतभाषणे चुरादिः सकर्मकः सेट् उभयपदी
कुन्द्रयति-ते, कुन्द्रति-ते
इदित्
कुन्थ् कुन्थ संश्लेषणे क्र्यादिः सकर्मकः सेट् परस्मैपदी कुथ्नाति
कुप् कुप क्रोधे दिवादिः अकर्मकः सेट् परस्मैपदी कुप्यति पुषादिः
कुप् कुप भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी कोपयति-ते
कुम्ब् कुबि आच्छादने भ्वादिः सकर्मकः सेट् परस्मैपदी कुम्बति कुबेरः
कुम्ब् कुबि आच्छादने चुरादिः सकर्मकः सेट् उभयपदी कुम्बयति-ते, कुम्बति-ते इदित्
कुमार् कुमार क्रीडायाम् चुरादिः अकर्मकः सेट् उभयपदी कुमारयति-ते अदन्तः
कुर् कुर शब्दे तुदादिः अकर्मकः सेट् परस्मैपदी कुरति
कुर्द् कुर्द क्रीडायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी कूर्दते
कुल् कुल सन्त्याने, बन्धुषु च (सन्त्यानं सङ्घीकरणम्) भ्वादिः अकर्मकः सेट् परस्मैपदी कोलति
कुंश् कुशि भाषायाम् चुरादिः अकर्मकः सेट् उभयपदी कुंशयति-ते, कुंशति-ते इदित्
कुष् कुष निष्कोषे (अन्तर्गतस्य बहिः निस्सारणम्) क्र्यादिः सकर्मकः सेट् परस्मैपदी कुष्णाति
कुषुभ् क्षेपे
कण्ड्वादिः
कुषुभ्यति
कुस् कुस श्लेषणे दिवादिः सकर्मकः सेट् परस्मैपदी कुस्यति पुषादिः
कुंस् कुसि भाषायाम् चुरादिः अकर्मकः सेट् उभयपदी कुंसयति-ते
कुस्म् कुस्म कुत्सितस्मये चुरादिः अकर्मकः सेट् आत्मनेपदी कुस्मयते
कुह् कुह विस्मापने चुरादिः सकर्मकः सेट् आत्मनेपदी कुहयते
आवर्गीयः, अदन्तः
कू कूङ् शब्दे तुदादिः अकर्मकः सेट् आत्मनेपदी कुवते ऊकारान्तः, ङित्
कूज् कूज अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी कूजति
कूट् कूट आप्रदाने चुरादिः सकर्मकः सेट् आत्मनेपदी कूटयते आकुस्मीयः
कूट् कूट परितापे चुरादिः अकर्मकः सेट् उभयपदी कूटयति-ते अदन्तः
कूण् कूण सङ्कोचने चुरादिः सकर्मकः सेट् उभयपदी कूणयति-ते अदन्तः
कूल् कूल आवरणे भ्वादिः सकर्मकः सेट् परस्मैपदी कूलति
कृ कृञ् हिंसायाम् स्वादिः सकर्मकः अनिट् उभयपदी कुणोति-कृणुते ऋकारान्तः, ञित्
कृ डुकृञ् करणे तनादिः सकर्मकः अनिट् उभयपदी करोति, कुरुते
कृड् कृड घनत्वे (सान्द्रता) वसने इत्येके तुदादिः अकर्मकः सेट् परस्मैपदी कृडति कुटादिः
कृत् कृती छेदने तुदादिः सकर्मकः सेट् परस्मैपदी कृन्तति ईदित्, मुचादिः
कृत् कृती वेष्टने रुधादिः सकर्मकः सेट् परस्मैपदी कृणत्ति ईदित्
कृप् कृप दौर्बल्ये चुरादिः अकर्मकः सेट् उभयपदी कृपयति-ते अदन्तः
कृप् कृपू सामर्थ्ये (कल्पने) भ्वादिः अकर्मकः वेट् परस्मैपदी कल्पते ऊदित्
कृण्व् कृवि हिंसाकरणयोः च (चाद्गतौ) भ्वादिः सकर्मकः सेट् परस्मैपदी कृणोति इदित्
कृश् कृश तनूकरणे दिवादिः सकर्मकः सेट् परस्मैपदी कृश्यति पुषादिः
कृष् कृष विलेखने (विलेखनमाकर्षणम्) तुदादिः द्विकर्मकः सेट् परस्मैपदी कृषति-ते
कृष् कृष विलेखने (विलेखनमाकर्षणम्) तुदादिः सकर्मकः अनिट् उभयपदी कृषति-ते
कॄ कॄ विक्षेपे तुदादिः सकर्मकः सेट् परस्मैपदी किरति ॠकारान्तः
कॄ कॄ हिंसायाम् क्र्यादिः सकर्मकः सेट् परस्मैपदी कृणाति ॠकारान्तः
कॄञ् कॄ हिंसायाम् क्र्यादिः सकर्मकः सेट् उभयपदी कृणाति-कृणीते प्वादिः
कॄत् कॄत संशब्दने चुरादिः सकर्मकः सेट् उभयपदी कीर्तयति-ते अदन्तः
केत् केत निमन्त्रणे श्रवणे च चुरादिः सकर्मकः सेट् उभयपदी केतयति-ते अदन्तः
केप् केपृ कम्पने, गतौ च भ्वादिः अकर्मकः सेट् आत्मनेपदी केपते ऋदित्
केला विलासे
कण्ड्वादिः
केलायति
केल् केलृ चलने भ्वादिः अकर्मकः सेट् परस्मैपदी केलति ऋदित्
केव् केवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी केवते
कै शब्दे भ्वादिः अकर्मकः अनिट् परस्मैपदी कायति ऐकारान्तः
क्नथ् क्नथ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी क्नथति
क्नस् क्नसु ह्वरण-दीप्त्योः (ह्वरणं कौटिल्यम्) दिवादिः अकर्मकः सेट् परस्मैपदी क्नस्यति उदित्
क्नूञ् क्नू शब्दे क्र्यादिः अकर्मकः सेट् उभयपदी क्नूनाति-क्नूनीते ञित्
क्नूय् क्नूयी शब्दे-उन्दने च भ्वादिः शब्दे अकर्मकः, उन्दने सकर्मकः सेट् परस्मैपदी क्नूयते ईदित्
क्मर् क्मर कूर्च्छने (कौटिल्यं) भ्वादिः अकर्मकः सेट् परस्मैपदी क्मरति
क्रथ् क्रथ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी क्रथति घटादिः
क्रद् क्रद आह्वाने रोदने च भ्वादिः सकर्मकः (आह्वाने अक. रोदने सक) सेट् परस्मैपदी क्रदति, क्रदयति घटादिः
क्रन्द् क्रदि आह्वाने रोदने च भ्वादिः (आह्वाने अक. रोदने सक सेट् परस्मैपदी क्रन्दति
क्रन्द् क्रदि वैक्लव्ये (वैकल्ये च) भ्वादिः अकर्मकः सेट् आत्मनेपदी क्रन्दते घटादिः, षित्
क्रन्द् क्रन्द (आङः) सातत्ये चुरादिः अकर्मकः सेट् उभयपदी आक्रन्दयति-ते
क्रप् क्रप कृपायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी क्रपते घटादिः, षित्
क्रम् क्रमु पादविक्षेपे भ्वादिः सकर्मकः सेट् परस्मैपदी क्राम्यति, क्रामति
क्री डुक्रीञ् द्रव्यविनिमये क्र्यादिः सकर्मकः अनिट् उभयपदी क्रीणाति, क्रीणीते
क्रीड् क्रीडृ विहारे भ्वादिः अकर्मकः सेट् परस्मैपदी क्रीडति ऋदित्
क्रुञ्च् क्रुञ्च कौटिल्य-अल्पीभावयोः भ्वादिः अकर्मकः सेट् परस्मैपदी क्रुञ्चति
क्रुड् क्रुड निमज्जने तुदादिः अकर्मकः सेट् परस्मैपदी क्रुडति कुटादिः
क्रुध् क्रुध कोपे दिवादिः अकर्मकः अनिट् परस्मैपदी क्रुध्यति
क्रुश् क्रुश आह्वाने रोदने च भ्वादिः (आह्वाने अक. रोदने सक अनिट् परस्मैपदी क्रोशति
क्लथ् क्लथ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी क्लथति घटादिः
क्लन्द् क्लदि आह्वाने रोदने च भ्वादिः (आह्वाने अक. रोदने सक सेट् परस्मैपदी क्लन्दति इदित्
क्लप् क्लप व्यक्तायां वाचि चुरादिः सकर्मकः सेट् उभयपदी क्लापयति-ते
क्लम् क्लमु ग्लानौ दिवादिः अकर्मकः सेट् परस्मैपदी क्लाम्यति, क्लामति
क्लिन्द् क्लिदि परिदेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी क्लिन्दते
क्लिन्द् क्लिदि परिदेवने भ्वादिः सकर्मकः सेट् परस्मैपदी क्लिन्दति
क्लिन्द् क्लिन्दू आर्द्रीभावे दिवादिः अकर्मकः वेट् परस्मैपदी क्लिद्यति पुषादिः
क्लिश् क्लिश उपतापे दिवादिः अकर्मकः सेट् आत्मनेपदी क्लिश्यते
क्लिश् क्लिशू विबाधने क्र्यादिः सकर्मकः वेट् परस्मैपदी क्लिश्नाति
क्लु क्लुङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी क्लवते
क्लीब् क्लीबृ अधार्ष्ट्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी क्लीबते
क्लु क्लुङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी क्लवते
क्लेश् क्लेश अव्यक्तायां वाचि, बाधने इति केचित् भ्वादिः सकर्मकः सेट् आत्मनेपदी क्लेशते
क्वण् क्वण शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी क्वणति
क्वथ् क्वथे निष्पाके भ्वादिः अकर्मकः सेट् परस्मैपदी क्वथति
क्षञ्ज् क्षजि गतिदानयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी क्षञ्जते
घटादिः, षित्, इदित्
क्षण् क्षणु हिंसायाम् तनादिः सकर्मकः सेट् उभयपदी क्षणोति-क्षणुते उदित्
क्षप् क्षप प्रेरणे चुरादिः सकर्मकः सेट् उभयपदी क्षपयति-ते अदन्तः
क्षम्प् क्षपि क्षान्त्याम् चुरादिः सकर्मकः सेट् उभयपदी क्षम्पयति-ते
क्षम् क्षमू सहने दिवादिः सकर्मकः वेट् परस्मैपदी क्षाम्यति
शमामष्टानां दीर्घः श्यनिः
क्षम् क्षमूष् सहने भ्वादिः सकर्मकः वेट् आत्मनेपदी क्षमते
क्षर् क्षर सञ्चलने श्रवणे च भ्वादिः अकर्मकः सेट् परस्मैपदी क्षरति
क्षर् क्षर ईषच्चलने (चारु.)
क्षल् क्षल शौचकर्मणि चुरादिः सकर्मकः सेट् उभयपदी क्षालयति-ते
क्षि क्षये भ्वादिः
अकर्मकः (अन्तर्भावितण्यर्थे तु सकर्मकः)
अनिट् परस्मैपदी क्षयति
क्षि हिंसायाम् स्वादिः सकर्मकः अनिट् परस्मैपदी क्षिणोति इदन्तः, छान्दसः
क्षि निवास-गत्योः तुदादिः अकर्मकः अनिट् परस्मैपदी क्षियति इकारान्तः
क्षिण् क्षिणु हिंसायाम् तनादिः सकर्मकः सेट् उभयपदी क्षिणोति, क्षिणुते
क्षिप् क्षिप प्रेरणे दिवादिः सकर्मकः अनिट् परस्मैपदी क्षिप्यति
क्षिप् क्षिप प्रेरणे तुदादिः सकर्मकः अनिट् उभयपदी क्षिपति-ते
क्षीज् क्षीज अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी क्षीजति
क्षीब् क्षीबृ मदे भ्वादिः अकर्मकः सेट् आत्मनेपदी क्षीबते
क्षीव् क्षीवु निरसने भ्वादिः सकर्मकः सेट् परस्मैपदी क्षीवति उदित्
क्षी क्षीष् हिंसायाम् क्र्यादिः सकर्मकः अनिट् परस्मैपदी क्षिणाति प्वादिः, षित्
क्षु टुक्षु शब्दे अदादिः अकर्मकः सेट् परस्मैपदी क्षौति
क्षुद् क्षुदिर् सम्पेषणे रुधादिः सकर्मकः अनिट् उभयपदी क्षुणत्ति, क्षुन्ते
क्षुध् क्षुध बुभुक्षायाम् दिवादिः अकर्मकः अनिट् परस्मैपदी क्षुध्यति
क्षुभ् क्षुभ सञ्चलने भ्वादिः अकर्मकः सेट् आत्मनेपदी क्षोभते
क्षुभ् क्षुभ सञ्चलने दिवादिः अकर्मकः सेट् परस्मैपदी क्षुभ्यति पुषादिः
क्षुभ् क्षुभ सञ्चलने क्र्यादिः अकर्मकः सेट् परस्मैपदी क्षुभ्नाति क्षुभ्नादिः
क्षुर् क्षुर विलेखने तुदादिः सकर्मकः सेट् परस्मैपदी क्षुरति
क्षेव् निरसने भ्वादिः सकर्मकः सेट् परस्मैपदी क्षेवति
क्षै क्षये भ्वादिः अकर्मकः अनिट् परस्मैपदी क्षायति ऐकारान्तः
क्षोट् क्षोट क्षेपे चुरादिः सकर्मकः सेट् उभयपदी क्षोटयति-ते अदन्तः
क्ष्णु तेजने अदादिः सकर्मकः सेट् परस्मैपदी क्ष्णौति
क्ष्माय् क्ष्मायी विधूनने भ्वादिः सकर्मकः सेट् आत्मनेपदी क्ष्मायते ईदित्
क्ष्मील् क्ष्मील निमेषणे भ्वादिः अकर्मकः सेट् परस्मैपदी क्ष्मीलति
क्ष्विद् ञिक्ष्विदा स्नेहन-मोचनयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी क्ष्वेदते
ञित्, आदित्, द्युतादिः
क्ष्विद् ञिक्ष्विदा स्नेहन-मोचनयोः दिवादिः सकर्मकः सेट् परस्मैपदी क्ष्विद्यति पुषादिः, आदित्
क्ष्वेल् क्ष्वेलृ चलने भ्वादिः अकर्मकः सेट् परस्मैपदी क्ष्वेलति
खच् खच भूतप्रादुर्भावे (अतिक्रान्तोत्पत्तिः) क्र्यादिः अकर्मकः सेट् परस्मैपदी खच्ञाति
खज् खज मन्थे भ्वादिः सकर्मकः सेट् परस्मैपदी खञ्जति
खञ्ज् खजि गतिवैकल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी खञ्जति
खट् खट काङ्क्षायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी खटति
खट्ट् खट्ट संवरणे चुरादिः सकर्मकः सेट् उभयपदी खट्टयति-ते
खड् खड भेदने चुरादिः सकर्मकः सेट् उभयपदी खडयति-ते
खण्ड् खडि भेदने चुरादिः सकर्मकः सेट् उभयपदी खण्डयति-ते इदित्
खण्ड् खडि मन्थे भ्वादिः सकर्मकः सेट् आत्मनेपदी खण्डते इदित्
खद् खद स्थैर्ये, हिंसायाम्, भक्षणे च भ्वादिः स्थैर्ये अकर्मकः, अन्यत्र सकर्मकः सेट् परस्मैपदी खदति
खन् खनु अवदारणे स्वादिः सकर्मकः सेट् उभयपदी खनति-ते
खर्ज् खर्ज व्यथने, पूजने च भ्वादिः सकर्मकः सेट् परस्मैपदी खर्जति
खर्द् खर्द दन्दशूके (दंशनहिंसनादिरूपक्रिया) भ्वादिः सकर्मकः सेट् परस्मैपदी खर्दति
खर्व् खर्व गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी खर्वति
खर्व् खर्व दर्पे भ्वादिः अकर्मकः सेट् परस्मैपदी खर्वति
खल् खल सञ्चये भ्वादिः सकर्मकः सेट् परस्मैपदी खलति
खव् खव भूतप्रादुर्भावे (अतिक्रान्तोत्पत्तिः) क्र्यादिः अकर्मकः सेट् परस्मैपदी खौनाति
खष् खष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी खषति
खाद् खादृ भक्षणे भ्वादिः सकर्मकः सेट् परस्मैपदी खादति
खिट् खिट त्रासे भ्वादिः अकर्मकः सेट् परस्मैपदी खेटति
खिद् खिद दैन्ये रुधादिः अकर्मकः अनिट् आत्मनेपदी खिद्यते
खिद् खिद परिघाते रुधादिः सकर्मकः अनिट् परस्मैपदी खिन्दति
खिद् खिद दैन्ये रुधादिः अकर्मकः अनिट् आत्मनेपदी खिन्ते
खु खुङ् शब्दे भ्वादिः सकर्मकः अनिट् आत्मनेपदी खवते उकारान्तः, ङित्
खुज् खुजु स्तेयकरणे भ्वादिः सकर्मकः सेट् परस्मैपदी खोजति
खुड् खुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी खुडति कुटादिः
खुण्ड् खुडि खण्डने चुरादिः सकर्मकः सेट् उभयपदी खुण्डयति-ते
खुर् खुर छेदने तुदादिः सकर्मकः सेट् परस्मैपदी खुरति
खुर्द् खुर्द क्रीडायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी खूर्दते
खेट् खेट भक्षणे चुरादिः सकर्मकः सेट् उभयपदी खेटयति-ते अदन्तः
खेला विलासे
कण्ड्वादिः
खेलायति
खेल् खेलृ चलने भ्वादिः अकर्मकः सेट् परस्मैपदी खेलति
खेव् खेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी खेवते ऋदित्
खै खदने (स्थिरत्वं हिंसा च) भ्वादिः सकर्मकः अनिट् परस्मैपदी खायति ऐकारान्तः
खोट् खोट भक्षणे चुरादिः सकर्मकः सेट् उभयपदी खोटयति-ते
खोर् खोर्ऋ गतिप्रतिघाते भ्वादिः अकर्मकः सेट् परस्मैपदी खोरति ऋदित्
खोल् खोलृ गतिप्रतिघाते भ्वादिः अकर्मकः सेट् परस्मैपदी खोलति
ख्या प्रकथने अदादिः सकर्मकः अनिट् परस्मैपदी ख्याति
गज् गज शब्दे मदे च भ्वादिः अकर्मकः सेट् परस्मैपदी गजति
गज् गज शब्दे चुरादिः अकर्मकः सेट् उभयपदी गाजयति-ते
गञ्ज् गजि शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी गञ्जति
गड् गड सेचने भ्वादिः सकर्मकः सेट् परस्मैपदी गडति घटादिः
गण्ड् गडि वदनैकदेशे भ्वादिः अकर्मकः सेट् परस्मैपदी गण्डति
गण् गण सङ्ख्याने चुरादिः सकर्मकः सेट् उभयपदी गणयति-ते
गद् गद व्यक्तायां वाचि भ्वादिः सकर्मकः सेट् परस्मैपदी गदति
गद् गदी देवशब्दे चुरादिः अकर्मकः सेट् उभयपदी गदयति-ते
गद्गद् वाक्स्खलने
कण्ड्वादिः
गद्गद्यति
गन्ध् गन्ध अर्दने चुरादिः सकर्मकः सेट् आत्मनेपदी गन्धयते आकुस्मीयः
गम् गम्लृ गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी गच्छति
गर्ज् गर्ज शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी गर्जति
गर्ज् गर्ज शब्दे चुरादिः अकर्मकः सेट् उभयपदी गर्जयति-ते
गर्द् गर्द शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी गर्दति
गर्ब् गर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी गर्बति
गर्व् गर्व माने भ्वादिः अकर्मकः सेट् परस्मैपदी गर्वति
गर्व् गर्व माने चुरादिः अकर्मकः सेट् आत्मनेपदी गर्वयते
गर्ह् गर्ह कुत्सायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी गर्हते
गर्ह् गर्ह निन्दने चुरादिः सकर्मकः सेट् उभयपदी गर्हयति-ते आधृषीयः
गल् गल अदने स्रवणे च भ्वादिः सकर्मकः सेट् परस्मैपदी गलति
गल् गल स्रवणे चुरादिः अकर्मकः सेट् आत्मनेपदी गालयते आकुस्मीयः
गल्भ् गल्भ धार्ष्ट्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी गल्भते
गल्ह् गल्ह कुत्सायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी गल्हते
गवेष् गवेष मार्गणे चुरादिः सकर्मकः सेट् उभयपदी गवेषयति-ते
गा गा स्तुतौ
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी जिगाति
आकारान्तः, छान्दसः
गा गाङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी गाते आकारान्तः
गाध् गाधृ प्रतिष्ठा-लिप्सयोः ग्रन्थे च भ्वादिः सकर्मकः सेट् आत्मनेपदी गाधते
गाह् गाहू विलोडने भ्वादिः सकर्मकः वेट् आत्मनेपदी गाहते
गु गु पुरीषोत्सर्गे तुदादिः अकर्मकः अनिट् परस्मैपदी गुवति उकारान्तः, ङित्
गु गुङ् अव्यक्ते शब्दे भ्वादिः अकर्मकः अनिट् आत्मनेपदी गवते उकारान्तः, ङित्
गुज् गुज शब्दे तुदादिः अकर्मकः सेट् परस्मैपदी गुजति कुटादिः
गुञ्ज् गुजि अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी गुञ्जति
गुण्ठ् गुठि वेष्टने चुरादिः सकर्मकः सेट् उभयपदी गुण्ठयति-ते
गुड् गुड रक्षायाम् तुदादिः सकर्मकः सेट् परस्मैपदी गुडति कुटादिः
गुण्ड् गुडि वेष्टने (रक्षण इत्येके) चुरादिः सकर्मकः सेट् उभयपदी गुण्डयति-ते
गुण् गुण आमन्त्रणे चुरादिः सकर्मकः सेट् उभयपदी गुणयति-ते
गुद् गुद क्रीडायाम्, चलने च भ्वादिः अकर्मकः सेट् आत्मनेपदी गोदते
गुध् गुध परिवेष्टने दिवादिः सकर्मकः सेट् परस्मैपदी गुध्यति
गुध् गुध रोषे क्र्यादिः अकर्मकः सेट् परस्मैपदी गुध्नाति
गुप् गुप गोपने भ्वादिः सकर्मकः सेट् आत्मनेपदी जुगुप्सते
गुप्तिज्किद्भ्यः सन्
गुप् गुप व्याकुलत्वे दिवादिः अकर्मकः सेट् परस्मैपदी गुप्यति पुषादिः
गुप् गुप भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी गोपयति-ते
गुप् गुपू रक्षणे भ्वादिः सकर्मकः सेट् परस्मैपदी गोपायति
गुफ् गुफ ग्रन्थे तुदादिः सकर्मकः सेट् परस्मैपदी गुफति
गुम्फ् गुम्फ ग्रन्थे तुदादिः सकर्मकः सेट् परस्मैपदी गुम्फति
गुर् गुरी उद्यमने तुदादिः सकर्मकः सेट् आत्मनेपदी गुरते कुटादिः
गुर्द् गुर्द क्रीडायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी गूर्दते
गुर्द् गुर्द पूर्विनिकेतने चुरादिः अकर्मकः सेट् उभयपदी गूर्दयति-ते
गुर्व् गुर्वी उद्यमने भ्वादिः सकर्मकः सेट् परस्मैपदी गूर्वति ईदित्
गुह् गुहू संवरणे भ्वादिः सकर्मकः वेट् आत्मनेपदी गूहति ऊदित्
गुर् गुर उद्यमने चुरादिः सकर्मकः सेट् आत्मनेपदी गूरयते आकुस्मीयः
गूर् गूरी हिंसा-गत्योः दिवादिः सकर्मकः सेट् आत्मनेपदी गूर्यते ईदित्
गृ गृ सेचने भ्वादिः सकर्मकः अनिट् परस्मैपदी गरति ऋकारान्तः
गृ गृ विज्ञाने चुरादिः सकर्मकः सेट् आत्मनेपदी गारयते
ऋकारान्तः, आकुस्मीयः
गृज् गृज शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी गर्जति
गृञ्ज् गृजि शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी गृञ्जति इदित्
गृध् गृधु अभिकाङ्क्षायाम् दिवादिः सकर्मकः सेट् परस्मैपदी गृध्यति पुषादिः
गृह् गृह ग्रहणे चुरादिः सकर्मकः सेट् आत्मनेपदी गृहयते
अदन्तः, आगर्वीयः
गृह् गृहू गर्हणे (कुत्सनम्) भ्वादिः सकर्मकः वेट् आत्मनेपदी गर्हते ऊदित्
गॄ गिर् निगरणे तुदादिः सकर्मकः सेट् परस्मैपदी गिरति-गिलति
गॄ गृ शब्दे क्र्यादिः अकर्मकः सेट् परस्मैपदी गृणाति प्वादिः
गेप् गेपृ कम्पने भ्वादिः सकर्मकः सेट् आत्मनेपदी गेपते ऋदित्
गेव् गेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी गेवते ऋदित्
गेष् गेषृ अन्विच्छायाम् (अन्वेषणम्) भ्वादिः सकर्मकः सेट् आत्मनेपदी गेषते ऋदित्
गै गाय् शब्दे भ्वादिः अकर्मकः अनिट् परस्मैपदी गायति ऐकारान्तः
गोम् गोम उपलेपने चुरादिः सकर्मकः सेट् उभयपदी गोमयति-ते अदन्तः
गोष्ट् गोष्ट सङ्घाते भ्वादिः अकर्मकः सेट् आत्मनेपदी गोष्टते
ग्रन्थ् ग्रथि कौटिल्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी ग्रन्थते इदित्
ग्रन्थ् ग्रन्थ सन्दर्भे क्र्यादिः सकर्मकः सेट् परस्मैपदी ग्रथ्नाति
ग्रन्थ् ग्रन्थ सन्दर्भे, बन्धने च चुरादिः सकर्मकः सेट् उभयपदी ग्रन्थयति-ते आधृषीयः
ग्रस् ग्रस ग्रहणे चुरादिः सकर्मकः सेट् उभयपदी ग्रसयति-ते
ग्रस् ग्रसु अदने भ्वादिः सकर्मकः सेट् आत्मनेपदी ग्रसते उदित्
ग्रह् ग्रह उपादाने क्र्यादिः सकर्मकः सेट् उभयपदी गृह्णाति-गृह्णीते
ग्राम् ग्राम आमन्त्रणे चुरादिः सकर्मकः सेट् उभयपदी ग्रामयति-ते
ग्रुच् ग्रुचु स्तेयकरणे भ्वादिः सकर्मकः सेट् परस्मैपदी ग्रोचति उदित्
ग्लस् ग्लसु अदने भ्वादिः सकर्मकः सेट् आत्मनेपदी ग्लसते उदित्
ग्लुञ्च् ग्लुचु स्तेयकरणे भ्वादिः सकर्मकः सेट् परस्मैपदी ग्लोचति उदित्
ग्लुञ्च् ग्लुञ्चु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ग्लुञ्चति उदित्
ग्लेप् ग्लेपृ दैन्ये, कम्पने, गतौ च भ्वादिः सकर्मकः सेट् आत्मनेपदी ग्लेपते ऋदित्
ग्लेव् ग्लेवृ सेवने, दैन्ये, कम्पने, गतौ च भ्वादिः सकर्मकः सेट् आत्मनेपदी ग्लेवते ऋदित्
ग्लेष् ग्लेषृ अन्विच्छायाम् (अन्वेषणम्) भ्वादिः सकर्मकः सेट् आत्मनेपदी ग्लेषते ऋदित्
ग्लै ग्लाय् हर्षक्षये भ्वादिः अकर्मकः अनिट् परस्मैपदी ग्लायति ऐकारान्तः
घघ् घघ हसने भ्वादिः अकर्मकः सेट् परस्मैपदी घघति
घट् घट चेष्टायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी घटते
घट् घट भाषायाम्, संघाते च चुरादिः सकर्मकः सेट् उभयपदी घाटयति-ते
घण्ट् घटि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी घण्टयति-ते
घट्ट् घट्ट चलने भ्वादिः अकर्मकः सेट् आत्मनेपदी घट्टते
घट्ट् घट्ट चलने चुरादिः अकर्मकः उभयपदी घट्टयति-ते
घष् घष कान्तिकरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी घषते
घस् घस्लृ अदने भ्वादिः सकर्मकः अनिट् परस्मैपदी घसति लृदित्
घिण्ण् घिणि ग्रहणे भ्वादिः सकर्मकः सेट् आत्मनेपदी घिण्णते इदित्
घु घुङ् शब्दे भ्वादिः अकर्मकः अनिट् आत्मनेपदी घवते उकारान्तः
घुट् घुट परिवर्तने भ्वादिः सकर्मकः सेट् आत्मनेपदी घोटते द्युतादिः
घुट् घुट प्रतिघाते तुदादिः सकर्मकः सेट् परस्मैपदी घुटति कुटादिः
घुण् घुण भ्रमणे भ्वादिः अकर्मकः सेट् आत्मनेपदी घोणते
घुण् घुण भ्रमणे तुदादिः अकर्मकः सेट् परस्मैपदी घुणति
घुण्ण् घुणि ग्रहणे भ्वादिः सकर्मकः सेट् आत्मनेपदी घुण्णते
घुर् घुर भीमार्थ-शब्दयोः तुदादिः अकर्मकः सेट् परस्मैपदी घुरति घोरम्
घुष् घुष कान्तिकरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी घोषते
घुंष् घुषि कान्तिकरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी घुंषते
घुष् घुषिर् अविशब्दने भ्वादिः सकर्मकः सेट् परस्मैपदी घोषति इरित्
घुष् घुषिर् विशब्दने चुरादिः सकर्मकः सेट् उभयपदी घोषयति-ते इरित्
घूर् घूरी हिंसा-वयोहान्योः दिवादिः सकर्मकः सेट् आत्मनेपदी घूर्यते ईदित्
घूर्ण् घूर्ण भ्रमणे भ्वादिः अकर्मकः सेट् आत्मनेपदी घूर्णते
घूर्ण् घूर्ण भ्रमणे तुदादिः अकर्मकः सेट् परस्मैपदी घूर्णति
घृ घृ सेचने भ्वादिः सकर्मकः अनिट् परस्मैपदी घरति ऋकारान्तः
घृ घृ क्षरण-दीप्त्योः
जुहोत्यादिः
क्षरणे सकर्मकः दीप्तावाकर्मकः अनिट् परस्मैपदी जिघर्ति
ऋकारान्तः, छान्दसः
घृ घृ प्रस्रवणे चुरादिः सकर्मकः सेट् उभयपदी घारयति-ते ऋकारान्तः
घृण्ण् घृणि ग्रहणे भ्वादिः सकर्मकः सेट् आत्मनेपदी घृण्णते इदित्
घृण् घृणु दीप्तौ तनादिः अकर्मकः सेट् उभयपदी
घृणोति-घर्णोति, घृणुते-घर्णुते
उदित्
घृष् घृष सङ्घर्षे भ्वादिः सकर्मकः सेट् परस्मैपदी घर्षति
घ्रा घ्रा गन्धोपादाने भ्वादिः सकर्मकः अनिट् परस्मैपदी जिघ्रति आकारान्तः
ङु ङुङ् अव्यक्ते शब्दे भ्वादिः अकर्मकः अनिट् आत्मनेपदी ङुवते उकारान्तः
चक् चक तृप्तौ भ्वादिः अकर्मकः सेट् परस्मैपदी चकति
चक् चक तृप्तौ, प्रतिघाते च भ्वादिः सकर्मकः सेट् आत्मनेपदी चकते
चकास् चकासृ दीप्तौ अदादिः अकर्मकः सेट् परस्मैपदी चकास्ति ऋदित्
चक्क् चक्क व्यथने चुरादिः सकर्मकः सेट् उभयपदी चक्कयति-ते
चक्ष् चक्षिङ् व्यक्तायां वाचि अदादिः सकर्मकः सेट् आत्मनेपदी चष्टे ङित्
चञ्च् चञ्चु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी चञ्चति उदित्
चट् चट भेदने चुरादिः सकर्मकः सेट् उभयपदी चाटयति-ते
चट् चटे वर्षावरणयोः भ्वादिः सकर्मकः सेट् परस्मैपदी चटति एदित्
चण्ड् चडि कोपे भ्वादिः अकर्मकः सेट् आत्मनेपदी चण्डते
चण् चण दाने गतौ च भ्वादिः सकर्मकः सेट् परस्मैपदी चणति
चत् चते याचने भ्वादिः सकर्मकः सेट् उभयपदी चतति-ते एदित्
चन्द् चदि आह्लादने दीप्तौ च भ्वादिः सकर्मकः सेट् परस्मैपदी चन्दति
चद् चदे याचने भ्वादिः सकर्मकः सेट् उभयपदी चदति-ते एदित्
चन् चन हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी चनति घटादिः
चन् चन श्रद्धा-उपतापयोः चुरादिः सकर्मकः सेट् उभयपदी चानयति-ते आधृषीयः
चप् चप सान्त्वने भ्वादिः सकर्मकः सेट् परस्मैपदी चपति
चम्प् चपि गत्याम् चुरादिः सकर्मकः सेट् उभयपदी चम्पयति-ते
चम् चमु भक्षणे भ्वादिः सकर्मकः सेट् परस्मैपदी चमति उदित्
चम् चमु भक्षणे स्वादिः सकर्मकः सेट् परस्मैपदी चम्नोति छान्दसः
चय् चय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी चयते
चर् चर गतिभक्षणयोः भ्वादिः सकर्मकः सेट् परस्मैपदी चरति
चर् चर संशये चुरादिः सकर्मकः सेट् उभयपदी चारयति-ते
चरण् चरण गतौ
कण्ड्वादिः
चरण्यति
चर्च् चर्च अध्ययने चुरादिः सकर्मकः सेट् उभयपदी चर्चयति-ते
चर्च् चर्च परिभाषण-भर्त्सनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी चर्चति
चर्ब् चर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी चर्बति
चर्व् चर्व अदने भ्वादिः सकर्मकः सेट् परस्मैपदी चर्वति
चल् चल कम्पने भ्वादिः अकर्मकः सेट् परस्मैपदी चलति घटादिः
चल् चल विलसने तुदादिः सकर्मकः सेट् परस्मैपदी चलति
चल् चल भृतौ चुरादिः सकर्मकः सेट् उभयपदी चालयति-ते
चष् चष भक्षणे भ्वादिः सकर्मकः सेट् उभयपदी चषति
चह् चह परिकल्पने (दम्भः, शाठ्यं) भ्वादिः अकर्मकः सेट् परस्मैपदी चहति
चह् चह परिकल्पने (दम्भः, शाठ्यं) चुरादिः सकर्मकः सेट् उभयपदी चहयति
अदन्तः, ज्ञपादित्वात् मित्
चाय् चायृ पूजा-निशामनयोः भ्वादिः सकर्मकः सेट् उभयपदी चायति-ते ऋदित्
चिक्क् चिक्क व्यथने चुरादिः सकर्मकः सेट् उभयपदी चिक्कयति-ते
चि चिञ् चयने स्वादिः द्विकर्मकः अनिट् उभयपदी चिनोति-चिनुते
चि चिञ् चयने चुरादिः सकर्मकः सेट् उभयपदी चपयति-ते; चपति-ते
ज्ञपादित्वात् मित्
चिट् चिट परप्रेष्ये भ्वादिः अकर्मकः सेट् परस्मैपदी चेटति
चित् चित सञ्चलने चुरादिः सकर्मकः सेट् आत्मनेपदी चेतयते आकुस्मीयः
चिन्त् चिति स्मृत्याम् चुरादिः सकर्मकः सेट् उभयपदी चिन्तयति-ते
चित् चिती संज्ञाने भ्वादिः अकर्मकः सेट् परस्मैपदी चेतति ईदित्
चित्र् चित्र चित्रीकरणे चुरादिः सकर्मकः सेट् उभयपदी चित्रयति-ते अदन्तः
चिर् चिरि हिंसायाम् स्वादिः सकर्मकः सेट् परस्मैपदी चिरिणोति
इकारान्तः, छान्दसः
चिल् चिल निवसने तुदादिः सकर्मकः सेट् परस्मैपदी चिलति
चिल्ल् चिल्ल शैथिल्ये, भावकरणे च भ्वादिः अकर्मकः सेट् परस्मैपदी चिल्लति
चीक् चीक मर्षणे चुरादिः सकर्मकः सेट् उभयपदी चीकयति-ते, चीकति-ते आधृषीयः
चीभ् चीभृ कत्थने भ्वादिः सकर्मकः सेट् आत्मनेपदी चीभते
चीव् चीव भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी चीवयति-ते
चीव् चीवृ आदान-संवरणयोः भ्वादिः सकर्मकः सेट् उभयपदी चीवति-ते ऋदित्
चुक्क् चुक्क व्यथने चुरादिः सकर्मकः सेट् उभयपदी चुक्कयति-ते
चुच्य् चुच्य अभिषवे (स्नपने) भ्वादिः स्नाने अकर्मकः, अन्यत्र सकर्मकः सेट् परस्मैपदी चुच्यति
चुट् चुट छेदने तुदादिः सकर्मकः सेट् परस्मैपदी चुटति कुटादिः
चुट् चुट छेदने चुरादिः सकर्मकः सेट् उभयपदी चोटयति-ते
चुण्ट् चुटि अल्पीभावे भ्वादिः अकर्मकः सेट् परस्मैपदी चुण्टति
चुण्ट् चुटि छेदने चुरादिः सकर्मकः सेट् उभयपदी चुण्टयति-ते
चुट्ट् चुट्ट अल्पीभावे चुरादिः अकर्मकः सेट् उभयपदी चुट्टयति-ते
चुड् चुड संवरणे, समुच्छ्राये च तुदादिः सकर्मकः सेट् परस्मैपदी चुडति कुटादिः
चुण्ड् चुडि अल्पीभावे भ्वादिः अकर्मकः सेट् परस्मैपदी चुण्डति
चुड्ड् चुड्ड भावकरणे (अभिप्रायसूचने) भ्वादिः अकर्मकः सेट् परस्मैपदी चुड्डति
चुत् चुतिर् क्षरणे भ्वादिः सकर्मकः सेट् परस्मैपदी चोतति इरित्
चुद् चुद सञ्चोदने चुरादिः सकर्मकः सेट् उभयपदी चोदयति-ते
चुप् चुप मन्दायां गतौ भ्वादिः अकर्मकः सेट् परस्मैपदी चोपति
चुम्ब् चुबि वक्त्रसंयोगे भ्वादिः सकर्मकः सेट् परस्मैपदी चुम्बति
चुम्ब् चुबि हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी चुम्बयति-ते
चुर् चुर स्तेये चुरादिः सकर्मकः सेट् उभयपदी चोरयति-ते
चुरण चौर्ये
कण्ड्वादिः
चुरण्यति
चुल् चुल समुच्छ्राये चुरादिः सकर्मकः सेट् उभयपदी चोलयति-ते
चुल्ल् चुल्ल भावकरणे (अभिप्रायसूचने) भ्वादिः अकर्मकः सेट् परस्मैपदी चुल्लति
चूर् चूरी दाहे दिवादिः सकर्मकः सेट् आत्मनेपदी चूर्यते ईदित्
चूर्ण् चूर्ण प्रेरणे, सङ्कोचने च चुरादिः सकर्मकः सेट् उभयपदी चूर्णयति-ते
चूष् चूष पाने भ्वादिः सकर्मकः सेट् परस्मैपदी चूषति
चृत् चृती हिंसा-ग्रन्थनयोः तुदादिः सकर्मकः सेट् परस्मैपदी चृतति
चृप् चृप सन्दीपने चुरादिः सकर्मकः सेट् उभयपदी चर्पयति-ते आधृषीयः
चेल् चेलृ चलने भ्वादिः अकर्मकः सेट् परस्मैपदी चेलति
चेष्ट् चेष्ट चेष्टायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी चेष्टते ऋदित्
च्यु च्यु सहने चुरादिः सकर्मकः सेट् उभयपदी च्यावयति-ते
च्यु च्युङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी च्यवते उकारान्तः
च्युत् च्युतिर् आसेचने भ्वादिः सकर्मकः सेट् परस्मैपदी च्योतति इरित्
च्युस् च्युस हसने चुरादिः अकर्मकः सेट् उभयपदी च्योसयति-ते
छद् छद अपवारणे चुरादिः सकर्मकः सेट् उभयपदी छादयति-ते, छदति-ते आधृषीयः
छद् छद अपवारणे चुरादिः सकर्मकः सेट् उभयपदी छदयति-ते अदन्तः
छन्द् छदि संवरणे चुरादिः सकर्मकः सेट् उभयपदी छन्दयति-ते
छद् छदिर् ऊर्जने (बलं जीवनं च) भ्वादिः सकर्मकः सेट् परस्मैपदी छदति, छदयति घटादिः, इरित्
छम् छमु अदने भ्वादिः सकर्मकः सेट् परस्मैपदी छमति
छर्द् छर्द वमने भ्वादिः अकर्मकः सेट् परस्मैपदी छर्दति
छर्द् छर्द वमने चुरादिः अकर्मकः सेट् उभयपदी छर्दयति-ते
छष् छष हिंसायाम् भ्वादिः सकर्मकः सेट् उभयपदी छपति-ते
छिद् छिदिर् द्वैधीकरणे रुधादिः सकर्मकः अनिट् उभयपदी छिनत्ति-छिन्ते
छिद्र् छिद्र कर्णभेदने चुरादिः सकर्मकः सेट् उभयपदी छिद्रयति-ते अदन्तः
छुट् छुट संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी छुटति कुटादिः
छुड् छुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी छुडति
छुप् छुप स्पर्शे तुदादिः सकर्मकः अनिट् परस्मैपदी छुपति
छुर् छुर छेदने तुदादिः सकर्मकः सेट् परस्मैपदी छुरति कुटादिः
छृद् उच्छृदिर् दीप्ति-देवनयोः रुधादिः दीप्तावकर्मकः, देवने सकर्मकः सेट् उभयपदी छृणत्ति-छृन्ते
छृद् छृदी दीपने चुरादिः सकर्मकः सेट् उभयपदी छर्दयति-ते आधृषीयः
छृप् छृप सन्दीपने चुरादिः सकर्मकः सेट् उभयपदी छर्पयति-ते आधृषीयः
छेद् छेद द्वैधीकरणे चुरादिः सकर्मकः सेट् उभयपदी छेदयति-ते अदन्तः
छो छो छेदने दिवादिः सकर्मकः अनिट् परस्मैपदी छ्यति ओकारान्तः
जक्ष् जक्ष भक्ष-हसनयोः अदादिः भक्षणे सकर्मकः, हसने अकर्मकः सेट् परस्मैपदी जक्षिति रुदादिः
जज् जज युद्धे भ्वादिः अकर्मकः सेट् परस्मैपदी जजति
जञ्ज् जजि युद्धे भ्वादिः अकर्मकः सेट् परस्मैपदी जञ्जति
जट् जट सङ्घाते भ्वादिः सकर्मकः सेट् परस्मैपदी जटति
जड् जड सङ्घाते भ्वादिः सकर्मकः सेट् परस्मैपदी जडति
जन् जन जनने
जुहोत्यादिः
अकर्मकः सेट् परस्मैपदी जजन्ति छान्दसः
जन् जनी प्रादुर्भावे दिवादिः अकर्मकः सेट् आत्मनेपदी जायते
जप् जप व्यक्तायां वाचि, मानसे च भ्वादिः सकर्मकः सेट् परस्मैपदी जपति
जम्भ् जभी गात्रविनामे भ्वादिः अकर्मकः सेट् आत्मनेपदी जम्भते ईदित्
जम्भ् जभि नाशने चुरादिः सकर्मकः सेट् उभयपदी जम्भयति-ते
जम् जमु अदने भ्वादिः सकर्मकः सेट् परस्मैपदी जमति
जर्ज् जर्ज परिभाषण-हिंसा-तर्जनेषु तुदादिः सकर्मकः सेट् परस्मैपदी जर्जति
जल् जल घातने (तैक्ष्ण्यं) भ्वादिः सकर्मकः सेट् परस्मैपदी जलति
जल् जल अपवारणे चुरादिः सकर्मकः सेट् उभयपदी जालयति-ते
जल्प् जल्प व्यक्तायां वाचि भ्वादिः सकर्मकः सेट् परस्मैपदी जल्पति
जष् जष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी जषति
जंस् जसि रक्षणे चुरादिः सकर्मकः सेट् उभयपदी जंसयति-ते
जस् जसु हिंसायाम्-ताडने च चुरादिः सकर्मकः सेट् उभयपदी जासयति-ते
जस् जसु मोक्षणे दिवादिः सकर्मकः सेट् परस्मैपदी जस्यति
जागृ जागृ निद्राक्षये अदादिः अकर्मकः सेट् परस्मैपदी जागर्ति ऋकारान्तः
जि जि जये भ्वादिः अकर्मकः अनिट् परस्मैपदी जयति
जि जि अभिभवे (न्यूनीकरणं, न्यूनीभवनम्) भ्वादिः
न्यूनीकरणे सकर्मकः, न्यूनीभवने अकर्मकः)
अनिट् परस्मैपदी जयति
जिम् जिमु अदने भ्वादिः सकर्मकः सेट् परस्मैपदी जेमति
जिर् जिरि हिंसायाम् स्वादिः सकर्मकः सेट् परस्मैपदी जिरिणोति
इकारान्तः, छान्दसः
जिन्व् जिवि प्रीणने भ्वादिः सकर्मकः सेट् परस्मैपदी जिन्वति
जिष् जिषु सेचने भ्वादिः सकर्मकः सेट् परस्मैपदी जेषति उदित्
जीव् जीव प्राणने भ्वादिः अकर्मकः सेट् परस्मैपदी जीवति
जुङ्ग् जुगि वर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी जुङ्गति
जुट् जुट गतौ तुदादिः सकर्मकः सेट् परस्मैपदी जुटति कुटादिः
जुड् जुड गतौ बन्धने च तुदादिः सकर्मकः सेट् परस्मैपदी जुडति कुटादिः
जुड् जुड प्रेरणे चुरादिः सकर्मकः सेट् उभयपदी जोडयति-ते
जुत् जुतृ भासने भ्वादिः अकर्मकः सेट् आत्मनेपदी जोतते
जुन् जुन गतौ तुदादिः सकर्मकः सेट् परस्मैपदी जुनति कुटादिः
जुष् जुष परितर्कणे (ऊहो हिंसा वा, सुखे च) चुरादिः सकर्मकः सेट् उभयपदी जोषयति-ते, जुषति-ते आधृषीयः
जुष् जुष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी जुषति
जुष् जुषी प्रीतिसेवनयोः तुदादिः सकर्मकः सेट् आत्मनेपदी जुषते
जूर् जूरी हिंसाहान्योः दिवादिः सकर्मकः सेट् आत्मनेपदी जूर्यते ईदित्
जृम्भ् जृभि गात्रविनामे भ्वादिः अकर्मकः सेट् आत्मनेपदी जृम्भते
जॄ वयोहानौ क्र्यादिः अकर्मकः सेट् परस्मैपदी जृणाति ॠकारान्तः
जॄ वयोहानौ चुरादिः अकर्मकः सेट् उभयपदी जारयति-ते, जरति ॠकारान्तः
जॄ जॄष् वयोहानौ दिवादिः अकर्मकः सेट् परस्मैपदी जीर्यति
जेष् जेषृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी जेषते ऋदित्
जेह् जेहृ प्रयत्ने भ्वादिः अकर्मकः सेट् आत्मनेपदी जेहते ऋदित्
जै क्षये भ्वादिः अकर्मकः अनिट् परस्मैपदी जायति ऐकारान्तः
ज्ञप् ज्ञप ज्ञाने, ज्ञापने च चुरादिः सकर्मकः सेट् उभयपदी ज्ञपयति-ते मित्
ज्ञा अवबोधने क्र्यादिः सकर्मकः अनिट् परस्मैपदी (आत्मनेपदी) जानाति-जानीते आकारान्तः
ज्ञा नियोगे चुरादिः सकर्मकः सेट् उभयपदी ज्ञापयति-ते
ज्या वयोहानौ क्र्यादिः अकर्मकः अनिट् परस्मैपदी जिनाति ल्वादिः
ज्यु ज्युङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी ज्यवते उकारान्तः
ज्रि जये अभिभवे च भ्वादिः जये अकर्मकः, अभिभवे सकर्मकः) अनिट् परस्मैपदी ज्रयति
ज्वर् ज्वर रोगे भ्वादिः अकर्मकः सेट् परस्मैपदी ज्वरति मित्
ज्वल् ज्वल दीप्तौ भ्वादिः अकर्मकः सेट् परस्मैपदी ज्वलति
झट् झट सङ्घाते भ्वादिः सकर्मकः सेट् परस्मैपदी झटति
झड् झड सङ्घाते भ्वादिः सकर्मकः सेट् परस्मैपदी झडति
झम् झमु अदने भ्वादिः सकर्मकः सेट् परस्मैपदी झमति
झझ् झझ युद्धे भ्वादिः अकर्मकः सेट् परस्मैपदी झझति
झर्झ् झर्झ युद्धे तुदादिः अकर्मकः सेट् परस्मैपदी झर्झति
झष् झष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी झषति
झष् झष आदानसंवरणयोः भ्वादिः सकर्मकः सेट् उभयपदी झषति-ते
झॄ झॄष् वयोहानौ दिवादिः अकर्मकः सेट् परस्मैपदी झीर्यति
टङ्क् टकि बन्धने चुरादिः सकर्मकः सेट् उभयपदी टङ्कयति-ते
टल् टल वैक्लव्ये भ्वादिः अकर्मकः सेट् परस्मैपदी टलति
टिक् टिकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी टेकते ऋदित्
टीक् टीकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी टीकते ऋदित्
टौक् टौकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी टौकते ऋदित्
ट्वल् ट्वल वैक्लव्ये भ्वादिः अकर्मकः सेट् परस्मैपदी ट्वलति
डप् डप सङ्घाते चुरादिः सकर्मकः सेट् आत्मनेपदी डापयते आकुस्मीयः
डिप् डिप क्षेपे दिवादिः सकर्मकः सेट् परस्मैपदी डिप्यति
डिप् डिप क्षेपे तुदादिः सकर्मकः सेट् परस्मैपदी डिपति कुटादिः
डिप् डिप क्षेपे सङ्घाते च चुरादिः सकर्मकः सेट् आत्मनेपदी डेपयते आकुस्मीयः
डिम्ब् डिबि क्षेपे चुरादिः सकर्मकः सेट् उभयपदी डिम्बयति-ते
डिम्भ् डिभि क्षेपे चुरादिः सकर्मकः सेट् उभयपदी डिम्भयति-ते
डी डीङ् विहायसा गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी डयते
डी डीङ् विहायसा गतौ दिवादिः सकर्मकः सेट् आत्मनेपदी डीयते ओदित्
डुल् डुल उत्क्षेपणे चुरादिः सकर्मकः सेट् उभयपदी डोलयति-ते
ढौक् ढौकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी ढौकते
नक्ष् णक्ष गतौ, सङ्घात इत्येके भ्वादिः सकर्मकः सेट् परस्मैपदी नक्षति
नख् णख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी नखति
नङ्ख् णखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी नङ्खति
नट् णट नृत्तौ भ्वादिः अकर्मकः सेट् परस्मैपदी नटति
नद् णद अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी नदति
नद् णद भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी नादयति-ते
नभ् णभ हिंसायाम्, अभावेपि भ्वादिः हिंसायां सकर्मकः, अभावे अकर्मकः सेट् आत्मनेपदी नभते द्युतादिः
नभ् णभ हिंसायाम् दिवादिः सकर्मकः सेट् परस्मैपदी नभ्यति पुषादिः
नभ् णभ हिंसायाम् क्र्यादिः सकर्मकः सेट् परस्मैपदी नभ्नाति
नम् णम प्रह्वत्वे शब्दे च भ्वादिः अकर्मकः सेट् परस्मैपदी नमति
नय् णय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी नयते
नल् णल गन्धने (सूचनं), बन्धने च भ्वादिः सकर्मकः सेट् परस्मैपदी नलति
नश् णश अदर्शने दिवादिः अकर्मकः सेट् परस्मैपदी नश्यति पुषादिः
नस् णस कौटिल्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी नसते
नह् णह बन्धने दिवादिः सकर्मकः अनिट् उभयपदी नह्यति-ते
नास् णासृ शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी नासते
निक्ष् णिक्ष चुम्बने भ्वादिः सकर्मकः सेट् परस्मैपदी निक्षति
निञ्ज् णिजि शुद्धौ अदादिः सकर्मकः सेट् आत्मनेपदी निङ्क्ते
निज् णिजिर् शौच-पोषणयोः
जुहोत्यादिः
सकर्मकः अनिट् उभयपदी नेनेक्ति-नेनिक्ते
निन्द् णिदि कुत्सायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी निन्दति
निद् णिदृ कुत्सा-सन्निकर्षयोः भ्वादिः सकर्मकः सेट् उभयपदी नेदति-ते
निल् णिल गहने (दुर्बोधः) तुदादिः सकर्मकः सेट् परस्मैपदी निलति
निन्व् णिवि सेचने, सेवने च भ्वादिः सकर्मकः सेट् परस्मैपदी निन्वति
निश् णिश समाधौ (शीलम्) भ्वादिः अकर्मकः सेट् परस्मैपदी निशति
निंस् णिसि चुम्बने अदादिः सकर्मकः सेट् आत्मनेपदी निंस्ते
नी णीञ् प्रापणे भ्वादिः द्विकर्मकः अनिट् उभयपदी नयति-ते
नील् णील वर्णे भ्वादिः सकर्मकः सेट् परस्मैपदी नीलति
नीव् णीव स्थौल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी नीवति
नु णु स्तुतौ अदादिः सकर्मकः सेट् परस्मैपदी नौति
नुद् णुद प्रेरणे तुदादिः सकर्मकः अनिट् उभयपदी नुदति-ते
नुद् णुद प्रेरणे तुदादिः सकर्मकः अनिट् परस्मैपदी नुदति
नू णू स्तवने तुदादिः सकर्मकः सेट् परस्मैपदी नुवति कुटादिः
नेद् णेदृ कुत्सा-सन्निकर्षयोः भ्वादिः सकर्मकः सेट् उभयपदी नेदति-ते
नेष् णेषृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी नेषते
तक् तक हसने भ्वादिः अकर्मकः सेट् परस्मैपदी तकति
तङ्क् तकि कृच्छ्रजीवने, गतौ च भ्वादिः अकर्मकः सेट् परस्मैपदी तङ्कति
तक्ष् तक्ष त्वचने (संवरणं, त्वचोग्रहणं च) भ्वादिः अकर्मकः सेट् परस्मैपदी तक्षति
तक्ष् तक्षू तनूकरणे भ्वादिः सकर्मकः वेट् परस्मैपदी तक्ष्णोति-तक्षति
तङ्ग् तगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी तङ्गति
तञ्च् तञ्चु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी तञ्चति
तञ्च् तञ्चू सङ्कोचने रुधादिः सकर्मकः वेट् परस्मैपदी तनक्ति
तञ्ज् तञ्जू सङ्कोचने रुधादिः सकर्मकः वेट् परस्मैपदी तनक्ति
तट् तट उच्छ्राये भ्वादिः अकर्मकः सेट् परस्मैपदी तटति
तड् तड आघाते चुरादिः सकर्मकः सेट् उभयपदी ताडयति-ते
तड् तड भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी ताडयति-ते
तण्ड् तडि ताडने भ्वादिः सकर्मकः सेट् आत्मनेपदी तण्डते
तन्त्र् तत्रि कुटुम्बधारणे चुरादिः अकर्मकः सेट् उभयपदी तन्त्रयति-ते
तन् तनु विस्तारे तनादिः सकर्मकः सेट् उभयपदी तनोति-तनुते
तन् तनु श्रद्धोपकरणयोः चुरादिः सकर्मकः सेट् उभयपदी तानयति-ते आधृषीयः
तप् तप सन्तापे भ्वादिः सकर्मकः अनिट् परस्मैपदी तपति
तप् तप ऐश्वर्ये दिवादिः अकर्मकः अनिट् आत्मनेपदी तप्यते
तप् तप सन्तापे चुरादिः सकर्मकः सेट् उभयपदी तापयति-ते, तपति आधृषीयः
तम् तमु काङ्क्षायाम्, ग्लानौ (चारु.) दिवादिः अकर्मकः सेट् परस्मैपदी ताम्यति
तय् तय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी तयते
तर्क् तर्क भाषायाम्, वितर्कणे च चुरादिः सकर्मकः सेट् उभयपदी तर्कयति-ते
तर्ज् तर्ज भर्त्सने भ्वादिः सकर्मकः सेट् परस्मैपदी तर्जति
तर्ज् तर्ज भर्त्सने चुरादिः सकर्मकः सेट् आत्मनेपदी तर्जयति-ते आकुस्मीयः
तर्द् तर्द हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तर्दति
तल् तल प्रतिष्ठायाम् चुरादिः सकर्मकः सेट् उभयपदी तालयति-ते
तंस् तसि अलङ्करणे चुरादिः सकर्मकः सेट् उभयपदी तंसयति-ते
तस् तसु उपक्षये दिवादिः अकर्मकः सेट् परस्मैपदी तस्यति
ताय् तायृ सन्तान-पालनयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी तायते
तिक् तिक आस्कन्दे (तिरस्कारो वधश्च), गतौ च स्वादिः सकर्मकः सेट् परस्मैपदी तिक्नोति
तिक् तिकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी तेकते
तिग् तिग आस्कन्दे (तिरस्कारो वधश्च), गतौ च स्वादिः सकर्मकः सेट् परस्मैपदी तिग्नोति
तिघ् तिघ आस्कन्दे (तिरस्कारो वधश्च), गतौ च स्वादिः सकर्मकः सेट् परस्मैपदी तिघ्नोति
तिज् तिज निशाने (सहनम्) भ्वादिः सकर्मकः सेट् परस्मैपदी तितिक्षते नित्यसन्नन्तः
तिज् तिज निशाने (तीक्ष्णीकरणम्) चुरादिः सकर्मकः सेट् उभयपदी तेजयति-ते
तिप् तिपृ क्षरणे भ्वादिः सकर्मकः अनिट् आत्मनेपदी तेपते
तिम् तिम आर्द्रीभावे दिवादिः अकर्मकः सेट् परस्मैपदी तिम्यति
तिल् तिल गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी तिलति
तिल् तिल स्नेहने तुदादिः अकर्मकः सेट् परस्मैपदी तिलति
तीक् तीकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी तीकते
तीम् तीम आर्द्रीभावे दिवादिः अकर्मकः सेट् परस्मैपदी तीम्यति
तीर् तीर कर्मसमाप्तौ चुरादिः सकर्मकः सेट् उभयपदी तीरयति-ते अदन्तः
तीव् तीव स्थौल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी तीवति
तु गति-वृद्धि-हिंसासु अदादिः हिंसायां सकर्मकः, अन्यत्र अकर्मकः अनिट् परस्मैपदी तौति-तवीति
सौत्रोयम्, उकारान्तः
तुज् तुज हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तोजति
तुज् तुज हिंसा-बलादान-निकेतेषु चुरादिः सकर्मकः सेट् उभयपदी तोजयति-ते
तुञ्ज् तुजि पालने हिंसायां च भ्वादिः सकर्मकः सेट् परस्मैपदी तुञ्जति
तुञ्ज् तुजि हिंसा-बलादान-निकेतेषु, भाषायां च चुरादिः सकर्मकः सेट् उभयपदी तुञ्जयति-ते
तुट् तुट कलहकर्मणि तुदादिः अकर्मकः सेट् परस्मैपदी तुटति कुटादिः
तुड् तुड तोडने तुदादिः सकर्मकः सेट् परस्मैपदी तुडति कुटादिः
तुण्ड् तुडि तोडने (दारणं हिंसनं च) भ्वादिः सकर्मकः सेट् आत्मनेपदी तुण्डते
तुड् तुडृ तोडने भ्वादिः सकर्मकः सेट् परस्मैपदी तोडति
तुण् तुण कौटिल्ये तुदादिः अकर्मकः सेट् परस्मैपदी तुणति
तुत्थ् तुत्थ आवरणे (आच्छादनम्) चुरादिः सकर्मकः सेट् उभयपदी तुत्थयति-ते अदन्तः
तुद् तुद व्यथने तुदादिः सकर्मकः अनिट् उभयपदी तुदति-ते
तुप् तुप हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तोपति
तुप् तुप हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी तुपति
तुफ् तुफ हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी तुफति
तुफ् तुफ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तोफति
तुम्ब् तुबि अर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी तुम्बति
तुम्ब् तुबि अदर्शने, अर्दने च चुरादिः सकर्मकः सेट् उभयपदी तुम्बयति-ते
तुभ् तुभ हिंसायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी तोभते द्युतादिः
तुभ् तुभ हिंसायाम् दिवादिः सकर्मकः सेट् परस्मैपदी तुभ्यति पुषादिः
तुभ् तुभ हिंसायाम् क्र्यादिः सकर्मकः सेट् परस्मैपदी तुभ्नाति
तुम्प् तुम्प हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तुम्पति
तुम्प् तुम्प हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी तुम्पति
तुम्फ् तुम्फ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तुम्फति
तुम्फ् तुम्फ हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी तुम्फति
तुर् तुर त्वरणे
जुहोत्यादिः
अकर्मकः सेट् परस्मैपदी तोतूर्ति छान्दसः
तुर्व् तुर्वी हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी तूर्वति ईदित्
तुल् तुल उन्माने चुरादिः सकर्मकः सेट् उभयपदी तोलयति-ते
तुष् तुष तुष्टौ दिवादिः अकर्मकः अनिट् परस्मैपदी तुष्यति
तुस् तुस शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी तोसति
तुह् तुहिर् अर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी तोहति इरित्
तूण् तूण पूरणे चुरादिः सकर्मकः सेट् आत्मनेपदी तूणयते आकुस्मीयः
तूर् तूरी गतित्वरणयोः दिवादिः सकर्मकः सेट् आत्मनेपदी तूर्यते
तूल् तूल निष्कर्षे (निष्कोषणम् = अन्तर्गतस्य बहिः निस्सारणम्) भ्वादिः सकर्मकः सेट् परस्मैपदी तूलति
तूल् तूल निष्कर्षे चुरादिः सकर्मकः सेट् उभयपदी तूलयति-ते
तूष् तूष तुष्टौ भ्वादिः अकर्मकः सेट् परस्मैपदी तूषति
तृंह् तृंहू हिंसायाम् तुदादिः सकर्मकः वेट् परस्मैपदी तृंहति ऊदित्
तृक्ष् तृक्ष गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी तृक्षति
तृण् तृणु अदने तनादिः सकर्मकः सेट् उभयपदी तृणोति-तृणुते तनोत्यादिः
तृद् उतृदिर् हिंसा-अनादरयोः रुधादिः सकर्मकः सेट् परस्मैपदी तृणत्तिः
तृप् तृप प्रीणने (तृप्तिः तर्पणं च) दिवादिः तृप्तौ अकर्मकः, तर्पणे सकर्मकः वेट् परस्मैपदी तृप्यति पुषादिः
तृप् तृप प्रीणने स्वादिः सकर्मकः सेट् परस्मैपदी तृप्नोति
तृप् तृप प्रीणने तुदादिः सकर्मकः सेट् परस्मैपदी तृपति
तृप् तृप प्रीणने, सन्दीपने च चुरादिः सकर्मकः सेट् उभयपदी तर्पयति-ते आधृषीयः
तृफ् तृफ तृप्तौ तुदादिः सकर्मकः सेट् परस्मैपदी तृफति
तृम्फ् तृम्फ तृप्तौ तुदादिः सकर्मकः सेट् परस्मैपदी तृम्फति
तृष् ञितृष पिपासायाम् दिवादिः अकर्मकः सेट् परस्मैपदी तृष्यति पुषादिः
तृह् तृह हिंसायाम् रुधादिः सकर्मकः सेट् परस्मैपदी तृणेढि
तृह् तृहू हिंसायाम् तुदादिः सकर्मकः वेट् परस्मैपदी तृहति ऊदित्
तर् तॄ प्लवन-तरणयोः भ्वादिः सकर्मकः सेट् परस्मैपदी तरति ॠकारान्तः
तेज् तेज पालने भ्वादिः सकर्मकः सेट् परस्मैपदी तेजति
तेप् तेपृ कम्पने, रक्षणे च भ्वादिः सकर्मकः सेट् आत्मनेपदी तेपते
तेव् तेवृ देवने भ्वादिः सकर्मकः सेट् परस्मैपदी तेवते
त्यज् त्यज हानौ भ्वादिः सकर्मकः अनिट् परस्मैपदी त्यजति
त्रङ्क् त्रकि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी त्रङ्कते
त्रख् त्रख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी त्रखति
त्रङ्ख् त्रखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी त्रङ्खति
त्रन्द् त्रदि चेष्टायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी त्रन्दति
त्रप् त्रपूष् लज्जायाम् भ्वादिः अकर्मकः वेट् आत्मनेपदी त्रपते घटादिः
त्रस् त्रस धारणे (ग्रहण इत्येके, वारण इत्यन्ये) चुरादिः सकर्मकः सेट् उभयपदी त्रासयति-ते
त्रस् त्रसी उद्वेगे दिवादिः अकर्मकः सेट् परस्मैपदी त्रस्यति
त्रिङ्ख् त्रिखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी त्रिङ्खति
त्रुट् त्रुट छेदने तुदादिः सकर्मकः सेट् परस्मैपदी त्रुट्यति-त्रुटति
त्रुट् त्रुट छेदने चुरादिः सकर्मकः सेट् आत्मनेपदी त्रोटयते आकुस्मीयः
त्रुप् त्रुप हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी त्रोपति
त्रुफ् त्रुफ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी त्रोफति
त्रुम्प् त्रुम्प हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी त्रुम्पति
त्रुम्फ् त्रुम्फ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी त्रुम्फति
त्रा त्रैङ् पालने भ्वादिः सकर्मकः अनिट् आत्मनेपदी त्रायते
कृष्णाचार्ये नास्ति
त्रौ गतौ भ्वादिः सेट् आत्मनेपदी त्रौकते
कृष्णाचार्ये नास्ति
त्वर् ञित्वरा सम्भ्रमे भ्वादिः अकर्मकः सेट् आत्मनेपदी त्वरते
आदित्, घटादिः, षित्
त्विष् त्विष दीप्तौ भ्वादिः अकर्मकः अनिट् उभयपदी त्वेषति-ते
त्सर् त्सर छद्मगतौ भ्वादिः अकर्मकः सेट् परस्मैपदी त्सरति
थुड् थुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी थुडति कुटादिः
थुर्व थुर्वी हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी थुर्वति
दंश् दंश दशने (दंष्ट्राव्यापारः) भ्वादिः सकर्मकः अनिट् परस्मैपदी दशति
दक्ष् दक्ष वृद्धौ, शीघ्रार्थे च भ्वादिः अकर्मकः सेट् आत्मनेपदी दक्षते
दक्ष् दक्ष गतिशासनयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी दक्षते घटादिः, षित्
दघ् दघ घातने पालने च स्वादिः सकर्मकः सेट् परस्मैपदी दघ्नोति छान्दसः
दण्ड् दण्ड दण्डनिपाते चुरादिः द्विकर्मकः सेट् उभयपदी दण्डयति-ते
दद् दद
दाने (किञ्चिदुद्दिश्य अपुनर्ग्रहणाय स्वीयत्वत्यागो दानम्)
भ्वादिः सकर्मकः सेट् आत्मनेपदी ददते
दध् दध घातने पालने च स्वादिः सकर्मकः सेट् परस्मैपदी दध्नोति छान्दसः
दध् दध धारणे भ्वादिः सकर्मकः सेट् आत्मनेपदी दधते
दम् दमु उपशमे दिवादिः सकर्मकः सेट् परस्मैपदी दाम्यति शमादिः
दम्भ् दम्भु आज्ञापने स्वादिः सकर्मकः सेट् परस्मैपदी दभ्नोति छान्दसः
दय् दय दान-गति-रक्षण-हिंसा-आदानेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी दयते
दरिद्रा दरिद्रा दुर्गतौ अदादिः अकर्मकः सेट् परस्मैपदी दरिद्राति आकारान्तः
दल् दल विशरणे भ्वादिः अकर्मकः सेट् परस्मैपदी दलति
मित्वपक्षे णिचि दलयति
दल् दल विदारणे चुरादिः सकर्मकः सेट् उभयपदी दालयति-ते
दंश् दशि दंशने चुरादिः सकर्मकः सेट् आत्मनेपदी दशयते आकुस्मीयः
दंश् दशि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी दंशयति-ते
दस् दस दर्शन-दंशनयोः चुरादिः सकर्मकः सेट् आत्मनेपदी दासयते आकुस्मीयः
दंस् दसि दर्शन-दंशनयोः चुरादिः सकर्मकः सेट् आत्मनेपदी दंसयते आकुस्मीयः
दंस् दसि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी दंसयति-ते
दस् दसु उपक्षये दिवादिः अकर्मकः सेट् परस्मैपदी दस्यति पुषादिः
दह् दह भस्मीकरणे भ्वादिः सकर्मकः अनिट् परस्मैपदी दहति
दा डुदाञ् दाने
जुहोत्यादिः
सकर्मकः अनिट् उभयपदी ददाति-दत्ते
दा दाण् दाने भ्वादिः सकर्मकः अनिट् परस्मैपदी यच्छति
दान् दान खण्डने भ्वादिः सकर्मकः सेट् उभयपदी दीदांसति-ते नित्यसन्नन्तः
दा दाप् लवने अदादिः सकर्मकः अनिट् परस्मैपदी दाति
दाश् दाश हिंसायाम् स्वादिः सकर्मकः सेट् परस्मैपदी दाश्नोति छान्दसः
दाश् दाशृ दाने भ्वादिः सकर्मकः सेट् उभयपदी दाशति-ते
दाश् दाशृ हिंसायाम् स्वादिः सकर्मकः सेट् परस्मैपदी दाश्नोति छान्दसः
दास् दासृ दाने भ्वादिः सकर्मकः सेट् उभयपदी दासति-ते
दिन्व् दिवि प्रीणने भ्वादिः सकर्मकः सेट् परस्मैपदी दिन्वति
दिव् दिवु
क्रीडा-विजिगीषा-द्युति-स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु
दिवादिः सकर्मकः सेट् परस्मैपदी दीव्यति
दिव् दिवु परिकूजने चुरादिः अकर्मकः सेट् आत्मनेपदी देवयते आकुस्मीयः
दिश् दिश अतिसर्जने (दानं) तुदादिः सकर्मकः अनिट् परस्मैपदी दिशति
दिह् दिह उपचये अदादिः अकर्मकः अनिट् उभयपदी देग्धि-दिग्धे
दीक्ष् दीक्ष मौण्ड्य-इज्य-उपनयन-व्रत-आदेशेषु भ्वादिः अकर्मकः सेट् आत्मनेपदी दीक्षते
दी दीङ् क्षये दिवादिः अकर्मकः अनिट् आत्मनेपदी दीयते ओदित्
दीधी दीधीङ् दीप्ति-देवनयोः अदादिः दीप्तौ सकर्मकः, देवने अकर्मकः सेट् आत्मनेपदी दीधीते
अनेकाच्, ईकारान्तः, छान्दसः
दीप् दीपी दीप्तौ दिवादिः अकर्मकः सेट् आत्मनेपदी दीप्यते
दु दु गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी दवति उकारान्तः
दु टुदु उपतापे स्वादिः सकर्मकः सेट् परस्मैपदी दुनोति
दुःख् दुःख व्यथने चुरादिः सकर्मकः सेट् उभयपदी दुःखयति-ते
दुर्व् दुर्वी हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी दूर्वति
दुल् दुल उत्क्षेपे चुरादिः सकर्मकः सेट् उभयपदी दोलयति-ते
दुष् दुष वैकृत्ये दिवादिः अकर्मकः अनिट् परस्मैपदी दुष्यति पुषादिः
दुह् दुह प्रपूरणे अदादिः द्विकर्मकः अनिट् उभयपदी दोग्धि-दुग्धे
दुह् दुहिर् अर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी दोहति
दू दूङ् परितापे दिवादिः अकर्मकः सेट् आत्मनेपदी दूयते ओदित्
दृ दृ हिंसायाम् स्वादिः सकर्मकः अनिट् परस्मैपदी दृणोति ऋकारान्तः
दृ दृङ् आदरे तुदादिः सकर्मकः अनिट् आत्मनेपदी (आ)द्रियते
दृप् दृप हर्ष-मोहनयोः दिवादिः अकर्मकः अनिट् परस्मैपदी दृप्यति पुषादिः
दृप् दृप उत्क्लेशे तुदादिः सकर्मकः सेट् परस्मैपदी दृपति
दृप् दृप सन्दीपने चुरादिः सकर्मकः सेट् उभयपदी दर्पयति-ते आधृषीयः
दृफ् दृफ उत्क्लेशे तुदादिः सकर्मकः सेट् परस्मैपदी दृपति
दृभ् दृभ सन्दर्भे चुरादिः सकर्मकः सेट् परस्मैपदी दर्भयति-ते, दर्भति-ते आधृषीयः
दृभ् दृभी ग्रन्थे तुदादिः सकर्मकः सेट् परस्मैपदी दृभति
दृभ् दृभी भये चुरादिः अकर्मकः सेट् उभयपदी दर्भयति-ते, दृभति-ते आधृषीयः
दृम्फ् दृम्फ उत्क्लेशे तुदादिः अकर्मकः सेट् परस्मैपदी दृम्फति
दृश् दृशिर् प्रेक्षणे भ्वादिः सकर्मकः अनिट् परस्मैपदी पश्यति
दृह् दृह वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी दर्हति
दृंह् दृहि वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी दृंहति
दर् दॄ भये भ्वादिः अकर्मकः सेट् परस्मैपदी दरति, दरयति ॠकारान्तः, मित्
दॄ दॄ विदारणे क्र्यादिः सकर्मकः सेट् परस्मैपदी दृणाति
प्वादिः ल्वादिः च
दे देङ् रक्षणे भ्वादिः सकर्मकः अनिट् आत्मनेपदी दयते
देव् देवृ देवने भ्वादिः अकर्मकः सेट् आत्मनेपदी देवते
दै दैप् शोधने भ्वादिः सकर्मकः अनिट् परस्मैपदी दायति ऐकारान्तः
दो अवखण्डने दिवादिः सकर्मकः अनिट् परस्मैपदी द्यति ओकारान्तः
द्यु अभिगमे अदादिः सकर्मकः अनिट् परस्मैपदी द्यौति उकारान्तः
द्युत् द्युत दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी द्योतते
द्यै न्यक्करणे भ्वादिः सकर्मकः अनिट् परस्मैपदी द्यायति ऐकारान्तः
द्रम् द्रम गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी द्रमति मित्
द्रा कुत्सायां गतौ (पलायनं स्वापो वा) अदादिः अकर्मकः अनिट् परस्मैपदी (नि)द्राति
द्राङ्क्ष् द्राक्षि घोरवाशिते भ्वादिः अकर्मकः सेट् परस्मैपदी द्राङ्क्षति
द्राख् द्राख शोषण-अलमर्थयोः भ्वादिः सकर्मकः सेट् परस्मैपदी द्राखति
द्राघ् द्राघृ सामर्थ्ये, आयामे च भ्वादिः अकर्मकः सेट् आत्मनेपदी द्राघते
द्राड् द्राडृ विशरणे भ्वादिः अकर्मकः सेट् आत्मनेपदी द्राडते
द्राह् द्राहृ निद्राक्षये भ्वादिः अकर्मकः सेट् आत्मनेपदी द्राहते
द्रु गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी द्रवति उकारान्तः
द्रु हिंसायाम् स्वादिः सकर्मकः सेट् परस्मैपदी द्रुणोति छान्दसः
द्रुण् द्रुण हिंसा-गति-कौटिल्येषु तुदादिः सकर्मकः सेट् परस्मैपदी द्रुणति
द्रुह् द्रुह जिघांसायाम् दिवादिः सकर्मकः सेट् परस्मैपदी द्रुह्यति रधादिः, पुषादिः
द्रू द्रूञ् हिंसायाम् क्र्यादिः सकर्मकः सेट् उभयपदी द्रूणाति, द्रुणीते ऊकारान्तः, ञित्
द्रेक् द्रेकृ शब्द-उत्साहनयोः (वृद्धिरौन्नत्यं च) भ्वादिः अकर्मकः सेट् आत्मनेपदी द्रेकते
द्राय् द्रै स्वप्ने भ्वादिः अकर्मकः अनिट् परस्मैपदी द्रायति ऐकारान्तः
द्विष् द्विष अप्रीतौ अदादिः सकर्मकः अनिट् उभयपदी द्वेष्टि-द्विष्टे
द्वर् द्वृ संवरणे भ्वादिः सकर्मकः अनिट् परस्मैपदी द्वरति ऋकारान्तः
धक्क् धक्क नाशने चुरादिः सकर्मकः सेट् उभयपदी धक्कयति-ते
धण् धण शब्दे भ्वादिः सकर्मकः सेट् परस्मैपदी धणति
धन् धन धान्ये
जुहोत्यादिः
अकर्मकः सेट् परस्मैपदी दधन्ति छान्दसः
धन्व् धवि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी धन्वति
धा डुधाञ् धारण-पोषणयोः
जुहोत्यादिः
सकर्मकः अनिट् उभयपदी दधाति-धत्ते
आकारान्तः, ड्वित्
धाव् धावु गतिशुद्ध्योः भ्वादिः गतौ अकर्मकः, शुद्धौ सकर्मकः सेट् उभयपदी धावति-ते
धि धारणे तुदादिः सकर्मकः अनिट् परस्मैपदी धियति इकारान्तः
धिक्ष् धिक्ष सन्दीपन-क्लेशन-जीवनेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी धिक्षते
धिन्व् धिवि प्रीणने भ्वादिः सकर्मकः सेट् परस्मैपदी धिनोति
धिष् धिष शब्दे
जुहोत्यादिः
अकर्मकः सेट् परस्मैपदी दिधेष्ठि
धी धीङ् धारणे दिवादिः सकर्मकः अनिट् आत्मनेपदी धीयते
ईकारान्तः, ङित्, ओदित् च
धुक्ष् धुक्ष सन्दीपन-क्लेशन-जीवनेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी धुक्षते
धु धुञ् कम्पने स्वादिः सकर्मकः अनिट् उभयपदी धुनोति-धुनुते उकारान्तः
धुर्व् धुर्वी हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी धूर्वति
धुव् धू विधूनने तुदादिः सकर्मकः सेट् परस्मैपदी धुवति
ऊकारान्तः, कुटादिः
धू धूञ् कम्पने स्वादिः सकर्मकः वेट् उभयपदी धूनोति-धूनुते ऊकारान्तः, ञित्
धू धूञ् कम्पने क्र्यादिः सकर्मकः वेट् उभयपदी धुनाति-धुनीते
प्वादिः ल्वादिः च
धू धूञ् कम्पने चुरादिः सकर्मकः सेट् उभयपदी धूनयति-ते
ऊकारान्तः, आधृषीयः
धूप् धूप सन्तापे भ्वादिः सकर्मकः सेट् परस्मैपदी धूपायति-ते
धूप् धूप भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी धूपयति-ते
धूर् धूरी हिंसा-गत्योः दिवादिः हिंसायां सकर्मकः, गतौ अकर्मकः सेट् आत्मनेपदी धूर्यते
धूश् धूश कान्तिकरणे चुरादिः अकर्मकः सेट् उभयपदी धूशयति-ते
धूष् धूष कान्तिकरणे चुरादिः अकर्मकः सेट् उभयपदी धूषयति-ते
धूस् धूस कान्तिकरणे चुरादिः अकर्मकः सेट् उभयपदी धूसयति-ते
धृज् धृज गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी धर्जति
धृञ्ज् धृजि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी धृञ्जति
धृ धृङ् अवस्थाने तुदादिः अकर्मकः अनिट् आत्मनेपदी ध्रियते ऋकारान्तः, ङित्
धृ धृङ् अवध्वंसने भ्वादिः सकर्मकः अनिट् आत्मनेपदी धरते ऋकारान्तः, ङित्
धृ धृञ् धारणे भ्वादिः सकर्मकः अनिट् उभयपदी धरति-ते, धारयति ऋकारान्तः, ञित्
धृष् धृष प्रसहने चुरादिः सकर्मकः सेट् उभयपदी धर्षयति आधृषीयः
धृष् ञिधृषा प्रागल्भ्ये स्वादिः अकर्मकः सेट् परस्मैपदी धृष्णोति ञीत्, आदित् च
धॄ वयोहानौ क्र्यादिः अकर्मकः सेट् परस्मैपदी धृणाति
प्वादिः, ल्वादि- च
धेक् धेक दर्शने चुरादिः सकर्मकः सेट् उभयपदी धेकयति-ते अदन्तः
धे धेट् पाने भ्वादिः सकर्मकः अनिट् परस्मैपदी धयति टित्वं
धोर् धोर्ऋ गतिचातुर्ये भ्वादिः अकर्मकः सेट् परस्मैपदी धोरति ऋकारान्तः
ध्मा शब्द-अग्निसंयोगयोः (मुखवायुना अग्नेः संयोगः) भ्वादिः सकर्मकः अनिट् परस्मैपदी धमति आकारान्तः
ध्यै चिन्तायाम् भ्वादिः सकर्मकः अनिट् परस्मैपदी ध्यायति ऐकारान्तः
ध्रज् ध्रज गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ध्रजति
ध्रञ्ज् ध्रजि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ध्रञ्जति
ध्रण् ध्रण शब्दे भ्वादिः सकर्मकः सेट् परस्मैपदी ध्रणति
ध्रस् उध्रस उञ्छे क्र्यादिः सकर्मकः सेट् परस्मैपदी ध्रस्नाति
ध्रस् उध्रस उञ्छे चुरादिः सकर्मकः सेट् उभयपदी ध्रासयति-ते
ध्राङ्क्ष् ध्राक्षि घोरवाशिते भ्वादिः अकर्मकः सेट् परस्मैपदी ध्राङ्क्षति
ध्राख् ध्राखृ शोषण-अलमर्थयोः भ्वादिः सकर्मकः सेट् परस्मैपदी ध्राखति
ध्राघ् ध्राघृ सामर्थ्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी ध्राघते
ध्राड् ध्राडृ विशरणे भ्वादिः अकर्मकः सेट् आत्मनेपदी ध्राडते
ध्रु स्थैर्ये भ्वादिः अकर्मकः अनिट् परस्मैपदी ध्रवति उकारान्तः
ध्रु गति-स्थैर्ययोः तुदादिः गतौ अकर्मकः, स्थैर्ये सकर्मकः अनिट् परस्मैपदी ध्रुवति
उकारान्तः, कुटादिः
ध्रुव् ध्रुव गति-स्थैर्ययोः तुदादिः गतौ अकर्मकः, स्थैर्ये सकर्मकः सेट् परस्मैपदी ध्रुवति कुटादिः
ध्रेक् ध्रेकृ शब्द-उत्साहयोः भ्वादिः अकर्मकः सेट् आत्मनेपदी ध्रेकते
ध्रै तृप्तौ भ्वादिः सकर्मकः अनिट् परस्मैपदी ध्रायति ऐकारान्तः
ध्वंस् ध्वंसु अधःपतने, गतौ च (अवस्रंसने -चारु.) भ्वादिः अधः पतने अकर्मकः सेट् आत्मनेपदी ध्वंसते द्युतादिः
ध्वज् ध्वज गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ध्वजति
ध्वञ्ज् ध्वजि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी ध्वञ्जति
ध्वण् ध्वण शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी ध्वणति
ध्वन् ध्वन शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी ध्वनति घटादिः
ध्वन् ध्वन शब्दे चुरादिः अकर्मकः सेट् उभयपदी ध्वनयति
ध्वाङ्क्ष् ध्वाक्षि घोरवाशिते भ्वादिः अकर्मकः सेट् परस्मैपदी ध्वाङ्क्षति
ध्वृ कौटिल्ये भ्वादिः अकर्मकः अनिट् परस्मैपदी ध्वरति ऋकारान्तः
नक्क् नक्क नाशने चुरादिः सकर्मकः सेट् उभयपदी नक्कयति-ते
नट् नट नृत्तौ भ्वादिः अकर्मकः सेट् परस्मैपदी नटति घटादि-भिन्नः
नट् नट भाषायाम्, अवस्कन्दने च चुरादिः सकर्मकः सेट् उभयपदी नाटयति-ते
नन्द् टुनदि समृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी नन्दति
नर्द् नर्द शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी नर्दति
नल् नल भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी नालयति-ते
नाथ् नाथृ याच्ञा-उपताप-ऐश्वर्य-आशीष्षु तुदादिः सकर्मकः सेट् उभयपदी नाथति-नाथते
आशीरर्थे आत्मनेपदी, अन्यार्थेषु परस्मैपदी।
नाध् नाधृ याच्ञा-उपताप-ऐश्वर्य-आशीष्षु भ्वादिः सकर्मकः सेट् आत्मनेपदी नाधते
निवास् निवास आच्छादने चुरादिः सकर्मकः सेट् उभयपदी निवासयति-ते अदन्तः
निष्क् निष्क परिमाणे चुरादिः सकर्मकः सेट् आत्मनेपदी निष्कयते आकुस्मीयः
नील् नील वर्णे भ्वादिः अकर्मकः सेट् परस्मैपदी नीलति
नीव् णीव स्थौल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी नीवति
नृत् नृती गात्रविक्षेपे दिवादिः अकर्मकः सेट् परस्मैपदी नृत्यति
नॄ नये क्र्यादिः सकर्मकः सेट् परस्मैपदी नृणाति
प्वादिः ल्वादिः च
पक्ष् पक्ष परिग्रहे भ्वादिः सकर्मकः सेट् परस्मैपदी पक्षति
पक्ष् पक्ष परिग्रहे चुरादिः सकर्मकः सेट् उभयपदी पक्षयति-ते
पच् डुपचष् पाके भ्वादिः द्विकर्मकः अनिट् उभयपदी पचति-ते
पञ्च् पचि व्यक्तीकरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी पञ्चते
पञ्च् पचि विस्तारवचने चुरादिः सकर्मकः सेट् उभयपदी प्रपञ्चयति-ते
पट् पट गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पटति
पट् पट भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी पाटयति-ते
पट् पट ग्रन्थे चुरादिः सकर्मकः सेट् उभयपदी पटयति-ते अदन्तः
पठ् पठ व्यक्तायां वाचि भ्वादिः सकर्मकः सेट् परस्मैपदी पठति
पण्ड् पडि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी पण्डते
पण्ड् पडि नाशने चुरादिः सकर्मकः सेट् उभयपदी पण्डयति-ते
पण्ड् पण व्यवहारे, स्तुतौ च भ्वादिः सकर्मकः सेट्
व्यवहारे आत्मनेपदी, स्तुतौ परस्मैपदी
पणति-ते
पण, ङ व्यवहृतौ । स्तुतौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) व्यवहृतौ व्यवहारे । ङ, पणते । पणायति पणायते आयान्तत्वादुभय-पदमिति वोपदेवः । प्राणानामपणिष्टासौ अत्र कर्म्मणि षष्ठी । स्तुतौ तु पणायति पणायते विष्णुं धीरः । अरे तु द्बयोरर्थयोरेव आयस्या-प्राप्तिपक्ष आत्मनेपदमेव । अपणिष्ट पेणे पणिता पणिषीष्ट पणिष्यते अपणिष्यत् । इति दुर्गादासः ॥
पत् पत गतौ चुरादिः सकर्मकः सेट् उभयपदी पातयति-ते
पत् पत्लृ गतौ भ्वादिः अकर्मकः सेट् परस्मैपदी पतति
पथ् पथ प्रक्षेपे चुरादिः सकर्मकः सेट् उभयपदी पाथयति
पन्थ् पथि गतौ चुरादिः सकर्मकः सेट् उभयपदी पन्थयति-ते
पथ् पथे गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पथति एदित्
पद् पद गतौ दिवादिः सकर्मकः अनिट् आत्मनेपदी पद्यते
पद् पद गतौ चुरादिः सकर्मकः सेट् आत्मनेपदी पदयते
अदन्तः, आगर्वीयः
पन् पन स्तुतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी पनायति-पनते
पम्पस् दुःखे
कण्ड्वादिः
पम्पस्यति
पय् पय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी पयते
पयस् प्रसृतौ
कण्ड्वादिः
पयस्यति
पर्ण् पर्ण हरितभावे चुरादिः अकर्मकः सेट् उभयपदी पर्णयति-ते
पर्द् पर्द कुत्सिते शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी पर्दते
पर्प् पर्प गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पर्पति
पर्ब् पर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पर्बति
पर्व् पर्व पूरणे भ्वादिः सकर्मकः सेट् परस्मैपदी पर्वति
पल् पल गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पलति
पल्यूल् लवन-पवनयोः चुरादिः सकर्मकः सेट् उभयपदी पल्यूलयति-ते अदन्तः
पश् पश बन्धने चुरादिः सकर्मकः सेट् उभयपदी पाशयति-ते
पष् पष गतौ चुरादिः सकर्मकः सेट् उभयपदी पषयति
पंस् पसि नाशने चुरादिः सकर्मकः सेट् उभयपदी पंसयति-ते
पा पाने भ्वादिः सकर्मकः अनिट् परस्मैपदी पिबति
पा रक्षणे अदादिः सकर्मकः अनिट् परस्मैपदी पाति
पार् पार कर्मसमाप्तौ चुरादिः अकर्मकः सेट् उभयपदी पारयति-ते अदन्तः
पाल् पाल रक्षणे चुरादिः सकर्मकः सेट् उभयपदी पालयति-ते
पि गतौ तुदादिः सकर्मकः अनिट् परस्मैपदी पियति
पिच्छ् पिच्छ कुट्टने चुरादिः सकर्मकः सेट् उभयपदी पिच्छयति-ते
पिञ्ज् पिजि हिंसा-बलादान-निकेतनेषु चुरादिः सकर्मकः सेट् उभयपदी पेजयति-ते
पिञ्ज् पिजि वर्णे, सम्पर्चने, भाषायां च अदादिः यथायथं सेट् आत्मनेपदी पिङ्क्ते
पिञ्ज् पिजि हिंसा-बलादान-निकेतनेषु चुरादिः सकर्मकः सेट् उभयपदी पिञ्जयति-ते
पिट् पिट शब्द-सङ्घातयोः भ्वादिः अकर्मकः सेट् परस्मैपदी पेटति
पिठ् पिठ हिंसा-सङ्क्लेशनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी पेठति
पिण्ड् पिडि सङ्घाते भ्वादिः सकर्मकः सेट् आत्मनेपदी पिण्डते
पिन्व् पिवि सेचने, सेवन इत्येके स्वादिः सकर्मकः सेट् परस्मैपदी पिन्वति
पिश् पिश अवयवे तुदादिः अकर्मकः सेट् परस्मैपदी पिंशति मुचादिः
पिष् पिष्लृ सञ्चूर्णने रुधादिः सकर्मकः अनिट् परस्मैपदी पिनष्टि लृदित्
पिष्ट् पिष्ट कुट्टने चुरादिः सकर्मकः सेट् उभयपदी पिष्टयति-ते
पिस् पिस गतौ चुरादिः सकर्मकः सेट् उभयपदी पेसयति
पिंस् पिसि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी पिंसयति-ते
पिस् पिसृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पेसति
पी पीङ् पाने दिवादिः सकर्मकः अनिट् आत्मनेपदी पीयते ङित्
पीड् पीड अवगाहने चुरादिः सकर्मकः सेट् उभयपदी पीडयति-ते
पील् पील प्रतिष्टम्भे (रोधनम्) भ्वादिः सकर्मकः सेट् परस्मैपदी पीलति
पीव् पीव स्थौल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी पीवति
पुंस् पुंस अभिवर्धने चुरादिः सकर्मकः सेट् उभयपदी पुंसयति-ते
पुट् पुट संश्लेषणे, छेदनेपि तुदादिः सकर्मकः सेट् परस्मैपदी पुटति कुटादिः
पुट् पुट भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी पोटयति-ते
पुट् पुट संसर्गे चुरादिः सकर्मकः सेट् उभयपदी पुटयति अदन्तः
पुण्ट् पुटि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी पुण्टयति-ते
पुट्ट् पुट्ट अल्पीभावे चुरादिः अकर्मकः सेट् उभयपदी पुट्टयति-ते
पुड् पुड मर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी पोडति
पुड् पुड उत्सर्गे तुदादिः सकर्मकः सेट् परस्मैपदी पुडति कुटादिः
पुण्ड् पुडि सङ्घाते भ्वादिः अकर्मकः सेट् परस्मैपदी पुण्डति
पुण् पुण कर्मणि शुभे तुदादिः अकर्मकः सेट् परस्मैपदी पुणति
पुण् पुण सङ्घाते चुरादिः सकर्मकः सेट् उभयपदी पोणयति-ते
पुथ् पुथ भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी पोथयति-ते
पुथ् पुथ हिंसायाम् दिवादिः सकर्मकः सेट् परस्मैपदी पुथ्यति
पुन्थ् पुथि हिंसा-सङ्क्लेशनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी पुन्थति
पुर् पुर अग्रगमने तुदादिः अकर्मकः सेट् परस्मैपदी पुरति
पुर्व् पुर्व पूरणे भ्वादिः सकर्मकः सेट् परस्मैपदी पूर्वति
पुल् पुल महत्त्वे भ्वादिः अकर्मकः सेट् परस्मैपदी पोलति
पुल् पुल महत्त्वे चुरादिः सकर्मकः सेट् उभयपदी पोलयति-ते
पुष् पुष पुष्टौ भ्वादिः सकर्मकः सेट् परस्मैपदी पोषति
पुष् पुष पुष्टौ दिवादिः सकर्मकः अनिट् परस्मैपदी पुष्यति
पुष् पुष पुष्टौ क्र्यादिः सकर्मकः सेट् परस्मैपदी पुष्णाति
पुष् पुष धारणे चुरादिः सकर्मकः सेट् उभयपदी पोषयति-ते
पुष्प् पुष्प विकसने दिवादिः अकर्मकः सेट् परस्मैपदी पुष्प्यति
पुस्त् पुस्त आदर-अनादरयोः चुरादिः सकर्मकः सेट् उभयपदी पुस्तयति-ते
पू पूङ् पवने भ्वादिः सकर्मकः सेट् आत्मनेपदी पवते
पू¦ शोधे दि० आत्म० सक० सेट् । पूयते अपविष्ट । पुपुवे पूत ।
पू¦ शोधे भ्वा० आ० सक० सेट् । पवते अपविष्ट । पुपुवे पूत० पवित्रः ।
पू¦ शोधे क्य्रादि० प्वा० उभ० सक० सेट् । पुनाति पुनीते अपावीत् अपविष्ट पुपाव पुपुवे । आर्षे क्वचित् श्नाप्रत्ययस्य ह्रस्वः । “स्मरणात् पुनते पापं धारणात् पूर्वसञ्चितम्” ।
पूज् पूज पूजायाम् चुरादिः सकर्मकः सेट् उभयपदी पूजयति-ते
पूय् पूयी विशरणे, दुर्गन्धे च भ्वादिः अकर्मकः सेट् आत्मनेपदी पूयते
पूर् पूरी आप्यायने चुरादिः सकर्मकः सेट् उभयपदी पूरयति-ते
पूर्ण् पूर्ण सङ्घाते चुरादिः सकर्मकः सेट् उभयपदी पूर्णयति-ते
पूल् पूल सङ्घाते भ्वादिः अकर्मकः सेट् परस्मैपदी पूलति
पूष् पूष वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी पूषति
पृ पालन-पूरणयोः
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी पिपर्ति ऋकारान्तः
पृ प्रीतौ स्वादिः सकर्मकः अनिट् परस्मैपदी पृणोति ऋकारान्तः
पृ पृङ् व्यायामे तुदादिः अकर्मकः अनिट् आत्मनेपदी (व्या)प्रियते ऋकारान्तः
पृच् पृच संयमने चुरादिः सकर्मकः सेट् उभयपदी पर्चयति-ते आधृषीयः
पृच् पृची सम्पर्चने अदादिः सकर्मकः सेट् आत्मनेपदी पृक्ते
पृच् पृची सम्पर्चने रुधादिः सकर्मकः सेट् परस्मैपदी पृणक्ति
पृञ्ज् पृजि सम्पर्चने अदादिः सकर्मकः सेट् आत्मनेपदी पृङ्क्ते
पृड् पृड सुखने तुदादिः सकर्मकः सेट् परस्मैपदी पृडति
पृण् पृण प्रीणने तुदादिः सकर्मकः सेट् परस्मैपदी पृणति
पृथ् पृथ प्रक्षेपे चुरादिः सकर्मकः सेट् उभयपदी पर्थयति-ते
पृष् पृषु सेचन-हिंसा-क्लेशनेषु भ्वादिः सकर्मकः सेट् परस्मैपदी पर्षति
पॄ पालन-पूरणयोः
जुहोत्यादिः
सकर्मकः सेट् परस्मैपदी पिपर्ति
पॄ पालन-पूरणयोः क्र्यादिः सकर्मकः सेट् परस्मैपदी पृणाति
प्वादिः ल्वादिः च
पॄ पूरणे चुरादिः सकर्मकः सेट् उभयपदी पारयति-ते
पेण् पेणृ गति-प्रेरण-श्लेषणेषु भ्वादिः सकर्मकः सेट् परस्मैपदी पेणति
पेल् पेलृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पेलति
पेव् पेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी पेवते
पेष् पेषृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी पेषते
पेस् पेसृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी पेसति
पै शोषणे भ्वादिः सकर्मकः अनिट् परस्मैपदी पायति ऐकारान्तः
पैण् पैणृ गति-प्रेरण-श्लेषणेषु भ्वादिः सकर्मकः सेट् परस्मैपदी पैणति
प्याय् ओप्यायी वृद्धौ भ्वादिः अकर्मकः सेट् आत्मनेपदी प्यायते ओदित्, ईदिच्च
प्यै प्यैङ् वृद्धौ भ्वादिः अकर्मकः अनिट् आत्मनेपदी प्यायते
पृच्छ् प्रच्छ ज्ञीप्सायाम् तुदादिः द्विकर्मकः अनिट् परस्मैपदी पृच्छति
प्रथ् प्रथ प्रख्याने भ्वादिः अकर्मकः सेट् आत्मनेपदी प्रथते घटादिः, षित्
प्रथ् प्रथ प्रख्याने चुरादिः सकर्मकः सेट् उभयपदी प्रथयति-ते
प्रस् प्रस विस्तारे भ्वादिः सकर्मकः सेट् आत्मनेपदी प्रसते घटादिः, षित्
प्रा पूरणे अदादिः सकर्मकः अनिट् परस्मैपदी प्राति आकारान्तः
प्री प्रीङ् प्रीतौ दिवादिः अकर्मकः अनिट् आत्मनेपदी प्रीयते ईकारान्तः
प्री प्रीञ् तर्पणे, कान्तौ च क्र्यादिः सकर्मकः अनिट् उभयपदी प्रीणाति-प्रीणीते इकारान्तः
प्री प्रीञ् तर्पणे, कान्तौ च चुरादिः सकर्मकः सेट् उभयपदी प्रीणयति-ते
आधृषीयः, ईकारान्तः
प्रु प्रुङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी प्रवते
प्रुड् प्रुड मर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी प्रोडति
प्रुष् प्रुष स्नेहन-सेवन-पूरणेषु क्र्यादिः सकर्मकः सेट् परस्मैपदी प्रुष्णाति
प्रुष् प्रुषु दाहे भ्वादिः सकर्मकः सेट् परस्मैपदी प्रोषति
प्रेष् प्रेषृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी प्रेषते
प्रैणे प्रैणृ गति-प्रेरण-श्लेषणेषु भ्वादिः सकर्मकः सेट् परस्मैपदी प्रैणति
प्रोथ् प्रोथृ पर्याप्तौ भ्वादिः अकर्मकः सेट् उभयपदी प्रोथति-ते
प्लिह् प्लिह गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी प्लेहते
प्ली गतौ क्र्यादिः सकर्मकः अनिट् परस्मैपदी प्लिनाति
प्वादिः ल्वादिः च
प्लु प्लुङ् गतौ, जलोपरिसर्पणे च भ्वादिः सकर्मकः अनिट् आत्मनेपदी प्लवते
प्लुष् प्लुष दाहे दिवादिः सकर्मकः सेट् परस्मैपदी प्लुष्यति पुषादिः
प्लुष् प्लुष दाहे दिवादिः सकर्मकः सेट् परस्मैपदी प्लुष्यति पुषादिभिन्नः
प्लुष् प्लुष दाहे क्र्यादिः सकर्मकः सेट् परस्मैपदी प्लुष्णाति
प्लुष् प्लुषु दाहे भ्वादिः सकर्मकः सेट् परस्मैपदी प्लोषति उदित्
प्सा रक्षण-भक्षणयोः अदादिः सकर्मकः अनिट् परस्मैपदी प्साति आकारान्तः
फक्क् फक्क नीचैर्गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी फक्कति
फण् फण गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी फणति
फणादिः, घटादिः च
फर्व् फर्व पूरणे भ्वादिः सकर्मकः सेट् परस्मैपदी फर्वति
फल् फल निष्पत्तौ भ्वादिः अकर्मकः सेट् परस्मैपदी फलति
फल् ञिफला विशरणे भ्वादिः अकर्मकः सेट् परस्मैपदी फलति
फुल् फुल सञ्चरणे तुदादिः अकर्मकः सेट् परस्मैपदी फुलति कुटादिः
फुल्ल् फुल्ल विकसने भ्वादिः अकर्मकः सेट् परस्मैपदी फुल्लति
फेल् फेलृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी फेलति
बण् बण शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी बणति
बद् बद स्थैर्ये भ्वादिः अकर्मकः सेट् परस्मैपदी बदति
बध् बध बन्धने भ्वादिः सकर्मकः सेट् आत्मनेपदी बीभत्सते
बध् बध संयमने चुरादिः सकर्मकः सेट् उभयपदी बाधयति-ते
बन्ध् बन्ध बन्धने क्र्यादिः सकर्मकः अनिट् परस्मैपदी बध्नाति
बन्ध् बध संयमने चुरादिः सकर्मकः सेट् उभयपदी बन्धयति-ते छान्दसः
बर्ब् बर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी बर्बति
बर्ह् बर्ह प्राधान्य-परिभाषण-हिंसा-प्रसादेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी बर्हते
बर्ह् बर्ह हिंसायाम्, भाषायाम् च चुरादिः सकर्मकः सेट् उभयपदी बर्हयति-ते
बल् बल प्राणने, धान्यावरोधे च भ्वादिः सकर्मकः सेट् परस्मैपदी बलति
बल् बल प्राणने चुरादिः सकर्मकः सेट् उभयपदी बलयति-ते
ज्ञपादित्वात् मित्
बल्ह् बल्ह प्राधान्य-परिभाषण-हिंसा-प्रसादेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी बल्हते
बल्ह् बल्ह भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी बल्हयति-ते
बष्क् बष्क दर्शने चुरादिः सकर्मकः सेट् उभयपदी बष्कयति-ते
बस् बसु स्तम्भे दिवादिः अकर्मकः सेट् परस्मैपदी बस्यति पुषादिः
बंह् बहि वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी बंहते
बाड् बाडृ आप्लाव्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी बाडते
बाध् बाधृ लोडने भ्वादिः सकर्मकः सेट् आत्मनेपदी बाधते
बाह् बाहृ प्रयत्ने भ्वादिः अकर्मकः सेट् आत्मनेपदी बाहते
बिट् बिट आक्रोशे भ्वादिः अकर्मकः सेट् परस्मैपदी बेटति
बिन्द् बिदि अवयवे भ्वादिः अकर्मकः सेट् परस्मैपदी बिन्दति
बिल् बिल भेदने तुदादिः सकर्मकः सेट् परस्मैपदी बिलति
बिस् बिस क्षेपे दिवादिः सकर्मकः सेट् परस्मैपदी बिस्यति पुषादिः
बुक्क् बुक्क भषणे भ्वादिः अकर्मकः सेट् परस्मैपदी बुक्कति
बुक्क् बुक्क भषणे चुरादिः सकर्मकः सेट् उभयपदी बुक्कयति-ते
बुङ्ग् बुगि वर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी बुङ्गति
बुध् बुध बोधने भ्वादिः सकर्मकः सेट् परस्मैपदी बोधति
बुध् बुध अवगमने दिवादिः सकर्मकः अनिट् आत्मनेपदी बुद्ध्यते
बुध् बुधिर् बोधने भ्वादिः सकर्मकः सेट् उभयपदी बोधति-ते इरित्
बुन्द् उबुन्दिर् निशामने भ्वादिः सकर्मकः सेट् उभयपदी बुन्दति-ते इरित्
बुस् बुस उत्सर्गे दिवादिः सकर्मकः सेट् परस्मैपदी बुस्यति पुषादिः
बुस्त् बुस्त आदर-अनादरयोः चुरादिः सकर्मकः सेट् उभयपदी बुस्तयति-ते
बृह् बृह वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी बर्हति
बृंह् बृहि वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी बृंहति
बृंह् बृहि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी बृंहयति-ते
बृह् बृहिर् ध्वने भ्वादिः अकर्मकः सेट् परस्मैपदी बर्हति
बृह् बृहू उद्यमने तुदादिः सकर्मकः वेट् परस्मैपदी बृहति
बेह् बेहृ प्रयत्ने भ्वादिः अकर्मकः सेट् आत्मनेपदी बेहते
ब्युस् ब्युस विभागे दिवादिः सकर्मकः सेट् परस्मैपदी ब्युस्यति
ब्रुड् ब्रुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी ब्रुडति कुटादिः
ब्रू ब्रूञ् व्यक्तायां वाचि अदादिः द्विकर्मकः सेट् उभयपदी ब्रवीति, आह, ब्रूते
ब्रूस् ब्रूस हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी ब्रूसयति-ते
भक्ष् भक्ष अदने भ्वादिः सकर्मकः सेट् परस्मैपदी भक्षति
भक्ष् भक्ष अदने चुरादिः सकर्मकः सेट् उभयपदी भक्षयति-ते
भज् भज सेवायाम् भ्वादिः सकर्मकः अनिट् उभयपदी भजति-ते
भज् भज विश्राणने(दाने) चुरादिः सकर्मकः सेट् उभयपदी भाजयति-ते
भञ्ज् भजि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी भञ्जयति-ते
भञ्ज् भञ्जो आमर्दने रुधादिः सकर्मकः अनिट् परस्मैपदी भनक्ति ओदित्
भट् भट भृतौ भ्वादिः सकर्मकः सेट् परस्मैपदी भटति
भट् भट परिभाषणे (परिहासः, सनिन्दोपालम्भश्च) भ्वादिः सकर्मकः सेट् परस्मैपदी भटति, भटयति-ते मित्
भण्ड् भडि परिभाषणे (परिहासः, सनिन्दोपालम्भश्च) भ्वादिः सकर्मकः सेट् आत्मनेपदी भण्डते
भण् भण शब्दे भ्वादिः सकर्मकः सेट् परस्मैपदी भणति
भन्द् भदि कल्याणे सुखे च भ्वादिः अकर्मकः सेट् आत्मनेपदी भन्दते
भर्त्स् भर्त्स तर्जने चुरादिः सकर्मकः सेट् आत्मनेपदी भर्त्सयते आकुस्मीयः
भर्व् भर्व हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी भर्वति
भल् भल परिभाषण-हिंसा-दानेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी भलते
भल् भल आभण्डने चुरादिः सकर्मकः सेट् उभयपदी भालयति-ते
भल्ल् भल्ल परिभाषण-हिंसा-दानेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी भल्लते
भष् भष भर्त्सने (श्वरवे) भ्वादिः अकर्मकः सेट् परस्मैपदी भषति
भस् भस भर्त्सन-दीप्त्योः
जुहोत्यादिः
भर्त्सने सकर्मकः, दीप्तौ अकर्मकः सेट् परस्मैपदी बभस्ति छान्दसः
भा दीप्तौ अदादिः अकर्मकः अनिट् परस्मैपदी भाति
भाज् भाज पृथक्करणे चुरादिः सकर्मकः सेट् उभयपदी भाजयति-ते अदन्तः
भाम् भाम क्रोधे भ्वादिः अकर्मकः सेट् आत्मनेपदी भामते
भाम् भाम क्रोधे चुरादिः अकर्मकः सेट् उभयपदी भामयति-ते अदन्तः
भाष् भाष व्यक्तायां वाचि भ्वादिः द्विकर्मकः सेट् आत्मनेपदी भाषते
भास् भासृ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी भासते
भिक्ष् भिक्ष भिक्षायाम् भ्वादिः द्विकर्मकः सेट् आत्मनेपदी भिक्षते
भिन्द् भिदि अवयवे भ्वादिः अकर्मकः सेट् परस्मैपदी भिन्दति
भिद् भिदिर् विदारणे रुधादिः सकर्मकः अनिट् उभयपदी भिनत्ति-भिन्ते इदित्
भिषज् चिकित्सायाम्
कण्ड्वादिः
भिषज्यति
भी ञिभी भये
जुहोत्यादिः
अकर्मकः अनिट् परस्मैपदी बिभेति ईकारान्तः, ञीत्
भुज् भुज पालन-अभ्यवहारयोः रुधादिः सकर्मकः अनिट् परस्मैपदी भुनक्ति
भुज् भुजो कौटिल्ये तुदादिः अकर्मकः अनिट् परस्मैपदी भुजति ओदित्
भुरण धारण-पोषणयोः
कण्ड्वादिः
भुरण्यति
भुव् भुव अवकल्कने (मिश्रीकरणं, चिन्तनं वा) चुरादिः सकर्मकः सेट् उभयपदी भावयति-ते
भू भू सत्तायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी भवति
भू भू प्राप्तौ चुरादिः सकर्मकः सेट् आत्मनेपदी भावयते, भवति-ते आधृषीयः
भूष् भूष अलङ्कारे भ्वादिः सकर्मकः सेट् परस्मैपदी भूषति
भूष् भूष अलङ्करणे चुरादिः सकर्मकः सेट् उभयपदी भूषयति-ते
भृज् भृजी भर्जने भ्वादिः सकर्मकः सेट् आत्मनेपदी भर्जते
भृ भृञ् भरणे भ्वादिः सकर्मकः अनिट् उभयपदी भरति-ते
भृ डुभृञ् धारण-पोषणयोः
जुहोत्यादिः
सकर्मकः अनिट् उभयपदी बिभर्ति-बिभृते ञित्-ड्वित् च
भृड् भृड निमज्जने तुदादिः अकर्मकः सेट् परस्मैपदी भृडति कुटादिः
भृंश् भृशि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी भृंशयति-ते
भृश् भृशु अधःपतने दिवादिः अकर्मकः सेट् परस्मैपदी भृश्यति पुषादिः
भॄ भर्त्सने (भरण इत्येके, वयोहानौ इत्यपरे) क्र्यादिः सकर्मकः सेट् परस्मैपदी भृणाति
प्वादिः ल्वादिः च
भेष् भेषृ भये भ्वादिः अकर्मकः सेट् उभयपदी भेषति-ते
भ्यस् भ्यस भये भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्यसते
भ्रंश् भ्रंशु अवस्रंसने भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्रंशते द्युतादिः
भ्रंस् भ्रंसु अवस्रंसने दिवादिः अकर्मकः सेट् परस्मैपदी भ्रश्यति पुषादिः
भ्रंस् भ्रंसु अवस्रंसने भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्रंसते
भ्रक्ष् भ्रक्ष अदने भ्वादिः सकर्मकः सेट् उभयपदी भ्रक्षति-ते
भ्रण् भ्रण शब्दे भ्वादिः सकर्मकः सेट् परस्मैपदी भ्रणति
भ्रम् भ्रमु चलने भ्वादिः अकर्मकः सेट् परस्मैपदी भ्रमति-भ्रम्यति उदित्
भ्रम् भ्रमु अनवस्थाने दिवादिः अकर्मकः सेट् परस्मैपदी भ्राम्यति-भ्रमति उदित्
भ्रश् भ्रशु अवस्रंसने दिवादिः अकर्मकः सेट् परस्मैपदी भ्रश्यति
भ्रस्ज् भ्रस्ज पाके तुदादिः सकर्मकः अनिट् उभयपदी भृज्जति-ते
भ्राज् भ्राजृ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्राजते
भ्राज् टुभ्राजृ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्राजते ऋकारान्तः
भ्राश् टुभ्राश् दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्राश्यते-भ्राशते फणादिः
भ्री भये (भरण इत्येके) क्र्यादिः अकर्मकः अनिट् परस्मैपदी भ्रिणाति प्वादिः
भ्रूण् भ्रूण आशा-विशङ्कनयोः चुरादिः सकर्मकः सेट् आत्मनेपदी भ्रूणयते आकुस्मीयः
भ्रेज् भ्रेजृ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्रेजते
भ्रेष् भ्रेषृ भये, गतौ च भ्वादिः अकर्मकः सेट् उभयपदी भ्रेषति-ते
भ्लक्ष् भ्लक्ष अदने भ्वादिः सकर्मकः सेट् उभयपदी भ्लक्षति-ते
भ्लाश् टुभ्लाशृ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी भ्लाश्यते-भ्लाशते फणादिः
भ्लेष् भ्लेषृ गतौ भ्वादिः सकर्मकः सेट् उभयपदी भ्लेशति-ते
मङ्क् मकि मण्डने भ्वादिः सकर्मकः सेट् आत्मनेपदी मङ्कते
मख् मख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मखति
मङ्ख् मखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मङ्खति
मगध परिवेष्टने (नीचदास्य इत्येके)
कण्ड्वादिः
मगध्यति
मङ्ग् मगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मङ्गति
मङ्घ् मघि गत्याक्षेपे, कैतवे च भ्वादिः सकर्मकः सेट् आत्मनेपदी मङ्घते
मङ्घ् मघि मण्डने भ्वादिः सकर्मकः सेट् परस्मैपदी मङ्घति
मच् मच दम्भे भ्वादिः अकर्मकः सेट् आत्मनेपदी मचते
मञ्च् मचि धारण-उच्छ्राय-पूजनेषु भ्वादिः सकर्मकः सेट् आत्मनेपदी मञ्चते
मज् मज मदने, शब्दे च भ्वादिः सकर्मकः सेट् परस्मैपदी मजति-ते
मञ्ज् मजि शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी मञ्जति
मस्ज, ओ श टु औ स्नाने । इति कविकल्प-द्रुमः ॥ (तुदा०-पर०-अक०-अनिट् ।) दन्त्य-मध्यः क्विपि संयोगादिलोपे मक् । ओ, मग्नः । श, मज्जती मज्जन्ती । टु, मज्जथुः । अमाङ्क्षीत् । स्नायतेऽनेनेति स्नानमिह जलान्तःप्रवेशः । मज्जति प्रस्तरो जले । इति दुर्गादासः ॥
मठ् मठ मद-निवासयोः भ्वादिः अकर्मकः सेट् परस्मैपदी मठति
मण्ठ् मठि शोके (आध्यानम्) भ्वादिः अकर्मकः सेट् आत्मनेपदी मण्ठते
मण्ड् मडि विभाजने भ्वादिः सकर्मकः सेट् आत्मनेपदी मण्डते
मण्ड् मडि भूषायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी मण्डति
मण्ड् मडि भूषायाम्, हर्षे च चुरादिः सकर्मकः सेट् उभयपदी मण्डयति-ते
मण् मण शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी मणति
मन्त्र् मत्रि गुप्तभाषणे चुरादिः सकर्मकः सेट् आत्मनेपदी मन्त्रयते आकुस्मीयः
मन्थ् मथि हिंसा-संक्लेशनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी मन्थति
मथ् मथे(482धा.रू.), मन्थ(धा.पा) विलोडने भ्वादिः सकर्मकः सेट् परस्मैपदी मथति
मद् मद तृप्तियोगे चुरादिः सकर्मकः सेट् आत्मनेपदी मादयते आकुस्मीयः
मन्द् मदि स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु भ्वादिः कान्तिगत्योः सकर्मकः, अन्यत्र अकर्मकः सेट् आत्मनेपदी मन्दते
मद् मदी हर्षे दिवादिः अकर्मकः सेट् परस्मैपदी माद्यति ईदित्
मन् मन ज्ञाने दिवादिः सकर्मकः अनिट् आत्मनेपदी मन्यते अनुदात्तोपदेशः
मनस् उपतापे
कण्ड्वादिः
मनस्यति
मन् मनु अवबोधने तनादिः सकर्मकः सेट् आत्मनेपदी मनुते
मन्थ् मन्थ विलोडने भ्वादिः द्विकर्मकः सेट् परस्मैपदी मन्थति
मन्थ् मन्थ विलोडने क्र्यादिः द्विकर्मकः सेट् परस्मैपदी मथ्नाति
मभ्र् मभ्र गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मभ्रति
मय् मय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी मयते
मर्च् मर्च शब्दे चुरादिः अकर्मकः सेट् उभयपदी मर्चयति-ते
मर्ब् मर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मर्बति
मर्व् मर्व पूरणे भ्वादिः सकर्मकः सेट् परस्मैपदी मर्वति
मल् मल धारणे भ्वादिः सकर्मकः सेट् आत्मनेपदी मलते
मल्ल् मल्ल धारणे भ्वादिः सकर्मकः सेट् आत्मनेपदी मल्लते
मव् मव बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी मवति
मव्य् मव्य बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी मव्यति
मश् मश शब्दे, रोषकृते छन्दने, गतौ च भ्वादिः सकर्मकः सेट् परस्मैपदी मशति
मष् मष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी मषति
मस् मसी परिणामे (विकारः) दिवादिः अकर्मकः सेट् परस्मैपदी मस्यति ईदित्, पुषादिः
मस्क् मस्क गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी मस्कते
मस्ज् टुमस्जो शुद्धौ तुदादिः अकर्मकः अनिट् परस्मैपदी मज्जति ओदित्, ट्वित् च
मह् मह पूजायाम् भ्वादिः सकर्मकः सेट् उभयपदी महति-ते
मह् मह पूजायाम् चुरादिः सकर्मकः सेट् उभयपदी महयति-ते अदन्तः
मंह् महि वृद्धौ भ्वादिः अकर्मकः सेट् आत्मनेपदी मंहते
मंह् महि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी मंहयति-ते
मही महीङ् पूजायाम्
कण्ड्वादिः
महीयते
मा माने अदादिः सकर्मकः अनिट् परस्मैपदी माति आकारान्तः
माङ्क्ष् माक्षि काङ्क्षायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी माङ्क्षति
मा माङ् माने, शब्दे च
जुहोत्यादिः
सकर्मकः अनिट् आत्मनेपदी मिमीते
आकारान्तः, भृञादिः
मा माङ् माने दिवादिः सकर्मकः अनिट् आत्मनेपदी मायते आकारान्तः
मान् मान पूजायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी मीमांसते नित्यसन्नन्तः
मान् मान पूजायाम् चुरादिः सकर्मकः सेट् उभयपदी मानयति-ते आधृषीयः
मान् मान स्तम्भे चुरादिः सकर्मकः सेट् आत्मनेपदी मानयते आकुस्मीयः
मान्थ् मान्थ हिंसा-संक्लेशनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी मान्थति
मार्ग् मार्ग अन्वेषणे चुरादिः सकर्मकः सेट् उभयपदी मार्गयति-ते आधृषीयः
मार्ज् मार्ज शुद्धौ चुरादिः सकर्मकः सेट् उभयपदी मार्जयति-ते
माह् माहृ माने भ्वादिः सकर्मकः सेट् उभयपदी माहति-ते
मिच्छ् मिच्छ उत्क्लेशे (पीडा) तुदादिः सकर्मकः सेट् परस्मैपदी मिच्छति
मिञ्ज् मिजि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी मिञ्जयति-ते
मि डुमिञ् प्रक्षेपणे स्वादिः सकर्मकः सेट् उभयपदी मिनोति-मिनुते ञित्, ड्वित् च
मिथ् मिथृ मेधा-हिंसनयोः भ्वादिः सकर्मकः सेट् उभयपदी मेथति-मेथते
मिद् ञिमिदा स्नेहने दिवादिः सकर्मकः सेट् परस्मैपदी मेद्यति ञीत्, पुषादिः
मिद् मिदि स्नेहने चुरादिः सकर्मकः सेट् उभयपदी मिन्दयति-ते
मिद् मिदृ मेधा-हिंसनयोः भ्वादिः हिंसने सकर्मकः, मेधायाम् अकर्मकः सेट् उभयपदी मेदति-ते
मिध् मिधृ मेधा-हिंसनयोः भ्वादिः हिंसने सकर्मकः, मेधायाम् अकर्मकः सेट् उभयपदी मेधति-ते
मिल् मिल श्लेषणे तुदादिः सकर्मकः सेट् परस्मैपदी मिलति
मिल् मिल सङ्गमे तुदादिः अकर्मकः सेट् उभयपदी मिलति-ते
मिन्व् मिवि सेचने (सेवन इत्येके) भ्वादिः सकर्मकः सेट् परस्मैपदी मिन्वति
मिश् मिश शब्दे, रोषकृते, बन्धने, गतौ च भ्वादिः सकर्मकः सेट् परस्मैपदी मिशति
मिश्र् मिश्र सम्पर्के चुरादिः सकर्मकः सेट् उभयपदी मिश्रयति-ते अदन्तः
मिष् मिष स्पर्धायाम् तुदादिः अकर्मकः सेट् परस्मैपदी मिषति
मिष् मिषु सेचने (सेवन इत्येके) भ्वादिः सकर्मकः सेट् परस्मैपदी मिषति
मिह् मिह सेचने भ्वादिः सकर्मकः अनिट् परस्मैपदी मेहति
मी गतौ चुरादिः सकर्मकः सेट् उभयपदी माययति-ते
ईकारान्तः, आधृषीयः
मी मीङ् हिंसायाम् (प्राणवियोगः) दिवादिः अकर्मकः अनिट् आत्मनेपदी मीयते
ईकारान्तः, ओदित्
मी मीञ् हिंसायाम् क्र्यादिः सकर्मकः अनिट् उभयपदी मीनाति-मीनीते ईकारान्तः, ञित्
मीम् मीमृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मीमति ऋदित्
मील् मील निमेषणे भ्वादिः सकर्मकः सेट् परस्मैपदी मीलति
मीवे मीव स्थौल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी मीवति
मुच् मुच प्रमोचने चुरादिः सकर्मकः सेट् उभयपदी मोचयति-ते
मुञ्च् मचि कल्कने (शाठ्यं दम्भश्च) भ्वादिः अकर्मकः सेट् आत्मनेपदी मुञ्चते
मुच् मुचु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी मोचति
मुच् मुच्लृ मोचने तुदादिः सकर्मकः अनिट् उभयपदी मुञ्चति-ते
मुज् मुज शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी मोजति
मुञ्ज् मुजि शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी मुञ्जति
मुट् मुट मर्दने भ्वादिः सकर्मकः सेट् परस्मैपदी मोटति
मुट् मुट आक्षेप-मर्दन-बन्धनेषु तुदादिः सकर्मकः सेट् परस्मैपदी मुटति कुटादिः
मुट् मुट सञ्चूर्णने चुरादिः सकर्मकः सेट् उभयपदी मोटयति-ते
मुण्ठ् मुठि पालने भ्वादिः सकर्मकः सेट् आत्मनेपदी मुण्ठते
मुण्ड् मुडि खण्डने भ्वादिः सकर्मकः सेट् परस्मैपदी मुण्डति
मुण्ड् मुडि मार्जने भ्वादिः सकर्मकः सेट् आत्मनेपदी मुण्डते
मुण् मुण प्रतिज्ञाने तुदादिः सकर्मकः सेट् परस्मैपदी मुणति
मुद् मुद हर्षे भ्वादिः अकर्मकः सेट् आत्मनेपदी मोदते
मुद् मुद संसर्गे चुरादिः सकर्मकः सेट् उभयपदी मोदयति-ते
मुर् मुर संवेष्टने तुदादिः सकर्मकः सेट् परस्मैपदी मुरति
मुर्च्छ मुर्च्छा मोह-समुच्छ्राययोः भ्वादिः अकर्मकः सेट् परस्मैपदी मूर्च्छति आकारान्तः
मुर्व् मुर्वी बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी मूर्वति ईदित्
मुष् मुष स्तेये क्र्यादिः सकर्मकः सेट् परस्मैपदी मुष्णाति
मुस् मुस खण्डने दिवादिः सकर्मकः सेट् परस्मैपदी मुस्यति पुषादिः
मुह् मुह वैचित्ये दिवादिः अकर्मकः सेट् परस्मैपदी मुह्यति पुषादिः
मू मूङ् बन्धने भ्वादिः सकर्मकः सेट् आत्मनेपदी मवते ऊकारान्तः
मूत्र् मूत्र प्रस्रवणे चुरादिः सकर्मकः सेट् उभयपदी मूत्रयति-ते अदन्तः
मूल् मूल प्रतिष्ठायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी मूलति
मूल् मूल रोहणे चुरादिः सकर्मकः सेट् उभयपदी मूलयति-ते
मूष् मूष स्तेये भ्वादिः सकर्मकः सेट् परस्मैपदी मूषति
मृक्ष् मृक्ष संघाते भ्वादिः अकर्मकः सेट् परस्मैपदी मृक्षति
मृग् मृग अन्वेषणे चुरादिः सकर्मकः सेट् आत्मनेपदी मृगयते
अदन्तः, आगर्वीयः
मृ मृङ् प्राणत्यागे तुदादिः अकर्मकः अनिट् आत्मनेपदी म्रियते ऋकारान्तः
मृज् मृजू शुद्धौ अदादिः सकर्मकः वेट् परस्मैपदी मार्ष्टि ऊदित्
मृज् मृजू शुद्धौ, अलङ्कारे च चुरादिः सकर्मकः सेट् उभयपदी मार्जयति-ते आधृषीयः, ऊदित्
मृड् मृड सुखने तुदादिः सकर्मकः सेट् परस्मैपदी मृडति
मृड् मृड् क्षोदे क्र्यादिः सकर्मकः सेट् परस्मैपदी मृड्नाति
मृण् मृण हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी मृणति
मृद् मृद मर्दने भ्वादिः सकर्मकः सेट् आत्मनेपदी मर्दते घटादिः, षित्
मृद् मृद क्षोदे क्र्यादिः सकर्मकः सेट् परस्मैपदी मृद्नाति
मृध् मृधु उन्दने (क्लेदनम्) भ्वादिः सकर्मकः सेट् उभयपदी मर्धति उदित्
मृश् मृश आमर्शने तुदादिः सकर्मकः अनिट् परस्मैपदी मृशति
मृष् मृष तितिक्षायाम् दिवादिः सकर्मकः सेट् उभयपदी मृष्यति-ते
मृष् मृष तितिक्षायाम् चुरादिः सकर्मकः सेट् उभयपदी मर्षयति-ते आधृषीयः
मृष् मृषु सेचने भ्वादिः सकर्मकः सेट् परस्मैपदी मर्षति उदित्
मृ मॄ हिंसायाम् क्र्यादिः सकर्मकः सेट् परस्मैपदी मृणाति
प्वादिः ल्वादिः च
मे मेङ् प्रत्यर्पणे, विनिमये च भ्वादिः सकर्मकः अनिट् आत्मनेपदी मयते एकारान्तः
मेथ् मेथृ मेधा-हिंसनयोः भ्वादिः हिंसने सकर्मकः, मेधायाम् अकर्मकः सेट् उभयपदी मेथति-ते ऋदित्
मेद् मेदृ मेधा-हिंसनयोः भ्वादिः हिंसने सकर्मकः, मेधायाम् अकर्मकः सेट् उभयपदी मेदति-ते ऋदित्
मेधा आशुग्रहणे
कण्ड्वादिः
मेधायति
मेध् मेधृ मेधा-हिंसनयोः, सङ्गमे च भ्वादिः हिंसने सकर्मकः, मेधायाम् अकर्मकः सेट् उभयपदी मेधति-ते ऋदित्
मेप् मेपृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी मेपते ऋदित्
मेव् मेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी मेवते ऋदित्
म्ना अभ्यासे भ्वादिः सकर्मकः अनिट् परस्मैपदी (आ)मनति आकारान्तः
म्रक्ष् म्रक्ष सङ्घाते भ्वादिः सकर्मकः अनिट् परस्मैपदी म्रक्षति
म्रक्ष् म्रक्ष म्लेञ्छने चुरादिः सकर्मकः सेट् उभयपदी म्रक्षयति-ते
म्रद् म्रद मर्दने भ्वादिः सकर्मकः सेट् आत्मनेपदी म्रदते
म्रुच् म्रुचु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी म्रोचति उदित्
म्रुञ्च् म्रुञ्चु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी म्रुञ्चति उदित्
म्रेट् म्रेटृ उन्मादे भ्वादिः सकर्मकः सेट् परस्मैपदी म्रेटति ऋदित्
म्रेड् म्रेडृ उन्मादे भ्वादिः सकर्मकः सेट् परस्मैपदी म्रेडति ऋदित्
म्लुच् म्लुचु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी म्लोचति उदित्
म्लेच्छ् म्लेच्छ अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी म्लेच्छति
म्लेच्छ् म्लेच्छ अव्यक्ते शब्दे चुरादिः अकर्मकः सेट् उभयपदी म्लेच्छयति-ते
म्लेट् म्लेटृ उन्मादे भ्वादिः सकर्मकः सेट् परस्मैपदी म्लेटति ऋदित्
म्लेड् म्लेडृ उन्मादे भ्वादिः सकर्मकः सेट् परस्मैपदी म्लेडति ऋदित्
म्लेव् म्लेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी म्लेवत् ऋदित्
म्लै हर्षक्षये भ्वादिः अकर्मकः अनिट् परस्मैपदी म्लायति ऐकारान्तः
यक्ष् यक्ष पूजायाम् चुरादिः सकर्मकः सेट् उभयपदी यक्षयति-ते
यज् यज देवपूजा-सङ्गतिकरण-यजन-दानेषु भ्वादिः सकर्मकः अनिट् उभयपदी यजति-ते
यत् यत निराकारोपस्करयोः चुरादिः अकर्मकः सेट् उभयपदी यातयति-ते
यत् यती प्रयत्ने भ्वादिः अकर्मकः सेट् आत्मनेपदी यतते
यन्त्र् यत्रि सङ्कोचे चुरादिः सकर्मकः सेट् उभयपदी यन्त्रयति-ते
यभ् यभ मैथुने भ्वादिः अकर्मकः अनिट् परस्मैपदी यभति
यम् यम उपरमे भ्वादिः सकर्मकः अनिट् परस्मैपदी यच्छति
आङो यमहनः (आ)यच्छते
यम् यम परिवेषणे चुरादिः सकर्मकः सेट् उभयपदी यमयति-ते
ज्ञपादित्वात् मित्
यस् यसु प्रयत्ने दिवादिः अकर्मकः सेट् परस्मैपदी यस्यति उकारान्तः
या प्रापणे (गतिः) अदादिः सकर्मकः अनिट् परस्मैपदी याति आकारान्तः
याच् टुयाचृ याच्ञायाम् भ्वादिः द्विकर्मकः सेट् उभयपदी याचति-याचते
यु मिश्रणे अमिश्रणे च अदादिः सकर्मकः सेट् परस्मैपदी यौति
यु जुगुप्सायाम् चुरादिः अकर्मकः सेट् आत्मनेपदी यावयते
आकुस्मीयः, उकारान्तः
यङ्ग् युगि वर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी युङ्गति
युच्छ् युच्छ प्रमादे भ्वादिः अकर्मकः सेट् परस्मैपदी युच्छति
युज् युज समाधौ (चित्तवृत्तिनिरोधः) दिवादिः अकर्मकः अनिट् आत्मनेपदी युज्यते
युज् युज संयमने चुरादिः सकर्मकः सेट् उभयपदी योजयति-ते आधृषीयः
युज् युजिर् योगे रुधादिः सकर्मकः अनिट् उभयपदी युनक्ति-युङ्क्ते
यु युञ् बन्धने क्र्यादिः सकर्मकः अनिट् उभयपदी युनाति-युनीते
युट्ट् युट्ट अल्पीभावे चुरादिः अकर्मकः सेट् उभयपदी युट्टयति-ते
युत् युतृ भासने भ्वादिः अकर्मकः सेट् आत्मनेपदी योतते
युध् युध सम्प्रहारे दिवादिः अकर्मकः अनिट् आत्मनेपदी युद्ध्यते
युप् युप विमोहने दिवादिः सकर्मकः सेट् परस्मैपदी युप्यति
युष् युष सेवने चुरादिः सकर्मकः सेट् उभयपदी योषयति-ते सौत्रधातुः
यूष् यूष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी यूषति
येष् येषृ प्रयत्ने भ्वादिः सकर्मकः सेट् आत्मनेपदी येषते
यौट् यौटृ बन्धने भ्वादिः सकर्मकः सेट् परस्मैपदी यौटति
रक् रक आस्वादने चुरादिः सकर्मकः सेट् उभयपदी राकयति-ते
रक्ष् रक्ष पालने भ्वादिः सकर्मकः सेट् परस्मैपदी रक्षति
रख् रख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रखति
रङ्ख् रखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रङ्खति
रग् रग आस्वादने चुरादिः सकर्मकः सेट् उभयपदी रागयति-ते
रङ्ग् रगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रङ्गति
रग् रगे शङ्कायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी रगति
रघ् रघ आस्वादने चुरादिः सकर्मकः सेट् उभयपदी राघयति-ते
रङ्घ् रघि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी रङ्घते
रङ्घ् रघि भाषायाम् चुरादिः सकर्मकः सेट् आत्मनेपदी रङ्घयति-ते
रच् रच प्रतियत्ने (संस्कारः) चुरादिः सकर्मकः सेट् उभयपदी रचयति-ते अदन्तः
रञ्ज् रञ्ज रागे भ्वादिः अकर्मकः अनिट् उभयपदी रञ्जयति-ते
रञ्ज् रञ्ज रागे दिवादिः अकर्मकः अनिट् उभयपदी रज्यति-ते
रट् रट परिभाषणे भ्वादिः सकर्मकः सेट् परस्मैपदी रटति
रठ् रठ परिभाषणे भ्वादिः सकर्मकः सेट् परस्मैपदी रठति
रण् रण शब्दे, गतौ च भ्वादिः शब्दे अकर्मकः, गतौ सकर्मकः सेट् परस्मैपदी रणति काण्यादिः
रथ् रथ हिंसा-संराद्ध्योः (संराद्धिः पाकः) दिवादिः हिंसायां सकर्मकः, संराद्धौ अकर्मकः सेट् परस्मैपदी रथ्यति
रद् रद विलेखने भ्वादिः सकर्मकः सेट् परस्मैपदी रदति
रध् रध हिंसा-संराद्ध्योः दिवादिः हिंसायां सकर्मकः, संराद्धौ अकर्मकः वेट् परस्मैपदी रध्यति पुषादिः
रप् रप व्यक्तायां वाचि भ्वादिः सकर्मकः सेट् परस्मैपदी रपति
रफ् रफ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रफति
रम्फ् रफि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रम्फति
रम्ब् रबि शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी रम्बते
रभ् रभ राभस्ये भ्वादिः सकर्मकः अनिट् आत्मनेपदी रमते
रभेरशब्लिटोः नुम्
रम्भ् रभि शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी रम्भते
रम् रमु क्रीडायाम् भ्वादिः अकर्मकः अनिट् आत्मनेपदी रमते अनुदात्तोपदेशः
रय् रय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी रयते
रण्व् रवि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रण्वति
रस् रस शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी रसति
रस् रस आस्वादन-स्नेहनयोः चुरादिः सकर्मकः सेट् उभयपदी रसयति अदन्तः
रह् रह त्यागे भ्वादिः सकर्मकः सेट् परस्मैपदी रहति
रह् रह त्यागे चुरादिः सकर्मकः सेट् उभयपदी रहयति-ते ज्ञपादिः
रंह् रहि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रंहति
रा दाने अदादिः सकर्मकः अनिट् परस्मैपदी राति
राख् राखृ शोषण-अलमर्थयोः भ्वादिः सकर्मकः सेट् परस्मैपदी राखति
राघ् राघृ सामर्थ्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी राघते
राज् राजृ दीप्तौ भ्वादिः अकर्मकः सेट् उभयपदी राजति-ते फणादिः
राध् राध वृद्धौ दिवादिः अकर्मकः अनिट् परस्मैपदी राध्यति
राध् राध संसिद्धौ स्वादिः सकर्मकः अनिट् परस्मैपदी राध्नोति
रास् रासृ शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी रासते
रि हिंसायाम् स्वादिः सकर्मकः अनिट् परस्मैपदी रिणोति छान्दसः
रि गतौ तुदादिः सकर्मकः अनिट् परस्मैपदी रियति
रिख् रिख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रेखति
रिङ्ग् रिगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रिङ्गति
रिच् रिच वियोजन-सम्पर्चनयोः चुरादिः सकर्मकः सेट् उभयपदी रेचयति-ते आधृषीयः
रिच् रिचिर् विरेचने रुधादिः सकर्मकः अनिट् उभयपदी रिणक्ति-रिङ्क्ते
रिफ् रिफ कत्थन-युद्ध-निन्दा-हिंसादानेषु तुदादिः सकर्मकः सेट् परस्मैपदी रिफति
रिण्व् रिवि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी रिण्वति
रिश् रिश हिंसायाम् तुदादिः सकर्मकः अनिट् परस्मैपदी रिशति
रिष् रिष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी रेषति
रिष् रिष हिंसायाम् दिवादिः सकर्मकः सेट् परस्मैपदी रिष्यति
रिह् रिह हिंसायाम् तुदादिः सकर्मकः सेट् परस्मैपदी रिहति
री गति-रेषणयोः (रेषणं वृकशब्दः) क्र्यादिः गतौ सकर्मकः अनिट् परस्मैपदी रिणाति
प्वादिः ल्वादिः च
री हिंसायाम् स्वादिः सकर्मकः अनिट् परस्मैपदी रिणोति
री रीङ् स्रवणे, श्रावण इति पाठान्तरम् दिवादिः श्रवणे सकर्मकः अनिट् आत्मनेपदी रीयते ओदित्
रु शब्दे अदादिः अकर्मकः सेट् परस्मैपदी रौति-रवीति
रु रुङ् गति-रेषणयोः भ्वादिः गतौ सकर्मकः अनिट् आत्मनेपदी रवते
रुच् रुच दीप्तौ-अभिप्रीतौ च भ्वादिः अकर्मकः सेट् आत्मनेपदी रोचते द्युतादिः
रुज् रुज हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी रोजयति-ते
रुज् रुजो भङ्गे तुदादिः सकर्मकः अनिट् परस्मैपदी रुजति
रुट् रुट प्रतिघाते भ्वादिः सकर्मकः सेट् आत्मनेपदी रोटते द्युतादिः
रुट् रुट भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी रोटयति-ते द्युतादिः
रुण्ट् रुटि स्तेये भ्वादिः सकर्मकः सेट् परस्मैपदी रुण्टति
रुठ् रुठ उपघाते भ्वादिः सकर्मकः सेट् परस्मैपदी रोठति
रुठ् रुठ रोषे चुरादिः अकर्मकः सेट् उभयपदी रोठयति-ते
रुण्ठ् रुठि स्तेये गतौ च भ्वादिः सकर्मकः सेट् परस्मैपदी रुण्ठति
रुण्ड् रुडि स्तेये भ्वादिः सकर्मकः सेट् परस्मैपदी रुण्डति
रुद् रुदिर् अश्रुविमोचने अदादिः अकर्मकः सेट् परस्मैपदी रोदिति रुदादिः
रुध् रुध कामे दिवादिः सकर्मकः अनिट् आत्मनेपदी (अनु)रुध्यते
रुध् रुधिर् आवरणे रुधादिः द्विकर्मकः अनिट् उभयपदी रुणद्धि-रुन्धे
रुप् रुप विमोहने दिवादिः सकर्मकः सेट् परस्मैपदी रुप्यति पुषादिः
रुश् रुश हिंसायाम् तुदादिः सकर्मकः अनिट् उभयपदी रुशति
रुंश् रुशि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी रुंशयति-ते
रुष् रुष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी रोषति
तीषसहेति तासौ वेट्
रुष् रुष रोषे दिवादिः अकर्मकः सेट् परस्मैपदी रुष्यति
रुष् रुष रोषे चुरादिः अकर्मकः सेट् उभयपदी रोषयति-ते
रुंस् रुसि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी रुंसयति-ते
रुह् रुह बीजजन्मनि, प्रादुर्भावे च भ्वादिः अकर्मकः अनिट् परस्मैपदी रोहति
रूक्ष् रूक्ष पारुष्ये चुरादिः सकर्मकः सेट् उभयपदी रूक्षयति-ते अदन्तः
रूप् रूप रूपक्रियायाम् चुरादिः सकर्मकः सेट् उभयपदी रूपयति-ते
रूष् रूष भूषायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी रूषति
रेक् रेकृ शङ्कायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी रेकते
रेखा श्लाघ-आसादनयोः
कण्ड्वादिः
रेखायति
रेट् रेटृ परिभाषणे (सनिन्दोपालम्भश्च) भ्वादिः सकर्मकः सेट् उभयपदी रेटति-ते
रेप् रेपृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी रेपते
रेब् रेबृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी रेबते
रेभ् रेभृ शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी रेभते
क्षुब्धस्वान्तेति निपातः
रेव् रेवृ प्लवगतौ भ्वादिः अकर्मकः सेट् आत्मनेपदी रेवते
रेष् रेषृ अव्यक्ते शब्दे (वृकशब्दः) भ्वादिः अकर्मकः सेट् आत्मनेपदी रेषते
रै शब्दे भ्वादिः अकर्मकः अनिट् परस्मैपदी रायति
रोड् रोडृ उन्मादे भ्वादिः अकर्मकः सेट् परस्मैपदी रोडति
रौड् रौडृ अनादरे भ्वादिः सकर्मकः सेट् परस्मैपदी रौडति
लक् लक आस्वादने चुरादिः सकर्मकः सेट् उभयपदी लाकयति-ते
लक्ष् लक्ष दर्शन-अङ्कनयोः चुरादिः सकर्मकः सेट् उभयपदी लक्षयति-ते
लक्ष् लक्ष आलोचने चुरादिः सकर्मकः सेट् आत्मनेपदी लक्षयते आकुस्मीयः
लख् लख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी लखति
लङ्ख् लखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी लङ्खति
लग् लग आस्वादने चुरादिः सकर्मकः सेट् उभयपदी लागयति-ते
लङ्ग् लगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी लङ्गति
लग् लगे सङ्गे भ्वादिः अकर्मकः सेट् परस्मैपदी लगति
लघ् लघ आस्वादने चुरादिः सकर्मकः सेट् उभयपदी लाघयति-ते
लङ्घ् लघि गतौ, भोजननिवृत्तावपि भ्वादिः गतौ सकर्मकः सेट् आत्मनेपदी लङ्घते
लङ्घ् लघि भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी लङ्घयति-ते
लच्छ् लच्छ लक्षणे भ्वादिः सकर्मकः सेट् परस्मैपदी लच्छति
लज् लज भर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी लजति
लज् लज अपवारणे चुरादिः सकर्मकः सेट् उभयपदी लाजयति-ते
लञ्ज् लजि भर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी लञ्जति
लज् ओलजी व्रीडने तुदादिः अकर्मकः सेट् आत्मनेपदी लजते
लट् लट बाल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी लटति
लड् लड विलासे भ्वादिः अकर्मकः सेट् परस्मैपदी लडति
लड् लड उपसेवायाम् चुरादिः सकर्मकः सेट् उभयपदी लाडयति-ते
लण्ड् ओलडि उत्क्षेपणे चुरादिः सकर्मकः सेट् उभयपदी लण्डयति-ते
लप् लप व्यक्तायां वाचि भ्वादिः अकर्मकः सेट् परस्मैपदी लपति
लम्ब् लबि शब्दे अवस्रंसने च भ्वादिः अकर्मकः सेट् आत्मनेपदी लम्बते
लभ् डुलभष् प्राप्तौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी लभते
लर्ब् लर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी लर्बति
लल् लल विलासे भ्वादिः अकर्मकः सेट् परस्मैपदी ललति
लल् लल ईप्सायाम् चुरादिः सकर्मकः सेट् आत्मनेपदी लालयते आकुस्मीयः
लश् लश कौशल्ये चुरादिः अकर्मकः सेट् उभयपदी लाशयति-ते
लष् लष कान्तौ (इच्छा) भ्वादिः सकर्मकः सेट् उभयपदी लषति-ते, लष्यति-ते श्यन् वा
लस् लस श्लेषण-क्रीडनयोः भ्वादिः क्रीडने अकर्मकः सेट् परस्मैपदी लस्यति-ते, लसति-ते श्यन् वा
लस् लस शिल्पयोगे चुरादिः अकर्मकः सेट् उभयपदी लासयति-ते
लज्ज् ओलस्जी व्रीडने तुदादिः अकर्मकः सेट् आत्मनेपदी लज्जते
ला दाने-आदाने च अदादिः सकर्मकः अनिट् परस्मैपदी लाति
लाख् लाखृ शोषण-अलमर्थयोः भ्वादिः सकर्मकः सेट् परस्मैपदी लाखति
लाघ् लाघृ सामर्थ्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी लाघते
लाञ्छ् लाच्छि लक्षणे भ्वादिः सकर्मकः सेट् परस्मैपदी लाञ्छति
लाज् लाज भर्जने-भर्त्सने च भ्वादिः सकर्मकः सेट् परस्मैपदी लाजति
लाञ्ज् लाजि भर्जने-भर्त्सने च भ्वादिः सकर्मकः सेट् परस्मैपदी लाञ्जति
लाभ् लाभ प्रेरणे चुरादिः सकर्मकः सेट् उभयपदी लाभयति-ते अदन्तः
लाट् जीवने
कण्ड्वादिः
लाट्यति
लिख् लिख अक्षरविन्यासे तुदादिः सकर्मकः सेट् परस्मैपदी लिखति
लिङ्ग् लिगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी लिङ्गति
लिङ्ग् लिगि चित्रीकरणे चुरादिः सकर्मकः सेट् उभयपदी लिङ्गयति-ते
लिट् लिट अल्प-कुत्सनयोः
कण्ड्वादिः
लिट्यति
लिप् लिप उपदेहे तुदादिः सकर्मकः अनिट् उभयपदी लिम्पति-ते मुचादिः
लिश् लिश अल्पीभावे दिवादिः अकर्मकः अनिट् आत्मनेपदी लिश्यते
लिश् लिश गतौ तुदादिः सकर्मकः अनिट् परस्मैपदी लिशति
लिह् लिह आस्वादने अदादिः सकर्मकः अनिट् उभयपदी लेढि-लीढे
ली श्लेषणे भ्वादिः सकर्मकः अनिट् परस्मैपदी लिनाति
प्वादिः ल्वादिः च, ईकारान्तः
ली द्रवीकरणे चुरादिः सकर्मकः सेट् उभयपदी लाययति-ते, लयति-ते आधृषीयः
ली लीङ् श्लेषणे दिवादिः सकर्मकः अनिट् आत्मनेपदी लीयते ओदित्
लुञ्च् लुञ्च अपनयने भ्वादिः सकर्मकः सेट् परस्मैपदी लुञ्चति
लुञ्ज् लुजि हिंसा-बलादान-निकेतनेषु, भाषायाम् च चुरादिः सकर्मकः सेट् उभयपदी लुञ्जयति-ते
लुट् लुट विलोडने भ्वादिः सकर्मकः सेट् परस्मैपदी लोटति
लुट् लुट प्रतिघाते भ्वादिः सकर्मकः सेट् आत्मनेपदी लोटते द्युतादिः
लुट् लुट विलोडने दिवादिः सकर्मकः सेट् परस्मैपदी लुट्यति पुषादिः
लुट् लुट संश्लेषणे तुदादिः सकर्मकः सेट् परस्मैपदी लुटति कुटादिः
लुट् लुट भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी लोटयति-ते
लुण्ट् लुटि स्तेये भ्वादिः सकर्मकः सेट् परस्मैपदी लुण्टति
लुठ् लुठ उपघाते भ्वादिः सकर्मकः सेट् परस्मैपदी लोठति
लुठ् लुठ प्रतीघाते भ्वादिः सकर्मकः सेट् आत्मनेपदी लोठते
काण्यादिः, द्युतादिः
लुठ् लुठ संश्लेषणे तुदादिः सकर्मकः सेट् परस्मैपदी लुठति कुटादिः
लुण्ठ् लुठि स्तेये, गतौ, आलस्ये, प्रतिघाते च भ्वादिः सकर्मकः सेट् परस्मैपदी लुण्ठति
लुड् लुड विलोडने भ्वादिः सकर्मकः सेट् परस्मैपदी लोडति
लुड् लुड संश्लेषणे तुदादिः सकर्मकः सेट् परस्मैपदी लुडति कुटादिः
लुण्ड् लुडि स्तेये भ्वादिः सकर्मकः सेट् परस्मैपदी लुण्डति
लुण्ट् लुण्ट स्तेये चुरादिः सकर्मकः सेट् उभयपदी लुण्टयति-ते
लुन्थ् लुथि हिंसा-संक्लेशनयोः भ्वादिः सकर्मकः सेट् परस्मैपदी लुन्थति
लुप् लुप विमोहने दिवादिः अकर्मकः सेट् परस्मैपदी लुप्यति
काण्यादिः, पुषादिः
लुप् लुप्लृ छेदने तुदादिः सकर्मकः अनिट् उभयपदी लुम्पति-लुम्पते मुचादिः
लुम्ब् लुबि अदर्शने भ्वादिः सकर्मकः सेट् परस्मैपदी लुम्बति
लुभ् लुभ गार्ध्ये (आकाङ्क्षा) दिवादिः सकर्मकः सेट् परस्मैपदी लुभ्यति पुषादिः
लुभ् लुभ विमोहने तुदादिः सकर्मकः सेट् परस्मैपदी लुभति
लू लूञ् छेदने क्र्यादिः सकर्मकः सेट् उभयपदी लुनाति-लुनीते
प्वादिः ल्वादिः च
लूष् लूष भूषायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी लूषति
लूष् लूष हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी लूषयति-ते
लेखा श्लाघा-साधनयोः
कण्ड्वादिः
लेखायति
लेट् धौत्ये पूर्वभावे स्वप्ने च
कण्ड्वादिः
लेट्यति
लेप् लेपृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी लेपते
लोक् लोकृ दर्शने भ्वादिः सकर्मकः सेट् आत्मनेपदी लोकते
लोक् लोकृ भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी लोकयति-ते
लोच् लोचृ दर्शने भ्वादिः सकर्मकः सेट् आत्मनेपदी लोचते
लोच् लोचृ भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी (आ)लोचयति-ते
लोट् धौत्ये पूर्वभावे च
कण्ड्वादिः
लोट्यति
लोड् लोडृ उन्मादे भ्वादिः अकर्मकः सेट् परस्मैपदी लोडति
लोष्ठ् लोष्ठ सङ्घाते भ्वादिः अकर्मकः सेट् आत्मनेपदी लोष्ठते
वङ्क् वकि कौटिल्ये, गतौ च भ्वादिः कौटिल्ये अकर्मकः, गतौ सकर्मकः सेट् आत्मनेपदी वङ्कते
वक्ष् वक्ष रोषे, सङ्घाते च भ्वादिः अकर्मकः सेट् परस्मैपदी वक्षति
वख् वख गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वखति
वङ्ख वखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वङ्खति
वङ्ग् वगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वङ्गति
वङ्घ् वघि गत्याक्षेपे (आक्षेपो निन्दा), गतौ गत्यारम्भे चेत्येके भ्वादिः सकर्मकः सेट् आत्मनेपदी वङ्घते
वच् वच परिभाषणे अदादिः द्विकर्मकः अनिट् परस्मैपदी वक्ति
वच् वच परिभाषणे चुरादिः सकर्मकः सेट् उभयपदी वचति, वाचयति-ते
वज् वज गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वजति
वञ्च् वञ्चु गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वञ्चति
वञ्च् वञ्चु प्रलम्भने चुरादिः सकर्मकः सेट् आत्मनेपदी वञ्चयते आकुस्मीयः
वट् वट वेष्टने, परिभाषणे च भ्वादिः सकर्मकः सेट् परस्मैपदी वटति
वट् वट विभाजने, ग्रन्थे च चुरादिः सकर्मकः सेट् उभयपदी वटयति-ते अदन्तः
वण्ट् वटि विभाजने चुरादिः सकर्मकः सेट् उभयपदी वण्टयति-ते
वठ् वठ स्थौल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी वठति
वण्ठ् वठि एकचर्यायाम् भ्वादिः अकर्मकः सेट् आत्मनेपदी वण्ठते
वण्ड् वडि विभाजने भ्वादिः सकर्मकः सेट् आत्मनेपदी वण्डते
वण्ड् वडि विभाजने, ग्रन्थे च चुरादिः सकर्मकः सेट् उभयपदी वण्डयति-ते
वण् वण शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी वणति
वद् वद व्यक्तायां वाचि भ्वादिः सकर्मकः सेट् परस्मैपदी वदति
वद् वद सन्देशवचने चुरादिः सकर्मकः सेट् उभयपदी वादयति-ते आधृषीयः
वन्द् वदि अभिवादन-स्तुत्योः भ्वादिः सकर्मकः सेट् आत्मनेपदी वन्दते
वन् वन सम्भक्तौ, शब्दे च भ्वादिः सकर्मकः सेट् परस्मैपदी वनति
वन् वनु क्रियासामान्यार्थे (अनेकक्रियार्थः) भ्वादिः सकर्मकः सेट् परस्मैपदी वनति
वन् वनु याचने तनादिः सकर्मकः सेट् आत्मनेपदी वनुते तनोत्यादिः
वन् वनु याचने तनादिः सकर्मकः सेट् परस्मैपदी वनोति छान्दसः
वप् डुवप् बीजसन्ताने भ्वादिः सकर्मकः अनिट् उभयपदी वपति-ते यजादिः
वभ्र् वभ्र गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वभ्रति
वम् टुवमु उद्गिरणे भ्वादिः सकर्मकः सेट् परस्मैपदी वमति
वय् वय गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी वयते
वर् वर ईप्सायाम् चुरादिः सकर्मकः सेट् उभयपदी वरयति-ते अदन्तः
वर्च् वर्च दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी वर्चते
वर्ण् वर्ण प्रेरणे, वर्णने च चुरादिः सकर्मकः सेट् उभयपदी वर्णयति-ते
वर्ण् वर्ण
वर्णक्रिया-विस्तार-गुणवचनेषु (वर्णक्रिया वर्णकरणम्) (विस्तृणाति)
चुरादिः सकर्मकः सेट् उभयपदी वर्णयति-ते अदन्तः
वर्ध् वर्ध छेदन-पूरणयोः चुरादिः सकर्मकः सेट् उभयपदी वर्धयति-ते
वर्ष् वर्ष स्नेहने भ्वादिः सकर्मकः सेट् आत्मनेपदी वर्षते
वर्ह् वर्ह परिभाषण-हिंसा-प्रदानेषु, प्राधान्ये च भ्वादिः सकर्मकः सेट् आत्मनेपदी वर्हते
वल् वल संवरणे, सञ्चरणे च भ्वादिः सकर्मकः सेट् आत्मनेपदी वलते
वल्क् वल्क परिभाषणे चुरादिः सकर्मकः सेट् उभयपदी वल्कयति-ते
वल्ग् वल्ग गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी वल्गति
वल्गु पूजायाम्
कण्ड्वादिः
वल्गूयति
वल्भ् वल्भ भोजने भ्वादिः सकर्मकः सेट् आत्मनेपदी वल्भते
वल्ल् वल्ल संवरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी वल्लते
वल्ह् वल्ह परिभाषण-हिंसा-प्रदानेषु, प्राधान्ये च भ्वादिः अर्थानुगुण्यम् सेट् आत्मनेपदी वल्हते
वश् वश कान्तौ (इच्छा) अदादिः सकर्मकः सेट् परस्मैपदी वष्टि
वष् वष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी वषति
वष्क् वष्क दर्शने चुरादिः सकर्मकः सेट् उभयपदी वष्कयति-ते
वस् वस निवासे भ्वादिः अकर्मकः अनिट् परस्मैपदी वसति यजादिः
वस् वस आच्छादने अदादिः सकर्मकः सेट् आत्मनेपदी वस्ते
वस् वस स्नेह-मोह-च्छेद-अपहरणेषु चुरादिः सकर्मकः सेट् उभयपदी वासयति-ते
वस् वसु स्तम्भे दिवादिः अकर्मकः सेट् परस्मैपदी वस्यति पुषादिः
वस् वसु निवासे चुरादिः अकर्मकः सेट् उभयपदी वसयति-ते अदन्तः
वस्क् वस्क गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी वस्कते
वस्त् वस्त अर्दने चुरादिः सकर्मकः सेट् उभयपदी वस्तयति-ते यजादिः
वह् वह प्रापणे भ्वादिः द्विकर्मकः अनिट् उभयपदी वहति-ते
वा वा गति-गन्धनयोः अदादिः सकर्मकः अनिट् परस्मैपदी वाति
वाङ्क्ष् वाक्षि काङ्क्षायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी वाङ्क्षति
वाञ्च्छ् वाञ्च्छ वाञ्च्छायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी वाञ्च्छति
वाड् वाडृ आप्लाव्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी वाडते
वात् वात सुख-सेवनयोः (प्रीतिसेवनयोरित्येके) चुरादिः सकर्मकः सेट् उभयपदी वातयति-ते अदन्तः
वावृत् वावृतु वरणे दिवादिः सकर्मकः सेट् आत्मनेपदी वावृत्यते
वाश् वाशृ शब्दे दिवादिः अकर्मकः सेट् आत्मनेपदी वाश्यते
वास् वास उपसेवायाम् चुरादिः सकर्मकः सेट् उभयपदी वासयति-ते अदन्तः
वाह् वाहृ प्रयत्ने भ्वादिः अकर्मकः सेट् आत्मनेपदी वाहते
विच् विचिर् पृथग्भावे रुधादिः सकर्मकः अनिट् उभयपदी विनक्ति-विङ्क्ते
विच्छ् विच्छ भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी विच्छयति-ते
विज् विजिर् पृथग्भावे
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी वेवेक्ति
विज् ओविजी भय-चलनयोः तुदादिः अकर्मकः सेट् आत्मनेपदी उद्विजते
प्रायेण उत्-पूर्वः, ईदित्, ओदित् च
विज् ओविजी भय-चलनयोः रुधादिः अकर्मकः सेट् परस्मैपदी विनक्ति ईदित्-ओदित् च
विट् विट शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी विटति
विडम्ब् विडम्ब विडम्बने चुरादिः सकर्मकः सेट् उभयपदी विडम्बयति-ते
वित्त् वित्त समुत्सर्गे चुरादिः सकर्मकः सेट् उभयपदी वित्तयति-ते
विथ् विथृ याचने भ्वादिः द्विकर्मकः सेट् आत्मनेपदी वेथते
विद् विद ज्ञाने अदादिः सकर्मकः सेट् परस्मैपदी वेत्ति
विद् विद सत्तायाम् दिवादिः अकर्मकः अनिट् आत्मनेपदी विद्यते
विद् विद विचारणे रुधादिः सकर्मकः अनिट् आत्मनेपदी विन्ते
विद् विद चेतन-आख्यान-निवासेषु चुरादिः सकर्मकः सेट् आत्मनेपदी वेदयते आकुस्मीयः
विद् विद्लृ लाभे तुदादिः सकर्मकः अनिट् उभयपदी विन्दति-ते मुचादिः
विध् विध विधाने तुदादिः सकर्मकः सेट् परस्मैपदी विधति
विल् विल संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी विलति
विल् विल क्षेपे चुरादिः सकर्मकः सेट् उभयपदी वेलयति-ते
विश् विश प्रवेशने तुदादिः सकर्मकः अनिट् परस्मैपदी विशति
विष् विष विप्रयोगे क्र्यादिः अकर्मकः अनिट् परस्मैपदी विष्णाति
विष् विषु सेचने भ्वादिः सकर्मकः सेट् परस्मैपदी वेषति
विष् विष्लृ व्याप्तौ
जुहोत्यादिः
सकर्मकः अनिट् उभयपदी वेवेष्टि-वेविष्टे
विष्क् विष्क हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी विष्कयति-ते
वी वी गति-व्याप्ति-प्रजन-कान्ति-असन-खादनेषु अदादिः अर्थानुगुण्यम् अनिट् परस्मैपदी वेति
वीर् वीर विक्रान्तौ चुरादिः सकर्मकः सेट् उभयपदी वीरयति-ते
आगर्वीयः, अदन्तः
वुङ्ग् वुगि वर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी वुङ्गति
वुट् वुट हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी वोटयति-ते
वुन्ध् वुधि हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी वुन्धयति-ते
वुस् वुस विभागे दिवादिः सकर्मकः सेट् परस्मैपदी वुस्यति
वूष् वूष हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी वूषयति-ते
वृक् वृक आदाने भ्वादिः सकर्मकः सेट् आत्मनेपदी वर्कते
वृक्ष् वृक्ष वरणे भ्वादिः अकर्मकः सेट् आत्मनेपदी वृक्षते
वृ वृङ् सम्भक्तौ क्र्यादिः सकर्मकः सेट् आत्मनेपदी वृणीते
वृच् वृची वर्जने अदादिः सकर्मकः सेट् आत्मनेपदी वृक्ते
वृज् वृजी वर्जने रुधादिः सकर्मकः सेट् परस्मैपदी वृणक्ति
वृज् वृजी वर्जने चुरादिः सकर्मकः सेट् उभयपदी वर्जयति-ते आधृषीयः
वृ वृञ् वरणे स्वादिः सकर्मकः सेट् उभयपदी वृणोति, वृणुते
वृ वृञ् आवरणे चुरादिः सकर्मकः सेट् उभयपदी वारयति-ते आधृषीयः
वृण् वृण प्रीणने तुदादिः सकर्मकः सेट् परस्मैपदी वृणति
वृत् वृतु वर्तने भ्वादिः अकर्मकः सेट् आत्मनेपदी वर्तते
द्युतादिः, वृतादिः च
वृत् वृतु वरणे दिवादिः सकर्मकः सेट् आत्मनेपदी वृत्यते
वृत् वृतु भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी वर्तयति-ते
वृध् वृधु वृद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी वर्धते
द्युतादिः, वृतादिः च
वृध् वृधु भाषायाम् चुरादिः सकर्मकः सेट् परस्मैपदी वर्धयति-ते
वृश् वृश आवरणे दिवादिः सकर्मकः सेट् परस्मैपदी वृश्यति पुषादिः
वृष् वृष शक्तिबन्धने (प्रजननसामर्थ्ये) चुरादिः अकर्मकः सेट् आत्मनेपदी वर्षयते आकुस्मीयः
वृष् वृषु सेचने भ्वादिः सकर्मकः सेट् परस्मैपदी वर्षति
वृह् वृहू उद्यमने तुदादिः सकर्मकः वेट् परस्मैपदी वृहति
वॄ वॄ वरणे, भरण इत्येके क्र्यादिः सकर्मकः सेट् परस्मैपदी वृणाति
प्वादिः, ल्वादिः च
वॄ वॄञ् वरणे क्र्यादिः सकर्मकः सेट् उभयपदी वृणाति, वृणीते
प्वादिः, ल्वादिः च
वे वेञ् तन्तुसन्ताने भ्वादिः सकर्मकः अनिट् उभयपदी वयति-ते यजादिः
वेण् वेणृ गति-ज्ञान-चिन्ता-निशामन-वादित्र-ग्रहणेषु भ्वादिः सकर्मकः सेट् उभयपदी वेणति-ते
वेथ् वेथृ याचने भ्वादिः द्विकर्मकः सेट् आत्मनेपदी वेथते
वेद धौर्त्ये, स्वप्ने, प्रभाते च
कण्ड्वादिः
वेद्यति
वेन् वेनृ गति-ज्ञान-चिन्ता-निशामन-वादित्र-ग्रहणेषु भ्वादिः सकर्मकः सेट् उभयपदी वेनति-ते
वेप् टुवेपृ कम्पने भ्वादिः अकर्मकः सेट् आत्मनेपदी वेपते
वेल् वेल कालोपदेशे चुरादिः अकर्मकः सेट् उभयपदी वेलयति-ते अदन्तः
वेल् वेलृ चलने भ्वादिः अकर्मकः सेट् परस्मैपदी वेलति
वेल्ल् वेल्ल चलने भ्वादिः अकर्मकः सेट् परस्मैपदी वेल्लति
वेवी वेवीङ् गति-व्याप्ति-प्रजन-कान्ति-असन-खादनेषु अदादिः अर्थानुगुण्यम् सेट् आत्मनेपदी वेवीते
वेष्ट् वेष्ट वेष्टने भ्वादिः सकर्मकः सेट् आत्मनेपदी वेष्टते
वै ओवै शोषणे भ्वादिः अकर्मकः अनिट् परस्मैपदी वायति
व्यच् व्यच व्याजीकरणे तुदादिः सकर्मकः सेट् परस्मैपदी विचति
व्यथ् व्यथ भय-सञ्चलनयोः भ्वादिः अकर्मकः सेट् आत्मनेपदी व्यथते घटादिः, षित्
व्यध् व्यध ताडने दिवादिः सकर्मकः अनिट् परस्मैपदी विध्यति
व्यय् व्यय गतौ भ्वादिः सकर्मकः सेट् उभयपदी व्ययति-ते अदन्तः
व्यय् व्यय वित्तसमुत्सर्गे चुरादिः सकर्मकः सेट् उभयपदी व्यययति-ते अदन्तः
व्युष् व्युष दाहे, विभागे च दिवादिः सकर्मकः सेट् परस्मैपदी व्युष्यति
वे व्येञ् संवरणे भ्वादिः सकर्मकः अनिट् उभयपदी व्ययति-ते
व्रज् व्रज गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी व्रजति
व्रज् व्रज मार्ग-संस्कार-गत्योः चुरादिः अकर्मकः सेट् उभयपदी व्राजयति-ते
व्रण् व्रण शब्दे, गात्रविचूर्णने च भ्वादिः अकर्मकः सेट् परस्मैपदी व्रणति
व्रण् व्रण गात्रविचूर्णने चुरादिः सकर्मकः सेट् उभयपदी व्रणयति-ते
व्रश्च् ओव्रश्चू छेदने तुदादिः सकर्मकः वेट् परस्मैपदी वृश्चति
व्री व्री वरणे क्र्यादिः सकर्मकः अनिट् परस्मैपदी व्रीणाति
ईकारान्तः, प्वादित्वपक्षे व्रिणाति
व्री व्रीङ् वरणे दिवादिः सकर्मकः अनिट् आत्मनेपदी व्रीयते ओदित्
व्रीड् व्रीड चोदने, लज्जायां च दिवादिः चोदने सकर्मकः, लज्जायामकर्मकः सेट् परस्मैपदी व्रीडति
व्रुड् व्रुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी व्रुडति कुटादिः
व्ली व्ली वरणे क्र्यादिः सकर्मकः अनिट् परस्मैपदी व्लीणाति
ईकारान्तः, प्वादिः, ल्वादिः च
शंस् शंसु स्तुतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शंसति
शक् शक मर्षणे दिवादिः सकर्मकः सेट् उभयपदी शक्यति-ते पुषादिः
शङ्क् शकि शङ्कायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी शङ्कते
शक् शक्लृ शक्तौ स्वादिः अकर्मकः अनिट् परस्मैपदी शक्नोति
शच् शच अव्यक्तायां वाचि भ्वादिः सकर्मकः सेट् आत्मनेपदी शचते
शट् शट रुजा-विशरण-गति-अवसादनेषु भ्वादिः अकर्मकः सेट् परस्मैपदी शटति
शट् शट श्लाघायाम् चुरादिः सकर्मकः सेट् आत्मनेपदी शाटयते आकुस्मीयः
शठ् शठ हिंसा-संक्लेशन-कैतवेषु भ्वादिः
हिंसायां सकर्मकः, सङ्क्लेशन-कैतवयोः अकर्मकः
सेट् परस्मैपदी शठति
शठ् शठ असंस्कार-गत्योः चुरादिः सकर्मकः सेट् उभयपदी शाठयति-ते
शठ् शठ श्लाघायाम् चुरादिः सकर्मकः सेट् आत्मनेपदी शाठयते आकुस्मीयः
शठ् शठ सम्यग् अनवभाषणे चुरादिः सकर्मकः सेट् उभयपदी शठयति-ते अदन्तः
शण्ड् शडि रुजायाम्, सङ्घाते च भ्वादिः सकर्मकः सेट् आत्मनेपदी शण्डते
शण् शण दाने, गतौ च भ्वादिः सकर्मकः सेट् परस्मैपदी शणति
शद् शद्लृ शातने (नाशने) भ्वादिः अकर्मकः अनिट् आत्मनेपदी शीयते
शद् शद्लृ शातने (नाशने) तुदादिः अकर्मकः अनिट् आत्मनेपदी शीयते स्वरे विशेषः
शप् शप आक्रोशे भ्वादिः सकर्मकः अनिट् उभयपदी शपति-ते
शप् शप आक्रोशे दिवादिः सकर्मकः अनिट् उभयपदी शप्यति-ते
शब्द् शब्द आविष्कारे चुरादिः सकर्मकः सेट् उभयपदी शब्दयति-ते
शम् शम आलोचने चुरादिः सकर्मकः सेट् आत्मनेपदी शामयते आकुस्मीयः
शम् शमु उपशमे दिवादिः अकर्मकः सेट् परस्मैपदी शाम्यति
शम्ब् शम्ब सम्बन्धे चुरादिः सकर्मकः सेट् उभयपदी शम्बयति-ते
शर्ब् शर्ब गतौ, हिंसायाम् च भ्वादिः सकर्मकः सेट् परस्मैपदी शर्बति
शर्व् शर्व हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी शर्वति
शल् शल गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शलति
शल् शल चलन-संवरणयोः भ्वादिः चलने अकर्मकः, संवरणे सकर्मकः सेट् आत्मनेपदी शलते
शल्भ् शल्भ कत्थने भ्वादिः सकर्मकः सेट् आत्मनेपदी शल्भते
शव् शव गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शवति
शश् शश प्लुतगतौ भ्वादिः अकर्मकः सेट् परस्मैपदी शशति
शष् शष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी शषति
शंस् शसि इच्छायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी आशंसते आङ् पूर्वः
शस् शसु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी शसति
शाख् शाखृ व्याप्तौ भ्वादिः सकर्मकः सेट् परस्मैपदी शाखति ऋदित्
शाघ् शाघृ व्याप्तौ भ्वादिः सकर्मकः सेट् परस्मैपदी शाघति ऋदित्
शाड् शाडृ श्लाघायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी शाडते ऋदित्
शान् शान तेजने भ्वादिः सकर्मकः अनिट् उभयपदी शीशांसति नित्यं सन्
शार् शार दौर्बल्ये चुरादिः अकर्मकः सेट् उभयपदी शारयति-ते
शाल् शालृ कत्थने भ्वादिः सकर्मकः सेट् आत्मनेपदी शालते ऋदित्
शास् शासु अनुशिष्टौ अदादिः द्विकर्मकः सेट् परस्मैपदी शास्ति
शास् शासु इच्छायाम् अदादिः सकर्मकः सेट् आत्मनेपदी आशास्ते
नित्यं आङ् पूर्वः
शास् शासु इच्छायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी आशासते
शिक्ष् शिक्ष विद्योपादाने भ्वादिः सकर्मकः सेट् आत्मनेपदी शिक्षते
शिङ्ख् शिखि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शिङ्खति
शिङ्घ् शिघि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शिङ्घति
शिञ्ज् शिजि अव्यक्ते शब्दे अदादिः अकर्मकः सेट् आत्मनेपदी शिङ्क्ते
शि शिञ् निशाने स्वादिः सकर्मकः अनिट् उभयपदी शिनोति, शिनुते
शिट् शिट अनादरे भ्वादिः सकर्मकः सेट् परस्मैपदी शेटति
शिल् शिल उञ्छे तुदादिः सकर्मकः सेट् परस्मैपदी शिलति
शिष् शिष हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी शेषति
शिष् शिष असर्वोपयोगे चुरादिः सकर्मकः सेट् उभयपदी शेषयति-ते, शेषति-ते आधृषीयः
शिष् शिष्लृ विशेषणे रुधादिः सकर्मकः अनिट् परस्मैपदी विशिनष्टि
प्रायेण विपूर्वः
शीक् शीक आमर्षणे चुरादिः सकर्मकः सेट् उभयपदी शीकयति-ते आधृषीयः
शीक् शीक भाषायाम् चुरादिः सकर्मकः सेट् उभयपदी शीकयति-ते
शीक् शीकृ सेचने भ्वादिः सकर्मकः सेट् आत्मनेपदी शीकते
शी शीङ् स्वप्ने अदादिः अकर्मकः सेट् आत्मनेपदी शेते ईकारान्तः
शीभ् शीभृ कत्थने भ्वादिः सकर्मकः सेट् आत्मनेपदी शीभते
शील् शील समाधौ भ्वादिः सकर्मकः सेट् परस्मैपदी शीलति
शील् शील उपधारणे चुरादिः सकर्मकः सेट् उभयपदी परिशीलयति-ते
प्रायेण परि-पूर्वः
शुक् शुक गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शोकति
शुच् शुच शोके भ्वादिः अकर्मकः सेट् परस्मैपदी शोचति
शुच् शुचिर् पूतीभावे (क्लेदः) दिवादिः अकर्मकः सेट् उभयपदी शुच्यति-ते
शुच्य् शुच्य स्नान-पीडन-सुरा-सन्धानेषु भ्वादिः स्नाने अकर्मकः, अन्यत्र सकर्मकः सेट् परस्मैपदी शुच्यति
शुठ् शुठ गतिप्रतिघाते भ्वादिः सकर्मकः सेट् परस्मैपदी शोठति
शुठ् शुठ आलस्ये चुरादिः अकर्मकः सेट् उभयपदी शोठयति-ते
शुण्ठ् शुठि शोषणे, प्रतिघाते च भ्वादिः सकर्मकः सेट् परस्मैपदी शुण्ठति
शुण्ठ् शुठि शोषणे चुरादिः सकर्मकः सेट् उभयपदी शुण्ठयति-ते
शुध् शुध शौचे दिवादिः अकर्मकः अनिट् परस्मैपदी शुद्ध्यति पुषादिः
शुन् शुन गतौ तुदादिः सकर्मकः सेट् परस्मैपदी शुनति
शुन्ध् शुन्ध शुद्धौ भ्वादिः अकर्मकः सेट् परस्मैपदी शुन्धति
शुन्ध् शुन्ध शौचकर्मणि चुरादिः अकर्मकः सेट् उभयपदी शुन्धयति-ते आधृषीयः
शुभ् शुभ भाषणे, भासने च, (हिंसायां इत्येके) भ्वादिः अर्थानुगुण्यम् सेट् परस्मैपदी शोभति द्युतादिः
शुभ् शुभ दीप्तौ भ्वादिः अकर्मकः सेट् आत्मनेपदी शोभते द्युतादिः
शुभ् शुभ शोभायाम् तुदादिः अकर्मकः सेट् परस्मैपदी शुभति
शुम्भ् शुम्भ भाषणे, भासने इत्येके, हिंसायामित्यन्ये भ्वादिः सकर्मकः सेट् परस्मैपदी शुम्भति
शुल्क् शुल्क अतिसर्जने चुरादिः सकर्मकः सेट् उभयपदी शुल्कयति-ते
शुष् शुष शोषणे दिवादिः अकर्मकः अनिट् परस्मैपदी शुष्यति पुषादिः
शूर् शूर विक्रान्तौ चुरादिः सकर्मकः सेट् आत्मनेपदी शूरयते
आगर्वीयः, अदन्तः च
शूर् शूरी हिंसा-स्तम्भनयोः दिवादिः सकर्मकः सेट् आत्मनेपदी शूर्यते
शूर्प् शूर्प माने चुरादिः सकर्मकः सेट् उभयपदी शूर्पयति
शूल् शूल रुजायाम् सङ्घाते च भ्वादिः सकर्मकः सेट् परस्मैपदी शूलति
शूष् शूष प्रसवे भ्वादिः सकर्मकः सेट् परस्मैपदी शूषति
शृध् शृधु उन्दने भ्वादिः सकर्मकः सेट् उभयपदी शर्दति-ते
शृध् शृधु शब्दकुत्सने, उन्दने च भ्वादिः अकर्मकः सेट् आत्मनेपदी शर्धते
वृतादिः, द्युतादिः च
शृध् शृधु शब्दकुत्सने चुरादिः सकर्मकः सेट् उभयपदी शर्धयति-ते
शॄ शॄ हिंसायाम् क्र्यादिः सकर्मकः सेट् परस्मैपदी शृणाति
प्वादिः, ल्वादिः च
शेल् शेलृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी शेलति
शेव् शेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी शेवते
शै शै पाके भ्वादिः सकर्मकः अनिट् परस्मैपदी शायति ऐकारान्तः
शो शो तनूकरणे दिवादिः सकर्मकः अनिट् परस्मैपदी श्यति ओकारान्तः
शोण् शोणृ वर्ग-गत्योः भ्वादिः अकर्मकः सेट् परस्मैपदी शोणति
शौट् शौटृ गर्वे भ्वादिः अकर्मकः सेट् परस्मैपदी शौटति
श्चुत् श्चुतिर् क्षरणे भ्वादिः सकर्मकः सेट् परस्मैपदी श्चोतति
श्च्युत् श्च्युतिर् क्षरणे भ्वादिः सकर्मकः सेट् परस्मैपदी श्च्योतति
श्नथ् श्नथ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी श्नथति
श्मील् श्मील निमेषणे भ्वादिः सकर्मकः सेट् परस्मैपदी श्मीलति
श्यै श्यैङ् गतौ भ्वादिः सकर्मकः अनिट् आत्मनेपदी श्यायते ङित्, ऐकारान्तः
श्रङ्क् श्रकि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी श्रङ्कते
श्रङ्ग् श्रगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी श्रङ्गति
श्रण् श्रण दाने, गतौ च भ्वादिः सकर्मकः सेट् परस्मैपदी श्रणति
घटादिः, काण्यादिः च
श्रण् श्रण दाने चुरादिः सकर्मकः सेट् उभयपदी श्राणयति-ते
श्रथ् श्रथ हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी श्रथति
श्रथ् श्रथ प्रयत्ने, प्रस्थाने च चुरादिः अकर्मकः सेट् उभयपदी श्राथयति-ते, श्रथति-ते आधृषीयः
श्रथ् श्रथ दौर्बल्ये चुरादिः अकर्मकः सेट् उभयपदी श्रथयति-ते अदन्तः
श्रन्थ् श्रथि शैथिल्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी श्रन्थते
श्रन्थ् श्रन्थ विमोचन-प्रतिहर्षयोः, सन्दर्भे च क्र्यादिः सकर्मकः सेट् परस्मैपदी श्रथ्नाति
श्रन्थ् श्रन्थ सन्दर्भे चुरादिः सकर्मकः सेट् उभयपदी श्रन्थयति-ते आधृषीयः
श्रम् श्रमु तपसि, खेदे च दिवादिः अकर्मकः सेट् परस्मैपदी श्राम्यति शमादिः, उदित्
श्रम्भ् श्रम्भु प्रमादे भ्वादिः अकर्मकः सेट् आत्मनेपदी श्रम्भते
द्युतादिः उदित्
श्रा श्रा पाके अदादिः सकर्मकः अनिट् परस्मैपदी श्राति
श्रि श्रिञ् सेवायाम् भ्वादिः सकर्मकः सेट् उभयपदी श्रयति-ते ञित्, इकारान्तः
श्रिष् श्रिषु दाहे भ्वादिः सकर्मकः सेट् परस्मैपदी श्रेषति
श्री श्रीञ् पाके क्र्यादिः सकर्मकः सेट् उभयपदी श्रीणाति-श्रीणीते ईकारान्तः
श्रु श्रु श्रवणे भ्वादिः सकर्मकः अनिट् परस्मैपदी श्रुणोति उकारान्तः
श्रै श्रै पाके भ्वादिः सकर्मकः अनिट् परस्मैपदी श्रायति
श्रोण् श्रोणृ सङ्घाते भ्वादिः अकर्मकः सेट् परस्मैपदी श्रोणति
श्लङ्क् श्लकि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी श्लङ्कते
श्लङ्ग् श्लगि गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी श्लङ्गति
श्लथ् श्लथ हिंसायाम्, दौर्बल्ये च भ्वादिः हिंसायां सकर्मकः, दौर्बल्ये अकर्मकः सेट् परस्मैपदी श्लथति
श्लाख् श्लाखृ व्याप्तौ भ्वादिः सकर्मकः सेट् परस्मैपदी श्लाखति
श्लाघ् श्लाघृ कत्थने भ्वादिः सकर्मकः सेट् आत्मनेपदी श्लाघते
श्लिष् श्लिष आलिङ्गने दिवादिः सकर्मकः अनिट् परस्मैपदी श्लिष्यति पुषादिः
श्लिष् श्लिष श्लेषणे चुरादिः सकर्मकः सेट् उभयपदी श्लेषयति-ते
श्लिष् श्लिषु दाहे भ्वादिः सकर्मकः सेट् परस्मैपदी श्लेषति
श्लोक् श्लोकृ सङ्घाते (स चेह ग्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा) भ्वादिः
ग्रन्थ्यमाने अकर्मकः, ग्रन्थितुः सकर्मकः
सेट् आत्मनेपदी श्लोकते
श्लोण् श्लोणृ सङ्घाते भ्वादिः अकर्मकः सेट् परस्मैपदी श्लोणति
श्वङ्क् श्वकि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी श्वङ्कते
श्वठ् श्वठ असंस्कार-गत्योः चुरादिः सकर्मकः सेट् उभयपदी श्वाठयति-ते
श्वभ्र् श्वभ्र गतौ चुरादिः सकर्मकः सेट् उभयपदी श्वभ्रयति-ते
श्वर्त् श्वर्त गतौ चुरादिः सकर्मकः सेट् उभयपदी श्वर्तयति-ते
श्वल् श्वल आशुगमने भ्वादिः अकर्मकः सेट् परस्मैपदी श्वलति
श्वल्क् श्वल्क परिभाषणे चुरादिः सकर्मकः सेट् उभयपदी श्वल्कयति-ते
श्वल्ल् श्वल्ल आशुगमने भ्वादिः अकर्मकः सेट् परस्मैपदी श्वल्लति
श्वस् श्वस प्राणने अदादिः अकर्मकः सेट् परस्मैपदी श्वसिति रुदादिः
श्वि टुओश्वि गति-वृद्ध्योः भ्वादिः अकर्मकः सेट् परस्मैपदी श्वयति
श्वित् श्विता वर्णे भ्वादिः अकर्मकः सेट् आत्मनेपदी श्वेतते
आदित्, द्युतादिः
श्विन्द् श्विदि श्वैत्ये भ्वादिः अकर्मकः सेट् आत्मनेपदी श्विन्दते
सग् षगे संवरणे भ्वादिः सकर्मकः सेट् परस्मैपदी सगति एदित्
सघ् षघ हिंसायाम् स्वादिः सकर्मकः सेट् परस्मैपदी सघ्नोति
सच् षच सेवने, सेचने च भ्वादिः सकर्मकः सेट् आत्मनेपदी सचते
सज् षञ्ज सङ्गे भ्वादिः सकर्मकः अनिट् परस्मैपदी सजति
नलोपः (दंशसञ्ज..)
सट् षट अवयवे भ्वादिः अकर्मकः सेट् परस्मैपदी सटति
सट्ट् षट्ट हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी सट्टयति-ते
सन् षण सम्भक्तौ भ्वादिः सकर्मकः सेट् परस्मैपदी सनति
सन् षणु दाने तनादिः सकर्मकः सेट् उभयपदी सनोति-ते उदित्
सद् षद्लृ विशरण-गति-अवसादनेषु भ्वादिः गतौ सकर्मकः, विशरण-अवसादनयोः अकर्मकः अनिट् परस्मैपदी सीदति
सद् षद्लृ विशरण-गति-अवसादनेषु तुदादिः गतौ सकर्मकः, विशरण-अवसादनयोः अकर्मकः अनिट् परस्मैपदी सीदति
सद् षद्लृ गतौ चुरादिः सकर्मकः अनिट् उभयपदी (आ)सादयति-ते, आसीदति-ते आधृषीयः
सप् षप समवाये भ्वादिः अकर्मकः सेट् परस्मैपदी सपति
सम् षम अवैकल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी समति
सम्ब् षम्ब सम्बन्धने चुरादिः सकर्मकः सेट् उभयपदी सम्बयति-ते
सर्ज् षर्ज अर्जने भ्वादिः सकर्मकः सेट् परस्मैपदी सर्जति
सर्ब् षर्ब गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी सर्बति
सर्व् षर्व हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी सर्वति
सल् षल गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी सलति
सस् षस स्वप्ने अदादिः अकर्मकः सेट् परस्मैपदी सस्ति छान्दसः
सज्ज् षस्ज गतौ भ्वादिः सकर्मकः सेट् उभयपदी सज्जति
सह् षह मर्षणे भ्वादिः सकर्मकः सेट् आत्मनेपदी सहते
सह् षह चक्यर्थे (तृप्तिः) दिवादिः अकर्मकः सेट् परस्मैपदी सह्यति
सह् षह मर्षणे चुरादिः सकर्मकः सेट् उभयपदी साहयति, सेहे आधृषीयः
सान्त्व् षान्त्व सामप्रयोगे चुरादिः सकर्मकः सेट् उभयपदी सान्त्वयति-ते
सिच् षिच क्षरणे तुदादिः सकर्मकः अनिट् उभयपदी सिञ्चति-ते मुचादिः
सि षिञ् बन्धने स्वादिः सकर्मकः अनिट् उभयपदी सिनोति, सिनुते इकारान्तः
सि षिञ् बन्धने क्र्यादिः सकर्मकः अनिट् उभयपदी सिनाति, सिनीते इकारान्तः
सिट् षिट अनादरे भ्वादिः सकर्मकः सेट् परस्मैपदी सेटति
सिध् षिध गत्याम् भ्वादिः सकर्मकः सेट् परस्मैपदी सेधति
सिध् षिधु संराद्धौ दिवादिः अकर्मकः अनिट् परस्मैपदी सिद्ध्यति पुषादिः
सिध् षिधू शास्त्रे, माङ्गल्ये च भ्वादिः माङ्गल्ये अकर्मकः, शास्त्रे सकर्मकः वेट् परस्मैपदी सेधति ऊदित्
सिभ् षिभु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी सिभति
सिम्भ् षिम्भु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी सिम्भति
सिल् षिल उञ्छे तुदादिः सकर्मकः सेट् परस्मैपदी सिलति
सिव् षिवु तन्तुसन्ताने, बीजसन्ताने च दिवादिः सकर्मकः सेट् परस्मैपदी सीव्यति
सु षु प्रसव-ऐश्वर्ययोः (प्रसवो अभ्यनुज्ञानं) भ्वादिः प्रसवे सकर्मकः, ऐश्वर्ये अकर्मकः अनिट् परस्मैपदी सवति उकारान्तः
सु षु प्रसव-ऐश्वर्ययोः अदादिः सकर्मकः अनिट् परस्मैपदी सौति उकारान्तः
सु षुञ् स्नपन-पीडन-स्नान-सुरासन्धानेषु स्वादिः स्नाने अकर्मकः, अन्यत्र सकर्मकः अनिट् उभयपदी सुनोति, सुनुते उकारान्तः
सुर् षुर ऐश्वर्य-दीप्त्योः तुदादिः अकर्मकः सेट् परस्मैपदी सुरति
सुह् षुह चक्यर्थे (तृप्त्यर्थे) दिवादिः अकर्मकः सेट् परस्मैपदी सुह्यति
सु षू प्रेरणे तुदादिः सकर्मकः सेट् परस्मैपदी सुवति ऊकारान्तः
सू षूङ् प्राणिगर्भविमोचने अदादिः सकर्मकः वेट् आत्मनेपदी सूते ऊकारान्तः
सू षूङ् प्राणिप्रसवे दिवादिः सकर्मकः वेट् आत्मनेपदी सूयते ऊदित्
सूद् षूद क्षरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी सूदते
सूद् षूद क्षरणे, हिंसायाम् च चुरादिः सकर्मकः सेट् उभयपदी सूदयति-ते
सूर्क्ष् षूर्क्ष आदरे भ्वादिः सकर्मकः सेट् परस्मैपदी सूर्क्षति
सृभ् षृभु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी सर्भति
सृम्भ् षृम्भु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी सृम्भति
सेल् षेलृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी सेलति ऋदित्
सेव् षेवृ सेवने भ्वादिः सकर्मकः सेट् आत्मनेपदी सेवते ऋदित्
सै षै क्षये भ्वादिः अकर्मकः सेट् परस्मैपदी सायति ऐकारान्तः
सो षो अन्तकर्मणि दिवादिः सकर्मकः अनिट् परस्मैपदी स्यति ओकारान्तः
स्तक् ष्टक प्रतिघाते भ्वादिः सकर्मकः सेट् परस्मैपदी स्तकति घटादिः
स्तन् ष्टन शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी स्तनति
स्तम्भ् ष्टभि प्रतिबन्धे भ्वादिः सकर्मकः सेट् आत्मनेपदी स्तम्भते
स्तम् ष्टम अवैकल्ये भ्वादिः अकर्मकः सेट् परस्मैपदी स्तमति
स्तिघ् ष्टिघ आस्कन्दे स्वादिः सकर्मकः सेट् आत्मनेपदी स्तिघ्नुते
स्तिप् ष्टिपृ क्षरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी स्तेपते ऋदित्
स्तिम् ष्टिम आर्द्रीभावे दिवादिः अकर्मकः सेट् परस्मैपदी स्तिम्यति
ष्टिव् ष्टिवु निरसने भ्वादिः सकर्मकः सेट् परस्मैपदी ष्टीवति
ष्टिव् ष्टिवु निरसने दिवादिः सकर्मकः सेट् परस्मैपदी ष्टीव्यति
स्तीम् ष्टीम आर्द्रीभावे दिवादिः अकर्मकः सेट् परस्मैपदी स्तीम्यति
स्तुच् ष्टुच प्रसादे भ्वादिः अकर्मकः सेट् आत्मनेपदी स्तोचते
स्तु ष्टुञ् स्तुतौ अदादिः सकर्मकः अनिट् उभयपदी स्तौति
स्तुभ् ष्टुभु स्तम्भे भ्वादिः अकर्मकः सेट् आत्मनेपदी स्तोभते
स्तूप् ष्टूप समुच्छ्राये चुरादिः अकर्मकः सेट् उभयपदी स्तूपयति-ते
स्तृक्ष् ष्टृक्ष गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी स्तृक्षति
स्तॄ स्तॄञ् आच्छादने
स्तृभ् ष्टृभु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी स्तर्भति
स्तृम्भ् ष्टृम्भु हिंसायाम् भ्वादिः सकर्मकः सेट् परस्मैपदी स्तृम्भति
स्तेप् ष्टेपृ क्षरणे भ्वादिः सकर्मकः सेट् आत्मनेपदी स्तेपते
स्तै ष्टै वेष्टने भ्वादिः सकर्मकः अनिट् परस्मैपदी स्तायति ऐकारान्तः
स्त्यै ष्ट्यै शब्द-सङ्घातयोः भ्वादिः अकर्मकः अनिट् परस्मैपदी स्त्यायति
स्थग् ष्टगे संवरणे भ्वादिः सकर्मकः सेट् परस्मैपदी स्थगति एदित्, घटादिः
स्थल् ष्ठल प्रतिष्ठायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी स्थलति
स्था ष्ठा गतिनिवृत्तौ भ्वादिः अकर्मकः अनिट् परस्मैपदी तिष्ठति
ष्ठिव् ष्ठिवु निरसने भ्वादिः सकर्मकः सेट् परस्मैपदी ष्ठीवति
ष्ठिव् ष्ठिवु निरसने दिवादिः सकर्मकः सेट् परस्मैपदी ष्ठीव्यति
स्नस् ष्णसु अदने दिवादिः सकर्मकः सेट् परस्मैपदी स्नस्यति
स्ना ष्णा शौचे अदादिः अकर्मकः अनिट् परस्मैपदी स्नाति
स्निह् ष्णिह प्रीतौ दिवादिः अकर्मकः सेट् परस्मैपदी स्निह्यति
पुषादिः, रधादिश्च
स्निह् ष्णिह स्नेहने चुरादिः सकर्मकः सेट् उभयपदी स्निह्यति-ते
स्नु ष्णु प्रस्रवणे अदादिः सकर्मकः सेट् परस्मैपदी स्नौति उकारान्तः
स्नुस् ष्णुसु अदने, अदर्शन इत्येके, आदान इत्यपरे दिवादिः सकर्मकः सेट् परस्मैपदी स्नुस्यति
स्नुह् ष्णुह उद्गिरणे दिवादिः सकर्मकः सेट् परस्मैपदी स्नुह्यति
रधादिः, पुषादिः च
स्मि ष्मिङ् ईषद्धसने भ्वादिः अकर्मकः अनिट् आत्मनेपदी स्मयते इकारान्तः
ष्वक्क् ष्वक्क गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी ष्वक्कते
स्वज् ष्वञ्ज परिष्वङ्गे भ्वादिः सकर्मकः अनिट् आत्मनेपदी स्वजते
स्वद् ष्वद आस्वादने (अनुभवः) भ्वादिः सकर्मकः सेट् आत्मनेपदी स्वदते
स्वद् ष्वद आस्वादने (अनुभवः) चुरादिः सकर्मकः सेट् उभयपदी स्वादयति-ते
स्वप् ञिष्वप् शये अदादिः अकर्मकः अनिट् परस्मैपदी स्वपिति रुधादिः
ष्वष्क् ष्वष्क गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी ष्वष्कते
स्विद् ञिष्विदा अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी स्वेदति
ञिक्ष्विदा धातो पाठान्तरम्, ञीत्, आदित् च
स्विद् ञिष्विदा स्नेहनमोचनयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी स्वेदते
ञीत्, आदित्, द्युतादिः च
स्विद् ष्विदा गात्रप्रक्षरणे दिवादिः अकर्मकः सेट् परस्मैपदी स्विद्यति पुषादिः
सङ्केत् सङ्केत आमन्त्रणे चुरादिः सकर्मकः सेट् उभयपदी सङ्केतयति-ते
सङ्ग्राम् सङ्ग्राम युद्धे चुरादिः अकर्मकः सेट् उभयपदी सङ्ग्रामयति-ते
सज् सञ्ज सङ्गे भ्वादिः सकर्मकः अनिट् परस्मैपदी सजति
सत्र् सत्र सन्तानक्रियायाम् चुरादिः अकर्मकः सेट् आत्मनेपदी सत्रयते
आगर्वीयः, अदन्तः च
सपर् सपर पूजायाम्
कण्ड्वादिः
सपर्यति
सभाज् सभाज प्रीति-दर्शनयोः (प्रीतिसेवनयोरित्येके) चुरादिः सकर्मकः सेट् उभयपदी सभाजयति-ते अदन्तः
सम् समी परिणामे दिवादिः अकर्मकः सेट् परस्मैपदी सम्यति
सम्भूयस् भूतप्रादुर्भावे
कण्ड्वादिः
सम्भूयस्यति
संस्त् सस्ति स्वप्ने अदादिः अकर्मकः सेट् परस्मैपदी संस्ति छान्दसः
साति सुखे सातयति सौत्रो धातुः
साध् साध संसिद्धौ स्वादिः सकर्मकः अनिट् परस्मैपदी साध्नोति
साम् साम सान्त्वप्रयोगे चुरादिः सकर्मकः सेट् उभयपदी सामयति-ते अदन्तः
सार् सार दौर्बल्ये चुरादिः अकर्मकः सेट् उभयपदी सारयति-ते
सीक् सीकृ सेचने भ्वादिः सकर्मकः सेट् आत्मनेपदी सीकते
सुख् सुख तत्क्रियायाम् चुरादिः सकर्मकः सेट् उभयपदी सुखयति-ते अदन्तः
सुख् सुख तत्क्रियायाम्
कण्ड्वादिः
सुख्यति
सूच् सूच पैशून्ये चुरादिः सकर्मकः सेट् उभयपदी सूचयति-ते अदन्तः
सूत्र् सूत्र वेष्टने चुरादिः सकर्मकः सेट् उभयपदी सूत्रयति-ते अदन्तः
सूर्क्ष् सूर्क्ष आदरे भ्वादिः सकर्मकः सेट् परस्मैपदी सूर्क्षति
सूर्क्ष्य् सूर्क्ष्य ईर्ष्यायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी सूर्क्ष्यति
सृ सृ गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी सरति ऋकारान्तः
सृ सृ गतौ
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी ससर्ति
ऋकारान्तः, छान्दसः
सृज् सृज विसर्गे दिवादिः सकर्मकः अनिट् आत्मनेपदी सृज्यते
सृज् सृज विसर्गे तुदादिः सकर्मकः अनिट् परस्मैपदी सृजति
सृप् सृप्लृ गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी सर्पति
सेक् सेकृ गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी सेकते
स्कन्दिर् स्कन्द् गति-शोषणयोः भ्वादिः सकर्मकः अनिट् परस्मैपदी स्कन्दति
स्कम्भ् स्कभि प्रतिबन्धे भ्वादिः सकर्मकः सेट् आत्मनेपदी स्कम्भते
स्कम्भ् स्कम्भु रोधन-स्तम्भनयोः क्र्यादिः सकर्मकः सेट् परस्मैपदी स्कभ्नोति, स्कभ्नाति सौत्रो धातुः
स्कु स्कुञ् आप्रवणे क्र्यादिः सकर्मकः अनिट् उभयपदी स्कुनोति-स्कुनुते उकारान्तः
स्कुन्द् स्कुदि आप्रवणे (उत्प्लवनम्, उद्धरणम्) भ्वादिः उत्प्लवने अकर्मकः, उद्धरणे सकर्मकः सेट् आत्मनेपदी स्कुन्दते
स्कुन्भ् स्कुन्भु रोधने क्र्यादिः सकर्मकः सेट् परस्मैपदी स्कुभ्नोति, स्कुभ्नाति
स्खद् स्खद विद्रावणे भ्वादिः सकर्मकः सेट् आत्मनेपदी स्खदते घटादिः, षित्
स्खद् स्खदिर् विद्रावणे (विदारण इत्येके) भ्वादिः सकर्मकः सेट् आत्मनेपदी स्खदते
स्खल् स्खल सञ्चलने भ्वादिः अकर्मकः सेट् परस्मैपदी स्खलति
स्तन् स्तन देवशब्दे चुरादिः अकर्मकः सेट् उभयपदी स्तनयति-ते अदन्तः
स्तम्भ् स्तन्भु रोधन-स्तम्भनयोः क्र्यादिः सकर्मकः सेट् परस्मैपदी स्तभ्नोति, स्तभ्नाति सौत्रः, उदित्
स्तिम् स्तिम आर्द्रीभावे दिवादिः अकर्मकः सेट् परस्मैपदी स्तिम्यति
स्तुम्भ् स्तुम्भु रोधन-स्तम्भनयोः क्र्यादिः सकर्मकः सेट् परस्मैपदी स्तुभ्नोति, स्तुभ्नाति
स्तूप् स्तूप समुच्छ्राये चुरादिः अकर्मकः सेट् उभयपदी स्तूपयति-ते
स्तृक्ष् स्तृक्ष गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी स्तृक्षति
स्तृ स्तृञ् आच्छादने स्वादिः सकर्मकः अनिट् उभयपदी स्तृणोति, स्तृणुते ऋकारान्तः
स्तृह् स्तृहू हिंसायाम् तुदादिः सकर्मकः वेट् परस्मैपदी स्तृहति
स्तॄ स्तॄञ् आच्छादने क्र्यादिः सकर्मकः सेट् उभयपदी स्तृणाति, स्तृणीते
प्वादिः, ल्वादिः च
स्तेन् स्तेन चौर्ये चुरादिः सकर्मकः सेट् उभयपदी स्तेनयति-ते अदन्तः
स्तोम् स्तोम श्लाघायाम् चुरादिः सकर्मकः सेट् उभयपदी स्तोमयति-ते अदन्तः
स्त्यै स्त्यै शब्द-सङ्घातयोः भ्वादिः अकर्मकः अनिट् परस्मैपदी स्त्यायति ऐकारान्तः
स्थल् स्थल स्थाने भ्वादिः स्थलति
स्थुड् स्थुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी स्थुडति कुटादिः
स्थूल् स्थूल परिबृंहणे चुरादिः अकर्मकः सेट् आत्मनेपदी स्थूलयते
आगर्वीयः, अदन्तः च
स्पन्द् स्पदि किञ्चिच्चलने भ्वादिः अकर्मकः सेट् आत्मनेपदी स्पन्दते
स्पर्ध् स्पर्ध सङ्घर्षे (पराभिभवेच्छा) भ्वादिः अकर्मकः सेट् आत्मनेपदी स्पर्धते
स्पश् स्पश बाधन-स्पर्शनयोः चुरादिः सकर्मकः सेट् आत्मनेपदी स्पाशयते आकुस्मीयः
स्पश् स्पश बाधन-स्पर्शनयोः भ्वादिः सकर्मकः सेट् उभयपदी स्पशति-ते
स्पृ स्पृ प्रीति-पालनयोः स्वादिः सकर्मकः अनिट् परस्मैपदी स्पृणोति
स्पृश् स्पृश स्पर्शने तुदादिः सकर्मकः अनिट् परस्मैपदी स्पृशति
स्पृह् स्पृह ईप्सायाम् चुरादिः सकर्मकः सेट् उभयपदी स्पृहयति-ते अदन्तः
स्पॄ स्पॄ हिंसायाम् क्र्यादिः सकर्मकः सेट् परस्मैपदी स्पृणाति
प्वादिः, ल्वादिः च
स्फर् स्फर स्फुरणे तुदादिः अकर्मकः सेट् परस्मैपदी स्फरति कुटादिः
स्फाय् स्फायी वृद्धौ भ्वादिः अकर्मकः सेट् आत्मनेपदी स्फायते
स्फिट् स्फिट प्रीतौ चुरादिः अकर्मकः सेट् उभयपदी स्फेटयति-ते
स्फिट्ट् स्फिट्ट हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी स्फिट्टयति-ते
स्फुट् स्फुट विकसने भ्वादिः अकर्मकः सेट् आत्मनेपदी स्फोटते
स्फुट् स्फुट विकसने तुदादिः अकर्मकः सेट् परस्मैपदी स्फुटति कुटादिः
स्फुट् स्फुट भेदने चुरादिः सकर्मकः सेट् उभयपदी स्फोटयति-ते
स्फुण्ट् स्फुटि विशरणे भ्वादिः अकर्मकः सेट् परस्मैपदी स्फुण्टति
स्फुण्ट् स्फुटि परिहासे चुरादिः सकर्मकः सेट् उभयपदी स्फुण्टयति-ते
स्फुट् स्फुटिर् विशरणे भ्वादिः अकर्मकः सेट् परस्मैपदी स्फोटति
स्फुड् स्फुड संवरणे तुदादिः सकर्मकः सेट् परस्मैपदी स्फुडति कुटादिः
स्फुण्ड् स्फुडि परिहासे चुरादिः सकर्मकः सेट् उभयपदी स्फुण्डयति-ते
स्फुर् स्फुर स्फुरणे तुदादिः अकर्मकः सेट् परस्मैपदी स्फुरति कुटादिः
स्फुल् स्फुल सञ्चलने तुदादिः अकर्मकः सेट् परस्मैपदी स्फुलति कुटादिः
स्फुर्च्छ् स्फुर्च्छा विस्तृतौ भ्वादिः सकर्मकः सेट् परस्मैपदी स्फूर्च्छति आदित्
स्फूर्ज् टुओस्फूर्जा वज्रनिर्घोषे भ्वादिः अकर्मकः सेट् परस्मैपदी स्फूर्जति
ट्वीत्, ओदित्, आदित् च
स्मिट् स्मिट अनादरे चुरादिः सकर्मकः सेट् उभयपदी स्मेटयति-ते
स्मील् स्मील निमेषणे (सङ्कोचः) भ्वादिः सकर्मकः सेट् परस्मैपदी स्मीलति
स्मृ स्मृ चिन्तायाम् (आध्याने (चारु.) भ्वादिः सकर्मकः अनिट् परस्मैपदी स्मरति ऋकारान्तः
स्यन्द् स्यन्दू प्रस्रवणे भ्वादिः अकर्मकः वेट् आत्मनेपदी स्यन्दते
द्युतादिः वृतादिः च
स्यम् स्यम वितर्के चुरादिः सकर्मकः सेट् आत्मनेपदी स्मायते आकुस्मीयः
स्यम् स्यमु शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी स्यमति
फणादिः, घटादिः उदित् च
स्रम्भ् स्रम्भु प्रमादे, विश्वासे च भ्वादिः अकर्मकः सेट् आत्मनेपदी स्रम्भते
उदित्, द्युतादिः
स्रंस् स्रंसु अवस्रंसने भ्वादिः अकर्मकः सेट् आत्मनेपदी स्रंसते
उदित्, द्युतादिः
स्रङ्क् स्रकि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी स्रङ्कते
स्रिव् स्रिवु गति-शोषणयोः दिवादिः सकर्मकः सेट् परस्मैपदी स्रीव्यति
स्रु स्रु गतौ भ्वादिः सकर्मकः अनिट् परस्मैपदी स्रवति उकारान्तः
स्रेक् स्रेक गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी स्रेकते
स्रै स्रै पाके भ्वादिः सकर्मकः अनिट् परस्मैपदी स्रायति ऐकारान्तः
स्वङ्क् स्वकि गतौ भ्वादिः सकर्मकः सेट् आत्मनेपदी स्वङ्कते
स्वन् स्वन अवतंसने भ्वादिः सकर्मकः सेट् परस्मैपदी स्वनति
फणादिः, घटादिः च
स्वन् स्वन शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी स्वनति फणादिः
स्वर् स्वर आक्षेपे, शब्दे च चुरादिः आक्षेपे सकर्मकः, शब्दे अकर्मकः सेट् उभयपदी स्वरयति-ते
स्वर्द् स्वर्द आस्वादने भ्वादिः सकर्मकः सेट् आत्मनेपदी स्वर्दते
स्वाद् स्वाद आस्वादने भ्वादिः सकर्मकः सेट् आत्मनेपदी स्वादते
स्वाद् स्वाद आस्वादने चुरादिः सकर्मकः सेट् उभयपदी स्वादयति-ते
स्वृ स्वृ शब्द-उपतापयोः भ्वादिः अकर्मकः वेट् परस्मैपदी स्वरति ऋकारान्तः
हट् हट दीप्तौ भ्वादिः अकर्मकः सेट् परस्मैपदी हटति
हठ् हठ प्लुति-शठत्वयोः (बलात्कार इत्येके) भ्वादिः अकर्मकः सेट् परस्मैपदी हठति
हद् हद पुरीषोत्सर्गे भ्वादिः अकर्मकः अनिट् आत्मनेपदी हदते
हन् हन हिंसा-गत्योः अदादिः सकर्मकः अनिट् परस्मैपदी हन्ति
हम्म् हम्म गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी हम्मति
हय् हय गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी हयति
हर्य् हर्य गति-कान्त्योः भ्वादिः गतौ सकर्मकः, कान्तौ अकर्मकः सेट् परस्मैपदी हर्यति
हल् हल विलेखने (आकर्षणम्) भ्वादिः सकर्मकः सेट् परस्मैपदी हलति
हस् हसे हसने भ्वादिः अकर्मकः सेट् परस्मैपदी हसति एदित्
हा ओहाक् त्यागे
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी जहाति
आकारान्तः, ओदित्
हा ओहाङ् गतौ
जुहोत्यादिः
सकर्मकः अनिट् आत्मनेपदी जिहीते
आकारान्तः, ओदित्, ङित् च
हि हि गतौ, वृद्धौ च स्वादिः गतौ सकर्मकः, वृद्धौ अकर्मकः अनिट् परस्मैपदी हिनोति इकारान्तः
हिक्क् हिक्क अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् उभयपदी हिक्कति-ते
हिठ् हिठ आक्रोशे भ्वादिः सकर्मकः सेट् परस्मैपदी हेठति
हिठ् हिठ भूतप्रादुर्भावे (अतिक्रान्तोत्पत्तिः) क्र्यादिः अकर्मकः सेट् परस्मैपदी हिठ्णाति
हिण्ड् हिडि गति-अनादरयोः भ्वादिः सकर्मकः सेट् आत्मनेपदी हिण्डते
हिल् हिल भावकरणे तुदादिः सकर्मकः सेट् परस्मैपदी हिलति
हिन्व् हिवि प्रीणने भ्वादिः सकर्मकः सेट् परस्मैपदी हिन्वति
हिष्क् हिष्क हिंसायाम् चुरादिः सकर्मकः सेट् आत्मनेपदी हिष्कयते आकुस्मीयः
हिंस् हिसि हिंसायाम् रुधादिः सकर्मकः सेट् परस्मैपदी हिनस्ति
हिंस् हिसि हिंसायाम् चुरादिः सकर्मकः सेट् उभयपदी हिंसयति-ते, हिंसति-ते आधृषीयः
हु हु दानादानयोः
जुहोत्यादिः
सकर्मकः अनिट् परस्मैपदी जुहोति
हुण्ड् हुडि वरण-सङ्घातयोः भ्वादिः वरणे सकर्मकः, सङ्घाते अकर्मकः सेट् आत्मनेपदी हुण्डते
हुड् हुडृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी होडति
हुर्च्छ् हुर्च्छा कौटिल्ये (कौटिल्यमपसरणमिति मैत्रेयः) भ्वादिः अकर्मकः सेट् परस्मैपदी हूर्च्छति
उपधायाञ्च इति दीर्घः
हुल् हुल गतौ, हिंसा-वरणयोश्च भ्वादिः सकर्मकः सेट् परस्मैपदी होलति
हूड् हूडृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी हूडति
हृ हृ प्रसह्यकरणे
जुहोत्यादिः
सकर्मकः परस्मैपदी जिहर्ति छान्दसः
हृ हृञ् हरणे भ्वादिः द्विकर्मकः अनिट् उभयपदी हरति-ते ऋकारान्तः
हृणीञ् रोषणे, लज्जायां च
कण्ड्वादिः
हृणीयते
हृष् हृष तुष्टौ दिवादिः अकर्मकः सेट् परस्मैपदी हृष्यति
हृष् हृषु अलीके भ्वादिः अकर्मकः सेट् परस्मैपदी हर्षति
हेठ् हेठ विबाधायाम् भ्वादिः सकर्मकः सेट् आत्मनेपदी हेठते काण्यादिः
हेड् हेड वेष्टने भ्वादिः सकर्मकः सेट् परस्मैपदी हेडति घटादिः
हेड् हेडृ अनादरे भ्वादिः सकर्मकः सेट् आत्मनेपदी हेडते ऋदित्
हेष् हेषृ अव्यक्ते शब्दे (अश्वशब्दः) भ्वादिः अकर्मकः सेट् आत्मनेपदी हेषते
होड् होडृ अनादरे भ्वादिः सकर्मकः सेट् आत्मनेपदी होडते
होड् होडृ गतौ भ्वादिः सकर्मकः सेट् परस्मैपदी होडति
ह्नु ह्नुङ् अपनयने अदादिः सकर्मकः अनिट् आत्मनेपदी निह्नुते
उकारान्तः, ङित्, प्रायः निपूर्वः
ह्मल् ह्मल चलने भ्वादिः अकर्मकः सेट् परस्मैपदी ह्मलति
ह्रग् ह्रगे संवरणे भ्वादिः सकर्मकः सेट् परस्मैपदी ह्रगति
ह्रप् ह्रप व्यक्तायां वाचि चुरादिः सकर्मकः सेट् उभयपदी ह्रपयति-ते
ह्रस् ह्रस शब्दे, अल्पत्वे च भ्वादिः अकर्मकः सेट् परस्मैपदी ह्रसति
ह्राद् ह्राद अव्यक्ते शब्दे भ्वादिः अकर्मकः सेट् आत्मनेपदी ह्रादते
ह्री ह्री लज्जायाम्
जुहोत्यादिः
अकर्मकः अनिट् परस्मैपदी जिह्रेति
ह्रीच्छ् ह्रीच्छ लज्जायाम् भ्वादिः अकर्मकः सेट् परस्मैपदी ह्रीच्छति
ह्लग् ह्लगे संवरणे भ्वादिः सकर्मकः सेट् परस्मैपदी ह्लगति
ह्लस् ह्लस शब्दे भ्वादिः अकर्मकः सेट् परस्मैपदी ह्लसति
ह्लाद् ह्लादी सुखे, अव्यक्ते शब्दे च भ्वादिः अकर्मकः सेट् आत्मनेपदी ह्लादते
ह्वल् ह्वल चलने भ्वादिः अकर्मकः सेट् परस्मैपदी ह्वलति
ह्वृ ह्वृ कौटिल्ये भ्वादिः अकर्मकः अनिट् परस्मैपदी ह्वरति
ह्वे ह्वेङ् स्पर्धायां, शब्दे च भ्वादिः स्पर्धायां अकर्मकः, सप्र्धे सकर्मकः अनिट् उभयपदी ह्वयति-ते